॥ व्यास उवाच ॥ ॥
सम्प्राप्य धर्मवाप्यां च यः कुर्यात्पितृतर्पणम् ॥
तृप्तिं प्रयान्ति पितरो यावदिन्द्राश्चतुर्दश ॥ १ ॥
पितरश्चात्र पूज्याश्च स्वर्गता ये च पूर्वजाः ॥
पिण्डांश्च निर्वपेत्तेषां प्राप्येमां मुक्तिदायिकाम् ॥ २ ॥
त्रेतायां पञ्च दिवसैर्द्वापरे त्रिदिनेन तु ॥
एकचित्तेन यो विप्राः पिण्डं दद्यात्कलौ युगे ॥ ३ ॥
लोलुपा मानवा लोके सम्प्राप्ते तु कलौ युगे ॥
परदाररता लोकाः स्त्रियोऽतिचपलाः पुनः॥४॥
परद्रोहरताः सर्वे नरनारीनपुंसकाः॥
परनिन्दापरा नित्यं परच्छिद्रोपदर्शकाः॥५॥
परोद्वेगकरा नूनं कलहा मित्रभेदिनः॥
सर्वे ते शुद्धतां यान्ति काजेशाः स्वयमब्रुवन् ॥६॥
एतदुक्तं महाभाग धर्मारण्यस्य वर्णनम् ॥
फलं चैवात्र सर्वं हि यदुक्तं शूलपाणिना ॥ ७ ॥
वाङ्मनः कायशुद्धाश्च परदारपराङ्मुखाः ॥
अद्रोहाश्च समाः क्रुद्धा मातापितृपरायणाः ॥ ८ ॥
अलौल्या लोभरहिता दानधर्मपरायणाः ॥
आस्तिकाश्चैव धर्मज्ञाः स्वामिभक्तिरताश्च ये ॥ ९ ॥
पतिव्रता तु या नारी पतिशुश्रूषणे रता ॥
अहिंसका आतिथेयाः स्वधर्मनिरताः सदा॥ 3.2.7.१० ॥
॥ शौनक उवाच ॥ ॥
शृणु सूत महाभाग सर्वधर्मविदांवर ॥
गृहस्थानां सदाचारः श्रुतश्च त्वन्मुखान्मया ॥ ११ ॥
एकं मनेप्सितं मेद्य तत्कथयस्व सूतज ॥
पतिव्रतानां सर्वासां लक्षणं कीदृशं वद ॥ १२ ॥
॥ सूत उवाच ॥ ॥
पतिव्रता गृहे यस्य सफलं तस्य जीवनम् ॥
यस्याङ्गच्छायया तुल्या यत्कथा पुण्यकारिणी ॥ १३ ॥
पतिव्रतास्त्वरुन्धत्या सावित्र्याप्यनसूयया ॥
शाण्डिल्या चैव सत्या च लक्ष्म्या च शतरूपया ॥ ॥ १४ ॥
मेनया च सुनीत्या च सञ्ज्ञया स्वाहया समाः ॥
पतिव्रतानां धर्मा हि मुनिना च प्रकीर्तिताः ॥ १५ ॥
भुङ्क्ते भुक्ते स्वामिनि च तिष्ठ ति त्वनुतिष्ठति ॥
विनिद्रिते या निद्राति प्रथमं परिबुध्यति ॥ १६ ॥
अनलङ्कृतमात्मानं देशान्ते भर्तरि स्थिते ॥
कार्यार्थं प्रोषिते क्वापि सर्व्वमण्ड नवर्जिता ॥ १७ ॥
भर्तुर्नाम न गृह्णाति ह्यायुषोऽस्य हि वृद्धये ॥
पुरुषान्तरनामापि न गृह्णति कदाचन ॥ १८ ॥
आकृष्टापि च नाक्रोशेत्ताडितापि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ॥ १९ ॥
आहूता गृहकार्याणि त्यक्त्वा गच्छति सत्वरम् ॥
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ॥ 3.2.7.२० ॥
न चिरं तिष्ठति द्वारि न द्वारमुपसेवते ॥
अदातव्यं स्वयं किञ्चित्कर्हिचिन्न ददात्यपि॥ २१ ॥
पूजोपकरणं सर्वम नुक्ता साधयेत्स्वयम् ॥
नियमोदकबर्हींषि यत्र पुष्पाक्षतादिकम् ॥ २२ ॥
प्रतीक्षमाणा च वरं यथाकालोचितं हि यत् ॥
तदुपस्थापयेत्सर्वमनुद्वि ग्नातिहृष्टवत् ॥२३॥
सेवते भर्त्तुरुच्छिष्टमिष्टमन्नं फलादिकम् ॥
दूरतो वर्ज्जयेदेषा समाजोत्सवदर्शनम् ॥ २४ ॥
न गच्छेत्तीर्थयात्रादिविवाहप्रेक्षणा दिषु ॥
सुखसुप्तं सुखासीनं रममाणं यदृच्छया ॥ २५ ॥
अन्तरायेऽपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥
स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ॥ २६ ॥
स्ववाक्यं श्रावयेन्नापि यावत्स्नात्वा न शुध्यति ॥
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥२७॥
हरिद्रां कुकुमं चैव सिन्दूरं कज्जलं तथा ॥
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥ २८ ॥
केशसंस्कारकं चैव करकर्णादिभूषणम् ॥
भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ २९ ॥
भर्तृविद्वेषिणीं नारीं नैषा सम्भाषते क्वचित् ॥
नैकाकिनी क्वचिद्भूयान्न नग्ना स्नाति च क्वचित् ॥3.2.7.३०॥
नोलूखले न मुशले न वर्द्धन्यां दृषद्यपि ॥
न यन्त्रके न देहल्यां सती चोपविशेत्क्वचित् ॥ ३१ ॥
विना व्यवायसमयात्प्रागल्भ्यं न क्वचिच्चरेत ॥
यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती सदा ॥ ३२ ॥
इदमेव व्रतं स्त्रीणामयमेव परो वृषः ॥
इयमेव च पूजा च भर्तुर्वाक्यं न लङ्घयेत् ॥ ॥ ३३ ॥
क्लीबं वा दुरवस्थं वा व्याधितं वृद्धमेव वा ॥
सुस्थिरं दुःस्थिरं वापि पतिमेकं न लङ्घयेत् ॥ ३४ ॥
सर्पिर्लव(?)णहिङ्ग्वादिक्षयेऽपि व पति व्रता ॥
पतिं नास्तीति न ब्रूयादायसीषु न भोजयेत् ॥ ३५ ॥
तीर्थस्नानार्थिनी चैव पतिपादोदकं पिबेत् ॥
शङ्करादपि वा विष्णोः पतिरेवाधि कः स्त्रियः ॥ ३६ ॥
व्रतोपवामनियमं पतिमुल्लङ्घ्य या चरेत् ॥
आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ३७ ॥
उक्ता प्रत्युत्तरं दद्यान्नारी या क्रोधत त्परा ॥
सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ३८ ॥
स्त्रीणां हि परमश्चैको नियमः समुदाहृतः ॥
अभ्यर्च्य चरणौ भतुर्भो क्तव्यं कृतनिश्चया ॥ ३९ ॥
उच्चासनं न सेवेत न व्रजेत्परवेश्मसु ॥
तत्र पारुष्यवाक्यानि ब्रूयान्नैव कदाचन ॥3.2.7.४०॥
गुरूणां सन्निधौ वापि नोच्चैर्ब्रु यान्नवाहयेत् ॥ ४१ ॥
या भर्तारं परित्यज्य रहश्चरति दुर्मतिः ॥
उलूकी जायते क्रूरा वृक्षकोटरशायिनी ॥ ४२ ॥
ताडिता ताडयेच्चेत्तं सा व्याघ्री वृषदंशिका ॥
कटाक्षयति याऽन्यं वै केकराक्षी तु सा भवेत् ॥ ४३ ॥
या भर्तारं परित्यज्य मिष्टमश्नाति केवलम् ॥
ग्रामे सा सूकरी भूयाद्वल्गुली वाथ विङ्भुजा ॥ ४४ ॥
हुन्त्वङ्कृत्याप्रियं ब्रूते मूका सा जायते खलु ॥
या सपत्नीं सदैर्ष्येत दुर्भगा सा पुनःपुनः ॥
दृष्टिं विलुप्य भर्तुर्या कञ्चिदन्यं समीक्षते ॥ ४५ ॥
काणा च विमुखा वापि कुरूपापि च जायते ॥
बाह्यादायान्तमालोक्य त्वरिता च जलासनैः ॥
ताम्बूलैर्व्यजनैश्चैव पादसंवाहनादिभिः ॥ ४६ ॥
तथैव चारुवचनैः स्वेदसन्नोदनैः परैः ॥
या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणिता तया ॥
मितं ददाति हि पिता मितं भ्राता सुतं सुतः ॥ ४७ ॥
अमितस्य हि दातारं भर्तारं का न पूजयेत् ॥
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ॥ ४८ ॥
जीवहीनो यथा देही क्षणादशुचितां व्रजेत् ॥
भर्तृहीना तथा योषित्सुस्नाताप्य शुचिः सदा ॥ ४९ ॥
अमङ्गलेभ्यः सर्वेभ्यो विधवा स्यादमङ्गला ॥
विधवादर्शनात्सिद्धिः क्वापि जातु न जायते ॥ 3.2.7.५० ॥
विहाय मातरं चैकां सर्वा मङ्गलवर्जिताः ॥
तदाशिषमपि प्राज्ञस्त्यजेदाशीविषोपमाम् ॥ ५१ ॥
कन्याविवाहसमये वाचयेयुरिति द्विजाः ॥
भर्तुः सहचरी भूयाज्जीवतो ऽजीवतोपि वा ॥ ५२ ॥
अनुव्रजन्ती भर्तारं गृहात्पितृवनं मुदा ॥
पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम् ॥ ५३ ॥
व्यालग्राही यथा व्यालं बलादुद्धरते बिलात् ॥
एवमुत्क्रम्य दूतेभ्यः पतिं स्वर्गं व्रजेत्सती ॥ ५४ ॥
यमदूताः पलायन्ते तामालोक्य पतिव्रताम् ॥
तपनस्तप्यते नूनं दहनोपि च दह्यते ॥ ५५ ॥
कम्पन्ते सर्वतेजांसि दृष्ट्वा पातिव्रतं महः ॥
यावत्स्वलोमसङ्ख्यास्ति तावत्कोट्ययुतानि च ॥ ५६ ॥
भर्त्रा स्वर्गसुखं भुङ्क्ते रममाणा पतिव्रता ॥
धन्या सा जननी लोके धन्योऽसौ जनकः पुनः ॥ ५७ ॥
धन्यः स च पतिः श्रीमान्येषां गेहे पतिव्रता ॥
पितृवंश्या मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥
पतिव्रतायाः पुण्येन स्वर्गसौख्यानि भुञ्जते ॥ ५८ ॥
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥
पितुर्मातुस्तथा पत्युरिहारमुत्र च दुःखिताः ॥ ५९ ॥
पतिव्रतायाश्चरणो यत्रयत्र स्पृशेद्भुवम् ॥
सा तीर्थभूमिर्म्मान्येति नात्र भारोऽस्ति पावनः ॥ 3.2.7.६० ॥
बिभ्यत्पतिव्रतास्पर्शं कुरुते भानुमानपि ॥
सोमो गन्धर्व एवापि स्वपावित्र्याय नान्यथा ॥ ६१ ॥
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ॥
गायत्र्याघविनाशो नो पातिव्रत्येन साऽघनुत् ॥ ६२ ॥
गृहेगृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥
परं विश्वेशभक्त्यैव लभ्यते स्त्री पति व्रता ॥ ६३ ॥
भार्या मूलं गृहस्थस्य भार्या मूलं सुखस्य च ॥
भार्या धर्मफलायैव भार्या सन्तानवृद्धये ॥ ६४ ॥
परलोकस्त्वयं लोको जीयते भार्यया द्वयम् ॥
देवपित्रतिथीनां च तृप्तिः स्याद्भार्यया गृहे ॥
गृहस्थः स तु विज्ञेयो गृहे यस्य पतिव्रता ॥ ६५ ॥
यथा गङ्गावगाहेन शरीरं पावनं भवेत् ॥
तथा पतिव्रतां दृष्ट्वा सदनं पावनं भवेत् ॥ ६६ ॥
पर्यङ्कशायिनी नारी विधवा पातयेत्पतिम्॥
तस्माद्भूशयनं कार्य्यं पतिसौख्यसमीहया ॥ ६७ ॥
नैवाङ्गोद्वर्त्तनं कार्य्यं स्त्रिया विधवया क्वचित् ॥
गन्धद्रव्यस्य सम्भोगो नैव कार्य्यस्तया क्वचित् ॥ ६८ ॥
तर्प्पणं प्रत्यहं कार्यं भर्तुः कुशतिलोदकैः॥
तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्वकम् ॥ ६९ ॥
विष्णोः सम्पूजनं कार्यं पतिबुद्ध्या न चान्यथा ॥ ॥
पतिमेव सदा ध्यायेद्विष्णुरूपधरं हरिम् ॥ 3.2.7.७० ॥
यद्यदिष्टतमं लोके यद्यत्पत्युः समीहितम् ॥
तत्तद्गुणवते देयं पतिप्रीणनकाम्यया ॥ ७१ ॥
वैशाखे कार्त्तिके मासे विशेषनियमांश्चरेत् ॥
स्नानं दानं तीर्थयात्रां पुराणश्रवणं मुहुः ॥ ७२ ॥
वैशाखे जलकुम्भाश्च कार्त्तिके घृतदीपिकाः ॥
माघे धान्यतिलोत्सर्गः स्वर्गलोके विशिष्यते ॥ ७३ ॥
प्रपा कार्या च वैशाखे देवे देया गलन्तिका ॥
उशीरं व्यजनं छत्रं सूक्ष्मवासांसि चन्दनम् ॥ ॥७४॥
सकर्पूरं च ताम्बूलं पुष्पदानं तथैव च ॥
जलपात्राण्यनेकानि तथा पुष्पगृहाणि च ॥ ७५ ॥
पानानि च विचित्राणि द्राक्षारम्भाफलानि च ॥
देयानि द्विजमुख्येभ्यः पतिर्मे प्रीयतामिति ॥७६॥
ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः॥
वृन्ताकं सूरणं चैव शूकशिम्बीं च वर्जयेत्॥७७॥
कार्त्तिके वर्जयेत्तैलं कांस्यं चापि विवर्जयेत् ॥
कार्त्तिके मौननियमे चारुघण्टां प्रदापयेत् ॥ ७८ ॥
पत्रभोजी कांस्यपात्रं घृतपूर्णं प्रयच्छति ॥
भूमिशय्याव्रते देया शय्या श्लक्ष्णा सतूलिका ॥७९।
फलत्यागे फलं देयं रसत्यागे च तद्रसः ॥
धान्यत्यागे च तद्धान्यमथवा शालयः स्मृताः ॥
धेनुं दद्यात्प्रयत्ने न सालङ्कारा सकाञ्चनाम् ॥।3.2.7.८०॥
एकतः सर्वदानानि दीपदानं तथैकतः ॥
कार्त्तिके दीपदानस्य कलां नार्हन्ति षोडशीम् ॥५१॥
इत्यादिविधवानां च नियमाः सम्प्रकीर्तिताः ॥
तेषां फलमिदं राजन्नान्येषां च कदाचन ॥ ८२ ॥
धर्मवापीं समासाद्य दानं दद्याद्विचक्षणः ॥
कोटिधा वर्द्धते नित्यं ब्रह्मणो वचनं यथा ॥ ८३ ॥
तिलधेनुं च यो दयाद्धर्मेश्वरपुरः स्थितः ॥
तिलसङ्ख्यानि वर्षाणि स्वर्गे लोके महीयते ॥ ६४ ॥
धर्मक्षेत्रे तु सम्प्राप्य श्राद्धं कुर्यादतन्द्रितः ॥
तस्य संवत्सरं यावत्तृप्ताः स्युः पितरो धुवम् ॥ ८५ ॥
ये चान्ये पूर्वजाः स्वर्गे ये चान्ये नरकौकसः ॥
ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ॥ ८६ ॥
तान्सर्वान्धर्मकूपे वै श्राद्धं कुर्याद्यथाविधि ॥
अत्र प्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥
तेन ते तृप्तिमायान्ति ये पिशाचत्वमागताः ॥ ८७ ॥
येषां तु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ॥
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ॥ ८८ ॥
या वै यवानां कणिकाः पतन्ति धरणीतले ॥
ताभिराप्यायनं तेषां ये तु देवत्वमागताः ॥ ८९ ॥
उद्धृतेष्यथ पिण्डेषु यावान्नकणिका भुवि ॥
ताभिराप्यायनं तेषां ये च पातालमागताः ॥ 3.2.7.९० ॥
ये वा वर्णाश्रमाचारक्रियालोपा ह्यसंस्कृताः ॥
विपन्नास्ते भवन्त्यत्र सम्मार्जनजलाशिनः ॥ ९१ ॥
भुक्त्वा वाचमनं यच्च जलं पतति भूतले ॥
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयान्ति वै ॥ ९२ ॥
एवं यो यजमानश्च यच्च तेषां द्विजन्मनाम् ॥
क्वचिज्जलान्नविक्षेपः शुचिरस्पृष्ट एव च ॥ ९३ ॥
ये चान्ये नरके जातास्तत्र योन्यन्तरं गताः ॥
प्रयान्त्याप्यायनं वत्स सम्यक्छ्राद्धक्रियावताम् ॥ ॥ ९४ ॥
अन्यायोपार्जितैर्द्रव्यैः श्राद्धं यत्क्रियते नरैः ॥
तृप्यन्ति तेन चण्डालपुल्कसादिषु योनिषु ॥ ९५ ॥
एवमाप्यायिता वत्स तेन चानेक
बान्धवाः ॥ श्राद्धं कर्तुमशक्तिश्चेच्छाकैरपि हि जायते ॥ ९६ ॥
तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि ॥
कुरुते कुर्वतः श्राद्धं कुलं क्वचिन्न सीदति ॥ ९७ ॥
पापं यदि कृतं सर्वं पापं च वर्द्धते ध्रुवम् ॥
कुर्वाणो नरके घोरे पच्यते नात्र संशयः ॥ ९८ ॥
यथा पुण्यं तथा पापं कृतं कर्म शुभाशुभम् ॥
तत्सर्वं वर्द्धते नूनं धर्मारण्ये नृपोत्तम ॥ ९९ ॥
कामिकं कामदं देवं योगिनां मुक्तिदायकम् ॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥ 3.2.7.१०० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्माण्यक्षेत्रमाहात्म्ये धर्माचारवर्णनन्नाम सप्तमोऽध्यायः ॥ ७ ॥