०१५ हयग्रीवस्याख्यानवर्णनम्

॥ व्यास उवाच ॥ ॥
न पश्यन्ति तदा शीर्षं ब्रह्माद्यास्तु सुरास्तदा ॥
किं कुर्म इति हेत्युक्त्वा ज्ञानिनस्ते व्यचिन्तयन् ॥ १ ॥
उवाच विश्वकर्माणं तदा ब्रह्मा सुरान्वितः ॥२॥
॥ ब्रह्मोवाच ॥ ॥
विश्वकर्मस्त्वमेवासि कार्यकर्ता सदा विभो ॥
शीघ्रमेव कुरु त्वं वै वक्त्रं सान्द्रं च धन्विनः ॥ ३ ॥
नमस्कृत्य तदा तस्मै स्तुतोऽसौ देववर्द्धकिः ॥
उवाच परया भक्त्या ब्रह्माणं कमलोद्भवम् ॥ ३ ॥
यज्ञकार्यं निवृत्याशु वदन्ति विविधाः सुराः ॥ ४ ॥
यज्ञभागविहीनं मां किं पुनर्वच्मि ते ऽग्रतः ॥
यज्ञभागमहं देव लभेयैवं सुरैः सह ॥ ५ ॥
॥ ब्रह्मोवाच ॥ ॥
दास्यामि सर्वयज्ञेषु विभागं सुरवर्द्धके ॥
सोमे त्वं प्रथमं वीर पूज्यसे श्रुतिकोविदैः ॥ ६ ॥
तद्विष्णोश्च शिरस्तावत्सन्धत्स्वामरवर्द्धक ॥
विश्वकर्माब्रवीद्देवानानयध्वं शिरस्त्विति ॥ ७ ॥
तन्नास्तीति सुराः सर्वे वदन्ति नृपसत्तम ॥
मध्याह्ने तु समुद्भूते रथस्थो दिवि चांशुमान् ॥ ८ ॥
दृष्टं तदा सुरैः सर्वै रथादश्वमथानयन् ॥
छित्त्वा शीर्षं महीपाल कबन्धाद्वाजिनो हरेः ॥ ९ ॥
कबन्धे योजयामास विश्वकर्मातिचातुरः ॥
दृष्ट्वा तं देवदेवेशं सुराः स्तुतिमकुर्वत ॥ 3.2.15.१० ॥
॥ देवा ऊचुः ॥ ॥
नमस्तेऽस्तु जगद्बीज नमस्ते कमलापते ॥
नमस्तेऽस्तु सुरेशान नमस्ते कमलेक्षण ॥ ११ ॥
त्वं स्थितिः सर्वभूतानां त्वमेव शरणं सताम् ॥
त्वं हन्ता सर्वदुष्टानां हयग्रीव नमोऽस्तु ते ॥ १२ ॥
त्वमोङ्कारो वषट्कारः स्वाहा स्वधा चतुर्विधा ॥
आद्यस्त्वं च सुरेशान त्वमेव शरणं सदा ॥ १३ ॥
यज्ञो यज्ञपतिर्यज्वा द्रव्यं होता हुतस्तथा ॥
त्वदर्थं हूयते देव त्वमेव शरणं सखा ॥ १४ ॥
कालः करालरूपस्त्वं त्वं वार्क्कः शीतदीधितिः ॥
त्वमग्निर्वरुणश्चैव त्वं च कालक्षयङ्करः ॥ १५ ॥
गुणत्रयं त्वमेवेह गुणहीनस्त्वमेव हि ॥
गुणानामालयस्त्वं च गोप्ता सर्वेषु जन्तुषु ॥ १६ ॥
स्त्रीपुंसोश्च द्विधा त्वं च पशुपक्ष्यादिमानवैः ॥
चतुर्विधं कुलं त्वं हि चतुराशीतिलक्षणः ॥ १७ ॥
दिनान्तश्चैव पक्षान्तो मासान्तो हायनं युगम् ॥
कल्पान्तश्च महान्तश्च कालान्तस्त्वं च वै हरे ॥ १८ ॥
एवंविधैर्महादिव्यैः स्तूयमानः सुरैर्नृप ॥
सन्तुष्टः प्राह सर्वेषां देवानां पुरतः प्रभुः ॥ १९ ॥
॥ श्रीभगवानुवाच ॥
किमर्थमिह सम्प्राप्ताः सर्वे देवगणा भुवि ॥
किमेतत्कारणं देवाः कि नु दैत्यप्रपीडिताः ॥ 3.2.15.२० ॥
॥ देवा ऊचुः ॥ ॥
न दैत्यस्य भयं जातं यज्ञ कर्मोत्सुका वयम् ॥
त्वद्दर्शनपराः सर्वे पश्यामो वै दिशो दश ॥ २१ ॥
त्वन्मायामोहिताः सर्वे व्यग्रचित्ता भयातुराः ॥
योगारूढस्वरूपं च दृष्टं तेऽस्माभिरुत्तमम्॥ २२ ॥
वम्री च नोदितास्माभिर्जागराय तवेश्वर ॥
ततश्चापूर्वमभवच्छिरश्छिन्नं बभूव ते ॥ २३ ॥
सूर्याश्वशीर्षमानीय विश्व कर्मातिचातुरः ॥
समधत्त शिरो विष्णो हयग्रीवोऽस्यतः प्रभो ॥ २४ ॥
॥ विष्णुरुवाच ॥ ॥
तुष्टोऽहं नाकिनः सर्वे ददाम्रि वरमीप्सितम् ॥
हयग्रीवोऽस्म्यहं जातो देवदेवो जगत्पतिः ॥ २५ ॥
न रौद्रं न विरूपं च सुरैरपि च सेवितम् ॥
जातोऽहं वरदो देवा हयाननेति तोषितः ॥ २६ ॥ ॥
॥ व्यास उवाच ॥ ॥
कृते सत्रे ततो वेधा धीमान्सन्तुष्टचेतसा ॥
यज्ञभागं ततो दत्त्वा वम्रीभ्यो विश्वकर्मणे ॥ २७ ॥
यज्ञान्ते च सुरश्रेष्ठं नमस्कृत्य दिवं ययौ ॥
एतच्च कारणं विद्धि हयाननो यतो हरिः ॥ २८ ॥
॥ युधिष्ठिर उवाच ॥ ॥
येनाक्रान्ता मही सर्वा क्रमेणैकेन तत्त्वतः ॥
विवरे विवरे रोम्णां वर्तन्ते च पृथक्पृथक् ॥२९॥
ब्रह्माण्डानि सहस्राणि दृश्यन्ते च महाद्युते ॥
न वेत्ति वेदो यत्पारं शीर्षघातो हि वै कथम् ॥ 3.2.15.३० ॥ ॥
॥ व्यास उवाच ॥ ॥
शृणु त्वं पाण्डवश्रेष्ठ कथां पौराणिकीं शुभाम् ॥
ईश्वरस्य चरित्रं हि नैव वेत्ति चराचरे ॥३१॥
एकदा ब्रह्मसभायां गता देवाः सवासवाः॥
भूर्लोकाद्याश्च सर्वे हि स्थावराणि चराणि च॥३२॥
देवा ब्रह्मर्षयः सर्वे नमस्कर्तुं पितामहम् ॥
विष्णुरप्यागतस्तत्र सभायां मन्त्रकारणात् ॥३३॥
ब्रह्मा चापि विगर्विष्ठ उवाचेदं वचस्तदा ॥
भोभो देवाः शृणुध्वं कस्त्रयाणां कारणं महत् ॥३४॥
सत्यं ब्रुवन्तु वै देवा ब्रह्मेशविष्णुमध्यतः ॥
तां वाचं च समाकर्ण्य देवा विस्मयमागताः॥३५॥
ऊचुश्चैव ततो देवा न जानीमो वयं सुराः ॥
ब्रह्मपत्नी तदोवाच विष्णुं प्रति सुरेश्वरम् ॥
त्रयाणामपि देवानां महान्तं च वदस्व मे ॥ ३६ ॥
॥ विष्णुरुवाच ॥ ॥
विष्णुमायाबलेनैव मोहितं भुवनत्रयम् ॥
ततो ब्रह्मोवाच चेदं न त्वं जानासि भो विभोः ॥ ३७ ॥
नैव मुह्यति ते मायाबलेन नैवमेव च ॥
गर्वहिंसापरो देवो जगद्भर्ता जगत्प्रभुः ॥३८॥
ज्येष्ठं त्वां न विदुः सर्वे विष्णुमायावृताः खिलाः ॥
ततो ब्रह्मा स रोषेण क्रुद्धः प्रस्फुरिताननः ॥ ३९ ॥
उवाच वचनं कोपाद्धे विष्णो शृणु मे वचः ॥
येन वक्त्रेण सभायां वचनं समुदीरितम् ॥ 3.2.15.४० ॥
तच्छीर्षं पततादाशु चाल्पकालेन वै पुनः ॥
ततो हाहाकृतं सर्वं सेन्द्राः सर्षिपुरोगमाः ॥ ४१ ॥
ब्रह्माणं क्षमयामासुर्विष्णुं प्रति सुरोत्तमाः ॥
विष्णुश्च तद्वचः श्रुत्वा सत्यंसत्यं भविष्यति ॥ ४२ ॥
ततो विष्णुर्महातेजास्तीर्थस्योत्पादनेन च ॥
तपस्तेपे तु वै तत्र धर्मारण्ये सुरेश्वरः ॥
अश्वशीर्ष मुखं दृष्ट्वा हयग्रीवो जनार्द्दनः ॥ ४३ ॥
तपस्तेपे महाभाग विधिना सह भारत ॥
न शक्यं केनचित्कर्त्तुमात्मनात्मैव तुष्टवान् ॥ ४४ ॥
ब्रह्मापि तपसा युक्तस्तेपे वर्षशतत्रयम् ॥
तिष्ठन्नेव पुरो विष्णोर्विष्णुमायाविमोहितः ॥ ४५ ॥
यज्ञार्थमवदत्तुष्टो देवदेवो जगत्पतिः ॥
ब्रह्मंस्ते मुक्तताद्यास्ति मम मायाप्यदुःसहा ॥ ४६ ॥
ततो लब्धवरो ब्रह्मा हृष्टचित्तो जनार्द्दनः ॥
उवाच मधुरां वाचं सर्वेषां हितकारणात् ॥ ४७ ॥
अत्राभवन्महाक्षेत्रं पुण्यं पापप्रणाशनम् ॥
विधिविष्णुमयं चैतद्भवत्वेतन्न संशयः ॥ ४८ ॥
तीर्थस्य महिमा राजन्हयशीर्षस्तदा हरिः ॥
शुभाननो हि सञ्जातः पूर्वेणैवा ननेन तु ॥ ४९ ॥
कन्दर्पकोटिलावण्यो जातः कृष्णस्तदा नृप ॥
ब्रह्मापि तपसा युक्तो दिव्यं वर्षशतत्रयम् ॥ 3.2.15.५० ॥
सावित्र्या च कृतं यत्र विष्णुमाया न बाधते ॥
मायया तु कृतं शीर्षं पञ्चमं शार्दुलस्य वा ॥ ५१ ॥
धर्मारण्ये कृतं रम्यं हरेण च्छेदितं पुरा ॥
तस्मै दत्त्वा वरं विष्णुर्जगामादर्शनं ततः ॥ ५२ ॥
स्थापयित्वा विधिस्तत्र तीर्थं चैव त्रिलोचनम् ॥
मुक्तेशं नाम देवस्य मोक्षतीर्थमरिन्दम ॥ ५३ ॥
गतः सोऽपि सुरश्रेष्ठः स्वस्थानं सुरसेवितम् ॥
तत्र प्रेता दिवं यान्ति तर्पणेन प्रतर्पिताः ॥ ५४ ॥
अश्वमेधफलं स्नाने पाने गोदानजं फलम् ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ॥ ५५ ॥
स्नानार्थमत्रागच्छन्ति देवताः पितरस्तथा ॥
कार्त्तिक्यां कृत्तिकायोगे मुक्तेशं पूजयेत्तु यः ॥ ५६ ॥
स्नात्वा देवसरे रम्ये नत्वा देवं जनार्द्दनम् ॥
यः करोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५७ ॥
भुक्त्वा भोगा न्यथाकामं विष्णुलोकं स गच्छति ॥
अपुत्रा काकवन्ध्या च मृतवत्सा मृतप्रजा ॥ ५८ ॥
एकाम्बरेण सुस्नातौ पतिपत्न्यौ यथाविधि ॥
तद्दोषं नाशयेन्नूनं प्रजाप्तिप्रतिबन्धकम् ॥ ५९ ॥
मोक्षेश्वरप्रसादेन पुत्रपौत्रादि वर्द्धयेत् ॥
दद्याद्वैकेन चित्तेन फलानि सत्यसंयुता ॥ ॥ 3.2.15.६० ॥
निधाय वंशपात्रेऽपि नारी दोषात्प्रमुच्यते ॥
प्राप्नुवन्ति च देवाश्च अग्निष्टोमफलं नृप ॥ ६१ ॥
वेधा हरिर्हरश्चैव तप्यन्ते परमं तपः ॥
धर्मारण्ये त्रिसन्ध्यं च स्नात्वा देवसरस्यथ ॥ ६२ ॥
तत्र मोक्षेश्वरः शम्भुः स्थापितो वै ततः सुरैः ॥
तत्र साङ्गं जपं कृत्वा न भूयः स्तनपो भवेत् ॥ ६३ ॥
एवं क्षेत्रं महाराज प्रसिद्धं भुवनत्रये ॥
यस्तत्र कुरुते श्राद्धं पितॄणां श्रद्धयान्वितः ॥ ६४ ॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम् ॥
देवसरो महारम्यं नानापुष्पैः समन्वितम् ॥
श्यामं सकलकल्हारैर्विविधैर्जलजन्तुभिः ॥ ६५ ॥
ब्रह्मविष्णुमहेशाद्यैः सेवितं सुरमानुषैः ॥
सिद्धैर्यक्षैश्च मुनिभिः सेवितं सर्वतः शुभम् ॥ ६६ ॥
॥ युधिष्ठिर उवाच ॥ ॥
कीदृशं तत्सरः ख्यातं तस्मि न्स्थाने द्विजोत्तम ॥
तस्य रूपं प्रकारं च कथयस्व यथातथम् ॥ ६७ ॥
॥ व्यास उवाच ॥ ॥
साधुसाधु महाप्राज्ञ धर्मपुत्र युधिष्ठिर ॥
यस्य सङ्कीर्तनान्नूनं सर्वपापैः प्रमुच्यते ॥ ६८ ॥
अतिस्वछतरं शीतं गङ्गोदकसमप्रभम् ॥
पवित्रं मधुरं स्वादु जलं तस्य नृपोत्तम ॥ ६९ ॥
महाविशालं गम्भीरं देवखातं मनोरमम् ॥
लहर्यादिभिर्गम्भीरः फेनावर्तसमाकुलम्॥ 3.2.15.७० ॥
झषमण्डूककमठैर्मकरैश्च समाकुलम् ॥
शङ्खशुक्त्यादि भिर्युक्तं राजहंसैः सुशोभितम् ॥ ७१ ॥
वटप्लक्षैः समायुक्तमश्वत्थाम्रैश्च वेष्टितम् ॥
चक्रवाकसमोपतं बकसारसटिट्टिभैः ॥ ७२ ॥
कमनीय प्रगन्धाच्छच्छत्रपत्रैः सुशोभितम् ॥
सेव्यमानं द्विजैः सर्वैः सारसाद्यैः सुशोभितम् ॥ ७३ ॥
सदेवैर्मुनिभिश्चैव विप्रैर्मत्यैश्च भूमिप ॥
सेवितं दुःखहं चैव सर्वपापप्रणाशनम् ॥ ७४ ॥
अनादिनिधनोदन्तं सेवितं सिद्धमण्डलैः ॥
स्नानादिभिः सर्वदैव तत्सरो नृपसत्तम ॥ ७५ ॥
विधिना कुरुते यस्तु नीलोत्सर्गं च तत्तटे ॥
प्रेता नैव कुले तस्य यावदिन्द्राश्चतुर्दश ॥ ७६ ॥
कन्यादानं च ये कुर्युर्विधिना तत्र भूपते ॥
ते तिष्ठन्ति ब्रह्मलोके यावदाभूतसम्प्लवम् ॥ ७७ ॥
महिषीं गृहदासीं च सुरभीं सुतसंयुताम् ॥
हेम विद्यां तथा भूमिं रथांश्च गजवाससी ॥ ७८ ॥
ददाति श्रद्धया तत्र सोऽक्षयं स्वर्गमश्नुते ॥
देवखातस्य माहात्म्यं यः पठेच्छिवसन्निधौ ॥
दीर्घमायुस्तथा सौख्यं लभते नात्र संशयः ॥ ७९ ॥
यः शृणोति नरो भक्त्या नारी वा त्विदमद्भुतम् ॥
कुले तस्य भवेच्छ्रेयः कल्पान्तेऽपि युधिष्ठिर ॥ 3.2.15.८० ॥
एतत्सर्वं मयाख्यातं हयग्रीवस्य कारणम् ॥
प्रभास्तस्य तीर्थस्य सर्वपापायनुत्तये ॥ ८१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्य माहात्म्ये हयग्रीवस्याख्यानवर्णनन्नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ छ ॥