०१९ इन्द्रेश्वरजयन्तेश्वरमहिमवर्णनः

॥ ॥ ॥ व्यास उवाच ॥ ॥
इन्द्रसरे नरः स्नात्वा दृष्ट्वा चेन्द्रेश्वरं शिवम् ॥
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ १ ॥
॥ युधिष्ठिर उवाच ॥ ॥
केन चादौ निर्मितं तत्तीर्थं सर्वोत्तमोत्तमम् ॥
यथावद्वर्णय त्वं मे भगवन्द्विजसत्तम ॥ २ ॥
॥ व्यास उवाच ॥ ॥
इन्द्रेणैव महाराज तपस्तप्तं सुदुष्करम्॥
ग्रामादुत्तरदिग्भागे शतवर्षाणि तत्र वै ॥ ३ ॥
शिवोद्देशं महाघोरमेकाङ्गुष्ठेन भारत ॥
उर्द्ध्वबाहुर्महातेजाः सूर्यस्याभिमुखोऽभवत् ॥ ॥ ४ ॥
वृत्रस्य वधतो ज्ञातं यत्पापं तस्य नुत्तये ॥
एकाग्रः प्रयतो भूत्वा शिवस्याराधने रतः ॥ ५ ॥
तपसा च तदा शम्भुस्तोषितः शशिशे खरः ॥
तत्राजगाम जटिलो भस्माङ्गो वृषभध्वजः ॥ ६ ॥
खट्वाङ्गी पञ्चवक्त्रश्च दशबाहुस्त्रिलोचनः ॥
गङ्गाधरो वृषारूढो भूतप्रेतादिवेष्टितः ॥ ७ ॥
सुप्रसन्नः सुरश्रेष्ठः कृपालुर्वरदायकः ॥
तदा हृष्टमना देवो देवेन्द्रमिदमूचिवान् ॥ ८ ॥
॥ हर उवाच ॥ ॥
यत्त्वं याचयसे देव तदहं प्रद दामि ते ॥ ९ ॥
॥ इन्द्र उवाच ॥ ॥
यदि तुष्टोसि देवेश कृपासिन्धो महेश्वर ॥
ब्रह्महत्या हि मां देव उद्वेजयति नित्यशः ॥ १० ॥
वृत्रासुरस्य हनने जातं पापं सुरोत्तम ॥
तत्पापं नाशय विभो मम दुःखप्रदं सदा ॥ ११ ॥
॥ हर उवाच ॥ ॥
धर्मारण्ये सुरपते ब्रह्महत्या न पीडयेत् ॥
हत्या गवां द्विजातीनां बालस्य योषितामपि ॥ १२ ॥
वचनान्मम देवेन्द्र ब्रह्मणः केशवस्य च ॥
यमस्य वचनाज्जिष्णो हत्या नैवात्र तिष्ठति ॥
प्रविश्य त्वं महाराज अतोत्र स्नानमाचर ॥ १३ ॥
॥ इन्द्र उवाच ॥ ॥
यदि त्वं मम तुष्टोऽसि कृपासिन्धो महेश्वर ॥
मन्नाम्ना च महादेव स्थापितो भव शङ्कर ॥ १४ ॥
तथेत्युक्त्वा महादेवः सुप्रसन्नो हरस्तदा ॥
दर्शयामास तत्रैव लिङ्गं पापप्रणाशनम् ॥ १५ ॥
कूर्मपृष्ठात्समुत्पाद्य आत्मयोगेन शम्भुना ॥
स्थितस्तत्रैव श्रीकण्ठः कालत्रयविदो विदुः ॥ १६ ॥
वृत्रहत्यासमुत्त्रस्तदेवराजस्य सन्निधौ ॥
इन्द्रेश्वरस्तदा तत्र धर्मा रण्ये स्थितो नृप ॥ १७ ॥
सर्वपापविशुद्ध्यर्थं लोकानां हितकाम्यया ॥
इन्द्रेश्वरं तु राजेन्द्र पुष्पधूपादिकैः सदा ॥ १८ ॥
पूजयेच्च नरो भक्त्या सर्वपापैः प्रमुच्यते ॥
अष्टम्यां च चतुर्दश्यां माघमासे विशेषतः ॥ १९ ॥
सर्वपापविशुद्ध्यर्थं शिवलोके महीयते ॥
नीलोत्सर्गं तु यो मर्त्यः करोति च तदग्रतः ॥ २० ॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥
साङ्गरुद्रजपं यस्तु चतुर्द्दश्यां करोति वै ॥ २१ ॥
सर्वपाविशुद्धात्मा लभते परमं पदम् ॥ २२ ॥
सौवर्णनयनं कृत्वा मध्ये रत्नसमन्वितम् ॥
यो ददाति द्विजातिभ्य इन्द्रतीर्थे तथोत्तमे ॥ २३ ॥
अन्धता न भवे त्तस्य जन्मानि षष्टिसङ्ख्यया ॥
निर्मलत्वं सदा तेषां नयनेषु प्रजायते ॥
महारोगास्तथा चान्ये स्नात्वा यान्ति तदग्रतः ॥ २४ ॥
पूजिते चैकचित्ते न सर्वरोगात्प्रमुच्यते ॥
स्नात्वा कुण्डे नरो यस्तु सन्तर्पयति यः पितॄन् ॥ २५ ॥
तस्य तृप्ताः सदा भूप पितरश्च पितामहाः ॥
ये वै ग्रस्ता महारोगैः कुष्ठाद्यैश्चैव देहिनः ॥ २६ ॥
स्नानमात्रेण संशुद्धा दिव्यदेहा भवन्ति ते ॥
ज्वरादिकष्टमापन्ना नराः स्वात्महिताय वै ॥ २७॥
स्नान मात्रेण संशुद्धा दिव्यदेहा भवन्ति ते ॥
स्नात्वा च पूजयेद्देवं मुच्यते ज्वरबन्धनात् ॥ २८ ॥
एकाहिकं द्व्याहिकं च चातुर्थं वा तृतीयकम् ॥
विषमज्वरपीडा च मासपक्षादिकं ज्वरम् ॥ २९ ॥
इन्द्रेश्वरप्रसादाच्च नश्यते नात्र संशयः ॥
विज्वरो जायते नूनं सत्यंसत्यं च भूपते ॥ ३० ॥
वन्ध्या च दुर्भगा नारी काकवन्ध्या मृतप्रजा ॥
मृतवत्सा महादुष्टा स्नात्वा कुण्डे शिवाग्रतः ॥
पूजयेदेकचित्तेन स्नानमात्रेण शुद्ध्यति ॥ ३१ ॥
एवंविधाश्च बहुशो वरान्दत्त्वा पिनाकधृक् ॥
गतोऽसौ स्वपुरं पार्थ सेव्यमानः सुरासुरैः ॥ ३२ ॥
ततः शक्रो महातेजा गतो वै स्वपुरं प्रति ॥
जयन्तेनापि तत्रैव स्थापितं लिङ्गमुत्तमम् ॥ ३३ ॥
जयन्तस्य हरस्तुष्टस्तस्मिल्लिङ्गे स्तुतः सदा ॥
त्रिकालं पुत्रसंयुक्तः पूजनार्थं सुरेश्वरः ॥ ३४ ॥
आयाति च महाबाहो त्यक्त्वा स्थानं स्वकं हि वै ॥
एतत्सर्वं समाख्यातं सर्वसौख्यप्रदायकम् ॥ ३५ ॥
इन्द्रेश्वरं तु यत्पुण्यं जयन्तेशस्य पूज नात् ॥
तदेवाप्नोति राजेन्द्र सत्यंसत्यं न संशयः ॥ ३६ ॥
स्नात्वा कुण्डे महाराज सम्पूज्यैकाग्रमानसः ॥
सर्वपापविशुद्धात्मा इन्द्रलोके महीयते ॥ ३७ ॥
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥
सर्वान्कामानवाप्नोति जयन्तेशप्रमादतः ॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये इन्द्रेश्वरजयन्तेश्वरमहिमवर्णनोनामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥