०१० वणिक्परिग्रहवर्णनम्

व्यास उवाच ॥ ॥
शृणु राजन्यथावृत्तं धर्म्मारण्ये शुभं मतम् ॥
यदिदं कथयिष्यामि अशेषाघौघनाशनम् ॥।१ ॥
अजेशेन तदा राजन्प्रेरितेन स्वयम्भुवा ॥
कामधेनुः समाहूता कथयामास तां प्रति ॥ २ ॥
विप्रेभ्योऽनुचरान्देहि एकैकस्मै द्विजातये ॥
द्वौ द्वौ शुद्धात्मकौ चैवं देहि मातः प्रसीद मे ॥ ३ ॥
तथेत्युक्त्वा महाधेनुः क्षीरेणोल्लेखयद्धराम् ॥
हुङ्कारात्तस्य निष्क्रान्ताः शिखासूत्रधरा नराः ॥ ४ ॥
षट्त्रिंशच्च सहस्राणि वणिजश्च महाबलाः ॥
सोपवीता महादक्षाः सर्वशास्त्रविशारदाः ॥ ५ ॥
द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते तपोन्विताः ॥
पुराणज्ञाः सदाचारा धार्मिका बह्मभोजकाः ॥ ६ ॥
स्वर्गे देवाः प्रशंसन्ति धर्मारण्यनिवासिनः ॥
तपोऽध्ययनदानेषु सर्वकालेप्यतीन्द्रियाः ॥ ७ ॥
एकैकस्मै द्विजायैव दत्तं जातु चरद्वयम् ॥
वाडवस्य च यद्गोत्रं पुरा प्रोक्तं महीपते ॥ ८ ॥
परस्परं च तद्गोत्रं तस्य चानुचरस्य च ॥
इति कृत्वा व्यवस्थां च न्यवसंस्तत्र भूमिषु ॥९॥
ततश्च शिष्यता देवैर्दत्ता चानुचरान्भुवि ॥
ब्रह्मणा कथितं सर्वं तेषामनुहिताय वै ॥3.2.10.१०॥
कुरुध्वं वचनं चैषां ददध्वं च यदिच्छितम् ॥
समित्पुष्पकुशादीनि आनयध्वं दिनेदिने ॥ ११ ॥
अनुज्ञयैषां वर्तध्वं मावज्ञां कुरुत क्वचित् ॥
जातकं नामकरणं तथान्नप्राशनं शुभम् ॥ १२ ॥
क्षौरं चैवोपनयनं महानाम्न्यादिकं तथा ॥
क्रियाकर्मादिकं यच्च व्रतं दानोपवासकम् ॥ १३ ॥
अनुज्ञयैषां कर्तव्यं काजेशा इदमबुवन् ॥
अनुज्ञया विनैषां यः कार्यमारभते यदि ॥ १४ ॥
दर्शं वा श्राद्धकार्यं वा शुभं वा यदि वाऽशुभम् ॥
दारिद्र्यं पुत्रशोकं च कीर्तिनाशं तथैव च ॥ १५ ॥
रोगैर्निपीड्यते नित्यं न क्वचित्सुखमाप्नुयुः ॥
तथेति च ततो देवाः शक्राद्याः सुरसत्तमाः ॥ १६ ॥
स्तुतिं कुर्वन्ति ते सर्वे काम धेनोः पुरः स्थिताः ॥
कृतकृत्यास्तदा देवा ब्रह्मविष्णुमहेश्वराः ॥ १७ ॥
त्वं माता सर्वदेवानां त्वं च यज्ञस्य कारणम् ॥
त्वं तीर्थं सर्वतीर्थानां नम स्तेऽस्तु सदानघे ॥ १८ ॥
शशिसूर्यारुणा यस्या ललाटे वृषभध्वजः ॥
सरस्वती च हुङ्कारे सर्वे नागाश्च कम्बले ॥ १९ ॥
क्षुरपृष्ठे च गन्धर्वा वेदाश्चत्वार एव च ॥
मुखाग्रे सर्वतीर्थानि स्थावराणि चराणि च ॥ 3.2.10.२० ॥
एवंविधैश्च बहुशो वचनैस्तोषिता च सा ॥
सुप्रसन्ना तदा धेनुः किं करोमीति चाब्रवीत् ॥ २१ ॥
॥ देवा ऊचुः ॥ ॥
सृष्टाः सर्वे त्वया मातर्देव्यैतेऽनुचराः शुभाः ॥
त्वत्प्रसादान्महाभागे ब्राह्मणाः सुखिनोऽ भवन् ॥ २२ ॥
ततोऽसौ सुरभी राजन्गता नाकं यशस्विनी ॥
ब्रह्मविष्णुमहेशाद्यास्तत्रैवान्तरधुस्ततः ॥ २३ ॥
॥ युधिष्ठिर उवाच ॥ ॥
अभार्यास्ते महातेजा गोजा अनुचरास्तथा ॥
उद्वाहिता कथं ब्रह्मन्त्सुतास्तेषां कदाऽभवन् ॥ २४ ॥
॥ व्यास उवाच ॥ ॥
परिग्रहार्थं वे तेषां रुद्रेण च यमेन च ॥
गन्धर्वकन्या आहृत्य दारास्तत्रोपकल्पिताः ॥ २५ ॥
॥ युधिष्ठिर उवाच ॥ ॥
को वा गन्धर्वराजासौ किन्नामा कुत्र वा स्थितः ॥
कियन्मात्रास्तस्य कन्याः किमाचारा ब्रवीहि मे ॥ २६ ॥
॥ व्यास उवाच ॥ ॥
विश्वावसुरिति ख्यातो गन्धर्वाधिपतिर्नृप ॥
षष्टिकन्यासहस्राणि आसते तस्य वेश्मनि ॥ २७ ॥
अन्तरिक्षे गृहं तस्य गधर्वनगरं शुभम् ॥
यौवनस्थाः सुरूपाश्च कन्या गन्धर्वजाः शुभाः ॥ २८ ॥
रुद्रस्यानुचरौ राजन्नन्दी भृङ्गी शुभाननौ ॥
पूर्वदृष्टाश्च ताः कन्याः कथयामासतुः शिवम्॥ २९ ॥
दृष्टाः पुरा महादेव गन्धर्वनगरे विभो ॥
विश्वावसुगृहे कन्या असङ्ख्याताः सहस्रशः ॥ 3.2.10.३० ॥
ता आनीय वलादेव गोभुजेभ्यः प्रयच्छ भो ॥
एवं श्रुत्वा ततो देवस्त्रिपुरघ्नः सदाशिवः ॥ ३१ ॥
प्रेषयामास दूतं तु विजयं नाम भारत ॥
स तत्र गत्वा यत्रास्ते विश्वावसुररिन्दमः ॥ ३२ ॥
उवाच वचनं चैव पथ्यं चैव शिवेरितम् ॥
धर्मारण्ये महाभाग काजेशेन विनिर्मिताः ॥ ३३ ॥
स्थापिता वाडवास्तत्र वेदवेदाङ्गपारगाः ॥
तेषां वै परिचर्यार्थं कामधेनुश्च प्रार्थिता ॥ ३४ ॥
तया कृताः शुभाचारा वणिजस्ते त्वयोनिजा ॥
षट्त्रिंशच्च सहस्राणि कुमारास्ते महाबलाः ॥ ३५ ॥
शिवेन प्रेषितोऽहं वै त्वत्समीपमुपागतः ॥
कन्यार्थं हि महाभाग देहिदेहीत्युवाच ह ॥ ३६ ॥
॥ गन्धर्व उवाच ॥ ॥
देवानां चैव सर्वेषां गन्धर्वाणां महामते ॥
परित्यज्य कथं लोके मानुषाणां ददामि वै ॥ ३७ ॥
श्रुत्वा तु वचनं तस्य निवृत्तो विजयस्तदा ॥
कथयामास तत्सर्वं गन्धर्व चरितं महत् ॥३८ ॥
॥ व्यास उवाच ॥ ॥
ततः कोपसमाविष्टो भगवाल्ँलोकशङ्करः ॥
वृषभे च समारूढः शूलहस्तः सदाशिवः ॥ ३९ ॥
भूतप्रेतपिशाचाद्यैः सहस्रैरावृतः प्रभुः ॥
ततो देवास्तथा नागा भूतवेतालखेचराः ॥ 3.2.10.४० ॥
क्रोधेन महताविष्टाः समाजग्मुः सहस्रशः ॥
हाहाकारो महानासीत्तस्मिन्सैन्ये विसर्पति ॥ ४१ ॥
प्रकम्पिता धरादेवी दिशापाला भयातुराः ॥
घोरा वातास्तदाऽशान्ताः शब्दं कुर्वन्ति दिग्गजाः ॥ ॥ ४२ ॥
॥ व्यास उवाच ॥ ॥
तदागतं महासैन्यं दृष्ट्वा भयविलोलितम् ॥
गन्धर्वनगरात्सर्वे विनेशुस्ते दिशो दश ॥ ४३ ॥
गन्धर्वराजो नगरं त्यक्त्वा मेरुं गतो नृप ॥
ताः कन्या यौवनोपेता रूपौदार्यसमन्विताः ॥ ४४ ॥
गृहीत्वा प्रददौ सर्वा वणिग्भ्यश्च तदा नृप ॥
वेदोक्तेन विधानेन तथा वै देवसन्निधौ ॥ ४५ ॥
आज्यभागं तदा दत्त्वा गन्धर्वाय गवात्मजाः ॥
देवानां पूर्वजानां च सूर्याचन्द्रमसोस्तथा ॥ ४६ ॥
यमाय मृत्यवे चैव आज्यभागं तदा ददुः ॥
दत्त्वाज्यभागान्विधिवद्वव्रिरे ते शुभव्रताः ॥ ४७ ॥
ततः प्रभृति गान्धर्वविवाहे समुपस्थिते ॥
आज्यभागं प्रगृह्णन्ति अद्यापि सर्वतो भृशम् ॥ ४८ ॥
षट्त्रिंशच्च सहस्राणि कुमारा यन्न्यवेदयन् ॥
तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥
अत एव हि ताः सर्वा दासत्वे हि विनिर्मिताः ॥३
क्षत्रियाश्च महावीरा किङ्करत्वे हि निर्मिताः ॥ 3.2.10.५० ॥
ततो देवाऽस्तदा राजञ्जग्मुः सर्वे यथातथा॥
गते देवे द्विजाः सर्वे स्थानेऽस्मिन्निवसन्ति ते॥५१॥
पुत्रपौत्रयुता राजन्निवसन्त्यकुतोभयाः॥
पठन्ति वेदान्वेदज्ञाः क्वचिच्छास्त्रार्थमुद्गिरन्॥५२॥
केचिद्विष्णुं जपन्तीह शिवं केचिज्जपन्ति हि॥
ब्रह्माणं च जपन्त्येके यमसूक्तं हि केचन॥
यजन्ति याजकाश्चैव अग्निहोत्रमुपासते ॥
स्वाहाकारस्वधाकारवषट्कारैश्च सुव्रत ॥ ५४ ॥
शब्दैरापूयते सर्वं त्रैलोक्यं सचराचरम् ॥
वणिजश्च महादक्षा द्विजशुश्रूणोत्सुकाः ॥ ५५ ॥
धर्मारण्ये शुभे दिव्ये ते वसन्ति सुनिष्ठिताः ॥
अन्नपानादिकं सर्वं समित्कुशफलादिकम् ॥ ५६ ॥
आपूरयन्द्विजातीनां वणिजस्ते गवात्मजाः ॥ ५७ ॥
पुष्पोपहारनिचयं स्नानवस्त्रादिधावनम् ॥
उपलादिकनिर्माणं मार्जनादिशुभक्रियाः ॥ ५८ ॥
वणिक्स्त्रियः प्रकुर्वन्ति कण्डनं पेषणादिकम् ॥
शुश्रूषन्ति च तान्विप्रान्काजेशवचनेन हि ॥ ५९ ॥
स्वस्था जातास्तदा सर्वे द्विजा हर्षपरायणाः ॥
काजेशादीनुपासन्ते दिवारात्रौ हि सन्ध्ययोः ॥ 3.2.10.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मार ण्यमाहात्म्ये वणिक्परिग्रहवर्णनन्नाम दशमोऽध्यायः ॥ १० ॥