०११ सत्यमन्दिरसंस्थापनवर्णनम्

युधिष्ठिर उवाच ॥ ॥
अतः परं किमभवद्ब्रवीतु द्विजसत्तम ॥
त्वद्वचनामृतं पीत्वा तृप्तिर्नास्ति मम प्रभो ॥ १ ॥
॥ व्यास उवाच ॥ ॥
अथ किञ्चिद्गते काले युगान्तसमये सति ॥
त्रेतादौ लोलजिह्वाक्ष अभवद्राक्षसेश्वरः ॥ २ ॥
तेन विद्रावितं सर्वं त्रैलोक्यं सचराचरम् ॥
जित्वा स सकलाल्ँलोकान्धर्मारण्ये समागतः ॥ ३ ॥
तद्दृष्ट्वा सकलं पुण्यं रम्यं द्विजनिषे वितम् ॥
ब्रह्मद्वेषाच्च तेनैव दाहितं च पुरं शुभम् ॥ ४ ॥
दह्यमानं पुरं दृष्ट्वा प्रणष्टा द्विजसत्तमाः ॥
यथागतं प्रजग्मुस्ते धर्मारण्यनिवासिनः ॥ ॥५ ॥
श्रीमाताद्यास्तदा देव्यः कोपिता राक्षसेन वै ॥
घातयन्त्येव शब्देन तर्जयित्वा च राक्षसम् ॥ ६ ॥
समुच्छ्रितास्तदा देव्यः शतशोऽथ सह स्रशः ॥
त्रिशूलवरधारिण्यः शङ्खचक्रगदाधराः ॥७॥
कमण्डलुधराः काश्चित्कशाखङ्गधराः पराः ॥
पाशाङ्कुशधरा काचित्खड्गखेटकधारिणी ॥ ८ ॥
काचित्परशुहस्ता च दिव्यायुधधरा परा ॥
नानाभरणभूषाढ्या नानारत्नाभिशोभिता ॥ ९ ॥
राक्षसानां विनाशाय ब्राह्मणानां हिताय च ॥
आजग्मुस्तत्र यत्रास्ते लोलजिह्वो हि राक्षसः ॥3.2.11.१०॥
महादंष्ट्रो महाकायो विद्युज्जिह्वो भयङ्करः ॥
दृष्ट्वा ता राक्षसो घोरं सिंहनादमथाकरोत् ॥११॥
तेन नादेन महता त्रासितं भुवनत्रयम् ॥
आपूरिता दिशः सर्वाः क्षुभितानेकसागराः ॥ १२ ॥
कोलाहलो महानासीद्धर्मारण्ये तदा नृप ॥
तच्छ्रुत्वा वासवेनाथ प्रेषितो नलकूबरः ॥ १३ ॥
किमिदं पश्य गत्वा त्वं दृष्ट्वा मह्यं निवेदय ॥
तत्तस्य वचनं श्रुत्वा गतो वै नलकूबरः ॥ १४ ॥
दृष्ट्वा तत्र महायुद्धं श्रीमातालोलजिह्वयोः ॥
यथादृष्टं यथाजातं शक्राग्रे स न्यवेदयत् ॥ १५ ॥
उद्वेजयति लोकांस्त्रीन्धर्मारण्यमितो गतः ॥
तच्छ्रुत्वा वासवो विष्णुं निवेद्य क्षितिमागमत्॥ १६ ॥
दाहितं तत्पुरं रम्यं देवानामपि दुर्लभम् ॥
न दृष्टा वाडवास्तत्र गताः सर्वे दिशो दश ॥ १७ ॥
श्रीमाता योगिनी तत्र कुरुते युद्धमुत्तमम् ॥
हाहाभूता प्रजा सर्वा इतश्चेतश्च धावति ॥ १८ ॥
तच्छ्रुत्वा वासुदेवो हि गृहीत्वा च सुदर्शनम् ॥
सत्यलोकात्तदा राजन्समागच्छन्महीतले ॥ १९ ॥
धर्मारण्यं ततो गत्वा तच्चक्रं प्रमुमोच ह ॥
लोलजिह्वस्तदा रक्षो मूर्च्छितो निपपात ह ॥ 3.2.11.२० ॥
त्रिशूलेन ततो भिन्नः शक्तिभिः क्रोधमूर्च्छितः ॥
हन्यमानस्तदा रक्षः प्राणांस्त्यक्त्वा दिवं गतः ॥ २१ ॥
ततो देवाः सगन्धर्वा हर्षनिर्भरमानसाः ॥
तुष्टुवुस्तं जगन्नाथं सत्यलोकात्समागताः ॥ २२ ॥
उद्वसं तत्समालोक्य विष्णुर्वचनमब्रवीत् ॥
क्व च ते ब्राह्मणाः सर्वे ऋषीणामाश्रमे पुनः ॥ २३ ॥
ततो देवाः सगं धर्वा इतस्ततः पलायितान्॥
संशोध्य तरसा राजन्ब्राह्मणानिदमब्रुवन् ॥ २४ ॥
श्रूयतां नो वचो विप्रा निहतो राक्षसाधमः ॥
वासुदेवेन देवेन चक्रेण निरकृन्तत ॥ २५ ॥
तच्छ्रुत्वा वाडवाः सर्वे प्रहर्षोत्फुल्ललोचनाः ॥
समाजग्मुस्तदा राजन्स्वस्वस्थाने समाविशन् ॥ २६ ॥
श्रीकान्ताय तदा राजन्वाक्यमुक्तं मनोरमम् ॥
यस्मात्त्वं सत्यलोकाच्च आगतोऽसि जगत्प्रभुः ॥
स्थापितं च पुरं चेदं हिताय च द्विजात्मनाम् ॥ २७ ॥
सत्यमन्दिरमिति ख्यातं तदा लोके भविष्यति ॥
कृते युगे धर्मारण्यं त्रेतायां सत्यमन्दिरम् ॥ २८ ॥
तच्छ्रुत्वा वासुदेवेन तथेति प्रतिपद्य च ॥
ततस्ते वाडवाः सर्वे पुत्रपौत्रसमन्विताः ॥ २९ ॥
सपत्नीकाः सानुचरा यथापूर्वं न्यवात्सिषुः ॥
तपोयज्ञक्रियाद्येषु वर्तन्तेऽध्ययनादिषु ॥ 3.2.11.३० ॥
एवं ते सर्वमाख्यातं धर्म वै सत्यमन्दिरे ॥ ३१ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये लोलजिह्वासुरवधपूर्वकं सत्यमन्दिरसंस्थापनवर्णनन्नामैकादशोऽध्यायः ॥ ११ ॥ ॥ छ ॥