युधिष्ठिर उवाच ॥ ॥
कृपासिन्धो महाभाग सर्वव्यापिन्सुरेश्वर ॥
कदा ह्यत्र तपस्तप्तं विष्णुनामिततेजसा ॥ १ ॥
स्कन्दाय कथितं चैव शर्वेण च महात्मना ॥
आनुपूर्व्येण सर्वं हि कथयस्व त्वमेव हि ॥ २ ॥
॥ व्यास उवाच ॥ ॥
शृणु वत्स प्रवक्ष्यामि धर्म्मारण्ये नृपोत्तम ॥
एकदात्र तपस्तप्तं विष्णुनाऽमिततेजसा ॥ ॥ ३ ॥
॥ स्कन्द उवाच ॥ ॥
कथं देवसरोनाम पम्पा चम्पा गया तथा ॥
वाराणस्यधिका चैव कथमश्वमुखो हरिः ॥ ४ ॥
॥ ईश्वर उवाच ॥ ॥
अत्र नारायणो देवस्तपस्तेपे सुदुष्करम् ॥
दिव्यवर्षशतं त्रीणि जातः सुष्ठ्वाननश्च सः ॥ ५ ॥
तपस्तेपे महाविष्णुः सुरूपार्थं च पुत्रक ॥
वाजिमुखो हरिस्तत्र सिद्धस्थाने महाद्युते ॥ ६ ॥
॥ स्कन्द उवाच ॥ ॥
कारणं ब्रूहि नोद्य त्वमश्वाननः कथं हरिः ॥
महारिपोश्च हन्ता च देवदेवो जगत्पतिः ॥ ॥ ७ ॥
यस्य नाम्ना महाभाग पातकानि बहून्यपि ॥
विलीयन्ते तु वेगेन तमः सूर्योदये यथा ॥ ८ ॥
श्रूयन्ते यस्य कर्माणि अद्भुतान्यद्भुतानि वै ॥
सर्वेषामेव जीवानां कारणं परमेश्वरः ॥ ९ ॥
प्राणरूपेण यो देवो हयरूपः कधं भवेत् ॥
सर्वेषामपि तन्त्राणामेकरूपः प्रकीर्तितः ॥ 3.2.14.१० ॥
भक्तिगम्यो धर्मभाजां सुखरूपः सदा शुचिः ॥
गुणातीतोऽपि नित्योऽसौ सर्वगो निर्गुणस्तथा ॥ ११ ॥
स्रष्टासौ पालको हन्ता अव्यक्तः सर्वदेहिनाम् ॥
अनुकूलो महातेजाः कस्मादश्वमुखोऽभवत् ॥ १२ ॥
यस्य रोमोद्भवा देवा वृक्षाद्याः पन्नगा नगाः ॥
कल्पेकल्पे जगत्सर्वं जायते यस्य देहतः ॥ ॥ १३ ॥
स एव विश्वप्रभवः स एवात्यन्तकारणम् ॥
येनानीताः पुनर्विद्या यज्ञाश्च प्रलयं गताः ॥१४॥
घातितो दुष्टदैत्योऽसौ वेदार्थं कृत उद्यमः ॥
एवमासीन्महाविष्णुः कथमश्वमुखोऽभवत् ॥ १५ ॥
रत्नगर्भा धृता येन पृष्ठदेशे च लीलया ॥
कृत्या व्यवस्थितं सर्वं जगत्स्थावरजङ्गमम् ॥ ॥ १६ ॥
स देवो विश्वरूपो वै कथं वाजिमुखोऽभवत् ॥
हिरण्याक्षस्य हन्ता यो रूपं कृत्वा वराहजम् ॥ १७ ॥
सुपवित्रं महातेजाः प्रविश्य जलसा गरे ॥
उद्धृता च मही सर्वा ससागरमहीधरा ॥ १८ ॥
उद्धृता च मही नूनं दंष्ट्राग्रे येन लीलया ॥
कृत्वा रूपं वराहं च कपिलं शोकनाशनम् ॥ ॥ १९ ॥
स देवः कथमीशानो हयग्रीवत्वमागतः ॥
प्रह्लादार्थे स चेशानो रूपं कृत्वा भयावहम् ॥ 3.2.14.२० ॥
नारसिंहं महादेवं सर्वदुष्टनिवारणम् ॥
पर्वताग्निसमुद्रस्थं ररक्ष भक्तसत्तमम् ॥ २१ ॥
हिरण्यकशिपुं दुष्टं जघान रजनीमुखे ॥
इन्द्रासने च संस्थाप्य प्रह्लादस्य सुखप्रदम् ॥ २२ ॥
प्रह्लादार्थे च वै नूनं नृसिंहत्वमुपागतः ॥
विरोचनसुतस्याग्रे याचकोऽसौ भवेत्तदा ॥ २३ ॥
यज्ञे चैवाश्वमेधे वै बलिना यः समर्चितः ॥
हृता वसुमती तस्य त्रिपदीकृतरोदसी ॥ २४ ॥
विश्वरूपेण वै येन पाताले क्षपितो बलिः ॥
त्रिःसप्तवारं येनैव क्षत्रियानवनीतले ॥ २५ ॥
हत्वाऽददाच्च विप्रेभ्यो महीमतिमहौजसा ॥
घातितो हैहयो राजा येनैव जननी हता ॥ २६ ॥
येन वै शिशुनोर्व्यां हि घातिता दुष्टचारिणी ॥
राक्षसी ताडका नाम्नी कौशिकस्य प्रसादतः ॥ २७ ॥
विश्वामित्रस्य यज्ञे तु येन लीलानृदेहिना ॥
चतुर्दशसहस्राणि घातिता राक्षसा वलात् ॥ २८ ॥
हता शूर्पणखा येन त्रिशिराश्च निपातितः ॥
सुग्रीवं वालिनं हत्वा सुग्रीवेण सहायवान् ॥ २९ ॥
कृत्वा सेतुं समुद्रस्य रणे हत्वा दशाननम् ॥
धर्म्मारण्यं समासाद्य ब्राह्मणानन्वपूजयत् ॥ 3.2.14.३० ॥
शासनं द्विजवर्येभ्यो दत्त्वा ग्रामान्बहूंस्तथा ॥
स्नात्वा चैव धर्म्मवाप्यां सुदानान्यददाद्गवाम् ॥ ३१ ॥
साधूनां पालनं कृत्वा निग्रहाय दुरात्मनाम् ॥
एवमन्यानि कर्म्माणि श्रुतानि च धरातले ॥३२॥
स देवो लीलया कृत्वा कथं चाश्वमुखोऽभवत् ॥
यो जातो यादवे वंशे पूतनाशकटादिकम् ॥ ३३ ॥
अरिष्टदैत्यः केशी च वृकासुरबकासुरौ ॥
शकटासुरो महासुर स्तृणावर्तश्च धेनुकः ॥ ३४ ॥
मल्लश्चैव तथा कंसो जरासन्धस्तथैव च ॥
कालयवनस्य हन्ता च कथं वै स हयाननः ॥
तारकासुरं रणे जित्वा अयुतषट्पुरं तथा ॥ ३५ ॥
कन्याश्चोद्वाहिता येन सहस्राणि च षड् दश ॥
अमानुषाणि कृत्वेत्थं कथं सोऽश्वमुखोऽभवत् ॥ ३६ ॥
त्राता यः सर्वभक्तानां हन्ता सर्वदुरात्मनाम् ॥
धर्मस्थापनकृत्सोऽपि कल्किर्विष्णुपदे स्थितः ॥ ३७ ॥
एतद्वै महदाश्चर्य्यं भवता यत्प्रकाशितम् ॥
एतदाचक्ष्व मे सर्वं कारणं त्रिपुरान्तक ॥ ३८ ॥
॥ श्रीरुद्र उवाच ॥ ॥
साधुपृष्टं महाबाहो कारणं तस्य वच्म्यहम् ॥
हयग्रीवस्य कृष्णस्य शृणुष्वे काग्रमानसः ॥ ३९ ॥
॥ व्यास उवाच ॥ ॥
पुरा देवैः समारब्धो यज्ञो नूनं धरातले ॥
वेदमन्त्रैराह्वयितुं सर्वे रुद्रपुरोगमाः ॥3.2.14.४०॥
वैकुण्ठे च गताः सर्वे क्षीराब्धौ च निजालये ॥
पातालेऽपि पुनर्गत्वा न विदुः कृष्णदर्शनम् ॥ ४१ ॥
मोहाविष्टास्ततः सर्वे इतश्चेतश्च धाविताः ॥
नैव दृष्टस्तदा तैस्तु ब्रह्मरूपो जनार्दनः ॥ ४२ ॥
विचारयन्ति ते सर्वे देवा इन्द्रपुरोगमाः ॥
क्व गतोऽसौ महाविष्णुः केनोपायेन दृश्यते ॥ ४३ ॥
प्रणम्य शिरसा देवं वागीशं प्रोचुरादरात् ॥
देवदेव महाविष्णुं कथयस्व प्रसादतः ॥ ४४ ॥
॥ बृहस्पतिरुवाच ॥ ॥
न जाने केन कार्येण योगारूढो महात्मवान् ॥
योगरूपोऽभवद्विष्णुर्योगीशो हरिरच्युतः ॥ ४५ ॥
क्षणं ध्यात्वा स्वमात्मानं धिषणेन ख्यापितो हरिः ॥
तत्र सर्वे गता देवा यत्र देवो जगत्पतिः ॥ ४६ ॥
तदा दृष्टो महाविष्णुर्ध्यानस्थोऽसौ जनार्दनः ॥
ध्यात्वा कृत्यसमाकारं सशरं दैत्यसूदनम् ॥ ४७ ॥
समास्थानं ततो दृष्ट्वा बोधोपायं प्रचक्रमे ॥
आह तांश्च तदा वम्र्यो धनुर्गुणं प्रयत्नतः ॥
छेत्स्यन्ति चेत्तच्छब्देन प्रबुध्येत हरिः स्वयम् ॥ ४८ ॥
॥ देवा ऊचुः ॥ ॥
गुणभक्षं कुरुध्वं वै येनासौ बुध्यते हरिः ॥
क्रत्वर्थिनो वयं वम्र्यः प्रभुं विज्ञापयामहे ॥ ४९ ॥
॥ वम्र्यः ऊचुः ॥ ॥
निद्राभङ्गं कथाच्छेदं दम्पत्योर्मैत्रभेदनम् ॥
शिशुमातृविभेदं वा कुर्वाणो नरकं व्रजेत् ॥ 3.2.14.५० ॥
योगारूढो जगन्नाथः समाधिस्थो महाबलः ॥
तस्य श्रीजगदीशस्य विघ्नं नैव तु कुर्महे ॥ ५१ ॥
॥ ब्रह्मोवाच ॥ ॥
भवतां सर्वभक्षत्वं देवकार्यं क्रियेत चेत् ॥
कर्त्तव्यं च ततो वम्र्यो यज्ञसिद्धिर्यथा भवेत् ॥
वम्रीशा सा तदा वत्स पुनरेवमुवाच ह ॥ ५२ ॥
॥ वम्र्युवाच ॥ ॥
दुःखसाध्यो जगन्नाथो मलयानिलसन्निभः ॥
कथं वा बोध्यतां बह्मन्नस्माभिः सुरपूजितः ॥ ५३ ॥
नैव यज्ञेन मे कार्यं सुरैश्चैव तथैव च ॥
सर्वेषु यज्ञकार्येषु भागं ददतु मे सुराः ॥ ५४ ॥ ॥
॥ देवा ऊचुः ॥ ॥
प्रदास्यामो वयं वम्र्यै भागं यज्ञेषु सर्वदा ॥
यज्ञाय दत्तमस्माभिः कुरुष्वैवं वचो हि नः ॥ ५५ ॥
तथेति विधिनाप्युक्तं वम्री चोद्यममाश्रिता ॥
गुणभक्षादिकं कर्म तया सर्वं कृतं नृप ॥ ५६ ॥
॥ युधिष्ठिर उवाच ॥ ॥
अस्य वा बोधने देवा गुणभङ्गे समाधिषु ॥
एतदाश्चर्यं विप्रर्षे सत्यं सत्यवतीसुत ॥ ५७ ॥
॥ व्यास उवाच ॥ ॥
व्यग्रचित्ताः सुराः सर्वे आकृष्टं हरिकार्मु कम् ॥
न जाने केन कार्येण विष्णुमायाविमोहिताः ॥ ५८ ॥
मुदितास्ताः प्रमुञ्चन्ति वल्मीकं चाग्रतो हरेः ॥
कोटिपार्श्वे ततो नीतं वल्मीकं पर्वतोपमम् ॥ ५९ ॥
गुणे च भक्षिते तस्मिंस्तक्षणादेव दूषिते ॥
ज्याघातकोटिभिः सार्द्धं शीर्षं छित्त्वा दिवं गतम् ॥ 3.2.14.६० ॥
गते शीर्षे च ते देवा भृशमु द्विग्नमानसाः ॥
धावन्ति सर्वतः सर्वे शिरआलोकनाय ते ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्व भागे धर्मारण्यमाहात्म्ये विष्णुशिरोनाशोनाम चतुर्दशोऽध्यायः ॥ १४ ॥ ॥ छ ॥