०२२ देवतास्थापनम्

॥ युधिष्ठिर उवाच ॥ ॥
स्थानवासिन्यो योगिन्यः काजेशेन विनिर्मिताः ॥
कस्मिन्स्थाने हि का देव्यः कीदृश्यस्ता वदस्व मे ॥ १ ॥
॥ व्यास उवाच ॥ ॥
सर्वज्ञोसि कुलीनोसि साधु पृष्टं त्वयानघ ॥
कथयिष्याम्यहं सर्वमखिलेन युधिष्ठिर ॥ २ ॥
नानाभरणभूषाढ्या नानारत्नोपशोभिताः ॥
नानावसनसंवीता नानायुवसमन्विताः ॥ ३ ॥
नानावाहनसंयुक्ता नानास्वरनिनादिनीः ॥
भयनाशाय विप्राणां काजेशेन विनिर्मिताः ॥ ४ ॥
प्राच्यां याम्यामुदीच्यां च प्रतीच्यां स्थापिता हि ताः ॥
आग्नेया नैर्ऋते देशे वायव्येशानयोस्तथा ॥ ५ ॥
आशापुरी च गात्राई छत्राई ज्ञानजा तथा ॥
पिप्पलाम्बा तथा शान्ता सिद्धा भट्टारिका तथा ॥ ६ ॥
कदम्बा विकटा मीठा सुपर्णा वसुजा तथा ॥
मातङ्गी च महादेवी वाराही मुकुटेश्वरी ॥ ७ ॥
भद्रा चैव महाशक्तिः सिंहारा च महाबला ॥
एताश्चान्याश्च बहवः कथितुं नैव शक्यते ॥ ८ ॥
नानारूपधरा देव्यो नानावेषसमाश्रिताः ॥
स्थानादुत्तरदिग्भागे आशापूर्णासमीपतः ॥ ९ ॥
पूर्वे तु विद्यते देवी आनन्दानन्ददायिनी ॥
वसन्ती चोत्तरे देव्यो नानारूपधरा मुदा ॥ १० ॥
इष्टान्कामान्ददात्येता जलदानेन तर्पिताः ॥
स्थाने नैर्ऋतिदिग्भागे शान्ता शान्तिप्रदायिनी ॥ ११ ॥
सिंहोपरि समासीना चतुर्हस्ता वरप्रदा ॥
भट्टारी च महाशक्तिः पुनस्तत्रैव तिष्ठति ॥ १२ ॥
संस्तुता पूजिता भक्त्या भक्तानां भयनाशिनी ॥
स्थानात्तु सप्तमे क्रोशे क्षेमलाभा व्यव स्थिता ॥ १३ ॥
सा विलेपमयी पूज्या चिन्तिता सिद्धिदायिनी ॥
पूर्वस्यां दिशि लोकैस्तु बलिदानेन तर्पिता ॥
परिवारेण संयुक्ता भुक्तिमुक्ति प्रदायिनी ॥ १४ ॥
अचिन्त्यरूपचरिता सर्वशत्रुविनाशनी ॥
सन्ध्यायास्त्रिषु कालेषु प्रत्यक्षैव हि दृश्यते ॥ १५ ॥
स्थानात्तु सप्तमे क्रोशे दक्षिणा विन्ध्यवासिनी ॥
सायुधा रूपसम्पन्ना भक्तानां भयहारिणी ॥ १६ ॥
पश्चिमे निम्बजा देवी तावद्भूमिसमाश्रिता ॥
महाबला सा दृष्टापि नयनानन्द दायिनी ॥ १७ ॥
स्थानादुत्तरदिग्भागे तावद्भूमिसमाश्रिता ॥
शक्तिर्बहुसुवर्णाक्षा पूजिता सासुवर्णदा ॥ १८ ॥
स्थानाद्वायव्यकोणे च क्रोशमात्र मिते श्रिता ॥
क्षेत्रधरा महादेवी समये च्छागधारिणी ॥ १९ ॥
पुरादुत्तरदिग्भागे क्रोशमात्रे तु कर्णिका ॥
सर्वोपकारनिरता स्थानोपद्रवनाशनी ॥ २० ॥
स्थानान्निर्ऋतिदिग्भागे ब्रह्माणीप्रमुखास्तथा ॥
नानारूपधरा देव्यो विद्यन्ते जलमातरः ॥ २१ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये देवतास्थापनन्नाम द्वाविंशोऽध्यायः ॥ २२ ॥ ॥ छ ॥