००२ युधिष्ठिरप्रश्नर्णनम्

॥ व्यास उवाच।॥ ॥
पृथ्वीपुरन्ध्यास्तिलकं ललाटे लक्ष्मीलतायाः स्फुटमालवालम्॥
वाग्देवताया जलकेलिरम्यं नोहेरकं सम्प्रति वर्णयामि ॥ १ ॥
साधु पृष्टं त्वया राजन्वाराणस्यधिकाधिकम्॥
धर्मारण्यं नृपश्रेष्ठ श्रृणुष्वावहितो भृशम्॥ २॥
सर्वतीर्थानि तत्रैव ऊषरं तेन कथ्यते ॥
ब्रह्मविष्णुमहेशाद्यैरिन्द्राद्यैः परिसेवितम् ॥ ३ ॥
लोकपालैश्च दिक्पालैर्मातृभिः शिवशक्तिभिः ॥
गन्धर्वैश्वाप्सरोभिश्च सेवितं यज्ञकर्मभिः ॥ ४॥
भूतवेतालशाकिनीग्रहदेवाधिदेवतैः॥
ऋतुभिर्मासपक्षैश्च सेव्यमानं सुरासुरेः । ॥ ९ ।
तदाद्यं च नृपस्थानं सर्वसौख्यप्रदुं तथा ॥
यज्ञैश्च बहुभिश्चैव सेवितं मुनिसत्तमैः ॥ ६॥
सिंहव्याघ्रैर्द्विपैश्चैव पक्षिभिर्विविधैस्तथा ॥
गोमहिष्यादिभिश्चैव सारसैर्मृगशूकरैः ॥ ७॥
सेवितं नृपशार्दूल श्वापदैवैर्विविधैरपि ।
तत्र ये निधनं प्राप्ताः पक्षिणः कीटकादयः ॥ ८ ॥
पशवः श्वापदाश्चैव जलस्थलचराश्च ये ॥
खेचरा भूचराश्चैव डाकिन्यो राक्षसास्तथा ॥ ९ ॥
एकोत्तरशतैः सार्द्धं मुक्तिस्तेषां हि शाश्वती ॥
ते सर्वे विष्णुलोकांश्च प्रयान्त्येव न संशयः ॥ 3.2.2.१०॥
सन्तारयति पूर्वज्ञान्दश पूर्वान्दशापरान् ।
यवव्रीहितिलैः सर्पिर्बिल्वपत्रैश्च दूर्वया ॥ ११ ॥
गुडैश्चैवोदकैर्नाथ तत्र पिण्डं करोति यः ॥
उद्धरेत्सप्त गोत्राणि कुलमेकोत्तरं शतम्॥ १२ ॥
वृक्षैरनेकधा युङ्क्ते लतागुल्मैः सुशोभितम् ॥
सदा पुण्यप्रदं तच्च सदा फलसमन्वितम्॥ १३॥
निर्वैरं निर्भयं चैव धर्मारण्यं च भूपते ॥
गोव्याघ्रैः क्रीड्यते तत्र तथा मार्जारमूषकैः ॥ ११ ॥
भेकोऽहिना क्रीडते च मानुषा राक्षसैः सह ॥
निर्भयं वसते तत्र धर्म्मारण्यं च भूतले ॥ १९ ॥
महानन्दमयं दिव्यं पावनात्पावनं परम् ॥
कलकण्ठः कलोत्कण्ठमनुगुञ्जति कुञ्जगः ॥ १६ ।
ध्यानस्थः श्रोष्यति तदा पारावत्येति वार्य्यते ॥
केकः कोकीं परित्यज्य मौनं तिष्ठति तद्भयात् ॥ १७ ॥
चकोरश्चन्द्रिकाभोक्ता नक्तव्रतमिवास्थितः॥
पठन्ति सारिकाः सारं शुकं सम्बोधयत्यहो ॥ १८॥
अपारवारसंसारसिन्धुपारप्रदः शिवः ॥
आलस्येनापि यो यायाद्गृहाद्धर्मवनं प्रति॥ १९ ॥
अश्वमेधाधिको धर्मस्तस्य स्याच्च पदेपदे ॥
शापानुग्रहसंयुक्ता ब्राह्मणास्तत्र सन्ति वै ॥ 3.2.2.२० ॥
अष्टादशसहस्राणि पुण्यकार्येषु निर्मिताः ॥
षट्त्रिंशत्तु सहस्राणि भृत्यास्ते वणिजो भुवि ॥ २१ ॥
द्विजभक्तिसमायुक्ता ब्रह्मण्यास्ते त्वयोनिजाः ॥
पुराणज्ञाः सदाचारा धार्मिकाः शुद्धबुद्धयः ॥
स्वर्गे देवाः प्रशंसन्ति धर्म्मारण्यनिवासिनः ॥ २२॥
॥ युधिष्ठिर उवाच ॥ ॥
धर्मारण्येति त्रिदशैः कदा नाम प्रतिष्ठितम् ॥
पावनं भूतले जातं कस्मात्तेन विनिर्मितम् ॥ २३ ॥
तीर्थभूतं हि कस्माच्च कारणात्तद्वदस्व मे ॥
ब्राह्मणाः कतिसं ख्याकाः केन वै स्थापिताः पुरा ॥ २४ ॥
अष्टादशसहस्राणि किमर्थं स्थापितानि वै ॥
कस्मिन्नंशे समुत्पन्ना ब्राह्मणा ब्रह्म सत्तमाः ॥ २५ ॥
सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः ॥
ऋग्वेदेषु च निष्णाता यजुर्वेदकृतश्रमाः ॥ २६ ॥
सामवेदाङ्गपारज्ञास्त्रैविद्या धर्म वित्तमाः ॥
तपोनिष्ठा शुभाचाराः सत्यव्रतपरायणाः ॥ २७ ॥
मासोपवासैः कृशितास्तथा चान्द्रायणादिभिः ॥
सदाचाराश्च ब्रह्मण्याः केन नित्यो पजीविनः ॥
तत्सर्वमादितः कृत्स्नं ब्रूहि मे वदतां वर ॥ २८ ॥
दानवास्तत्र दैतेया भूतवेतालसम्भवाः ॥
राक्षसाश्च पिशाचाश्च उद्वेजन्ते कथं न तान् ॥ २९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वार्धे धर्मारण्यमाहात्म्ये युधिष्ठिरप्रश्नर्णनन्नाम द्विती योऽध्यायः ॥ २ ॥