व्यास उवाच ॥ ॥
श्रूयतां नृपशार्दूल कथां पौराणिकीं शुभाम् ॥
यां श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १ ॥
एकदा धर्मराजो वै तपस्तेपे सुदुष्करम् ॥
ब्रह्मविष्णुमहेशाद्यैर्जलवर्षान्तपादिषाट् ॥ २ ॥
आदौ त्रेतायुगे राजन्वर्षाणामयुतत्रयम् ॥
मध्येवनं तपस्यन्तमशोकतरुमूलगम् ॥ ३ ॥
शुष्कस्नायुपिनद्धास्थिसञ्चयं निश्चलाकृतिम् ॥
वल्मीककीटिकाकोटिशोषिताशेषशोणितम् ॥ ४ ॥
निर्मांसकीकसचयं स्फटिकोपलनिश्चलम् ॥
शङ्खकुदेन्दुतहिनमहाशङ्खलसच्छ्रियम् ॥ ५ ॥
सत्त्वावलम्बितप्राणमायुःशेषेण रक्षितम् ॥
निश्वासोच्छ्वास पवनवृत्तिसूचितजीवितम् ॥ ६ ॥
निमेषोन्मेषसञ्चारपशुनीकृतजन्तुकम् ॥
पिशङ्गितस्फुरद्रश्मिनेत्रदीपितदिङ्मुखम् ॥ ७ ॥
तत्तपोग्निशिखादाव चुम्बितम्लानकाननम् ॥
तच्छान्त्युदसुधावर्षसंसिक्ताखिलभूरुहम ॥ ८ ॥
साक्षात्तपस्यन्तमिव तपो धृत्वा नराकृतिम् ॥
निराकृतिं निराकाशं कृत्वा भक्तिं च काञ्चनम् ॥ ९ ॥
कुरङ्गशावैर्गणशो भ्रमद्भिः परिवारितम् ॥
निनादभीषणास्यैश्च वनजैः परिरक्षितम् ॥ 3.2.3.१० ॥
एतादृशं महाभीमं दृष्ट्वा देवाः सवासवाः ॥
ध्यायन्तं च महादेवं सर्वेषां चाभयप्रदम् ॥ ११ ॥
ब्रह्माद्या दैवता सर्वे कैलासं प्रति जग्मिरे ॥
पारिजाततरुच्छायामासीनं च सहोमया ॥ १२ ॥
नदिर्भृङ्गिर्महाकालस्तथान्ये च महागणाः ॥
स्कन्दस्वामी च भगवान्गणपश्च तथैव च ॥
तत्र देवाः सब्रह्माद्याः स्वस्वस्थानेषु तस्थिरे ॥ १३ ॥
॥ ब्रह्मोवाच ॥ ॥
नमोस्त्वनन्तरूपाय नीलश्च नमोऽस्तु ते ॥
अविज्ञातस्वरूपाय कैवल्यायामृताय च ॥ १४ ॥
नान्तं देवा विजानन्ति यस्य तस्मै नमोनमः ॥
यं न वाचः प्रशंसन्ति नमस्तस्मै चिदात्मने ॥ १५ ॥
योगिनो यं हृदः कोशे प्रणिधानेन निश्चलाः ॥
ज्योतीरूपं प्रपश्यति तस्मै श्रीब्रह्मणे नमः ॥ १६ ॥
कालात्पराय कालाय स्वेच्छया पुरुषाय च ॥
गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥१७॥
विष्णवे सत्त्वरूपाय रजोरूपाय वेधसे ॥
तमोरूपाय रुद्राय स्थितिसर्गान्तकारिणे ॥ १८ ॥
नमो बुद्धिस्वरूपाय त्रिधाहङ्काररूपिणे ॥
पञ्चतन्मात्ररूपाय नमः प्रकृतिरूपिणे ॥ १९ ॥
नमो नमः स्वरूपाय पञ्चबुद्धीन्द्रियात्मने ॥
क्षित्यादिपञ्चरूपाय नमस्ते विषयात्मने ॥ 3.2.3.२० ॥
नमो ब्रह्माण्डरूपाय तदन्तर्वर्तिने नमः ॥
अर्वाचीनपराचीनविश्वरूपाय ते नमः ॥२१॥
अनित्यनित्यरूपाय सदसत्पतये नमः ॥
नमस्ते भक्तकृपया स्वेच्छावि ष्कृतविग्रह ॥ २२ ॥
तव निश्वसितं वेदास्तव वेदोऽखिलं जगत् ॥
विश्वाभूतानि ते पादः शिरो द्यौः समवर्तत ॥ २३ ॥
नाभ्या आसीदन्तरिक्षं लोमानि च वनस्पतिः ॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यस्तव प्रभो ॥ २४ ॥
त्वमेव सर्वं त्वयि देव सर्वं सर्वस्तुति स्तव्य इह त्वमेव ॥
ईश त्वया वास्यमिदं हि सर्वं नमोऽस्तु भूयोऽपि नमो नमस्ते ॥ २५ ॥
इति स्तुत्वा महादेवं निपेतुर्दण्डवत्क्षितौ ॥
प्रत्युवाच तदा शम्भुर्वरदोऽस्मि किमिच्छति ॥ २६ ॥
॥ महादेव उवाच ॥ ॥
कथं व्यग्राः सुराः सर्वे बृहस्पतिपुरोगमाः ॥
तत्समाचक्ष्व मां ब्रह्मन्भवतां दुःखकारणम् ॥ २७ ॥
॥ ब्रह्मोवाच ॥ ॥
नीलकण्ठ महादेव दुःखनाशाभयप्रद ॥
शृणु त्वं दुःखमस्माकं भवतो यद्वदाम्यहम् ॥ २८ ॥
धर्मराजोऽपि धर्मात्मा तपस्तेपे सुदुःसहम् ॥
न जानेऽसौ किमिच्छति देवानां पदमुत्तमम् ॥ २९ ॥
तेन त्रस्तास्तत्तपसा सर्व इन्द्रपुरोगमाः ॥
भवतोङ्घ्रौ चिरेणैव मनस्तेन समर्पितम् ॥
तमुत्थापय देवेश किमिच्छति स धर्मराट् ॥ 3.2.3.३० ॥
॥ ईश्वर उवाच ॥ ॥
भवतां नास्ति नु भयं धर्मात्सत्यं ब्रवीम्यहम् ॥ ३१ ॥
तत उत्थाय ते सर्वे देवाः सह दिवौकसः ॥
रुद्रं प्रदक्षिणीकृत्य नमस्कृत्वा पुनःपुनः ॥ ३२ ॥
इन्द्रेण सहिताः सर्वे कैलात्पुनरागताः ॥
स्वस्वस्थाने तदा शीघ्रं गताः सर्वे दिवौकसः ॥ ३३ ॥
इन्द्रोऽपि वै सुधर्मायां गतवान्प्रभुरीश्वरः ॥
न निद्रां लब्धवांस्तत्र न सुखं न च निर्वृतिम् ॥ ३४ ॥
मनसा चिन्तयामास विघ्नं मे समुपस्थितम् ॥
अवाप महतीं चितां तदा देवः शचीपतिः ॥ ३५ ॥
मम स्थानं पराहर्तुं स्तपस्तेपे सुदुश्चरम् ॥
सर्वान्देवान्समाहूय इदं वचनमब्रवीत् ॥ ३६ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
शृण्वन्तु देवताः सर्वा मम दुःखस्य कारणम् ॥
दुःखेन मम यल्लब्धं तत्किं वा प्रार्थयेद्यमः ॥
बृहस्पतिः समालोक्य सर्वान्दे वानथाब्रवीत् ॥ ३७ ॥
बृहस्पतिरुवाच ॥ ॥
तपसे नास्ति सामर्थ्यं विघ्नं कर्तुं दिवौकसः ॥
उर्वश्याद्या समाहूय सम्प्रेष्यन्तां च तत्र वै ॥३८॥
तासामाकारणार्थाय प्रतिद्वारं प्रतस्थिवान्॥
स गत्वा ताः समादाय सभायां शीघ्रमाययौ॥३९॥
आगतास्ता हरिः प्राह महत्कार्यमुपस्थितम् ॥
गच्छन्तु त्वरिताः सर्वा धर्मारण्यं प्रति द्रुतम् ॥ 3.2.3.४० ॥
यत्र वै धर्मराजोसौ तपश्चक्रे सुदुष्करम् ॥
हास्यभावकटाक्षैश्च गीतनृत्यादिभिस्तथा ॥ ४१ ॥
तं लोभयध्वं यमिनं तपःस्थानाच्च्युतिर्भवेत् ॥
देवस्य वचनं श्रुत्वा तथा अप्सरसां गणाः ॥ ४२ ॥
मिथः संरेभिरे कर्तुं विचार्य च परस्परम्॥
धर्मारण्यं प्रतस्थेसावुर्वशी स्वर्वराङ्गना ॥ ४३ ॥
तुष्टुवुः पुष्पवर्षाश्च ससृजुस्तच्छिरस्यमी ॥
ततस्तु देवैर्विप्रैश्च स्तूयमानः समन्ततः ॥ ४४ ॥
निर्ययौ परमप्रीत्या वनं परमपावनम् ॥
बिल्वार्कखदिराकीर्णं कपित्थधवसङ्कुलम् ॥ ४५ ॥
न सूर्यो भाति तत्रैव महान्धकार संयुतम्॥
निर्जनं निर्मनुष्यं च बहुयोजनमायतम् ॥ ४६ ॥
मृगैः सिंहैर्वृतं घोरेरन्यैश्चापि वनेचरैः ॥
पुष्पितैः पादपैः कीर्णं सुमनोहरशाद्वलम् ॥ ॥ ४७ ॥
विपुलं मधुरानादैर्नादितं विहगैस्तथा ॥
पुंस्कोकिलनिनादाढ्यं झिल्लीकगणनादितम् ॥ ४८ ॥
प्रवृद्धविकटैर्वृक्षैः सुखच्छायैः समावृतम् ॥ ।
वृक्षैराच्छादिततलं लक्ष्म्या परमया युतम् ॥४९॥
नापुष्पः पादपः कश्चिन्नाफलो नापि कण्टकी ॥
षट्पदैरप्यनाकीर्णं नास्मिन्वै काननेभवेत् ॥3.2.3.५०॥
विहङ्गैर्नादितं पुष्पैरलङ्कृतमतीव हि ॥
सर्वर्तुकुसमैर्वृक्षैः सुखच्छायैः समावृतम् ॥ ५१ ॥
मारुताकलितास्तत्र द्रुमाः कुसुमशाखिनः ॥
पुष्पवृष्टिं विचित्रां तु विसृजन्ति च पादपाः ॥ ५२ ॥
दिवस्पृशोऽथ सम्पुष्टाः पक्षिभिर्मधुरस्वनैः ॥
विरेजुः पादपास्तत्र सुगन्धकुसुमैर्वृताः ॥ ५३ ॥
तिष्ठन्ति च प्रवालेषु पुष्पभारावनादिषु ॥
रुवन्ति मधुरालापाः षट्पदा मधुलिप्सवः ॥ ५४ ॥
तत्र प्रदेशांश्च बहूनामोदाङ्कुरमण्डितान् ॥
लतागृह परिक्षिप्तान्मनसः प्रीतिवर्द्धनान् ॥ ५५ ॥
सम्पश्यन्ती महातेजा बभूव मुदिता तदा ॥
परस्पराश्लिष्टशाखैः पादपैः कुसमाचितैः ॥ ५६ ॥
अशोभत वनं तत्तु महेन्द्रध्वजसन्निभैः ॥
सुखशीतसुगन्धी च पुष्परेणुवहोऽनिलः ॥ ५७ ॥
एवङ्गुणसमायुक्तं ददर्श सा वनं तदा ॥
तदा सूर्योद्भवां तत्र पवित्रां परिशोभिताम् ॥ ५८ ॥
आश्रमप्रवरं तत्र ददर्श च मनोरमम् ॥
पतिभिर्वालखिल्यैश्च वृतं मुनिगणा वृतम् ॥ ५९ ॥
अग्न्यगारैश्च बहुभिर्वृक्षशाखावलम्बितैः ॥
धूगम्रपानकणैस्तत्र दिग्वासोयतिभिस्तथा ॥ 3.2.3.६० ॥
पाल्या वन्या मृगास्तत्र सौम्या भूयो बभूविरे ॥
मार्जारा मूषकैस्तत्र सर्पैश्च नकुलास्तथा ॥ ६१ ॥
मृगशावैस्तथा सिंहाः सत्त्वरूपा बभूविरे ॥
परस्परं चिक्रीडुस्ते यथा चैव सहोदराः ॥
दूराद्ददर्श च वनं तत्र देवोऽब्रवीत्तदा ॥ ६२ ॥
॥ इन्द्र उवाच ॥ ॥
अयं च खलु धर्मराड् तपस्तुग्रेवतिष्ठते ॥
मम राज्याभिकाङ्क्षोऽसावतोर्थे यत्यतामिह ॥ ६३ ॥
तपोविघ्नं प्रकुर्वन्तु ममाज्ञा तत्र गम्यताम्॥
इन्द्रस्य वचनं श्रुत्वा उर्वशी च तिलोत्तमा ॥ ६४ ॥
सुकेशी मञ्जुघोषा च घृताची मेनका तथा ॥
विश्वाची चैव रम्भा च प्रम्लोचा चारुभाषिणी ॥६५॥
पूर्वचित्तिः सुरूपा च अनुम्लोचा यशस्विनी ॥
एताश्चान्याश्च बहुशस्तत्र संस्था व्यचिन्तयन् ॥ ६६ ॥
परस्परं विलोक्यैव शङ्कमाना भयेन हि ॥
यमश्चैव तथा शक्र उभौ वायतनं हि वः ॥॥ ॥ ६७ ॥
एवं विचार्य बहुधा वर्द्धनी नाम भारत ॥
सर्वासामप्सरसां श्रेष्ठा सर्वाभरणभूषिता ॥ ६८ ॥
उवाचैवोर्वशी तत्र किं खिद्यसि शुभानने॥
देवानां कार्यसिद्ध्यर्थं मायारूपबलेन च ॥
वर्णधर्मो यथा भूयात्करिष्ये पाकशासन ॥ ६९ ॥
॥ इन्द्र उवाच ॥ ॥
साधुसाधु महाभागे वर्द्धनी नाम सुव्रता ॥
शीघ्रं गच्छ स्वयं भद्रे कुरु कार्यं कृशोदरि ॥ 3.2.3.७० ॥
धीराणामवने शक्ता नान्या सुभ्रु त्वया विना ॥
वर्द्धनी च तथेत्युक्त्वा गता यत्र स धर्मराट् ॥ ७१ ॥
महता भूषणेनैव रूपं कृत्वा मनोरमम् ॥
कुङ्कुमैः कज्जलैर्वस्त्रैर्भूषणैश्चैव भूषिता ॥ ७२ ॥
कुसुमं च तथा वस्त्रं किङ्किणीकटिराजिता ॥
झणत्कारैस्तथा कष्टैर्भूषिता च पदद्वये ॥ ७३ ॥
नानाभूषणभूषाढ्या नानाचन्दनचर्चिता ॥
नानाकुसुम मालाढ्या दुकूलेनावृता शुभा ॥ ७४ ॥
प्रगृह्य वीणां संशुद्धां करे सर्वाङ्गसुन्दरी ॥
नर्तनं त्रिविधं तत्र चक्रे लोकमनोरमम् ॥ ७५ ॥
तारस्वरेण मधुरैर्वंशनादेन मिश्रितम् ॥ ७६ ॥
मूर्च्छनातालसंयुक्तं तन्त्रीलयसमन्वितम् ॥
क्षणेन सहसा देवो धर्मराजो जितात्मवान् ॥
विमनाः स तदा जातो धर्मराजो नृपात्मजः ॥ ७७ ॥
॥ युधिष्ठिर उवाच ॥ ॥
आश्चर्यं परमं ब्रह्मञ्जातं मे ब्रह्मसत्तम ॥
कथं ब्रह्मोपपन्नस्य तपश्छेदो बभूव ह ॥ ७८ ॥
धर्मे धरा च नाकश्च धर्मे पातालमेव च ॥
धर्मे चन्द्रार्कमापश्च धर्मे च पवनोऽनलः ॥ ७९ ॥
धर्मे चैवाखिलं विश्वं स धर्मो व्यग्रतां कथम् ॥
गतः स्वामिंस्तद्वैयग्र्यं तथ्यं कथय सुव्रत ॥ 3.2.3.८० ॥
॥ व्यास उवाच ॥ ॥
पतनं साहसानां च नरकस्यैव कारणम् ॥
योनिकुण्डमिदं सृष्टं कुम्भीपाकसमं भुवि ॥ ८१ ॥
नेत्ररज्ज्वा दृढं बद्ध्वा धर्षयन्ति मनस्विनः॥
कुचरूपैर्महादण्डैस्ताड्यमानमचेतसम् ॥ ८२ ॥
कृत्वा वै पातयन्त्याशु नरकं नृपसत्तम ॥
मोहनं सर्वभूतानां नारी चैवं विनिर्मिता ॥८३॥
तावद्धन्त मनःस्थैर्यं श्रुतं सत्यमनाकुलम् ॥
यावन्मत्ताङ्गनाग्रे न वागुरेव सुचेतसा म् ॥।४॥।
तावत्तपोभिवृद्धिस्तु तावद्दानं दया दमः॥
तावत्स्वाध्यायवृत्तं च तावच्छौचं धृतं व्रतम् ॥८५॥
यावत्त्रस्तमृगीदृष्टिं चपलां न विलोकयेत्॥
तावन्माता पिता तावद्धाता तावत्ससुहृज्जनः ॥ ८६ ॥
तावल्लज्जा भयं तावत्स्वाचारस्तावदेव हि ॥
ज्ञानमौदार्यमैश्वर्यं तावदेव हि भासते ॥
यावन्मत्ताङ्गनापाशैः पातितो नैव बन्धनैः ॥ ८७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे धर्मारण्यमाहात्म्ये इन्द्रभ यकथनन्नाम तृतीयोऽध्यायः ॥ ३ ॥ छ ॥