०२३ ज्ञातिभेदवर्णनम्

॥ व्यास उवाच॥ ॥
अतः परं प्रवक्ष्यामि ब्रह्मणा यत्कृतं पुरा ॥
तत्सर्वं कथयाम्यद्य शृणुष्वैकाग्रमानसः ॥ १ ॥
देवानां दानवानां च वैराद्युद्धं बभूव ह ॥
तस्मिन्युद्धे महादुष्टे देवाः सङ्क्लिष्टमानसाः ॥ २ ॥
बभूवुस्तत्र सोद्वेगा ब्रह्माणं शरणं ययुः ॥ ३ ॥
॥ देवा ऊचुः ॥ ॥
ब्रह्मन्केन प्रकारेण दैत्यानां वधमेव च ॥
करोम्यद्य उपायं हि कथ्यतां शीघ्रमेव मे ॥४॥
॥ ब्रह्मोवाच ॥ ॥
मया हि शङ्करेणैव विष्णुना हि तथा पुरा ॥
यमस्य तपसा तुष्टैर्धर्मारण्यं विनिर्मितम् ॥ ५ ॥
तत्र यद्दीयते दानं यज्ञं वा तप उत्तमम् ॥
तत्सर्वं कोटिगुणितं भवेदिति न संशयः ॥ ६ ॥
पापं वा यदि वा पुण्यं सर्वं कोटि गुणं भवेत् ॥
तस्माद्दैत्यैर्न धर्षितं कदाचिदपि भोः सुराः ॥ ७ ॥
श्रुत्वा तु ब्रह्मणो वाक्यं देवाः सर्वे सविस्मयाः ॥
ब्रह्माणं त्वग्रतः कृत्वा धर्मार ण्यमुपाययुः ॥ ८ ॥
सत्रं तत्र समारभ्य सहस्राब्दमनुत्तमम् ॥
वृत्वाऽऽचार्यं चाङ्गिरसं मार्कण्ण्डेयं तथैव च ॥ ९ ॥
अत्रिं च कश्यपं चैव होता कृत्वा महामतिः ॥
जमदग्निं गौतमं च अध्वर्युत्वं न्यवेदयन् ॥ १० ॥
भरद्वाजं वसिष्ठं तु प्रत्यध्वर्युत्वमादिशन् ॥
नारदं चैव वाल्मीकिं नोदना याकरोत्तदा ॥ ११ ॥
ब्रह्मासने च ब्रह्माणं स्थापयामासुरादरात् ॥
क्रोशचतुष्कमात्रां च वेदिं कृत्वा सुरैस्ततः ॥ १२ ॥
द्विजाः सर्वे समाहूता यज्ञस्यार्थे हि जापकाः ॥
ऋग्यजुःसामाथर्वान्वै वेदानुद्गिरयन्ति ये ॥ १३ ॥
गणनाथं शम्भुसुतं कार्त्तिकेयं तथैव च ॥
इन्द्रं वज्रधरं चैव जयन्तं चन्द्रसूनुकम् ॥ १४ ॥
चत्वारो द्वारपालाश्च देवाः शूरा विनिर्मिताः ॥
ततो राक्षोघ्नमन्त्रेण हूयते हव्यवाहनः ॥ १५ ॥
तिलांश्च यवमिश्रांश्च मध्वाज्येन च मिश्रितान् ॥
जुहुवुस्ते तदा देवा वेदमन्त्रैर्नरेश्वर ॥ १६ ॥
आघारावाज्यभागौ च हुत्वा चैव ततः परम् ॥
द्राक्षेक्षुपूगनारिङ्ग जम्बीरं बीजपूरकम् ॥ १७ ॥
उत्तरतो नालिकेरं दाडिमं च यथाक्रमम् ॥
मध्वाज्यं पयसा युक्तं कृशरशर्करायुतम् ॥ १८ ॥
तण्डुलैः शतपत्रैश्च यज्ञे वाचं नियम्य च ॥
विचिन्त्य च महाभागाः कृत्वा यज्ञं सदक्षिणम् ॥ १९ ॥
उत्तमं च शुभं स्तोमं कृत्वा हर्षमुपाययुः ॥
अवारितान्नमददन्दीनान्धकृपणेष्वपि ॥ २० ॥
ब्राह्मणेभ्यो विशेषेण दत्तमन्नं यथेप्सितम् ॥
पायसं शर्करायुक्तं साज्यशाकसमन्वितम् ॥ २१ ॥
मण्डका वटकाः पूपास्तथा वै वेष्टिकाः शुभाः ॥
सहस्रमोदकाश्चापि फेणिका घुर्घुरादयः ॥ २२ ॥
ओदनश्च तथा दाली आढकीसम्भवा शुभा ॥
तथा वै मुद्गदाली च पर्पटा वटिका तथा ॥ २३ ॥
प्रलेह्यानि विचित्राणि युक्तास्त्र्यूषणसञ्चयैः ॥
कुल्माषा वेल्लकाश्चैव कोमला वालकाः शुभाः ॥ २४ ॥
कर्कटिकाश्चार्द्रयुता मरिचेन समन्विताः ॥
एवंविधानि चान्नानि शाकानि विविधानि च ॥ २५ ॥
भोजयित्वा द्विजान्सर्वान्धर्मारण्य निवासिनः ॥
अष्टादशसहस्राणि सपुत्रांश्च तदा नृप ॥ २६ ॥
प्रतिदिनं तदा देवा भोजयन्ति स्म वाडवान् ॥
एवं वर्षसहस्रं वै कृत्वा यज्ञं तदामराः ॥ २७ ॥
कृत्वा दैत्यवधं राजन्निर्भयत्वमवाप्नुयुः ॥
स्वर्गं जग्मुस्ते सहसा देवाः सर्वे मरुद्गणाः ॥ २८ ॥
तथैवाप्सरसः सर्वा ब्रह्मवि ष्णुमहेश्वराः ॥
कैलासशिखरं रम्यं वैकुण्ठं विष्णुवल्लभम् ॥ २९ ॥
ब्रह्मलोकं महापुण्यं प्राप्य सर्वे दिवौकसः ॥
परं हर्षमुपाजग्मुः प्राप्य नन्दनमुत्तम् ॥ ३० ॥
स्वेस्वे स्थाने स्थिरीभूत्वा तस्थुः सर्वे हि निर्भयाः ॥ ३१ ॥
ततः कालेन महता कृताख्ययुगपर्यये ॥
लोहासुरो मदोन्मत्तो ब्रह्मवेषधरः सदा ॥ ३२ ॥
आगत्य सर्वान्विप्रांश्च धर्षयेद्धर्मवित्तमान् ॥
शूद्रांश्च वणिजश्चैव दण्डघातेन ताडयेत् ॥ ३३ ॥
विध्वंसयेच्च यज्ञादीन्होमद्रव्याणि भक्षयेत् ॥
वेदिका दीर्घिका दृष्ट्वा कश्मलेन प्रदूषयेत् ॥ ३४ ॥
मूत्रोत्सर्गपुरीषेण दूषयेत्पुण्यभूमिकाः ॥
गहनेन तथा राजन्स्त्रियो दूषयते हि सः ॥ ३५ ॥
ततस्ते वाडवाः सर्वे लोहासुरभयातुराः ॥
प्रनष्टाः सपरीवारा गतास्ते वै दिशो दश ॥ ३६ ॥
वणिजस्ते भयोद्विग्ना विप्राननुययुर्नृप ॥
महाभयेन सम्भीता दूरं गत्वा विमृश्य च॥३७॥
सह शूद्रैद्विजैः सर्व एकीभूत्वा गतास्तदा ॥
मुक्तारण्यं पुण्यतमं निर्जनं हि ययुश्च ते ॥ ३८ ॥
निवासं कारयामासुर्नातिदूरे नरेश्वर ॥
वजिङ्नाम्ना हि तद्ग्रामं वासयामासुरेव ते ॥ ३९ ॥
लोहासुरभयाद्राजन्विप्र नाम्ना विनिर्मितम् ॥
शम्भुना वणिजा यस्मात्तस्मात्तन्नामधारणम् ॥ ४० ॥
शम्भुग्राममिति ख्यातं लोके विख्यातिमागतम् ॥
अथ केचिद्भयान्नष्टा वणिजः प्रथमं तदा ॥ ४१ ॥
ते नातिदूरे गत्वा वै मण्डलं चक्रुरुत्तमम् ॥
विप्रागमनकाङ्क्षास्ते तत्र वासमकल्पयन् ॥ ४२ ॥
मण्डलेति च नाम्ना वै ग्रामं कृत्वा न्यवीवसन् ॥
विप्रसार्थपरिभ्रष्टाः केचित्तु वणिजस्तदा ॥ ४३ ॥
अन्यमार्गे गता ये वै लोहासुरभयार्दिताः ॥
धर्मारण्यान्नाति दूरे गत्वा चिन्तामुपाययुः ॥ ४४ ॥
कस्मिन्मार्गे वयं प्राप्ताः कस्मिन्प्राप्ता द्विजातयः ॥
इति चिन्तां परं प्राप्ता वासं तत्र त्वकारयन् ॥ ४५ ॥
अन्यमार्गे गता यस्मात्तस्मात्तन्नामसम्भवम् ॥
ग्रामं निवासयामासुरडालञ्जमिति क्षितौ ॥ ४६ ॥
यस्मिन्ग्रामे निवासी यो यत्सञ्ज्ञश्च वणिग्भवेत् ॥
तस्य ग्रामस्य तन्नाम ह्यभवत्पृथिवीपते ॥ ४७ ॥
वणिजश्च तथा विप्रा मोहं प्राप्ता भयार्दिताः ॥
तस्मान्मोहेतिसञ्ज्ञास्ते राजन्सर्वे निरब्रुवन् ॥ ॥ ४८ ॥
एवं प्रनषणं नष्टास्ते गताश्च दिशो दिश ॥
धर्मारण्ये न तिष्ठन्ति वाडवा वणिजोऽपि वा ॥ ४९ ॥
उद्वसं हि तदा जातं धर्मारण्यं च दुर्लभम् ॥
भूषणं सर्वतीर्थानां कृतं लोहासुरेण तत् ॥ ५० ॥
नष्टद्विजं नष्टतीर्थं स्थानं कृत्वा हि दानवः ॥
परां मुदमवाप्यैव जगाम स्वालयं ततः ॥ ५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनन्नाम त्रयोविंशो ऽध्यायः ॥ २३ ॥ ॥ छ ॥