॥ व्यास उवाच ॥ ॥
अतः परं प्रवक्ष्यामि धर्मराजस्य चेष्टितम् ॥
यच्छ्रुत्वा यमदूतानां न भयं विद्यते क्वचित् ॥१॥
धर्मराजेन सा दृष्टा वर्द्धनी च वराप्सरा ॥
महत्यरण्ये का ह्येषा सुन्दराङ्ग्यतिसुन्दरी ॥२॥
निर्मानुषवनं चेदं सिंहव्याघ्रभयानकम् ॥
आश्चर्यं परमं ज्ञात्वा धर्मराजोऽब्रवीदिदम् ॥ ३ ॥
॥ धर्मराज उवाच ॥ ॥
कस्मात्त्वं मानिनि ह्येका वने चरसि निर्जने ॥
कस्मात्स्थानात्समायाता कस्य पत्नी सुशोभने ॥ ४ ॥
सुता त्वं कस्य वामोरु अतिरूपवती शुभा ॥
मानुषी वाथ गन्धर्वी अमरी वाथ किन्नरी ॥ ५ ॥
अप्सरा पक्षिणी वाथ अथवा वनदेवता ॥
राक्षसी वा खेचरी वा कस्य भार्या च तद्वद ॥ ६ ॥
सत्यं च वद मे सुभ्रूरित्याहार्कसुतस्तदा ॥
किमिच्छसि त्वया भद्रे किं कार्यं वा वदात्र वै ॥ ७ ॥
यदिच्छसि त्वं वामोरु ददामि तव वाञ्छितम् ॥ ८ ॥
॥ वर्द्धन्युवाच ॥ ॥
धर्मे तिष्ठति सर्वं वै स्थावरं जङ्गमं विभो ॥
स धर्मो दुष्करं कर्म कस्मात्त्वं कुरुषेऽनघ ॥ ९ ॥
॥ यम उवाच ॥ ॥
ईशानस्य च यद्रूपं द्रष्टुमिच्छामि भामिनि ॥
तेनाहं तपसा युक्तः शिवया सह शङ्करम् ॥ 3.2.4.१० ॥
यशः प्राप्स्ये सुखं प्राप्स्ये करोमि च सुदुष्करम् ॥
युगेयुगे मम ख्यातिर्भवेदिति मतिर्मम ॥ ११ ॥
कल्पे कल्पे महाकल्पे भूयः ख्यातिर्भवेदिति ॥
एतस्मात्कारणात्सुभ्रूस्तप्यते परमं तपः ॥ १२ ॥
कस्मात्त्वमागता भद्रे कथयस्व यथातथा ॥
किं कार्यं कस्य हेतुश्च सत्यमाख्यातुमर्हसि ॥ १३ ॥
॥ वर्द्धन्युवाच ॥ ॥
तपसैव त्वया धर्म भयभीतो दिवस्पतिः ॥
तेनाहं नोदिता चात्र तपोवि घ्नस्य काङ्क्षया ॥ १४ ॥
इन्द्रासनभयाद्भीता हरिणा हरिसन्निधौ ॥
प्रेषिताहं महाभाग सत्यं हि प्रवदाम्यहम् ॥ १५ ॥
॥ सूत उवाच ॥ ॥
सत्यवाक्येन च तदा तोषितो रविनन्दनः ॥
उवाचैनां महाभाग्यो वरदोहं प्रयच्छ मे ॥ १६ ॥
यमोऽहं सर्वभूतानां दुष्टानां कर्मकारिणाम् ॥
धर्म रूपो हि सर्वेषां मनुजानां जितात्मनाम् ॥ १७ ॥
स धर्मोऽहं वरारोहे ददामि तव दुर्लभम् ॥
तत्सर्वं प्रार्थय त्वं मे शीघ्रं चाप्सरसां वरे ॥ १८ ॥ ॥
॥ वर्द्धन्युवाच ॥ ॥
इन्द्रस्थाने सदा रम्ये सुस्थिरत्वं प्रयच्छ मे ॥
स्वामिन्धर्मभृतां श्रेष्ठ लोकानां च हिताय वै ॥ १९ ॥
॥ यम उवाच ॥ ॥
एवमस्त्विति तां प्राह चान्यं वरय सत्वरम् ॥
ददामि वरमुत्कृष्टं गानेन तोषितोस्म्यहम् ॥ 3.2.4.२० ॥
॥ वर्द्धन्युवाच ॥ ॥
अस्मिन्स्थाने महाक्षेत्रे मम तीर्थं महामते ॥
भूयाच्च सर्वपापघ्नं मन्नाम्नेति च विश्रुतम् ॥ २१ ॥
तत्र दत्तं हुतं तप्तं पठितं वाऽक्षयं भवेत् ॥
पञ्चरात्रं निषेवेत वर्द्धमानं सरोवर म् ॥२२ ॥
पूर्वजास्तस्य तुष्येरंस्तर्प्यमाणा दिनेदिने ॥
तथेत्युक्त्वा तु तां धर्मो मौनमाचष्ट संस्थितः॥
त्रिःपरिक्रम्य तं धर्मं नमस्कृत्य दिवं ययौ ॥ २३ ॥
॥ वर्द्धन्युवाच ॥ ॥
मा भयं कुरु देवेश यमस्यार्कसुतस्य च ॥
अयं स्वार्थपरो धर्म यशसे च समाचरेत् ॥ २४ ॥
॥ व्यास उवाच ॥ ॥
वर्द्धनी पूजिता तेन शक्रेण च शुभानना ॥
साधुसाधु महाभागे देवकार्य कृतं त्वया ॥२५॥
निर्भयत्वं वरागेहे सुखवासश्च ते सदा ॥
यशः सौख्यं श्रियं रम्यां प्राप्स्यसि त्वं शुभानने ॥ २६ ॥
तथेति देवास्तामूचुर्निर्भयानन्दचेतसा ॥
नमस्कृत्य च शक्रं सा गता स्थानं स्वकं शुभम् ॥ २७ ॥
॥ सूत उवाच ॥ ॥
गतेप्सरसि राजेन्द्र धर्मस्तस्थौ यथाविधि ॥
तपस्तेपे महाघोरं विश्वस्योद्वेगदायकम् ॥ २८ ॥
पञ्चाग्निसा धनं शुक्रे मासि सूर्येण तापिते ॥
चक्रे सुदुःसहं राजन्देवैरपि दुरासदम् ॥ २९ ॥
ततो वर्षशते पूर्णे अन्तको मौनमास्थितः॥
काष्ठभूत इभवातस्थौ वल्मीकशतसंवृतः ॥ 3.2.4.३० ॥
नानापक्षिगणैस्तत्र कृतनीडैः स धर्मराट् ॥
उपविष्टे व्रतं राजन्दृश्यते नैव कुत्रचित् ॥ ३१ ॥
संस्मरन्तोऽथ देवेश मुमापतिमनिन्दितम् ॥
ततो देवाः सगन्धर्वा यक्षाश्चोद्विग्नमानसाः ॥
कैलासशिखरं भूय आजग्मुः शिवसन्निधौ ॥ ३२ ॥
॥ देवा ऊचुः ॥
त्राहित्राहि महादेव श्रीकण्ठ जगतः पते ॥
त्राहि नो भूतभव्येश त्राहि नो वृषभध्वज ॥
दयालुस्त्वं कृपानाथ निर्विघ्नं कुरु शङ्कर ॥ ३३ ॥
॥ ईश्वर उवाच ॥ ॥
केनापराधिता देवाः केन वा मानमर्द्दिताः ॥
मर्त्ये स्वर्गेऽथवा नागे शीघ्रं कथय ताचिरम् ॥ ३४ ॥
अनेनैव त्रिशूलेन खट्वाङ्गेनाथवा पुनः ॥
अथ पाशुपतेनैव निहनिष्यामि तं रणे ॥
शीघ्रं वै वदतास्माक मत्रागमनकारणम् ॥ ३५ ॥
॥ देवा ऊचुः ॥ ॥
कृपासिन्धो हि देवेश जगदानन्दकारक ॥
न भयं मानुषादद्य न ना गाद्देवदानवात् ॥ ३६ ॥
मर्त्यलोके महादेव प्रेतनाथो महाकृतिः ॥
आत्मकार्यं महाघोरं क्लेशयेदिति निश्चयः ॥ ३७ ॥
उग्रेण तपसा कृत्वा क्लिश्यदात्मानमात्मना ॥
तेनात्र वयमुद्विग्ना देवाः सर्वे सदाशिव ॥
शरणं त्वामनुप्राप्ता यदिच्छसि कुरुष्व तत् ॥ ३८ ॥
॥ सूत उवाच ॥ ॥
देवानां वचनं श्रुत्वा वृषारूढो वृषध्वजः ॥
आयुधान्परिसङ्गृह्य कवचं सुमनोहरम् ॥
गतवानथ तं देशं यत्र धर्मो व्यवस्थितः ॥ ॥ ३९ ॥
॥ ईश्वर उवाच ॥ ॥
अनेन तपसा धर्म सन्तुष्टं मम मानसम् ॥
वरं ब्रूहि वरं ब्रूहि वरं ब्रूहीत्युवाच ह ॥ 3.2.4.४० ॥
इच्छसे त्वं यथा कामा न्यथा ते मनसि स्थितान् ॥
यंयं प्रार्थयसे भद्र ददामि तव साम्प्रतम् ॥ ४१ ॥
॥ सूत उवाच ॥ ॥
एवं सम्भाषमाणं तु दृष्ट्वा देवं महेश्वरम् ॥
वल्मीकादुत्थितो राजन्गृहीत्वा करसम्पुटम् ॥
तुष्टाव वचनैः शुद्धैर्लोकनाथमरिन्दम् ॥ ४२ ॥
॥ धर्म उवाच ॥ ॥
ईश्वराय नमस्तुभ्यं नमस्ते योगरूपिणे ॥
नमस्ते तेजोरूपाय नीलकण्ठ नमोऽस्तु ते ॥ ४३ ॥
ध्यातॄणामनुरूपाय भक्तिगम्याय ते नमः ॥
नमस्ते ब्रह्मरूपाय विष्णुरूप नमोऽ स्तु ते ॥ ४४ ॥
नमः स्थूलाय सूक्ष्माय अणुरूपाय वै नमः ॥
नमस्ते कामरूपाय सृष्टिस्थित्यन्तकारिणे ॥ ४५ ॥
नमो नित्याय सौम्याय मृडाय हरये नमः ॥
आतपाय नमस्तुभ्यं नमः शीतकराय च ॥ ४६ ॥
सृष्टिरूप नमस्तुभ्यं लोकपाल नमोऽस्तु ते ॥
नम उग्राय भीमाय शान्त रूपाय ते नमः ॥ ४७ ॥
नमश्चानन्तरूपाय विश्वरूपाय ते नमः ॥
नमो भस्माङ्गलिप्ताय नमस्ते चन्द्रशेखर ॥
नमोऽस्तु पञ्चवक्त्राय त्रिनेत्राय नमोऽस्तु ते ॥ ४८ ॥
नमस्ते व्यालभूषाय कक्षापटधराय च ॥
नमोंऽधकविनाशाय दक्षपापापहारिणे ॥
कामनिर्द्दाहिने तुभ्यं त्रिपुरारे नमोऽस्तु ते ॥ ॥ ४९ ॥
चत्वारिंशच्च नामानि मयोक्तानि च यः पठेत् ॥
शुचिर्भूत्वा त्रिकालं तु पठेद्वा शृणुयादपि ॥ 3.2.4.५० ॥
गोघ्नश्चैव कृतघ्नश्च सुरापो गुरुत ल्पगः ॥
ब्रह्महा हेमहारी च ह्यथवा वृषलीपतिः ॥ ५१ ॥
स्त्रीबालघातकश्चैव पापी चानृतभाषणः ॥
अनाचारी तथा स्तेयी परदाराभिगस्तथा ॥
अकार्यकारी कृत्यघ्नो ब्रह्मद्विड्वाडवाधमः॥ ५३॥
॥सूत उवाच॥
इत्येवं बहुभिर्वाक्यैर्धर्मराजेन वै मुहुः॥
ईडितोऽपि महद्भक्त्या प्रणम्य शिरसा स्वयम्॥५४॥
तुष्टः शम्भुस्तदा तस्मा उवाचेदं वचः शुभम् ॥
वरं वृणु महाभाग यत्ते मनसि वर्त्तते ॥ ५५ ॥
॥ यम उवाच ॥ ॥
यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि॥
तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥ ५६ ॥
मन्नाम्ना स्थानमेतद्धि ख्यातं लोके भवेदिति ॥
अच्छेद्यं चाप्यभेद्यं च पुण्यं पापप्रणाशनम् ॥ ॥ ५७ ॥
स्थानं कुरु महादेव यदि तुष्टोऽसि मे भव ॥
शिवेन स्थानकं दत्तं काशीतुल्यं तदा नृप ॥
तद्दत्त्वा च पुनः प्राह अन्यं वरय सत्तम ॥ ५८ ॥
॥ धर्म उवाच ॥ ॥
यदि तुष्टोऽसि देवेश दयां कृत्वा ममोपरि ॥
तं कुरुष्व महाभाग त्रैलोक्यं सचराचरम् ॥
वरेणैवं यथा ख्यातिं गमिष्यामि युगेयुगे ॥ ५९ ॥
॥ ईश्वर उवाच ॥ ॥
ब्रूहि कीनाश तत्सर्वं प्रकरोमि तवेप्सितम् ॥
तपसा तोषितोऽहं वै ददामि वरमीप्सितम् ॥ ॥ 3.2.4.६० ॥
॥ यम उवाच ॥ ॥
यदि मे वाञ्छितं देव ददासि तर्हि शङ्कर ॥
अस्मिन्स्थाने महाक्षेत्रे मन्नामा भव सर्वदा ॥ ६१ ॥
धर्मारण्यमिति ख्यातिस्त्रैलोक्ये सचराचरे ॥
यथा सञ्जायते देव तथा कुरु महेश्वर ॥ ६२ ॥
॥ ईश्वर उवाच ॥ ॥
धर्मारण्यमिदं ख्यातं सदा भूयाद्युगेयुगे ॥
त्वन्नाम्ना स्थापितं देव ख्यातिमेतद्गमिष्यति ॥
अथान्यदपि यत्किञ्चित्करोम्येष वदस्व तत ॥ ॥ ६३ ॥
॥ यम उवाच ॥ ॥
योजनद्वयविस्तीर्णं मन्नाम्ना तीर्थमुत्तमम् ॥
मुक्तेश्च शाश्वतं स्थानं पावनं सर्वदेहिनाम् ॥ ॥ ६४ ॥
मक्षिकाः कीटकाश्चैव पशुपक्षिमृगादयः ॥
पतङ्गा भूतवेताला पिशाचोरगराक्षसाः ॥ ६५ ॥
नारी वाथ नरो वाथ मत्क्षेत्रे धर्मसञ्ज्ञके ॥
त्यजते यः प्रियान्प्राणान्मुक्तिर्भवतु शाश्वती ॥ ६६ ॥
एवमस्त्विति सर्वोपि देवा ब्रह्मादयस्तथा ॥
पुष्पवृष्टिं प्रकुर्वाणाः परं हर्षमवा्प्नुयुः॥६७॥
देवदुन्दुभयो नेदुर्गन्धर्वपतयो जगुः॥
ववुः पुण्यास्तथा वाता ननृतुश्चाप्सरो गणाः॥६८॥
॥सूत उवाच॥॥
यमेन तपसा भक्त्या तोषितो हि सदाशिवः ॥
उवाच वचनं देवं रम्यं साधुमनोरमम्॥ ६९ ॥
अनुज्ञां देहि मे तात यथा गच्छामि सत्वरम् ॥
कैलासं पर्वतश्रेष्ठं देवानां हितकाम्यया ॥ 3.2.4.७० ॥
॥ यम उवाच ॥ ॥
न मे स्थानं परित्यक्तुं त्वया युक्तं महेश्वर ॥
कैलासादधिकं देव जायते वचनादिदम् ॥ ७१ ॥
॥ शिव उवाच ॥ ॥
साधु प्रोक्तं त्वया युक्तमेकांशेनात्र मे स्थितिः ॥
न मया त्यजितं साधु स्थानं तव सुनिर्मलम् ॥ ॥ ७२ ॥
विश्वेश्वरं महालिङ्गं मन्नाम्नात्र भविष्यति ॥
एवमुक्त्वा महादेवस्तत्रैवान्तरधीयत ॥ ७३ ॥
शिवस्य वचनात्तत्र तदा लिङ्गं तदद्भुतम् ॥
तं दृष्ट्वा च सुरैस्तत्र यथानामानुकीर्त्तनम् ॥ ७४ ॥
स्वंस्वं लिङ्गं तदा सृष्टं धर्मारण्ये सुरोत्तमैः ॥
यस्य देवस्य यल्लिङ्गं तन्नाम्ना परिकीर्तितम् ॥ ॥ ७५ ॥
॥ सूत उवाच ॥ ॥
धर्मेण स्थापितं लिङ्गं धर्मेश्वरमुपस्थितम् ॥
स्मरणात्पूजनात्तस्य सर्वपापैः प्रमुच्यते ॥ ७६ ॥
यद्ब्रह्म योगिनां गम्यं सर्वेषां हृदये स्थितम् ॥
तिष्ठते यस्य लिङ्गं तु स्वयम्भुवमिति स्थितम् ॥ ७७ ॥
भूतनाथं च सम्पूज्य व्याधिभिर्मुच्यते जनः ॥
धर्मवापीं ततश्चैव चक्रे तत्र मनोरमाम् ॥ ७८ ॥
आहत्य कोटितीर्थानां जलं वाप्यां मुमोच ह ॥
यमतीर्थस्वरूपं च स्नानं कृत्वा मनोरमम् ॥ ७९ ॥
स्नानार्थं देवतानां च ऋषीणां भावितात्मनाम् ॥
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥ 3.2.4.८० ॥
धर्मवाप्यां नरः स्नात्वा दृष्ट्वा धर्मेश्वरं शिवम् ॥
मुच्यते सर्वपापेभ्यो न मातुर्गर्भमाविशेत् ॥ ८१ ॥
तत्र स्नात्वा नरो यस्तु करोति यमतर्पणम् ॥
व्याधिदोषविनाशार्थं क्लेशदोषोप शान्तये ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥
वैवस्वताय कालाय दध्नाय परमेष्ठिने ॥८२॥
वृकोदराय वृकाय दक्षिणेशाय ते नमः ॥
नीलाय चित्रगुप्ताय चित्र वैचित्र ते नमः ॥ ८३ ॥
यमार्थं तर्पणं यो वै धर्मवाप्यां करिष्यति ॥
साक्षतैर्नामभिश्चैतैस्तस्य नोपद्रवो भवेत्॥ ८४ ॥
एकान्तरस्तृतीयस्तु ज्वरश्चातुर्थिकस्तथा ॥
वेलायां जायते यस्तु ज्वरः शीतज्वरस्तथा ॥ ८५ ॥
पीडयन्ति न चैतस्य यस्यैवो मतिरीदृशी ॥
रेवत्यादिग्रहा दोषा डाकिनी शाकिनी तथा ॥ ६६ ॥
धनधान्यसमृद्धिः स्यात्सन्ततिर्वर्धते सदा ॥
भूतेश्वरं तु सम्पूज्य सुस्नातो विजितेन्द्रियः ॥ ८७ ॥
साङ्गं रुद्रजपं कृत्वा व्याधिदोषात्प्रमुच्यते॥
अमावास्यां सोमदिने व्यतीपाते च वैधृतौ॥
सङ्क्रान्तौ ग्रहणे चैव तत्र श्राद्धं स्मृतं नृणाम्॥८८॥
श्राद्धं कृतं तेन समाः सहस्रं निरस्य चैतत्पितरस्त्वदन्ति॥
पानीयमेवापि तिलैर्विमिश्रितं ददाति यो वै प्रथितो मनुष्यः॥८९॥
एकविंशतिवारैस्तु गयायां पिण्डदानतः ॥
धर्मेश्वरे सकृद्दत्तं पितॄणां चाक्षयं भवेत् ॥ 3.2.4.९० ॥
धर्मेशात्पश्चिमे भागे विश्वेश्वरान्तरेपि वा ॥
धर्मवापीति विख्याता स्वर्गसोपानदायिनी ॥ ९१ ॥
धर्मेण निर्मिता पूर्वं शिवार्थं धर्मबुद्धिना ॥
तत्र स्नात्वा च पीत्वा च तर्पिताः पितृदेवताः ॥ ९२ ॥
शमीपत्रप्रमाणं तु पिण्डं दद्याच्च यो नरः ॥
धर्मवाप्यां महापुण्यां गर्भवासं न चाप्नुयात् ॥ ९३ ॥
कुम्भीपाकान्महारौद्राद्रौरवान्नरकात्पुनः ॥
अन्धतामिस्रकाद्राजन्मुच्यते नात्र संशयः ॥ ९४ ॥
॥ सूत उवाच ॥ ॥
एकवर्षं तर्पणीयं धर्मवाप्यां नरोत्तमः ॥
ऋतौ मासे च पक्षे च विपरीतं च जायते ॥ ९५ ॥
बर्हिषदोऽग्निष्वात्ताश्च आज्यपाः सोमपास्तथा ॥
तृप्तिं प्रयान्ति परमां वाप्यां वै तर्पणेन तु ॥ ९६ ॥
कुरुक्षेत्रादि क्षेत्राणि अयोध्यादिपुरस्तथा ॥
पुष्कराद्यानि सर्वाणि मुक्तिनामानि सन्ति वै ॥ ९७ ॥
तानि सर्वाणि तुल्यानि धर्मकूपोऽधिको भवेत् ॥
मन्त्रो वेदास्तथा यज्ञा दानानि च व्रतानि च ॥ ९८ ॥
अक्षयाणि प्रजायन्ते दत्त्वा जप्त्वा नरेश्वर ॥
अभिचाराश्च ये चान्ये सुसिद्धाथर्ववेदजाः ॥ ९९ ॥
ते सर्वे सिद्धिमायान्ति तस्मिन्स्थाने कृता अपि ॥
आदितीर्थं नृपश्रेष्ठ काजेशैरुपसेवितम् ॥ 3.2.4.१०० ॥
सिद्धिस्थानं सुसौम्यं च ब्रह्माद्यैरपि सेवि तम् ॥
कृते तु युगपर्यन्तं त्रेतायां लक्षपञ्चकम् ॥ १ ॥
द्वापरे लक्षमेकं तु दिनैकेन फलं कलौ ॥
एतदुक्तं मया ब्रह्मन्धर्मारण्यस्य वर्णनम् ॥
फलं चैवात्र सर्वं हि उक्तं द्वैपायनेन तु ॥ २ ॥
॥ सूत उवाच ॥ ॥
अतः परं प्रवक्ष्यामि धर्मवाक्यं मनोरमम् ॥
देवानां हितकामाय आज्ञाप्य च यदुक्तवान् ॥ ३ ॥
॥ धर्म उवाच ॥ ॥
अस्मिन्क्षेत्रे प्रकुर्वन्ति विष्णुमायाविमोहिताः ॥
पारदार्यं महादुष्टं स्वर्णस्तेयादिकं तथा ॥ ४ ॥
अन्यच्च विकृतं सर्वं कुर्वाणो नरकं व्रजेत् ॥
अन्यक्षेत्रे कृतं पापं धर्मारण्ये विनश्यति ॥ ५ ॥
धर्मारण्ये कृतं पापं वज्रलेपो भविष्यति ॥
यथा पुण्यं तथा पापं यत्किञ्चिच्च शुभाशुभम् ॥ ६ ॥
तत्सर्वं वर्द्धते नित्यं वर्षाणि शतमित्युत ॥
कामिनां कामदं पुण्य योगिनां मुक्तिदायकम् ॥ ७ ॥
सिद्धानां सिद्धिदं प्रोक्तं धर्मारण्यं तु सर्वदा ॥
अपुत्रो लभते पुत्रान्निर्धनो धनवान्भवेत् ॥ ८ ॥
एतदाख्यानकं पुण्यं धर्मेण कथितं पुरा ॥
यः शृणोति नरो भक्त्या नारी वा श्रावयेत्तु यः ॥
गोसहस्रफलं तस्य अन्ते हरिपुरं ब्रजेत् ॥ १०९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये क्षेत्रस्थापनन्नाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ छ ॥