०२४ धर्मारण्यतीर्थमाहात्म्यप्रभावकथनम्

॥ व्यास उवाच ॥ ॥
एतत्तीर्थस्य माहात्म्यं मया प्रोक्तं तवाग्रतः ॥
अनेकपूर्वजन्मोत्थपातकघ्नं महीपते ॥१॥
स्थानानामुत्तमं स्थानं परं स्वस्त्ययनं महत् ॥
स्कन्दस्याग्रे पुरा प्रोक्तं महारुद्रेण धीमता ॥ २ ॥
त्वं पार्थ तत्र स्नात्वा हि मोक्ष्यसे सर्वपात कात् ॥
तच्छ्रुत्वा व्यासवाक्यं हि धर्म्मराजो युधिष्ठिरः ॥ ३ ॥
धर्मात्मजस्तदा तात धर्मारण्यं समाविशत् ॥
महापातकनाशाय साधुपालनत त्परः ॥ ४ ॥
विगाह्य तत्र तीर्थानि देवतायतनानि च ॥
इष्टापूर्तादिकं सर्वं कृतं तेन यथेप्सितम् ॥ ५ ॥
ततः पापविनिर्मुक्तः पुनर्गत्वा स्वकं पुरम् ॥
इद्रप्रस्थं महासेन शशास वसुधातलम् ॥ ६ ॥
इदं हि स्थानमासाद्य ये शृण्वन्ति नरोत्तमाः॥
तेषां भुक्तिश्च मुक्तिश्च भविष्यति न संशयः॥ ॥ ७ ॥
भुक्त्वा भोगान्पार्थिवांश्च परं निर्वाणमाप्नुयुः ॥
श्राद्धकाले च सम्प्राप्ते ये पठन्ति द्विजातयः ॥ ८ ॥
उद्धृताः पितरस्तैस्तु यावच्चन्द्रार्क्कमेदिनि॥
द्वापरे च युगे भूत्वा व्यासेनोक्तं महात्मना ॥ ९ ॥
वारिमात्रे धर्मवाप्यां गयाश्राद्धफलं लभेत् ॥
अत्रागतस्य मर्त्यस्य पापं यमपदे स्थितम् ॥ ॥ १० ॥
कथितं धर्मपुत्रेण लोकानां हितकाम्यया ॥
विना अन्नैर्विना दर्भैर्विना चासनमेव वा ॥ ११ ॥
तोयेन नाशमायाति कोटिजन्मकृतं त्व घम् ॥
सहस्रमुरुशृङ्गीणां धेनूनां कुरुजाङ्गले ॥
दत्त्वा सूर्यग्रहे पुण्यं धर्मवाप्यां च तर्पणाम् ॥ १२ ॥
एतद्वः कथितं सर्वं धर्मारण्यस्य चेष्टितम् ॥
यच्छ्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ १३ ॥
एकविंशतिवारैस्तु गयायां पिण्डपातने ॥
तत्फलं समवाप्नोति सकृदस्मिञ्छ्रुते सति ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यतीर्थमाहात्म्यप्रभावकथनं नाम चतुर्विंशोऽध्यायः ॥ ॥ २४ ॥ ॥ छ ॥