॥ रुद्र उवाच ॥ ॥
शृणु स्कन्द महाप्राज्ञ ह्यद्भुतं यत्कृतं मया ॥
धर्मारण्ये महादुष्टो दैत्यः कर्णाटकाभिधः ॥ १ ॥
निभृतं हि समागत्य दम्पत्योर्विघ्नमाचरत् ॥
तं दृष्ट्वा तद्भयाल्लोकः प्रदुद्राव निरन्तरम् ॥ २ ॥
त्यक्त्वा स्थानं गताः सर्वे वणिजो वाडवादयः ॥
मातङ्गीरूपमास्थाय श्रीमात्रा त्वनया सुत ॥ ३ ॥
हतः कर्णाटको नाम राक्षसो द्विजघातकः ॥
तदा सर्वेऽपि वै विप्रा हृष्टास्ते तेन कर्मणा ॥ ४ ॥
स्तुवन्ति पूजयन्ति स्म वणिजो भक्तितत्पराः ॥
वर्षेवर्षे प्रकुर्वन्ति श्रीमातापूजनं शुभम् ॥ ५ ॥
शुभकार्येषु सर्वेषु प्रथमं पूजयेत्तु ताम् ॥
न स विघ्नं प्रपश्येत तदाप्रभृति पुत्रक ॥ ६ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कोऽसौ दुष्टो महादैत्यः कस्मिन्वंशे समुद्भवः ॥
किं किं तेन कृतं तात सर्वम्ं कथय सुव्रत ॥ ७ ॥
॥ ॥ व्यास उवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि कर्णाटकविचेष्टितम् ॥
देवानां दानवानां यो दुःसहो वीर्यदर्पितः ॥ ८ ॥
दुष्टकर्मा दुराचारो महाराष्ट्रो महाभुजः ॥
जित्वा च सकलाल्ँलोकांस्त्रैलोक्ये च गतागतः ॥ ९ ॥
यत्र देवाश्च ऋषयस्तत्र गत्वा महासुरः ॥
छद्मना वा बलेनैव विघ्नं प्रकुरुते नृप ॥3.2.18.१०॥
न वेदाध्ययनं लोके भवेत्तस्य भयेन च ॥
कुर्वते वाडवा देवा न च सन्ध्याद्युपासनम् ॥ ११ ॥
न क्रतुर्वर्तते तत्र न चैव सुरपूजनम् ॥
देशेदेशे च सर्वत्र ग्रामेग्रामे पुरेपुरे ॥ १२ ॥
तीर्थेतीर्थे च सर्वत्र विघ्नं प्रकुरुतेऽसुरः ॥
परन्तु शक्यते नैव धर्मारण्ये प्रवेशितुम् ॥ १३ ॥
भयाच्छक्त्याश्च श्रीमातुर्दानवो विक्लवस्तदा ॥
केनोपायेन तत्रैव गम्यते त्विति चिन्तयन् ॥ १४ ॥
विघ्नं करिष्ये हि कथं ब्राह्मणानां महात्मनाम् ॥
वेदाध्ययनकर्तॄणां यज्ञे कर्माधितिष्ठताम् ॥ १५ ॥
वेदाध्ययनजं शब्दं श्रुत्वा दूरात्स दानवः ॥
विव्यथे स यथा राजन्वज्राहत इव द्विपः ॥ १६ ॥
निःश्वासान्मुमुचे रोषाद्दन्तैर्दन्तांश्च घर्षयन् ॥
दशमानो निजावोष्ठौ पेषयंश्च करावुभौ ॥ १७ ॥
उन्मत्तवद्विचरत इतश्चेतश्च मारिष ॥
सन्निपातस्य दोषेण यथा भवति मानवः ॥ १८ ॥
तथैव दानवो घोरो धर्मारण्यसमीपगः ॥
भ्रमते दहते चैव दूरादेव भयान्वितः ॥ १९ ॥
विवाहकाले विप्राणां रूपं कृत्वा द्विजन्मनः ॥
तत्रागत्य दुराधर्षो नीत्वा दाम्पत्यमुत्तमम् ॥ 3.2.18.२० ॥
उत्पपात महीपृष्ठाद्गगने सोऽसुराधमः ॥
स्वयं च रमते पापो द्वेषाज्जातिस्वभावतः ॥ २१ ॥
एवं च बहुशः सोऽथ धर्मारण्याच्च दम्पती ॥
गृहीत्वा कुरुते पापं देवानामपि दुःसहम् ॥ २२ ॥
विघ्नं करोति दुष्टोऽसौ दम्पत्योः सततं भुवि ॥
महाघोरतरं कर्म कुर्वंस्तस्मिन्पुरे वरे ॥ २३ ॥
तत्रोद्विग्ना द्विजाः सर्वे पलायन्ते दिशो दश ॥
गताः सर्वे भूमिदेवा स्त्यक्त्वा स्थानं मनोरमम् ॥ २४ ॥
यत्रयत्र महत्तीर्थं तत्रतत्र गता द्विजाः ॥
उद्वसं तत्पुरं जातं तस्मिन्काले नृपोत्तम ॥ २५ ॥
न वेदाध्ययनं तत्र न च यज्ञः प्रवर्तते ॥
मनुजास्तत्र तिष्ठन्ति न कर्णाटभयार्दिताः ॥ २६ ॥
द्विजाः सर्वे ततो राजन्वणिजश्च महायशाः ॥
एकत्र मिलिताः सर्वे वक्तुं मन्त्रं यथोचितम् ॥ २७॥
कर्णाटस्य वधोपायं मन्त्रयन्ति द्विजर्षभाः ॥
विचार्यमाणे तैर्दैवाद्वाग्जाता चाशरीरिणी ॥ २८ ॥
आराधयत श्रीमातां सर्वदुःखापहारिणीम् ॥
सर्वदैत्यक्षयकरीं सर्वोपद्रवनाशनीम् ॥ २९ ॥
तच्छ्रुत्वा वाडवाः सर्वे हर्षव्याकुललोचनाः ॥
श्रीमातां तु समागत्य गृहीत्वा बलिमुत्तमम् ॥ 3.2.18.३० ॥
मधु क्षीरं दधि घृतं शर्करा पञ्चधारया ॥
धूपं दीपं तथा चैव चन्दनं कुसुमानि च ॥ ३१ ॥
फलानि विविधान्येव गृहीत्वा वाडवा नृप ॥
धान्यं तु विविधं राजन्भक्तापूपा घृताचिताः ॥ ३२ ॥
कुल्माषा वटकाश्चैव पायसं घृतमिश्रितम् ॥
सोहालिका दीपिकाश्च सार्द्राश्च वटकास्तथा ॥ ३३ ॥
राजिकाभिश्च संलिप्ता नवच्छिद्रसमन्विताः ॥
चन्द्रबिम्बप्रतीकाशा मण्डकास्तत्र कल्पिताः ॥ ३४ ॥
पञ्चामृतेन स्नपनं कृत्वा गन्धोदकेन च ॥
धूपैर्दीपैश्च नैवेद्यैस्तोषयामासुरीश्वरीम् ॥ ३५ ॥
नीराजनैः सकपूरैः पुष्पैर्दीपैः सुचन्दनैः ॥
श्रीमाता तोषिता राजन्सर्वोपद्रवनाशनी ॥ ३६ ॥
श्रीमाता च जगन्माता ब्राह्मी सौम्या वरप्रदा ॥
रूपत्रयं समास्थाय पालयेत्सा जगत्त्रयम् ॥ ३७ ॥
त्रयीरूपेण धर्मात्मन्रक्षते सत्यमन्दिरम्॥
जितेद्रिया जितात्मानो मिलितास्ते द्विजोत्तमाः ॥ ३८ ॥
तैः सर्वेरर्चिता माता चन्दनाद्येन तोषिता ॥
स्तुतिमारेभिरे तत्र वाङ्मनःकायकर्मभिः ॥
एकचित्तेन भावेन ब्रह्मपुत्र्याः पुरः स्थिताः ॥ ३९ ॥
॥ विप्रा ऊचुः ॥ ॥
नमस्ते ब्रह्मपुत्र्यास्तु नमस्ते ब्रह्मचारिणि ॥
नमस्ते जगतां मातर्नमस्ते सर्वगे सदा ॥ 3.2.18.४० ॥
क्षुन्निद्रा त्वं तृषा त्वं च क्रोधतन्द्रादयस्तथा ॥
त्वं शान्तिस्त्वं रतिश्चैव त्वं जया विजया तथा ॥ ४१ ॥
ब्रह्मविष्णुमहेशाद्यैस्त्वं प्रपन्ना सुरेश्वरि ॥
सावित्री श्रीरुमा चैव त्वं च माता व्यवस्थिता ॥ ४२ ॥
ब्रह्मविष्णु सुरेशानास्त्वदाधारे व्यवस्थिताः ॥
नमस्तुभ्यं जगन्मातर्धृतिपुष्टिस्वरूपिणि ॥ ४३ ॥
रतिः क्रोधा महामाया छाया ज्योतिःस्वरूपिणि ॥
सृष्टि स्थित्यन्तकृद्देवि कार्यकारणदा सदा ॥४४॥
धरा तेजस्तथा वायुः सलिलाकाशमेव च ॥
नमस्तेऽस्तु महाविद्ये महाज्ञानमयेऽनघे ॥ ४५ ॥
ह्रीङ्कारी देवरूपा त्वं क्लीङ्कारी त्वं महाद्युते ॥
आदिमध्यावसाना त्वं त्राहि चास्मान्महाभयात् ॥ ४६ ॥
महापापो हि दुष्टात्मा दैत्योऽयं बाधतेऽधुना ॥
त्राणरूपा त्वमेका च अस्माकं कुलदेवता ॥ ४७॥
त्राहित्राहि महादेवि रक्षरक्ष महेश्वरि ॥
हनहन दानवं दुष्टं द्विजातीनां विघ्नकारकम् ॥४८॥
एवं स्तुता तदा देवी महामाया द्विजन्मभिः ॥
कर्णाटस्य वधार्थाय द्विजातीनां हिताय च ॥
प्रत्यक्षा साऽभवत्तत्र वरं ब्रूहीत्युवाच ह ॥ ४९ ॥ ॥
॥ श्रीमातोवाच ॥ ॥
केन वै त्रासिता विप्राः केन वोद्वेजिताः पुनः ॥
तस्याहं कुपिता विप्रा नयिष्ये यमसादनम् ॥3.2.18.५०॥
क्षीणायुषं नरं वित्त येन यूयं निपीडिताः ॥
ददामि वो द्विजातिभ्यो यथेष्टं वक्तुमर्हथ ॥५१॥
भक्त्या हि भवतां विप्राः करिष्ये नात्र संशयः ॥५२॥
॥ द्विजा ऊचुः॥ ॥
कर्णाटाख्यो महारौद्रो दानवो मदगर्वितः ॥
विघ्नं प्रकुरुते नित्यं सत्यमन्दिरवासिनाम् ॥५३॥
ब्राह्मणान्सत्यशीलांश्च वेदाध्ययनतत्परान् ॥
द्वेषाद्द्वेष्टि द्वेषणस्तान्नित्यमेव महामते ॥
वेदविद्वेषणो दुष्टो घातयैनं महाद्युते ॥ ५४ ॥
॥ व्यास उवाच ॥ ॥
तथेत्युक्त्वा तु सा देवी प्रहस्य कुलदेवता ॥
वधोपायं विचिन्त्यास्य भक्तानां रक्षणाय वै ॥ ५५ ॥
ततः कोपपरा जाता श्रीमाता नृपसत्तम ॥
कोपेन भृकुटीं कृत्वा रक्तनेत्रान्तलोचनाम् ॥ ५६ ॥
कोपेन महताऽऽविष्टा वसन्ती पावकं यथा ॥
महाज्वाला मुखान्नेत्रान्नासाकर्णाच्च भारत॥५७॥
तत्तेजसा समुद्भूता मातङ्गी कामरूपिणी ॥
काली करा लवदना दुर्दर्शवदनोज्ज्वला ॥५८॥
रक्तमाल्याम्बरधरा मदाघूर्णितलोचना ॥
न्यग्रोधस्य समीपे सा श्रीमाता संश्रिता तदा ॥५९॥
अष्टादशभुजा सा तु शुभा माता सुशोभना ॥
धनुर्बाणधरा देवी खड्गखेटकधारिणी ॥ 3.2.18.६० ॥
कुठारं क्षुरिकां बिभ्रत्त्रिशूलं पानपात्रकम् ॥
गदां सर्पं च परिघं पिनाकं चैव पाशकम् ॥ ६१ ॥
अक्षमालाधरा राजन्मद्यकुम्भानुधारिणी ॥
शक्तिं च मुशलं चोग्रं कर्तरीं खर्परं तथा ॥ ६२ ॥
कण्टकाढ्यां च बदरीं बिभ्रती तु महानना ॥
तत्राभवन्महायुद्धं तुमुलं लोमहर्षणम् ॥ ६३ ॥
मातङ्ग्याः सह कर्णाटदानवेन नृपोत्तम ॥ ६४ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कथं युद्धं समभवत्कथं चैवापवर्तत ॥
जितं केनैव धर्मज्ञ तन्ममाचक्ष्व मारिष ॥ ६५ ॥
॥ व्यास उवाच ॥ ॥
एकदा शृणु राजेन्द्र यज्जातं दैत्यसङ्गरे ॥
तत्सर्वं कथयाम्याशु यथावृत्तं हि तत्पुरा ॥ ६६ ॥
प्रणष्टयोषा ये विप्रा वणिजश्चैव भारत ॥
चैत्रमासे तु सम्प्राप्ते धर्मारण्ये नृपोत्तम ॥ ६७ ॥
गौरीमुद्वाहयामासुर्विप्रास्ते संशितव्रताः ॥
स्वस्थानं सुशुभं ज्ञात्वा तीर्थराजं तथोत्तमम् ॥ ६८ ॥
विवाहं तत्र कुर्वन्तो मिलितास्ते द्विजोत्तमाः ॥
कोटिकन्याकुलं तत्र एकत्रासीन्महोत्सवे ॥
धर्मारण्ये महाप्राज्ञ सत्यं सत्यं वदाम्यहम् ॥ ६९ ॥
चतुर्थ्यामपररात्रेऽभ्यन्तरतोऽग्निमादधुः ॥
आसनं ब्रह्मणे दत्त्वा अग्निं कृत्वा प्रदक्षिणम् ॥ 3.2.18.७० ॥
स्थालीपाकं च कृत्वाथ कृत्वा वेदीः शुभास्तदा ॥
चतुर्हस्ताः सकलशा नागपाश समन्विताः ॥ ७१ ॥
वेदमन्त्रेण शुभ्रेण मन्त्रयन्ते ततो द्विजाः ॥
चरतां दम्पतीनां हि परिवेश्य यथोचितम् ॥ ७२ ॥
ब्रह्मणा सहितास्तत्र वाडवा स्ते सुहर्षिताः ॥
कुर्वते वेदनिर्घोषं तारस्वरनिनादितम् ॥ ७३ ॥
तेन शब्देन महता कृत्स्नमापूरितं नभः ॥
तं श्रुत्वा दानवो घोरो वेदध्वनिं द्विजे रितम् ॥ ७४ ॥
उत्पपातासनात्तूर्णं ससैन्यो गतचेतनः ॥
धावतः सर्वभृत्यास्तं ये चान्ये तानुवाच सः ॥ ७५ ॥
श्रूयतां कुत्र शब्दोऽयं वाडवानां समुत्थितः ॥
तस्य तद्वचनं श्रुत्वा दैतेयाः सत्वरं ययुः ॥ ७६ ॥
विभ्रान्तचेतसः सर्वे इतश्चेतश्च धाविताः ॥
धर्मारण्ये गताः केचित्तत्र दृष्टा द्विजा तयः ॥ ७७ ॥
उद्गिरन्तो हि निगमान्विवाहसमये नृप ॥
सर्वं निवेदयामासुः कर्णाटाय दुरात्मने ॥ ७८ ॥
तच्छ्रुत्वा रक्तताम्राक्षो द्विजद्विट् कोपपू रितः ॥
अभ्यधावन्महाभाग यत्र ते दम्पती नृप ॥ ७९ ॥
खमाश्रित्य तदा दैत्यमायां कुर्वन्स राक्षसः ॥
अहरद्दम्पती राजन्सर्वालङ्कारसंयुतान् ॥ ॥ 3.2.18.८० ॥
ततस्ते वाडवाः सर्वे सङ्गता भुवनेश्वरीम् ॥
बुम्बारवं प्रकुर्वाणास्त्राहित्राहीति चोचिरे ॥ ८१ ॥
तच्छ्रुत्वा विश्वजननी मातङ्गी भुवनेश्वरी ॥
सिंहनादं प्रकुर्वाणा त्रिशूलवरधारिणी ॥ ८२ ॥
ततः प्रववृते युद्धं देवीकर्णाटयोस्तथा ॥
ऋषीणां पश्यतां तत्र वणिजां च द्विजन्मनाम् ॥ ८३ ॥
पश्यतामभवयुद्धं तुमुलं लोमहर्षणम् ॥
अस्त्रैश्चिच्छेद मातगी मदविह्वलितं रिपुम् ॥ ८४ ॥
सोऽपि दैत्यस्ततस्तस्या बाणेनैकेन वक्षसि ॥
असावपि त्रिशूलेन घातितः कश्मलं गतः ॥ ८५ ॥
मुष्टिभिश्चैव तां देवीं सोऽपि ताडयतेऽसुरः ॥
सोऽपि देव्या ततः शीघ्रं नागपाशेन यन्त्रितः ॥ ८६ ॥
ततस्तेनैव दैत्येन गरुडास्त्रं समादधे ॥
तया नारायणास्त्रं तु सन्दधे शरपातनम्॥८७ ॥
एवमन्योन्यमाकृष्य युध्यमानौ जयेच्छया ॥
ततः परिघमादाय आयसं दैत्यपुङ्गवः ॥ ८८ ॥
मातङ्गीं प्रति सङ्कुद्धो जघान परवीरहा ॥
देवी क्रुद्धा मुष्टिपातैश्चूर्णयामास दानवम् ॥ ८९ ॥
तेन मुष्टिप्रहारेण मूर्च्छितो निपपात ह ॥
ततस्तु सहसोत्थाय शक्तिं धृत्वा करे मुदा ॥ 3.2.18.९० ॥
शतघ्नीं पातयामास तस्या उपरि दानवः ॥
शक्तिं चिच्छेद सा देवी मातङ्गी च शुभानना ॥ ९१ ॥
जहासोच्चैस्तु सा सुभ्रः शतघ्नीं वज्रसन्निभा ॥
एव मन्योन्यशस्त्रौघैरर्दयन्तौ परस्परम् ॥ ९२ ॥
ततस्त्रिशूलेन हतो हृदये निपपात ह ॥
मूर्छां विहाय दैत्योऽसौ मायां कृत्वा च राक्षसीम् ॥ ९३ ॥
पश्यतां तत्र तेषां तु अदृश्योऽभून्महासुरः ॥
पपौ पानं ततो देवी जहासारुणलोचना ॥ ९४ ॥
सर्वत्रगं तं सा देवी त्रैलोक्ये सचराचरे ॥ ९५ ॥
क्व पास्यस्तीति ब्रूते सा ब्रूहि त्वं साम्प्रतं हि मे ॥
कर्णाटक महादुष्ट एहि शीघ्रं हि युध्यताम् ॥ ९६ ॥
ततोऽभवन्महायुद्धं दारुणं च भयानकम् ॥
पपौ देवी तु मैरेयं वधार्थं सुमहाबला ॥ ९७ ॥
मातङ्गी च ततः क्रुद्धा वक्त्रे चिक्षेप दानवम् ॥
ततोऽपि दानवो रौद्रो नासारन्ध्रेण निर्गतः ॥९८॥
युध्यते स पुनर्दैत्यः कर्णाटो मदपूरितः ॥
ततो देवी प्रकुपिता मातङ्गी मदपूरिता ॥ ९९ ॥
दशनैर्मथयित्वा च चर्वयित्वा पुनःपुनः ॥
शवास्थि मे दसा युक्तं मज्जामांसादिपूरितम् ॥ 3.2.18.१०० ॥
नखरोमाभिसंयुक्तं प्रक्षिप्य चोदरेऽसुरम् ॥
करेकेण मुखं रुद्धं करेणैकेन नासिकाम् ॥ १ ॥
ततो महाबलो दैत्यः कर्णरन्ध्रेण निर्गतः ॥
ततस्तया महादेव्या नाम चक्रे तदा भुवि ॥ २ ॥
कर्णरन्ध्रप्रसूतोऽयं कर्णाटेति विदुर्बुधाः ॥
पुनर्युद्धार्थमायातो दैत्यो हि बलदर्पितः ॥ ३ ॥
गर्जमानोसुरस्तत्र सायुधो युधि संस्थितः ॥
तं दृष्ट्वा दुःसहं दैत्यं विमृश्य च पुनः पुनः ॥ ४ ॥
वधोपायं हि मातङ्गी चिन्तयामास भारत ॥
यदा चिन्तयते देवी मातङ्गी मदपूरिता ॥ ५ ॥
मायारूपं समास्थाय कर्णाटः कुसुमायुधः ॥
गौरश्चाम्बुजपत्राक्षं स्तथा षोडशवार्षिकम् ॥ ६ ॥
अभ्येत्य देवीं ब्रूते स्म मां त्वं वरय शोभने ॥ ७ ॥
॥ श्रीमातोवाच ॥ ॥
साधु चेदं त्वया प्रोक्तं दैत्यराज सुनिश्चितम्॥
रूपेण सदृशो नान्यो विद्यते भुवनत्रये ॥ ८ ॥
प्रतिज्ञा मे कृता पूर्वं श्रुता किमसुरोत्तमं ॥
ममानुजा शुभा श्यामा विवाहे विप्र काङ्क्षिणी ॥ ९ ॥
पित्रा मे स्थापिता दैत्य रक्षार्थं हि द्विजन्मनाम् ॥
केवलं श्यामलाङ्गी सा सर्वलोकहितावहा ॥ 3.2.18.११० ॥
न कश्चिद्वरयेत्क न्यामित्युक्त्वा स्थापिता तु सा ॥
कथयाशु तव शुभं श्रुत्वोपायं कथं शुभम् ॥ ११ ॥
भगिनी मेऽस्ति दैत्येन्द्र श्यामलाह्यपरिग्रहा ॥
तवार्थं रक्षिता शूर तां च पूर्वेण चोद्वह ॥१२॥
स पिता तां महावीर दास्यते वै शुभामिमाम्॥
गच्छ त्वं व्रियतां ह्येव श्यामला कोपसंयुता ॥ १३ ॥
ततः कर्णाटकः क्रुद्धो गृहीत्वा शक्तिमूर्जिताम् ॥
अभ्यधावत दुष्टात्मा श्यामलानिधनेच्छया ॥१४॥
आगतं चासुरं दृष्ट्वा श्यामला सुमहामनाः॥
विवाहार्थं परं ज्ञात्वाऽभिप्रायं दुष्टचेतसः ॥ १५ ॥
महायुद्धमभूत्तत्र श्यामलाऽसुरवर्ययोः ॥
मासत्रयं ततो राजंश्चाभवत्तुमुलं क्षितौ ॥ १६ ॥
माघे कृष्णतृतीयायां धर्मारण्ये महारणे ॥
मध्याह्नसमये भूप कर्णाटाख्यो निपातितः ॥ १७ ॥
कार्णाटिः पतितस्तत्र यत्र देव्या निपातितः ॥
तच्छैल शृङ्गप्रतिमं पपात शिर उत्तमम् ॥ १८ ॥
चचाल सकला पृथ्वी साब्धिद्वीपा सपर्वता ॥
ततो विप्राः प्रहृष्टास्ते जय मातरुदैरयन् ॥ १९ ॥
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥
ततोत्सवं प्रकुर्वन्तो गीतं नृत्यं शुभप्रदम् ॥ 3.2.18.१२० ॥
पायसैर्वटकैश्चैव नैवेद्यैर्मोदकैस्तथा ॥
तुष्टवुः शुभवाण्या ते स्थाने मोटेरके वरे ॥ २१ ॥
श्रीमती पूजिता सा च सुतसौख्यधनप्रदा ॥
महोत्सवे च सम्प्राप्ते मातङ्गीपूजनं हितम् ॥ २२ ॥
ये ऽर्चयन्ति स्थापयित्वा धनपुत्रार्थसिद्धये ॥
सुखं कीर्तिं तथायुष्यं यशः पुण्यं समाप्नुयुः ॥ २३ ॥
व्याधयो नाशमायान्ति चादित्याद्या ग्रहाः शुभाः ॥
भूतवेतालशाकिन्यो जम्भाद्याः पीडयन्ति न ॥ २४ ॥
न जायते तथा क्वापि प्रेतादीनां प्रपीडनम् ॥
ततो विप्राः प्रहृष्टाश्च स्तुतिं कर्तुं समुद्यताः ॥ २५ ॥
श्रीमाता चैव शक्तीश्च मातङ्गीमस्तुवंस्तदा ॥
श्यामलां च महादेवीं हर्षेण महतायुता ॥ २६ ॥ ॥
॥ विप्रा ऊचुः ॥ ॥
मातस्त्वमेवमस्माकं रक्षिका स्थानके भव ॥
दम्पतीनां हितार्थाय यथा नोद्विजते द्विजाः ॥ २७ ॥
॥ मातङ्ग्युवाच ॥ ॥
तुष्टाहं वो महाभागाः स्तवेनानेन वो द्विजाः ॥
वरयध्वं वरं यद्वो मनसा समभीप्सितम् ॥ २८ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
दास्यामहे बलिं देवि यस्ते मनसि वर्तते ॥
अस्माकं चैव दम्पत्यो रक्षार्थं त्वं स्थिरा भव ॥ २९ ॥
॥ देव्युवाच ॥ ॥
स्वस्थाः सन्तु द्विजाः सर्वे न च पीडा भविष्यति ॥
मयि स्थितायां दुर्धर्षा दैत्या येऽन्ये च राक्षसाः ॥3.2.18.१३०॥
शाकिनीभूतप्रेताश्च जम्भाद्याश्च ग्रहास्तथा ॥
शाकिन्यादिग्रहाश्चैव सर्पा व्याघ्रादयस्तथा ॥ १३१ ॥
पीडयिष्यन्ति न क्वापि स्थितायां मयि शासने ॥
महोत्सवं यः कुरुते विवाहे समुपस्थिते ॥ ३२ ॥
दम्पत्योश्च हितार्थं हि पूजयेन्मां सदा नरः ॥
तस्याहं सकला बाधां नाशयिष्याम्यसंशयम् ॥ ३३ ॥
नाधयो व्याधयश्चैव न क्लेशो न च सम्भ्रमः ॥
प्राप्यते परमं सौख्यं यशः पुण्यं धनं सदा ॥
नाकाले मरणं तस्य वातपित्तादिकं नहि ॥ ३४ ॥
॥ विप्रा ऊचुः ॥ ॥
केन वा विधिना पूजा नैवेद्यं कीदृशं भवेत् ॥
धूपं च कीदृशं मातः कथं पूजां प्रकल्पयेत् ॥ ३५ ॥
॥ श्रीदेव्युवाच ॥ ॥
श्रूयतां मे वचो विप्रा पत्रे चैव हिरण्मये ॥
लिखित्वा पूजयेद्यस्तु चिरायुर्दम्पती भवेत् ॥ ३६ ॥
अथवा राजते पत्रे कांसपत्रेऽथवा पुनः ॥
अष्टादशभुजा देवी चन्दनेन विचर्चिता ॥ ३७ ॥
शूर्पं शरैः करे श्वानं पद्मं तु परमं पुनः ॥
कर्त्तरीं कारयेदेकां तूणीरं च धनूंषि च ॥ ३८ ॥
चर्म पाशं मुद्गरं च कांसालं तोमरं तथा ॥
शङ्खं चक्रं गदां शुभ्रां मुशलं परिघं शुभम् ॥ ३९ ॥
खट्वाङ्गं बदरीं चैव अङ्कुशं च मनोरमम् ॥
अष्टादशायुधैरेभिः संयुता भुवनेश्वरी ॥ 3.2.18.१४० ॥
लिखेत्सकुण्डलां देवीं बाहुनूपुरभूषिताम् ॥
केयूरमुक्तापद्मैश्च मुण्डमालाभिरन्विताम् ॥ ४१ ॥
मातृकाक्षरपरिवृतामङ्गुलीय कसंयुताम् ॥
नानाभरणशोभाढ्यां लिखित्वा भुवनेश्वरीम् ॥ ४२ ॥
मातङ्गीमिति विख्यातां प्रतिष्ठार्थं द्विजोत्तमाः ॥
चन्दनेन च हृद्येन पुष्पैश्चैव प्रपूजयेत् ॥ ४३ ॥
यक्षकर्दममानीय मातङ्गीं पूजयेत्सुधीः ॥
घृतेन बोधयेद्दीपं सप्तवर्तियुतं शुभम् ॥ ४४ ॥
धूपयेद्गुग्गुलेनाथ साज्येनाति सुगन्धिना ॥
नालिकेरेण शुभ्रेण दद्यादर्घं च दम्पती ॥ ४५ ॥
प्रदक्षिणाः प्रकुर्वीत चतुरः सुमनोरमम् ॥
वस्त्रांशुकं गुण्ठयित्वा अग्रे कृत्वा च दम्पती ॥ ४६ ॥
प्रोक्षिणीकृत्य मातङ्ग्याः प्राश्य माध्वीकमुत्तमम् ॥
गीतवादित्रनिर्घोषैर्मातङ्गीं पूजयेत्सुधीः ॥ ४७ ॥
सुवासिनीस्तु तद्रूपा मातङ्गीसम्भवा इति ॥
नृत्यन्ती दम्पती चाग्रे सर्वोपद्रवशान्तये ॥ ४८ ॥
नैवेद्यं विविधान्नेन अष्टादशविधं शुभम् ॥
वटकापूपिकाः शुभ्राः क्षीरं शर्करया युतम् ॥ ४९ ॥
बल्लाकरं वरं यूपा क्षिप्तकुल्माषकं तथा ॥
सोहालिका भिन्नवटा लाप्सिका पद्मचूर्णकम् ॥ 3.2.18.१५० ॥
शैवेया विमलास्तत्र पर्पटाः शालकादयः ॥
पूरणं तस्य मासस्य कुर्याच्छुभ्रं मनोरमम् ॥ ५१ ॥
राजमाषाः सूपचिताः कल्पयेत्तत्र दम्पती ॥
फेणिका रोपिकास्तत्र कुर्याच्चैव मनोरमाः ॥ ५२ ॥
एतान्यष्टादशान्यानि पक्वान्नानि प्रकल्पयेत् ॥
आज्यशर्करायुक्तानि युक्तानि शाकसञ्चयैः ॥ ५३ ॥
रात्रौ जागरणं कार्यं सुवासिनीं च पूजयेत् ॥
मुखावलोकनं चाज्ये कुर्वीयातां च दम्पती ॥ ५४ ॥
परस्परं हि कुर्वीत उत्पातपरिशान्तये ॥
एवं विधं मयाख्यातं मातङ्गीपूजनं शुभम् ॥ ५५ ॥
न पूजयति यो मूढस्तस्य विप्रं करोति सा ॥
दम्पत्योर्मरणं चाथ धननाशं महाभयम् ॥ ५६ ॥
क्लेशं रोगं तथा वह्नेः प्रादुर्भावं प्रपश्यति ॥
एतस्मात्कारणाद्विप्रा मातङ्गीं पूजयेत्सुधीः ॥ ५७ ॥
दम्पतीनां च सर्वेषां द्विजातीनां च शासने ॥
वणिजां च महादेवी निर्विघ्नं कुरुते सदा ॥ ५८ ॥
तथेति चैव तैरुक्ते पुनर्वचनमब्रवीत् ॥
श्रूयतां ब्राह्मणाः सर्वे विवाहादिमहोत्सवम् ॥ ५९ ॥
मदीयवचनं श्रुत्वा तथा कुरुत वै विधिम् ॥
विवाहकाले सम्प्राप्ते दम्पत्योः सौख्यहेतवे ॥3.2.18.१६०॥
निर्विघ्नार्थं तु कर्तव्यं निजैश्च सह सेवकैः ॥
अञ्जनं नयने कुर्यात्सं बन्धिनां व सर्वशः ॥ ६१ ॥
भ्रूमध्यात्तु प्रकर्त्तव्यमर्द्धचन्द्रसमाकृति ॥
बिन्दुं तु कारयेद्विप्रास्तस्योपरि मनोहरम् ॥ ६२ ॥
एवं कृते तदा विप्राः शान्तिर्भवति नान्यथा ॥
पुत्रवृद्धिकरं चैतत्तिलकं चार्द्धबिम्बकम् ॥
सर्वविघ्नहरं सर्वदौःस्थ्यव्याधिविनाशनम् ॥ ६३ ॥
॥ व्यास उवाच ॥ ॥
ततः शान्ताः प्रजाः सर्वा धर्मारण्ये नराधिप ॥
प्रसादाच्चैव मातङ्ग्या देव्या वै सत्यमन्दिरे ॥६४॥
ततो हृष्टहृदा विप्राः पुपूजुस्ते विधेः सुताम् ॥
मातङ्ग्याश्च प्रकर्त्तव्यं वर्षेवर्षे च पूजनम् ॥ ६५ ॥
माघासिते तृतीयायां भक्ष्यभोज्यादिभिस्तथा ॥
कर्णाटस्य तथोत्पत्तिः पुनर्जाता तु भूतले ॥ ६६ ॥
भयाच्चैव हि तत्स्थानं त्यक्त्वा याम्यमगात्ततः ॥
गच्छमानस्तदा दैत्यो यक्ष्मरूपो ह्यभाषत ॥६७॥
श्रूयतां भो द्विजाः सर्वे धर्मारण्यनिवासिनः ॥
वणिजश्च महच्चेदं मद्वाक्यं परिपाल्यताम् ॥ ६८ ॥
माघमासे हि मत्प्रीत्या निर्विघ्नार्थं सदा भुवि ॥
त्रिदलेन च धान्येन मूलकेन विशेषतः ॥ ६९ ॥
तिल तैलेन वा कुर्यात्पुरुषो नियतव्रतः ॥
एकाशनं हि कुरुते यक्ष्मप्रीत्यै निरन्तरम् ॥ 3.2.18.१७० ॥
आबालयौवनेनैव वृद्धेनापीह सर्वदा ॥
वर्षेवर्षे प्रकर्त्तव्यं यक्ष्मणो व्रतमुत्तमम् ॥ ७१ ॥
यस्मिन्गृहे हि यावच्च पुरुषाकाररूपिणः ॥
तस्याह्वयं प्रकुर्युस्त एकभक्तरताः सदा ॥ ७२ ॥
बालस्यार्थे तु जननी कुरुते व्रतमुत्तमम् ॥
पिता वाप्यथवा भ्राता यन्निमित्तं व्रतं चरेत् ॥ ७३ ॥
न च तस्य भयं क्वापि न व्याधिर्न च बन्धनम् ॥
भर्तुर्निमित्ते स्त्री कुर्यादशक्ते त्वितरेण च ॥ ७४ ॥
एवं समादिशन्दैत्यः सत्यमन्दिरमुत्सृजन् ॥
गतोऽसौ याम्यदिग्भाग उदधेस्तीर उत्तमे ॥ ७५ ॥
विपुलं देह मासाद्य कर्णाटः स नराधिप ॥
स्वनाम्ना चैव तं देशं स्थापयामास चोत्तमम् ॥७६॥
यस्मिंश्च सर्ववस्तूनि धनधान्यानि भूरिशः ॥
कर्णाटदेशं तं राजन्परिवार्य चिरं स्थितः ॥७७॥
धर्मारण्यकथां पुण्यां कथितां नरसत्तम ॥
श्रीमातुश्चैव माहात्म्यं शृण्वन्ति श्रावयन्ति ये ॥ ७८ ॥
तेषां कुले कदा चित्तु अरिष्टं नैव जायते ॥
अपुत्रो लभते पुत्रान्धनहीनस्तु सम्पदः ॥
आयुरारोग्यमैश्वर्यं श्रीमातुश्च प्रसादतः ॥ १७९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये मातङ्गीकर्णाटकोपाख्यानवर्णनन्नामाष्टादशोऽध्यायः ॥ १८ ॥ छ ॥