॥ व्यास उवाच ॥ ॥
शम्भोश्च पश्चिमे भागे स्थापितः कश्यपात्मजः ॥
तत्रास्ति तन्महाभाग रविक्षेत्रं तदुच्यते ॥ १ ॥
तत्रोत्पन्नौ महादिव्यौ रूपयौवनसंयुतौ ॥
नासत्यावश्विनौ देवौ विख्यातौ गदनाशनौ ॥ २ ॥
॥ युधिष्ठिर उवाच ॥ ॥
पितामह महाभाग कथयस्व प्रसादतः ॥
उत्पत्तिरश्विनोश्चैव मृत्युलोके च तत्कथम् ॥ ३ ॥
रविलोकात्कथं सूर्यो धरायामवतारितः ॥
एतत्सर्वं प्रयत्नेन कथयस्व प्रसादतः ॥ ४ ॥
यच्छ्रुत्वा हि महाभाग सर्वपापैः प्रमुच्यते ॥ ५ ॥
॥ व्यास उवाच ॥ ॥
साधु पृष्टं त्वया भूप ऊर्ध्वलोककथानकम् ॥
यच्छ्रुत्वा नरशार्दूल सर्वरोगात्प्रमुच्यते ॥
विश्वकर्म्मसुता सञ्ज्ञा अंशुमद्रविणा वृता ॥ ६ ॥
सूर्यं दृष्ट्वा सदा सञ्ज्ञा स्वाक्षिसंयमनं व्यधात् ॥
यतस्ततः सरोषोऽर्कः सञ्ज्ञां वचनमब्रवीत् ॥ ९७ ॥
॥ सूर्य उवाच ॥ ॥
मयि दृष्टे सदा यस्मात्कुरुषे स्वाक्षिसंयमम् ॥
तस्माज्जनिष्यते मूढे प्रजासंयमनो यमः ॥ ॥ ८ ॥
ततः सा चपलं देवी ददर्श च भयाकुलम् ॥
विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ९ ॥
यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वया धुना ॥
तस्माद्विलोलितां सञ्ज्ञे तनयां प्रसविष्यसि ॥ 3.2.13.१० ॥
॥ व्यास उवाच ॥ ॥
ततस्तस्यास्तु सञ्जज्ञे भर्तृशापेन तेन वै ॥
यमश्च यमुना येयं विख्याता सुमहानदी ॥ ११ ॥
सा च सञ्ज्ञा रवेस्तेजो महद्दुःखेन भामिनी ॥
असहन्तीव सा चित्ते चिन्तयामास वै तदा ॥ १२ ॥
किं करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः ॥
भवेन्मम कथं भर्तुः कोपमर्कस्य नश्यति ॥१३॥
इति सञ्चिन्त्य बहुधा प्रजापतिसुता तदा ॥
साधु मेने महाभागा पितृसंश्रयमापसा ॥१४॥
ततः पितृगृहं गन्तुं कृतबुद्धिर्यशस्विनी ॥
छायामाहूयात्मनस्तु सा देवी दयिता रवेः ॥१५॥
तां चोवाच त्वया स्थेयमत्र भानोर्यथा मया ॥
तथा सम्यगपत्येषु वर्तितव्यं तथा रवौ ॥१६॥
दुष्टमपि न वाच्यं ते यथा बहुमतं मम ॥
सैवास्मि सञ्ज्ञाहमिति वाच्यमेवं त्वयानघे ॥ १७ ॥
॥ छायासञ्ज्ञोवाच ॥ ॥
आकेशग्रहणाच्चाहमाशापाच्च वचस्तथा ॥
करिष्ये कथयिष्यामि यावत्केशापकर्षणा त् ॥ १८ ॥
इत्युक्ता सा तदा देवी जगाम भवनं पितुः ॥
ददर्श तत्र त्वष्टारं तपसा धूतकिल्बिषम् ॥ १९ ॥
बहुमानाच्च तेनापि पूजिता विश्व कर्म्मणा ॥
तत्स्थौ पितृगृहे सा तु किञ्चित्कालमनिन्दिता ॥ 3.2.13.२० ॥
ततः प्राह स धर्मज्ञः पिता नातिचिरोषिताम् ॥
विश्वकर्मा सुतां प्रेम्णा बहुमा नपुरस्सरम् ॥ २१ ॥
त्वां तु मे पश्यतो वत्से दिनानि सुबहून्यपि ॥
मुहूर्तेन समानि स्युः किन्तु धर्मो विलुप्यते ॥ २२ ॥
बान्धवेषु चिरं वासो न नारीणां यशस्करः ॥
मनोरथो बान्धवानां भार्या पितृगृहे स्थिता ॥ २३ ॥
स त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता ॥
पितुर्गृहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ २४ ॥
अतो भर्तृगृहं गच्छ दृष्टोऽहं पूजिता च मे ॥
पुनरागमनं कार्यं दर्शनाय शुभेक्षणे ॥२५ ॥
॥ व्यास उवाच ॥ ॥
इत्युक्ता सा तदा क्षिप्रं तथेत्युक्ता च वै मुने ॥
पूजयित्वा तु पितरं सा जगामोत्तरान्कुरून् ॥ २६ ॥
सूर्यतापमनिच्छती तेजसस्तस्य बिभ्यती ॥
तपश्चचार तत्रापि वडवारूपधारिणी ॥ २७ ॥
सञ्ज्ञामित्येव मन्वानो द्वितीयायां दिवस्पतिः ॥
जनयामास तनयौ कन्यां चैकां मनोरमाम् ॥ २८ ॥
छाया स्वतनयेष्वेव यथा प्रेष्णाध्यवर्तत ॥
तथा न सञ्ज्ञाकन्यायां पुत्रयोश्चाप्यवर्तत ॥
लालनासु च भोज्येषु विशेषमनुवासरम् ॥ २९ ॥
मनुस्तत्क्षान्तवानस्या यमस्तस्या न चाक्षमत् ॥
ताडनाय ततः कोपात्पादस्तेन समुद्यतः ॥
तस्याः पुनः क्षान्तमना न तु देहे न्यपातयत् ॥ 3.2.13.३० ॥
ततः शशाप तं कोपाच्छायासञ्ज्ञा यमं नृप ॥
किञ्चित्प्रस्फुरमाणोष्ठी विचलत्पाणिपल्लवा ॥ ३१ ॥
पत्न्यां पितुर्मयि यदि पादमुद्यच्छसे बलात् ॥
भुवि तस्मादयं पादस्तवाद्यैव भविष्यति ॥ ३२ ॥
इत्याकर्ण्य यमः शापं मातर्यतिविशङ्कितः ॥
अभ्येत्य पितरं प्राह प्रणिपातपुरस्सरम्॥ ३३ ॥
तातैतन्महदाश्चर्यमदृष्टमिति च क्वचित् ॥
माता वात्सल्यरूपेण शापं पुत्रे प्रयच्छति ॥३४॥
यथा माता ममाचष्ट नेयं माता तथा मम ॥
निर्गुणेष्वपि पुत्रेषु न माता निर्गुणा भवेत् ॥ ३५ ॥
यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः ॥
छायासञ्ज्ञामथाहूय पप्रच्छ क्वगतेति च ॥३६॥
सा चाह तनया त्वष्टुरहं सञ्ज्ञा विभावसो ॥
पत्नी तव त्वयापत्यान्येतानि जनितानि मे ॥ ३७ ॥
इत्थं विवस्वतस्तां तु बहुशः पृच्छतो यदा ॥
नाचचक्षे तदा क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ॥ ३८ ॥
ततः सा कथयामास यथावृत्तं विवस्वते ॥
विदितार्थश्च भगवाञ्जगाम त्वष्टु रालयम् ॥ ३९ ॥
ततः सम्पूजयामास त्वष्टा त्रैलोक्यपूजितम् ॥
भास्वन्किं रहिता शक्त्या निजगेहमुपागतः ॥ 3.2.13.४० ॥
सञ्ज्ञां पप्रच्छ तं तस्मै कथयामास तत्त्ववित् ॥
आगता सेह मे वेश्म भवतः प्रेषिता रवे ॥ ४१ ॥
दिवाकरः समाधिस्थो वडवारूपधारिणीम् ॥
तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥ ४२ ॥
असह्यमाना सूर्यस्य तेजस्तेनातिपीडिता ॥
वह्न्याभनिजरूपं तु च्छायारूपं विमुच्य च॥ ४३ ॥
धर्मारण्ये समागत्य तप स्तेपे सुदुष्करम्॥
छायापुत्रं शनिं दृष्ट्वा यमं चान्यं च भूपते ॥ ४४ ॥
तदैव विस्मितः सूर्यो दुष्टपुत्रौ समीक्ष्य च ॥
ज्ञातुं दध्यौ क्षणं ध्यात्वा विदित्वा तच्च कारणम् ॥ ४५ ॥
घृण्यौष्ण्याद्दग्धदेहा सा तपस्तेपे पतिव्रता ॥
येन मां तेजसा सह्यं द्रष्टुं नैव शशाक ह ॥ ४६ ॥
पञ्चाशद्धायनेतीते गत्वा कौ तप आचरत् ॥
प्रद्योतनो विचार्यैवं गत्वा शीघ्रं मनोजवः ॥ ४७ ॥
धर्मारण्ये वरे पुण्ये यत्र सञ्ज्ञास्थिता तपः ॥
आगतं तं रविं दृष्ट्वा वडवा समजायत ॥ ४८ ॥
सूर्यपत्नी सदा सञ्ज्ञा सूर्यश्चाश्वस्ततोऽभवत् ॥
ताभ्यां सहाभूत्संयोगो घ्राणे लिङ्गं निवेश्य च ॥ ४९ ॥
तदा तौ च समुत्पन्नौ युगलावश्विनौ भुवि ॥
प्रादुर्भूतं जलं तत्र दक्षिणेन खुरेण च ॥ 3.2.13.५० ॥
विदलिते भूमिभागे तत्र कुण्डं समुद्बभौ ॥
द्वितीयं तु पुनः कुण्डं पश्चार्धचरणोद्भवम् ॥ ५१ ॥
उत्तरवाहिन्याः काश्या कुरुक्षेत्रादि वै तथा ॥
गङ्गापुरीसमफलं कुण्डेऽत्र मुनिनोदितम् ॥ ५२ ॥
तत्फलं समवाप्नोति तप्तकुण्डे न संशयः ॥
स्नानं विधाय तत्रैव सर्वपापैः प्रमुच्यते ॥ ५३ ॥
न पुनर्जायते देहः कुष्ठादिव्याधिपीडितः ॥
एतत्ते कथितं भूप दस्रांशोत्पत्तिकारणम् ॥ ५४ ॥
तदा ब्रह्मादयो देवा आगतास्तत्र भूपते ॥
दत्त्वा सञ्ज्ञावरं शुभ्रं चिन्तितादधिकं हि तैः ॥ ५५ ॥
स्थापयित्वा रविं तत्र बकुलाख्यवनाधिपम् ॥
आनर्चुस्ते तदा सञ्ज्ञां पूर्वरूपाऽभवत्तदा ॥ ५६ ॥
स्थापिता तत्र राज्ञी च कुमारौ युगलौ तदा ॥
एतत्तीर्थफलं वक्ष्ये शृणु राजन्महामते ॥ ५७ ॥
आदिस्थानं कुरुश्रेष्ठ देवैरपि सुदुर्लभम् ॥
रविकुण्डे नरः स्नात्वा श्रद्धायुक्तो जितेन्द्रियः ॥ ५८ ॥
तारयेत्स पितॄन्सर्वान्महानरकगानपि ॥
श्रद्धया यः पिबेत्तोयं सन्तर्प्य पितृदेवताः ॥ ५९ ॥
स्वल्पं वापि बहुवापि सर्वं कोटिगुणं भवेत् ॥
सप्तम्यां रविवारेण ग्रहणं चन्द्रसूर्ययोः ॥ 3.2.13.६० ॥
रविकुण्डे च ये स्नाताः न ते वै गर्भगामिनः ॥
सक्रान्तौ च व्यतीपाते वैधृतेषु च पर्वसु ॥ ६१ ॥
पूर्णमास्याममावास्यां चतुर्द्दश्यां सितासिते ॥
रविकुण्डे च यः स्नातः क्रतुकोटिफलं लभेत् ॥ ६२ ॥
पूजयेद्बकुलार्कं च एकचित्तेन मानवः ॥
स याति परमं धाम स यावत्तपते रविः ॥ ६३ ॥
तस्य लक्ष्मीः स्थिरा नूनं लभते सन्ततिं सुखम् ॥
अरिवर्गः क्षयं याति प्रसादाच्च दिवस्पतेः ॥ ६४ ॥
नाग्नेर्भयं हि तस्य स्यान्न व्याघ्रान्न च दन्तिनः ॥
न च सर्प्पभयं क्वापि भूतप्रेतादिभीर्नहि ॥ ६५ ॥
बालग्रहाश्च सर्वेऽपि रेवती वृद्धरेवती ॥
ते सर्वे नाशमायान्ति बकुलार्क नमोस्तु ते ॥ ६६ ॥
गावस्तस्य विवर्द्धन्ते धनं धान्यं तथैव च ॥
अविच्छेदो भवेद्वंशो बकुलार्के नमस्कृते ॥ ६७ ॥
काकवन्ध्या च या नारी अनपत्या मृतप्रजा ॥
वन्ध्या विरूपिता चैव विषकन्याश्च याः स्त्रियः ॥ ६८ ॥
एवं दोषैः प्रमुच्यन्ते स्नात्वा कुण्डे च भूपते ॥
सौभाग्यस्त्रीसुतांश्चैव रूपं चाप्नोति सर्वशः ॥ ॥६९॥
व्याधिग्रस्तोपि यो मर्त्यः षण्मासाच्चैव मानवः ॥
रविकुण्डे च सुस्नातः सर्वरोगात्प्रमुच्यते ॥ 3.2.13.७० ॥
नीलोत्सर्गविधिं यस्तु रविक्षेत्रे करोति वै ॥
पितरस्तृप्तिमायान्ति यावदाभूतसम्प्लवम् ॥ ७१ ॥
कन्यादानं च यः कुर्यादस्मिन्क्षेत्रे च पुत्रक ॥
उद्वाहपरिपूतात्मा ब्रह्मलोके महीयते ॥ ७२ ॥
धेनुदानं च शय्यां च विद्रुमं च हयं तथा ॥
दासीमहिषीघण्टाश्च तिलं काञ्चनसंयुतम् ॥ ७३ ॥
धेनुं तिलमयीं दद्यादस्मि न्क्षेत्रे च भारत ॥
उपानहौ च छत्रं च शीतत्राणादिकं तथा ॥ ७४ ॥
लक्षहोमं तथा रुद्रं रुद्रातिरुद्रमेव च ॥
तस्मिन्स्थाने च यत्किञ्चिद्ददाति श्रद्धयान्वितः ॥ ७५ ॥
एकैकस्य फलं तात वक्ष्यामि शृणु तत्त्वतः ॥
दानेन लभते भोगानिह लोके परत्र च ॥ ७६ ॥
राज्यं च लभते मर्त्यः कृत्वोद्वाहं तु मानुषाः ॥
जायातो धर्मकामार्थाः प्राप्यन्ते नात्र संशयः ॥ ७७ ॥
पूजाया लभते सौख्यं भवेज्जन्मनिजन्मनि ॥
सप्तम्यां रवियुक्तायां बकुलार्कं स्मरेत्तु यः ॥ ७८ ॥
ज्वरादेः शत्रुतश्चैव व्याधेस्तस्य भयं नहि ॥७९॥
॥ युधिष्ठिर उवाच ॥ ॥
बकुलार्केति वै नाम कथं जातं रवेर्मुने ॥
एतन्मे वदतां श्रेष्ठ तत्त्वमाख्यातुमर्हसि ॥3.2.13.८०॥
॥ व्यास उवाच ॥ ॥
यदा सञ्ज्ञा च राजेन्द्र सूर्यार्थम्ं चैकचेतसा ॥
तेपे बकुलवृक्षाधः पत्युस्तेजः प्रशां तये ॥८१॥
प्रादुर्भावं रवेर्दृष्ट्वा वडवा समजायत ॥
अत्यन्तं गोपतिः शान्तो बकुलस्य समीपतः ॥८२॥
सुषुवे च तदा राज्ञी सुतौ दिव्यौ मनोहरौ ॥
तेनास्य प्रथितं नाम बकुलार्केति वै रवेः ॥८३॥
यस्तत्र कुरुते स्नानं व्याधिस्तस्य न पीडयेत् ॥
धर्ममर्थं च कामं च लभते नात्र संशयः ॥८४॥
षण्मासात्सिद्धिमाप्नोति मोक्षं च लभते नरः ॥
एतदुक्तं महाराज बकुलार्कस्य वैभवम् ॥ ८५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्योपाख्याने बकुलार्कमाहात्म्यकथनन्नाम त्रयोदशोऽध्यायः ॥ १३ ॥ ॥