॥ व्यास उवाच ॥ ॥
ततो देवैर्नृपश्रेष्ठ रक्षार्थं सत्यमन्दिरम् ॥
स्थापितं तत्तदाद्यैव सत्याभिख्या हि सा पुरी ॥ १ ॥
पूर्वं धर्मेश्वरो देवो दक्षिणेन गणाधिपः ॥
पश्चिमे स्थापितो भानुरुत्तरे च स्वयम्भुवः ॥ २ ॥
॥ युधिष्ठिर उवाच ॥ ॥
गणेशः स्थापितः केन कस्मात्स्थापितवानसौ ॥
किं नामासौ महाभाग तन्मे कथय मा चिरम् ॥ ३ ॥
॥ व्यास उवाच ॥ ॥
अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिकारणम् ॥ ४ ॥
समये मिलिताः सर्वे देवता मातरस्तथा ॥
धर्मारण्ये महाराज स्थापितश्चण्डिकासुतः ॥ ५ ॥
आदौ देवैर्नृपश्रेष्ठ भूमौ वै सत्ययोषिताम् ॥
प्राकारश्चाभवत्तत्र पताकाध्वजशोभितः ॥ ६ ॥
ब्राह्मणायतने तत्र प्राकारमण्डलान्तरे ॥
तन्मध्ये रचितं पीठमिष्टकाभिः सुशोभितम् ॥ ७ ॥
प्रतोल्यश्च चतस्रो वै शुद्धा एव सतोरणाः ॥
पूर्वे धर्मेश्वरो देवो दक्षिणे गणनायकः ॥ ८ ॥
पश्चिमे स्थापितो भानुरुत्तरे च स्वयम्भुवः ॥
धर्मेश्वरोत्पत्तिवृत्तमाख्यातं तत्तवाग्रतः ॥ ९ ॥
अधुनाहं प्रवक्ष्यामि गणेशोत्पत्तिहेतुकम् ॥
कदाचित्पार्वती गात्रोद्वर्त्तनं कृतवत्यभूत् ॥ 3.2.12.१० ॥
मलं तज्जनितं दृष्ट्वा हस्ते धृत्वा स्वगात्रजम् ॥
प्रतिमां च ततः कृत्वा सुरूपं च ददर्श ह ॥ ११ ॥
जीवं तस्यां च सञ्चार्य उदतिष्ठत्तदग्रतः ॥
मातरं स तदोवाच कि करोमि तवाज्ञया ॥ १२ ॥
॥ पार्वत्युवाच ॥ ॥
यावत्स्नानं करिष्यामि तावत्त्वं द्वारि तिष्ठ मे ॥
आयुधानि च सर्वाणि परश्वादीनि यानि तु ॥ १३ ॥
त्वयि तिष्ठति मद्द्वारे कोऽपि विघ्नं करोतु न ॥
एवमुक्तो महादेव्या द्वारेऽतिष्ठत्स सायुधः ॥ १४ ॥
एतस्मिन्नन्तरे देवो महादेवो जगाम ह ॥
आभ्यन्तरे प्रवेष्टुं च मतिं दध्रे महेश्वरः ॥ १९ ॥
द्वारस्थेन गणेशेन प्रवेशोदायि तस्य न ॥
ततः क्रुद्धो महादेवः परस्परमयुध्यत ॥ १६ ॥
युद्धं कृत्वा ततश्चोभौ परस्परवधैषिणौ ॥
परशुं जघ्निवान्देव ललाटे परमे शुभम् ॥ १७ ॥
ततो देवो महादेवः शूलमुद्यम्य चाहनत् ॥
शिरश्चिच्छेद शूलेन तद्भूमौ निपपात ह ॥ १८ ॥
तं दृष्ट्वा पतितं पुत्रं पार्वती प्ररुरोद ह ॥
हाहाकारो महानासीत्तदा तत्र निपातिते ॥ १९ ॥
पार्वतीं विकलां दृष्ट्वा देवदेवो महेश्वरः ॥
चिन्तयामास देवोऽपि किं कृतं वा मुधा मया ॥ 3.2.12.२० ॥
एतस्मिन्नन्तरे तत्र गजासुरमपश्यत ॥
तं दृष्ट्वा च महादैत्यं सर्वलोकैकपूजितः ॥ २१ ॥
जघ्निवांस्तच्छिरो गृह्य पार्वत्या कृतमर्भकम् ॥
उत्तस्थौ सगणस्तत्र महादेवस्य सन्निधौ॥ २२ ॥
ततो नाम चकारास्य गजानन इति स्फुटम् ॥
सुराः सर्वे च सम्पृक्ता हर्षिता मुनयस्तथा ॥ २३ ॥
स्तुवन्ति स्तुतिभिः शश्वत्कुटुम्बकुशलङ्करम् ॥
विक्रीणाति कुटुम्बं यो मोदकार्थं समर्चके ॥ २४ ॥
दक्षिणस्यां प्रतोल्यां तमेकदन्तं च पीवरम् ॥
आर्चयच्च महादेवं स्वयम्भूः सुरपूजितम् ॥ २५ ॥
जटिलं वामनं चैव नागयज्ञोपवीतकम् ॥
त्र्यक्षं चैव महाकायं करध्वजकुठारकम् ॥ २६ ॥
दधानं कमलं हस्ते सर्वविप्रविनाशनम् ॥
रक्षणाय च लोकानां नगराद्दक्षिणाश्रितम्॥२७॥
सुप्रसन्नं गणाध्यक्षं सिद्धिबुद्धिनमस्कृतम् ॥
सिन्दूराभं सुरश्रेष्ठं तीव्राङ्कुशधरं शुभम् ॥ २८ ॥
शतपुष्पैः शुभैः पुष्पैरर्चितं ह्यमराधिपः ॥
प्रणम्य च महाभक्त्या तुष्टुवु स्तं सुरास्ततः ॥ २९ ॥
॥ देवा ऊचुः ॥ ॥
नमस्तेस्तु सुरेशाय गणानां पतये नमः ॥
गजानन नमस्तुभ्यं महादेवाधिदैवत ॥ 3.2.12.३० ॥
भक्तिप्रियाय देवाय गणाध्यक्ष नमोस्तु ते ॥
इत्येतैश्च शुभैः स्तोत्रैः स्तूयमानो गणाधिपः ॥
सुप्रीतश्च गणाध्यक्षः तदाऽसौ वाक्यमब्रवीत् ॥ ॥ ३१ ॥
॥ गणाध्यक्ष उवाच ॥
तुष्टोऽहं वो सुरा ब्रूत वाञ्छितं च ददामि वः ॥ ३२ ॥
॥ देवा ऊचुः ॥ ॥
त्वमत्रस्थो महाभाग कुरु कार्यं च नः प्रभो ॥
धर्मारण्ये च विप्राणां वणिग्जननिवासिनाम् ॥ ३३ ॥
ब्रह्मचर्यादियुक्तानां धार्मिकाणां गणेश्वर ॥
वर्णाश्रमेतराणां च रक्षिता भव सर्वदा ॥। ३४ ॥
त्वत्प्रसादान्महाभाग धनसौख्ययुता द्विजाः ॥
भवन्तु सर्वे सततं वणिजश्च महाबलाः ॥३५॥
रक्षितव्यास्त्वया देव यावच्चन्द्रार्कमेदिनी ॥
एवमस्त्विति सोवादीद्गणनाथो महेश्वरः ॥ ३६ ॥
देवाश्च हर्षमापन्नाः पूजयन्ति गणाधिपम् ॥
ततो देवा मुदा युक्ताः पुष्पधूपादितर्पणैः ॥ ३७ ॥
ये चान्ये मनुजा लोके निर्विघ्नार्थं च पूजयन् ॥ ३८ ॥
विवाहोत्सवयज्ञेषु पूर्वमाराधितो भवेत् ॥
धर्मारण्योद्भवानां च प्रसन्नो भव सर्वदा ॥ ॥ ३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे गणेशप्रस्थापनावर्णनन्नाम द्वादशोऽध्यायः ॥ १२ ॥ ॥