०२० धराक्षेत्रवर्णनम्

॥ व्यास उवाच ॥ ॥
अतः परं प्रवक्ष्यामि शिवतीर्थमनुत्तमम् ॥
यत्रासौ शङ्करो देवः पुनर्जन्मधरोऽभवत् ॥ १ ॥
कीलितो देवदेवेशः शङ्करश्च त्रिलोचनः ॥
गिरिजया महाभाग पातितो भूमिमण्डले ॥ २ ॥
छलितो मुह्यमानस्तु दिवारात्रिं न वेत्ति च ॥
पुंस्त्रीनपुंसकाश्चैव जडीभूतस्त्रिलोचनः ॥ ३ ॥
कल्पान्तमिव सञ्जातं तदा तस्मिंश्च कीलिते ॥
पार्वत्या सहसा तस्य कृत कीलनकं तदा ॥ ४ ॥
॥ युधिष्ठिर उवाच ॥ ॥
एतदाश्चर्यमतुलं वचनं यत्त्वयोदितम् ॥
यो गुरुः सर्वदेवानां योगिनां चैव सर्वदा ॥ ५ ॥
पार्वत्या कीलितः कस्मा न्नष्टवृत्तिः शिवः कथम् ॥
कारणं कथ्यतां तत्र परं कौतूहलं हि मे ॥ ६ ॥
॥ व्यास उवाच ॥ ॥
मन्त्रौघा विविधा राजञ्छङ्करेण प्रकाशिताः ॥
पार्वत्यग्रे महाराज अथर्वणोपवेदजाः ॥ ७ ॥
शाकिनी डाकिनी चैव काकिनी हाकिनी तथा ॥
एकिनी लाकिनी ह्येताः षट्भेदास्तत्र कीर्ति ताः ॥ ७ ॥
बीजान्युद्धृत्य वै ताभ्यो माला चैकवृता कृता ॥
शम्भुना कथिता चैव पार्वत्यग्रे नृपोत्तम ॥ ९ ॥
तैश्चैव अष्टा भवति मन्त्रोद्धारः कृतस्तु सा ॥
साधयेत्सा महादुष्टा शाकिनी प्रमदानघे ॥ १० ॥
॥ श्रीपार्वत्युवाच ॥ ॥
प्रकाशितास्त्वया नाथ भेदा ह्येते षडेव हि ॥
षड्विधाः शक्तयो नाथ अगम्यायोगमालिनीः ॥
षड्विधोक्तं त्वयैकेन कूटात्कृतं वदस्व माम् ॥ ११ ॥
॥ श्रीमहादेव उवाच ॥ ॥
अप्रकाशो महादेवि देवासुरैस्तु मानवैः ॥ १२ ॥
॥ पार्वत्युवाच ॥ ॥
नमस्ते सर्वरूपाय नमस्ते वृषभध्वज ॥
जटिलेश नमस्तुभ्यं नीलकण्ठ नमोस्तुते ॥ ॥ १३ ॥
कृपासिन्धो नमस्तुभ्यं नमस्ते कालरूपिणे ॥
एतैश्च बहुभिर्वाक्यैः कोमलैः करुणानिधिम् ॥ १४ ॥
तोषयित्वाद्रितनया दण्डवत्प्रणिपत्य च ॥
जग्राह पादयुगलं तां प्रोवाच दयापरः ॥ १५ ॥
किमर्थं स्तूयसे भद्रे याच्यतां मनसीप्सितम् ॥ १६ ॥
॥ पार्वत्युवाच ॥ ॥
समाहारं च सध्यानं कथयस्व सविस्तरम् ॥
असन्देहमशेषं च यद्यहं वल्लभा तव ॥ १७ ॥
॥ श्रीरुद्र उवाच ॥ ॥
न प्रकाश्यं त्वया देवि समाहारोद्भवं फलम् ॥
सर्वं तत्त्वमहं वक्ष्ये मन्त्रकूटाद्यमेव हि ॥ १७ ॥
मायाबीजं तु सर्वेषां कूटानां हि वरानने ॥
सर्वेषां मध्यमो वर्णो बिन्दुना दादिशोभितः ॥ १९ ॥
वह्निबीजं सवातं च कूर्मबीजसमन्वितम् ॥
आदित्यप्रभवं बीजं शक्तिबीजोद्भवं सदा ॥ २० ॥
एतत्कूटं चाद्यबीजं द्वितीयं च विभोर्मतम् ॥
तृतीयं चाग्निबीजं तु संयुक्तं बिन्दुनेन्दुना ॥ २१ ॥
चतुर्थं युक्तं शेषेण ब्रह्मबीजमृषिस्तथा ॥
पञ्चमं कालबीजं च षष्ठं पार्थिव बीजकम् ॥ २२ ॥
सप्तमे चाष्टमे बाह्यं नृसिंहेन समन्वितम् ॥
नवमे द्वितीयमेकं च दशमे चाष्टकूटकम् ॥ २३ ॥
विपरीतं तयोर्बीजं रुद्राक्षे वर चारिणि ॥
चतुर्दशे चतुर्थ्यर्थं पृथ्वीबीजेन संयुतम् ॥ २४ ॥
कूटाः शेषाक्षराः केचिद्रक्षिता मेनकात्मजे ॥
सा पपात यदोर्व्यां हि शिवपत्नी तदा नृप ॥ २५ ॥
रामेणाश्वासिता तत्र प्रहसंस्त्रिपुरान्तकः ॥
भद्रे यस्मात्त्वया पन्नं जंवशक्तिर्भविष्यति ॥ २६ ॥
मारणे मोहने वश्ये आकर्षणे च क्षोभणे ॥
यंयं कामयते नूनं ततत्सिद्धिर्भविष्यति ॥ २७ ॥
इति श्रुत्वा तदा देवी दुष्टचित्ता शुचिस्मिता ॥
कूटशेषास्ततो वीराः प्रोक्तास्तस्यै तु शम्भु ना ॥२८॥
उवाच च कृपासिन्धुः साधयस्व यथाविधि॥
कैलासात्तु हरस्तत्र धर्मारण्यं गतो भृशम् ॥२९॥
ज्ञात्वा देवी ययौ तत्र यत्रासौ वृषभध्वजः ॥
तत्क्षणात्पतितो भूमौ धर्मारण्ये नृपोत्तम ॥३०॥
जटा चन्द्रोरगाः शूलं वृषभाद्यायुधानि ?? ॥
मुण्डमाला च कौपीनं कपालं ब्रह्मणस्तु वै ॥३१॥
गता गणाश्च सर्वत्र भूतप्रेता दिशो दश ॥
विसञ्ज्ञं च स्वमात्मानं ज्ञात्वा देवो महेश्वरः ॥ ३२ ॥
स्वेदजास्तु समुत्पन्ना गणाः कूटादयस्तथा ॥
पञ्चकूटान्समुत्पाद्य तस्मात्तदाधमूलिने ॥ ३३ ॥
साधकास्ते महाराज जपहोमपरायणाः ॥
प्रेतासनास्तु ते सर्वे कालकूटोपरि स्थिताः ॥ ३४ ॥
कथयन्ति स्वमात्मानं येन मोक्षः पिनाकिनः ॥
ततः कष्टसमाविष्टा गौरी वह्निभयातुरा ॥ ३५॥
सभाजितः शिवस्तैश्च गौरी ह्रीणा त्वधोमुखी ॥
तपस्तेपे च तत्रस्था शङ्करादेशकारिणी ॥ ३६ ॥
पञ्चाग्निसेवनं कृत्वा धूम्रपानमधोमुखी ॥
कूटाक्षरैः स्तुतस्तैस्तु तोषितो वृषभध्वजः ॥ ३७ ॥
धराक्षेत्रमिदं राजन्पापघ्नं सर्वकामदम् ॥
देवमज्जनकं शुभ्रं स्थानकेऽस्मिन्विराजते ॥ ३८ ॥
आश्विने कृष्णपक्षे च चतुर्दश्या दिने नृप ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥ ३९ ॥
पूजयित्वा च देवेशमुपोष्य च विधानतः ॥
शाकिनी डाकिनी चैव वेतालाः पितरो ग्रहाः ॥ ४० ॥
ग्रहा धिष्ण्या न पीड्यन्ते सत्यंसत्यं वरानने ॥
साङ्गं रुद्रजपं तत्र कृत्वा पापैः प्रमुच्यते ॥ ४१ ॥
नश्यन्ति त्रिविधा रोगाः सत्यंसत्यं च भूपते ॥
एतत्सर्वं मया ख्यातं देवमज्जनकं शृणु ॥ ४२ ॥
अश्वमेधसहस्रैस्तु कृतैस्तु भूरिदक्षिणैः ॥
तत्फलं समवाप्नोति श्रोता श्रावयिता नरः॥ ४३ ॥
अपुत्रो लभते पुत्रान्निर्धनो धनमाप्नुयात् ॥
आयुरारोग्यमैश्वर्यं लभते नात्र संशयः ॥ ४४ ॥
मनोवाक्कायजनितं पातकं त्रिविधं च यत् ॥
तत्सर्वं नाशमायाति स्मरणात्कीर्तनान्नृप ॥ ४५ ॥
धन्यं यशस्यमायुष्यं सुखसन्तानदायकम् ॥
माहात्म्यं शृणुयाद्वत्स सर्वसौख्यान्वितो भवेत् ॥४६॥
सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्॥
सर्वयज्ञैश्च यत्पुण्यं जायते श्रवणान्नृप ॥ ४७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्ड पूर्वभागे धर्माण्यमाहात्म्ये धराक्षेत्रवर्णनं नाम विंशोऽध्यायः ॥ २० ॥