॥ युधिष्ठिर उवाच ॥ ॥
रक्षसां चैव दैत्यानां यक्षणामथ पक्षिणाम् ॥
भयनाशाय काजेशैर्धर्मारण्यनिवासिनाम् ॥ १ ॥
शक्तीः संस्थापिता नृनं नानारूपा ह्यनेकशः ॥
तासां स्थानानि नामा नि यथारूपाणि मे वद ॥ २ ॥
॥ व्यास उवाच ॥ ॥
शृणु पार्थ महाबाहो धर्ममूर्ते नृपोत्तम ॥
स्थाने वै स्थापिता शक्तिः काजेशैश्चैव गोत्रपा ॥ ३ ॥
श्रीमाता मदारिकायां शान्ता नन्दापुरे वरे ॥
रक्षार्थं द्विजमुख्यानां चतुर्दिक्षु स्थिताश्च ताः ॥ ॥ ४ ॥
युक्ताश्चैव सुरैः सर्वैः स्वस्वस्थाने नृपोत्तम ॥
वनमध्ये स्थिताः सर्वा द्विजानां रक्षणाय वै ॥ ५ ॥
सा बभूव महाराज सावित्रीति प्रथा शिवा ॥
असुराणां वधार्थाय ज्ञानजा स्थापिता सुरैः ॥ ६ ॥
गात्रायी? पक्षिणी देवी छत्रजा द्वारवासिनी ॥
शीहोरी चूटसञ्ज्ञा या पिप्पलाशापुरी तथा ॥
अन्याश्च बहवश्चैव स्थापिता भयरक्षणे ॥ ७ ॥
प्रतीच्योदीच्यां याम्यां वै विबुधैः स्थापिता हि सा ॥
नानायुधधरा सा च नानाभरणभूषिता ॥ ८ ॥
नानावाहनमारूढा नानारूपधरा च सा ॥
नानाकोपसमायुक्ता नानाभयविना शिनी ॥ ९ ॥
स्थाप्या मातर्यथास्थाने यथायोग्या दिशोदिश ॥
गरुडेन समारूढा त्रिशूलवरधारिणी ॥ 3.2.16.१० ॥
सिंहारूढा शुद्धरूपा वारुणी पानदर्पिता ॥
खड्गखेटकबाणाढ्यैः करैर्भाति शुभानना ॥ ११ ॥
रक्तवस्त्रावृता चैव पीनोन्नतपयोधरा ॥
उद्यदादित्यबिम्बाभा मदाघूर्णितलोचना ॥ ॥ १२ ॥
एवमेषा महादिव्या काजेशैः स्थापिता तदा ॥
रक्षार्थं सर्वजन्तूनां सत्यमन्दिरवासिनाम् ॥ १३ ॥
सा देवी नृपशार्दूल स्तुता सम्पूजिता सह ॥
ददाति सकलान्कामान्वाञ्छितान्नृपमत्तम ॥ १४ ॥
धर्मारण्यात्पश्चिमतः स्थापिता छत्रजा शुभा ॥
तत्रस्था रक्षते विप्रान्कियच्छक्तिसम न्विता ॥ १५ ॥
भैरवं रूपमास्थाय राक्षसानां वधाय च ॥
धारयन्त्यायुधानीत्थं विप्राणामभयाय च ॥ १६ ॥
सरश्चकार तस्याग्रे उत्तमं जल पूरितम् ॥
सरस्यस्मिन्महाभाग कृत्वा स्नानादितर्पणम् ॥ १७ ॥
पिण्डदानादिकं सर्वमक्षयं चैव जायते ॥
भूमौ क्षिप्ताञ्जलीन्दिव्यान्धूपदीपादिकं सदा ॥ १८ ॥
तस्य नो बाधते व्याधिः शत्रूणां नाश एव च ॥
बलिदानादिकं तत्र कुर्याद्भूयः स्वशक्तितः ॥ १९ ॥
शत्रवो नाशमायान्ति धनं धान्यं विवर्धते ॥
आनन्दा स्थापिता राजञ्छक्त्यंशा च मनोरमा ॥ 3.2.16.२० ॥
रक्षणार्थं द्विजातीनां माहात्म्यं शृणु भूपते ॥
शुक्लाम्बरधरा दिव्या हेमभूषणभूषिता ॥ २१ ॥
सिंहारूढा चतुर्हस्ता शशाङ्ककृतशेखरा ॥
मुक्ताहारलतोपेता पीतोन्नतपयोधरा ॥ २२ ॥
अक्षमालासिहस्ता च गुण तोमरधारिणी ॥
दिव्यगन्धवराधारा दिव्यमालाविभूषिता ॥ २३ ॥
सात्त्विकी शक्तिरानन्दा स्थिता तस्मिन्पुरे पुरा ॥
पूजयेत्तां च वै राजन्कर्पूरारक्त चन्दनैः ॥ २४ ॥
भोजयेत्पायसैः शुभ्रैर्मध्वाज्यसितया सह ॥
भवान्याः प्रीतये राजन्कुमार्याः पूजनं तथा ॥ २५ ॥
तत्र जप्तं हुतं दत्तं ध्यातं च नृपसत्तम ॥
तत्सर्वं चाक्षयं तत्र जायते नात्र संशयः ॥ २६ ॥
त्रिगुणे त्रिगुणा वृद्धिस्तस्मिन्स्थाने नृपोत्तम ॥
साधकस्य भवेन्नूनं धनदारादिसं पदः ॥ २७ ॥
न हानिर्न च रोगश्च न शत्रुर्न च दुष्कृतम् ॥
गावस्तस्य विवर्द्धन्ते धनधान्यादिसङ्कुलम् ॥ २८ ॥
न शाकिन्या भयं तस्य न च राज्ञश्च वैरिणः ॥
न च व्याधिभयं चैव सर्वत्र विजयी भवेत् ॥ २९ ॥
विद्याश्चतुर्द्दशास्यैव भासन्ते पठिता इव ॥
सूर्यवद्द्योतते भूमावानन्दमा श्रितो नरः ॥ 3.2.16.३० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्य आनन्दास्थापनवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥