॥ व्यास उवाच ॥ ॥
अतः परं प्रवक्ष्यामि धर्मारण्यनिवासिना ॥
यत्कार्यं पुरुषेणेह गार्हस्थ्यमनुतिष्ठता ॥ १ ॥
धर्मारण्येषु ये जाता ब्राह्मणाः शुद्धवंशजा ॥
अष्टादशसहस्राश्च काजेशैश्च विनिर्मिताः ॥ २ ॥
सदाचाराः पवित्राश्च ब्राह्मणा ब्रह्मवित्तमाः ॥
तेषां दर्शनमात्रेण महापापैर्विमुच्यते ॥ ३ ॥
॥ युधिष्ठिर उवाच ॥ ॥
पाराशर्य समाख्याहि सदाचारं च मे प्रभो ॥
आचाराद्धर्ममाप्नोति आचाराल्लभते फलम्॥
आचाराच्छ्रियमाप्नोति तदाचारं वदस्व मे ॥ ४ ॥
॥ व्यास उवाच ॥ ॥
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ॥
क्रमेण धार्मिकास्त्वेत एतेभ्यो धार्मिकाः सुराः ॥ ५ ॥
सहस्रभागात्प्रथमे द्वितीयानुक्रमास्तथा ॥
सर्व एते महाभागाः पापान्मुक्तिसमाश्रयाः ॥ ६ ॥
चतुर्णामपि भूतानां प्राणिनोतीव चोत्तमाः ॥
प्राणिकेभ्योपि मुनिश्रेष्ठाः सर्वे बुद्ध्युपजीविनः ॥ ७ ॥
मतिमद्भ्यो नराः श्रेष्ठास्तेभ्य श्रेष्ठास्तु वाडवाः ॥
विप्रेभ्योऽपि च विद्वांसो विद्वद्भ्यः कृतबुद्धयः ॥ ८ ॥
कृतधीभ्योऽपि कर्तारः कर्तृभ्यो ब्रह्मतत्पराः ॥
न तेभ्योऽभ्यधिकः कश्चित्त्रिषु लोकेषु भारत ॥ ९ ॥
अन्योन्यपूजकास्ते वै तपो विद्याविशेषतः ॥
ब्राह्मणो ब्रह्मणा सृष्टः सर्वभूतेश्वरो यतः ॥ 3.2.5.१० ॥
अतो जगत्स्थितं सर्वं ब्राह्मणोऽर्हति नापरः ॥
सदाचारो हि सर्वार्हो नाचाराद्विच्युतः पुनः ॥ ११ ॥
तस्माद्विप्रेण सततं भाव्यमाचारशीलिना ॥
विद्वेषरागरहिता अनुतिष्ठन्ति यं मुने ॥ १२ ॥
सद्धि यस्तं सदाचारं धर्ममूलं विदुर्बुधाः ॥
लक्षणैः परिहीनोऽपि सम्यगाचारतत्परः ॥ १३ ॥
श्रदालुरनसूयुश्च नरो जीवेत्समाः शतम् ॥।
श्रुतिस्मृतिभ्यामुदितं स्वेषुस्वेषु च कर्मसु ॥ १४ ॥
सदाचारं निषेवेत धर्ममूलमतन्द्रितः ॥
दुराचाररतो लोके गर्हणीयः पुमा न्भवेत् ॥ १५ ॥
व्याधिभिश्चाभिभूयेत सदाल्पायुः सुदुःखभाक् ॥
त्याज्यं कर्म पराधीनं कार्यमात्मवशं सदा ॥ १६ ॥
दुःखी यतः पराधीनः सदैवात्मवशः सुखी ॥
यस्मिन्कर्मण्यन्तरात्मा क्रियमाणे प्रसीदति ॥ १७ ॥
तदेव कर्म कर्त्तव्यं विपरीतं न च क्वचित् ॥
प्रथमं धर्म्मसर्वस्वं प्रोक्तं यन्नियमा यमाः ॥ १६ ॥
अतस्तेष्वेव वै यत्नः कर्तव्यो धर्ममिच्छता ॥
सत्यं क्षमार्तवं ध्यानमानृशंस्यमहिंसनम् ॥ १९ ॥
दमः प्रसादो माधुर्यं मृदुतेति यमा दश ॥
शौचं स्नानं तपो दानं मौनेज्याध्ययनं व्रतम् ॥ 3.2.5.२० ॥
उपोषणोपस्थदण्डो दशैते नियमाः स्मृताः ॥
कामं क्रोधं दमं मोहं मात्सर्यं लोभमेव च ॥ २१ ॥
अमून्षड्वैरिणो जित्वा सर्वत्र विजयी भवेत् ॥
शनैः सञ्चिनुयाद्धर्मं वल्मीकं शृङ्गवान्यथा ॥ २२ ॥
परपीडामकुर्वाणः पर लोकसहायिनम् ॥
धर्म एव सहायी स्यादमुत्र परिरक्षितः ॥ २३ ॥
पितृमातृसुतभ्रातृयोषिद्बन्धुजनाधिकः ॥
जायते चैकलः प्राणी म्रियते च तथै कलः ॥ २४ ॥
एकलः सुकृतं भुङ्क्ते भुङ्क्ते दुष्कृतमेकलः ॥
देहे पञ्चत्वमापन्ने त्यक्त्वैकं काष्ठलोष्टवत् ॥ २५ ॥
बान्धवा विमुखा यान्ति धर्मो यान्तमनु व्रजेत् ॥
अतः सञ्चिनुयाद्धर्म्ममत्राऽमुत्र सहायिनम् ॥ २६ ॥
धर्मं सहायिनं लब्ध्वा सन्तरेद्दुस्तरं तमः ॥
सम्बन्धानाचारेन्नित्यमुत्तमैरुत्तमैः सुधीः ॥ ॥२७॥
अधमानधमांस्त्यक्त्वा कुलमुत्कर्षतां नयेत् ॥
उत्तमानुत्तमानेव गच्छेद्धीनांश्च वर्जयेत् ॥
ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ २८ ॥
अनध्ययनशीलं च सदाचारविलङ्घिनम् ॥
सालसं च दुरन्नादं ब्राह्मणं बाधतेंऽतकः ॥ २९ ॥
अतोऽभ्यस्येत्प्रयत्नेन सदाचारं सदा द्विजः ॥
तीर्थान्यप्यभिलष्यन्ति सदाचारिसमागमम् ॥ 3.2.5.३० ॥
रजनीप्रान्तयामार्द्धं ब्राह्मः समय उच्यते ॥
स्वहितं चिन्तयेत्प्राज्ञस्तस्मिंश्चोत्थाय सर्वदा ॥ ॥ ३१ ॥
गजास्यं संस्मरेदादौ तत ईशं सहाम्बया ॥
श्रीरङ्गं श्रीसमेतं तु ब्रह्माणं कमलोद्भवम्॥ ३२॥
इन्द्रादीन्सकलान्देवान्वसिष्ठादीन्मुनीनपि ॥
गङ्गायाः सरितः सर्वाः श्रीशैलायखिलान्गिरीन्॥ ३३ ॥
क्षीरोदादीन्समुद्रांश्च मानसादिसरांसि च ॥
वनानि नन्दनादीनि धेनूः कामदुघादयः ॥ ॥ ३४ ॥
कल्पवृक्षादिवृक्षांश्च धातून्काञ्चनमुख्यतः ॥
दिव्यस्त्रीरुर्वशीमुख्याः प्रह्रादावद्यान्हरेः प्रियान् ॥ ३५ ॥
जननीचरणौ स्मृत्वा सर्वतीर्थोक्त्त मोत्तमौ ॥
पितरं च गुरूंश्चापि हदि ध्यात्वा प्रसन्नधीः ॥ ३६ ॥
ततश्चावश्यकं कर्त्तुं नैर्ऋतीं दिशमाव्रजेत् ॥
ग्रामाद्धनुःशतं गच्छेन्नगराच्च चतुर्गुण म् ॥ ३७ ॥
तृणैराच्छाद्य वसुधां शिरः प्रावृत्य वाससा ॥
कर्णोपवीत उदग्वक्त्रो दिवसे सन्ध्ययोरपि ॥ ३८ ॥
विण्मूत्रे विसृजेन्मौनी निशायां दक्षिणामुखः ॥
न तिष्ठन्नाशु नो विप्र गोवन्ह्यनिलसम्मुखः ॥ ३९ ॥
न फालकृष्टे भूभागे न रथ्यासेव्यभूतले ॥
नालोकयेद्दिशो भागञ्ज्यो तिश्चक्रं नभो मलम् ॥ 3.2.5.४० ॥
वामेन पाणिना शिश्नं धृत्वोत्तिष्ठेत्प्रयत्नवान् ॥
अथो मृदं समादद्याज्जन्तुकर्क्करवर्जिताम् ॥ ४१ ॥
विहाय मूषको त्खातां चोच्छिष्टां केशसङ्कुलाम् ॥
गुह्ये दद्यान्मृदं चैकां प्रक्षाल्य चाम्बुना ततः ॥ ४२ ॥
पुनर्वामकरेणेति पञ्चधा क्षालयेद्गुदम् ॥
एकैक पादयोर्दद्यात्तिस्रः पाण्योर्मृदस्तथा ॥ ४३ ॥
इत्थं शौचं गृही कुर्याद्गन्धलेपक्षयावधि ॥
क्रमाद्वैगुण्यतः कुर्याद्ब्रह्मचर्यादिषु त्रिषु ॥ ४४ ॥
दिवाविहितशौचाच्च रात्रावर्द्धं समाचरेत् ॥
परग्रामे तदर्धं च पथि तस्यार्धमेव च ॥ ४५ ॥
तदर्धं रोगिणां चापि सुस्थे न्यूनं न कार येत् ॥
अपि सर्वनदीतोयैर्मृत्कूटैश्चाप्यगोपमैः ॥ ४६ ॥
आपातमाचरेच्छौचं भावदुष्टो न शुद्धिभाक् ॥
आर्द्रधात्रीफलोन्माना मृदः शौचे प्रकीर्तिताः ॥ ४७ ॥
सर्वाश्चाहुतयोऽप्येवं ग्रासाश्चान्द्रायणेपि च ॥
प्रागास्य उदगास्यो वा सूपविष्टः शुचौ भुवि ॥ ४८ ॥
उपस्पृशेद्विहीनाभिस्तुषाङ्गारास्थिभस्मभिः ॥
अतिस्वच्छाभिरद्भिश्च यावद्धृद्गाभिरत्वरः ॥ ४९ ॥
ब्राह्मणो ब्रह्मतीर्थेन दृष्टिपूताभिराचमेत् ॥
कण्ठगाभिर्नृपः शुध्येत्तालुगाभिस्तथोरुजः ॥ 3.2.5.५० ॥
स्त्रीशूद्रावाथ संस्पर्शमात्रेणापि विशुध्यतः ॥
शिरः शब्दं सकण्ठं वा जले मुक्तशिखोऽपि वा ॥ ५१ ॥
अक्षालितपदद्वद्व आचान्तोऽप्यशुचिर्म्मतः ॥
त्रिः पीत्वाम्बु विशुद्ध्यर्थं ततः खानि विशोधयेत् ॥ ५२ ॥
अङ्गुष्ठमूलदेशेन ह्यधरोष्ठौ परि मृजेत् ॥
स्पृष्ट्वा जलेन हृदयं समस्ताभिः शिरः स्पृशेत् ॥ ५३ ॥
अङ्गुल्यग्रैस्तथा स्कन्धौ साम्बु सर्व्वत्र संस्पृशेत् ॥
आचान्तः पुनराचामेत्कृत्वा रथ्योपसर्पणम्॥ ५४ ॥
स्नात्वा भुक्त्वा पयः पीत्वा प्रारम्भे शुभकर्मणाम् ॥
सुप्त्वा वासः परीधाय दृष्ट्वा तथाप्यमङ्गलम् ॥ ५५ ॥
प्रमादादशुचि स्मृत्वा द्विराचान्तः शुचिर्भवेत् ॥
दन्तधावनं प्रकुर्वीत यथोक्त धर्मशास्त्रतः ॥
आचान्तोऽप्यशुचिर्यस्मादकृत्वा दन्तधावनम् ॥ ५६ ॥
प्रतिपद्दर्शषष्ठीषु नवम्यां रविवासरे ॥
दन्तानां काष्ठसंयोगो दहेदासप्तमं कुलम् ॥ ५७ ॥
अलाभे दन्तकाष्ठानां निषिद्धे वाथ वासरे ॥
गण्डूषा द्वादश ग्राह्या मुखस्य परिशुद्धये ॥ ५८ ॥
कनिष्ठाग्रपरीमाणं सत्वचं निर्व्रणारुजम् ॥
द्वादशाङ्गुलमानं च सार्द्रं स्याद्दन्तधावनम् ॥ ५९ ॥
एकेकाङ्गुलमानं तच्चर्वयेद्दन्तधावनम् ॥
प्रातः स्नानं चरित्वा च शुद्ध्यै तीर्थे विशेषतः ॥ 3.2.5.६० ॥
प्रातः स्नानाद्यतः शुद्ध्येत्कायोऽयं मलिनः सदा॥
यन्मलं नवभिश्छिद्रैः स्रवत्येव दिवानिशम् ॥ ६१ ॥
उत्साहमेधासौभाग्यरूपसम्पत्प्रवर्द्धकम् ॥
प्राजापत्यसमं प्राहुस्तन्महाघविनाशकृत् ॥ ६२ ॥
प्रातः स्नानं हरेत्पापमलक्ष्मीं ग्लानिमेव च ॥
अशुचित्वं च दुःस्वप्नं तुष्टिं पुष्टिं प्रयच्छति ॥ ६३ ॥
नोपसर्पन्ति वै दुष्टाः प्रातस्नायिजनं क्वचित् ॥
दृष्टादृष्टफलं यस्मात्प्रातःस्नानं समाचरेत् ॥ ६४ ॥
प्रसङ्गतः स्नानविधिं प्रवक्ष्यामि नृपोत्तमाः ॥
विधिस्नानं यतः प्राहुः स्नाना च्छतगुणोत्तरम् ॥ ६५ ॥
विशुद्धां मृदमादाय बर्हिषस्तिलगोमयम् ॥
शुचौ देशे परिस्थाप्य ह्याचम्य स्नानमाचरेत् ॥ ६६ ॥
उपग्रही बद्ध शिखो जलमध्ये समाविशेत् ॥
स्वशाखोक्तविधानेन स्नानं कुर्याद्यथाविधि ॥ ६७ ॥
स्नात्वेत्थं वस्त्रमापीड्य गृह्णीयाद्धौतवाससी ॥
आचम्य च ततः कुर्यात्प्रातःसन्ध्यां कुशान्वितः ॥ ६८ ॥
प्राणायामांश्चरन्विप्रो नियम्य मानसं दृढम् ॥
अहोरात्रकृतैः पापैर्मुक्तो भवति तत्क्षणात् ॥ ॥ ६९ ॥
दश द्वादशसङ्ख्या वा प्राणायामाः कृता यदि ॥
नियम्य मानसं तेन तदा तप्तं महत्तपः ॥ 3.2.5.७० ॥
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ॥
अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ ७१ ॥
यथा पार्थिवधातूनां दह्यते धमनान्मलाः ॥
तथेन्द्रियैः कृता दोषा ज्वाल्यन्ते प्राणसंयमात्॥ ७२ ॥
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ॥
गायत्र्यास्तु परं नास्ति पावनं च नृपोत्तम ॥ ७३ ॥
कर्मणा मनसा वाचा यद्रात्रौ कुरुते त्वघम्॥
उत्तिष्ठन्पूर्वसन्ध्यायां प्राणायामैर्विशोधयेत् ॥ ७४ ॥
यदह्ना कुरुते पापं मनोवाक्कायकर्मभिः ॥
आसीनः पश्चिमां सन्ध्यां प्राणायामैर्व्यपोहति ॥
पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ ७५ ॥
नोपतिष्ठेत्तु यः पूर्व्वां नोपास्ते यस्तु पश्चिमाम् ॥
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ ७६ ॥
अपां समीपमासाद्य नित्यकर्म समाचरेत् ॥
तत आचमनं कुर्याद्यथाविध्यनु पूर्वशः ॥ ७७ ॥
आपोहिष्ठेति तिसृभिर्मार्जनं तु ततश्चरेत् ॥
भूमौ शिरसि चाकाश आकाशे भुवि मस्तके ॥ ७८ ॥
मस्तके च तथाकाशं भूमौ च नवधा क्षिपेत् ॥
भूमिशब्देन चरणावाकाशं हृदयं स्मृतम् ॥
शिरस्येव शिरःशब्दो मार्जनं तैरुदाहृतम् ॥ ७९ ॥
वारुणादपि चाग्नेयाद्वायव्यादपि चेन्द्रतः ॥
मन्त्रस्थानादपि परं ब्राह्मं स्नानमिदं परम् ॥
ब्राह्मस्नानेन यः स्नातः स बाह्याभ्यन्तरं शुचिः ॥ 3.2.5.८० ॥
सर्वत्र चार्हतामेति देवपूजादिकर्मणि ॥
नक्तन्दिनं निमज्ज्याप्सु कैवर्ताः किमु पावनाः ॥ ८१ ॥
शतशोऽपि तथा स्नाता न शुद्धा भावदूषिताः ॥
अन्तःकरणशुद्धांश्च तान्विभूतिः पवित्रयेत् ॥ ८२ ॥
किं पावनाः प्रकीर्त्यन्ते रासभा भस्मधूसराः ॥
स स्नातः सर्वतीर्थेषु मलैः सर्वैर्विवर्जितः ॥८३॥
तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥
तदेव निर्मलं चेतो यथा स्यात्तन्मुने शृणु ॥ ८४ ॥
विश्वेशश्चेत्प्रसन्नः स्यात्तदा स्यान्नान्यथा क्वचित् ॥
तस्माच्चेतो विशुद्ध्यर्थं काशीनाथं समाश्रयेत्॥८५॥
इदं शरीरमुत्सृज्य परं ब्रह्माधिगच्छति॥
द्रुपदान्तं ततो जप्त्वा जलमादाय पाणिना॥
॥ ८६ ॥ कुयादृतं च मन्त्रेण विधिज्ञस्त्वघमर्षणम् ॥
निमज्ज्याप्सु च यो विद्वाञ्जपेत्त्रिरघमर्षणम् ॥ ८७ ॥
जले वापि स्थले वापि यः कुर्यादघमर्ष णम् ॥
तस्याघौघो विनश्येत यथा सूर्योदये तमः ॥ ८८ ॥
गायत्रीं शिरसा हीनां महाव्याहृतिपूर्व्विकाम् ॥
प्रणवाद्यां जपंस्तिष्ठन्क्षिपेदम्भोञ्जलि त्रयम्॥ ८९ ॥
तेन वज्रोदकेनाशु मन्देहा नाम राक्षसाः ॥
सूर्यतेजः प्रलोपन्ते शैला इव विवस्वतः ॥ 3.2.5.९० ॥
सहायार्थं च सूर्यस्य यो द्विजो नाञ्जलि त्रयम्॥
क्षिपेन्मन्देहनाशाय सोपि मन्देहतां व्रजेत् ॥९१॥
प्रातस्तावज्जपंस्तिष्ठेद्यावत्सूर्यस्य दर्शनम् ॥
उपविष्टो जपेत्सायमृक्षाणामाविलोकनात् ॥ ॥ ९२ ॥
काललोपो न कर्त्तव्यो द्विजेन स्वहितेप्सुना॥
अर्द्धोदयास्तसमये तस्माद्वज्रोदकं क्षिपेत् ॥ ९३ ॥
विधिनापि कृता सन्ध्या कालातीता ऽफला भवेत् ॥
अयमेव हि दृष्टान्तो वन्ध्यास्त्रीमैथुनं यथा ॥९४॥
जले वामकरं कृत्वा या सन्ध्याऽऽचरिता द्विजैः ॥
वृषली सा परिज्ञेया रक्षोगणमुदा वहा ॥ ९५ ॥
उपस्थानं ततः कुर्याच्छाखोक्तविधिना ततः ॥
सहस्रकृत्वो गायत्र्याः शतकृत्वोथवा पुनः ॥ ९६ ॥
दशकृत्वोऽथ देव्यै च कुर्यात्सौ रीमुपस्थितिम् ॥
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥ ९७ ॥
गायत्रीं यो जपेद्विप्रो न स पापैः प्रलिप्यते ॥
रक्तचन्दनमिश्राभिरद्भिश्च कुसुमैः कुशैः ॥ ९८ ॥
वेदोक्तैरागमोक्तैर्वा मन्त्रैरर्घं प्रदापयेत् ॥
अर्चितः सविता येन तेन त्रैलोक्यमर्च्चितम् ॥ ९९ ॥
अर्चितः सविता दत्ते सुतान्पशुव सूनि च ॥
व्याधीन्हरेद्ददात्यायुः पूरयेद्वाञ्छितान्यपि ॥ 3.2.5.१०० ॥
अयं हि रुद्र आदित्यो हरिरेष दिवाकरः ॥
रविर्हिरण्यरूपोऽसौ त्रयीरूपोऽयमर्यमा ॥ १०१ ॥
ततस्तु तर्पणं कुर्यात्स्वशाखोक्तविधानतः ॥
ब्रह्मादीनखिलान्देवान्मरीच्यादींस्तथा मुनीन् ॥ १०२ ॥
चन्दनागुरुकर्प्पूरगन्धव त्कुसमैरपि ॥
तर्पयेच्छुचिभिस्तोयैस्तृप्यन्त्विति समुच्चरेत् ॥ ३ ॥
सनकादीन्मनुष्यांश्च निवीती तर्पयेद्यवैः ॥
अङ्गुष्ठद्वयमध्ये तु कृत्वा दर्भानृजून्द्विजः ॥ ४ ॥
कव्यवाडनलादींश्च पितॄन्दिव्यान्प्रतर्प्पयेत् ॥
प्राचीनावीतिको दर्भैर्द्विगुणैस्तिलमिश्रितैः ॥ ५ ॥
रवौ शुक्ले त्रयोदश्यां सप्तम्यां निशि सन्ध्ययोः ॥
श्रेयोर्थी ब्राह्मणो जातु न कुर्यात्तिलतर्प्पणम् ॥ ६ ॥
यदि कुर्यात्ततः कुर्याच्छुक्लैरेव तिलैः कृती ॥
चतुर्दश यमान्पश्चात्तर्पयेन्नाम उच्चरन् ॥७॥
ततः स्वगोत्रमुच्चार्य तर्पयेत्स्वान्पितॄन्मुदा ॥
सव्यजानुनिपातेन पितृतीर्थेन वाग्यतः ॥८॥
एकैकमञ्जलिं देवा द्वौद्वौ तु सनकादिकाः ॥
पितरस्त्रीन्प्रवाञ्छन्ति स्त्रिय एकैकमञ्जलिम् ॥ ९ ॥
अङ्गुल्यग्रेण वै दैवमार्षमङ्गुलिमूलगम् ॥
ब्राह्ममङ्गुष्ठमूले तु पाणिमध्ये प्रजापतेः ॥ 3.2.5.११० ॥
मध्येङ्गुष्ठप्रदेशिन्योः पित्र्यं तीर्थं प्रचक्षते ॥
आब्रह्मस्तम्बपर्यन्तं देवर्षिपितृमानवाः ॥ ११ ॥
तृप्यन्तु सर्व्वे पितरो मातृमातामहादयः ॥
अन्ये च मन्त्राः प्रोक्ता ये वेदोक्ताः पुराणसम्भवाः ॥ १२ ॥
साङ्गं च तर्प्पणं कुर्यात्पितॄणां च सुखप्रदम् ॥
अग्निकार्यं ततः कृत्वा वेदाभ्यासं ततश्चरेत् ॥ १३ ॥
श्रुत्यभ्यासः पञ्चधा स्यात्स्वीकारोऽर्थविचारणम् ॥
अभ्यासश्च तपश्चापि शिष्येभ्यः प्रतिपादनम् ॥ १४ ॥
लब्धस्य प्रतिपालार्थमलब्धस्य च लब्धये ॥
प्रातःकृत्यमिदं प्रोक्तं द्विजातीनां नृपोत्तम ॥ १५ ॥
अथवा प्रातरुत्थाय कृत्वावश्यकमेव च ॥
शौचाचमनमादाय भक्षयेद्दन्तधावनम् ॥ ॥ १६ ॥
विशोध्य सर्वगात्राणि प्रातःसन्ध्यां समाचरेत् ॥
वेदार्थानधिगच्छेद्वै शास्त्राणि विविधान्यपि ॥ १७ ॥
अध्यापयेच्छुचीञ्छिष्यान्हितान्मे धासमन्वितान् ॥
उपेयादीश्वरं चापि योगक्षेमादिसिद्धये ॥ १८ ॥
ततो मध्याह्नसिद्ध्यर्थं पूर्वोक्तं स्नानमाचरेत् ॥
स्नात्वा माध्याह्निकीं सन्ध्या मुपासीत विचक्षणः ॥ १९ ॥
देवतां परिपूज्याथ नैमित्तिकं विधिं चरेत् ॥
पवनाग्निं समुज्ज्वाल्य वैश्वदेवं समाचरेत् ॥ 3.2.5.१२० ॥
निष्पावान्को द्रवान्माषान्कलापांश्चणकांस्त्यजेत् ॥
तैलपक्वमपक्वान्नं सर्वं लवणयुक्त्यजेत् ॥ २१ ॥
आढक्यन्नं मसूरान्नं वर्तुलधान्यसम्भवम् ॥
भुक्तशेषं पर्युषितं वैश्वदेवे विवर्जयेत् औ। २२ ॥
दर्भपाणिः समाचम्य प्राणायामं विधाय च ॥
पृषोदिवीति मन्त्रेण पर्य्युक्षणमथाचरेत् ॥ २३ ॥
प्रदक्षिणं च पर्युक्ष्य द्विः परिस्तीर्य वै कुशान् ॥
रापोर्द्ध (?) देवमन्त्रेण कुर्याद्वह्निं स्वसम्मुखे ॥ २४ ॥
वैश्वानरं समभ्यर्च्य गन्धपुष्पाक्षतैस्तथा ॥
स्वशाखोक्तप्रकारेण होमं कुर्याद्विचक्षणः ॥ २५ ॥
अध्वगः क्षीणवृत्तिश्च विद्यार्थी गुरुपोषकः ॥
यतिश्च ब्रह्मचारी च षडेते धर्मभिक्षकाः ॥ २६ ॥
अतिथिः पान्थिको ज्ञेयोऽनूचानः श्रुतिपारगः ॥
मान्यावेतौ गृहस्थानां ब्रह्मलोकमभीप्सताम् ॥ २७ ॥
अपि श्वपाके शुनि वा नैवान्नं निष्फलं भवेत् ॥
अत्रार्थिनि समायाते पात्रापात्रं न चिन्तयेत् ॥ २८ ॥
शुनां च पतितानां च श्वपचां पापरोगिणाम् ॥
काकानां च कृमीणां च बहिरन्नं किरेद्भुवि ॥ २९ ॥
ऐन्द्रवारुणवायव्याः सौम्या वै नैर्ऋताश्च ये ॥
प्रतिगृह्णन्त्विमं पिण्डं काका भूमौ मयार्पितम् ॥ 3.2.5.१३० ॥
इत्थं भूत बलिं कृत्वा कालं गोदोहमात्रकम् ॥
प्रतीक्ष्यातिथिमायातं विशद्भोज्यगृहं ततः ॥ ३१ ॥
अदत्त्वा वायसबलिं नित्यश्राद्धं समाचरेत् ॥
नित्यश्राद्धे स्वसामर्थ्यात्त्रीन्द्वावेकमथापि वा ॥ ३२ ॥
भोजयेत्पितृयज्ञार्थं दद्यादुद्धत्य वारि च ॥
नित्यश्राद्धं दैवहीनं नियमादिविवर्जितम् ॥ ॥ ३३ ॥
दक्षिणारहितं त्वेतद्दातृभोक्तृसुतृप्तिकृत् ॥
पितृयज्ञं विधायेत्थं स्वस्थबुद्धिरनातुरः ॥ ३४ ॥
अदुष्टासनमध्यास्य भुञ्जीत शिशुभिः सह ॥
सुगन्धिः सुमनाः स्रग्वी शुचिवासोद्वयान्वितः ॥ ३५ ॥
प्रागास्य उदगास्यो वा भुञ्जीत पितृसेवितम् ॥
विधायान्नमनग्नं तदुपरिष्टादधस्तथा ॥ ३६ ॥
आपोशानविधानेन कृत्वाश्नीयात्सुधीर्द्विजः ॥
भूमौ बलित्रयं कुर्यादपो दद्यात्तदोपरि ॥ ३७ ॥
सकृच्चाप उपस्पृश्य प्राणाद्याहुतिपञ्चकम् ॥
दद्याजठरकुण्डाग्नौ दर्भपाणिः प्रसन्नधीः ॥ ३८ ॥
दर्भपाणिस्तु यो भुङ्क्ते तस्य दोषो न विद्यते ॥
केशकीटादिसम्भूतस्तदश्नीयात्सदर्भकः ॥ ३९ ॥
ततो मौनेन भुञ्जीत न कुर्याद्दन्तघर्षणम् ॥
प्रक्षालितव्यहस्तस्य दक्षिणाङ्गुष्ठमूलतः ॥ 3.2.5.१४० ॥
रौरवेऽपुण्यनि लये अधोलोकनिवासिनाम् ॥
उच्छिष्टोदकमिच्छूनामक्षय्यमुपतिष्ठताम् ॥ ४१ ॥
पुनराचम्य मेधावी शुचिर्भूत्वा प्रयत्नतः ॥
मुखशुद्धिं ततः कृत्वा पुराणश्रवणादिभिः ॥ ४२ ॥
अतिवाह्य दिवाशेषं ततः सन्ध्यां समाचरेत् ॥
गृहेषु प्राकृता सन्ध्या गोष्टे दशगुणा स्मृता ॥ ४३ ॥
नद्यामयुतसङ्ख्या स्यादनन्ता शिवसन्निधौ ॥
अनृतं मद्यगन्धं च दिवामैथुनमेव च ॥
पुनाति वृषलस्थानं सन्ध्या बहिरुपासिता ॥ ४४ ॥
उद्देशतः समाख्यात एष नित्यतनो विधिः ॥
इत्थं समाचरन्विप्रो नावसीदति कर्हिचित्॥१४५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहरुया संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये सदाचारवर्णनन्नाम पञ्चमोऽध्यायः ॥ ५ ॥ ॥ छ ॥ ॥