०५१ यात्राक्रमवर्णनम्

॥ सूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः ॥
यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ १ ॥
स्नात्वाचम्य विशुद्धात्मा कृतनित्यविधिः सुधीः ॥
रामनाथस्य तुष्ट्यर्थं प्रीत्यर्थं राघवस्य च ॥ २ ॥
भोजयित्वा यथाशक्ति ब्राह्मणान्वेदपारगान् ॥
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ ३ ॥
गोपीचन्दनलिप्तो वा स्वभालेऽप्यूर्ध्वपुण्ड्रकः ॥
रुद्राक्ष मालाभरणः सपवित्रकरः शुचिः ॥ ४ ॥
सेतुयात्रां करिष्येऽहमिति सङ्कल्प्य भक्तितः ॥
स्वगृहात्प्रव्रजेन्मौनी जपन्नष्टाक्षरं मनुम् ॥ ५ ॥
पञ्चाक्षरं नाममन्त्रं जपेन्नियतमानसः ॥
एकवारं हविष्याशी जितक्रोधो जितेन्द्रियः ॥ ६ ॥
पादुकाछत्ररहितस्ताम्बूलपरिवर्जितः ॥
तैलाभ्यङ्गविहीनश्च स्त्रीसङ्गादिविवर्जितः ॥७॥
शौचाद्याचारसंयुक्तः सन्ध्योपास्तिपरायणः ॥
गायत्र्युपास्ति कुर्वाणस्त्रिसन्ध्यं रामचिन्तकः ॥ ८ ॥
मध्येमार्गं पठन्नित्यं सेतुमाहात्म्यमादरात् ॥
पठन्रामायणं वापि पुराणान्तरमेव वा ॥ ९ ॥
व्यर्थवाक्यानि सन्त्यज्य सेतुं गच्छेद्विशुद्धये ॥
प्रतिग्रहं न गृह्णीयान्नाचारांश्च परित्यजेत् ॥ 3.1.51.१० ॥
कुर्यान्मार्गे यथाशक्ति शिवविष्ण्वादिपूजनम् ॥
वैश्वदेवादिकर्माणि यथाशक्ति समाचरेत् ॥ ११ ॥
ब्रह्मयज्ञमुखान्धर्मा न्प्रकुर्याच्चाग्निपूजनम् ॥
अतिथिभ्योऽन्नपानादि सम्प्रदद्याद्यथाबलम् ॥ १२ ॥
दद्याद्भिक्षां यतिभ्योऽपि वित्तशाठ्यं परित्यजन् ॥
शिवविष्ण्वादि नामानि स्तोत्राणि च पठेत्पथि ॥ १३ ॥
धर्ममेव सदा कुर्यान्निषिद्धानि परित्यजेत् ॥
इत्यादिनियमोपेतः सेतुमूलं ततो व्रजेत् ॥ १४ ॥
पाषाणं प्रथमं दद्यात्तत्र गत्वा समाहितः ॥
तत्रावाह्य समुद्रं च प्रणमेत्तदनन्तरम् ॥ १५ ॥
अर्घ्यं दद्यात्समुद्राय प्रार्थयेत्तदनन्तरम्॥
अनुज्ञां च ततः कुर्यात्ततः स्नायान्महोदधौ ॥ १६ ॥
मुनीनामथ देवानां कपीनां पितृणां तथा ॥
प्रकुर्यात्तर्पणं विप्रा मनसा संस्मरन्हरिम् ॥ १७ ॥ ॥
॥ पाषाणसङ्ख्या ॥ ॥
पाषाणसप्तकं दद्यादेकं वा विप्रपुङ्गवाः ॥
पाषाणदानात्सफलं स्नानं भवति नान्यथा ॥ १८ ॥
॥ पाषाणदानमन्त्रः ॥ ॥
पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करे ॥
पाषाणं ते मया दत्तमाहारार्थं प्रकल्प्यताम् ॥ १९ ॥
॥ सान्निध्यप्रार्थनामन्त्रः ॥ ॥
विश्वार्चि त्वं घृताचि त्वं विश्वयाने विशाम्पते ॥
सान्निध्यं कुरु मे देव सागरे लवणाम्भसि ॥ 3.1.51.२० ॥
॥ नमस्कारमन्त्रः ॥ ॥
नमस्ते विश्वगुप्ताय नमो विष्णो ह्यपाम्पते ॥
नमो हिरण्यशृङ्गाय नदीनां पतये नमः ॥
समुद्राय वयूनाय प्रोच्चार्य प्रणमेत्तथा ॥ २१ ॥
॥ अर्घ्यमन्त्रः ॥ ॥
सर्वरत्नमय श्रीमन्सर्वरत्नाकराकर ॥
सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे ॥ २२ ॥
॥ अनुज्ञापनमन्त्रः ॥ ॥
अशेषजगदाधार शङ्खचक्रगदा धर ॥
देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे ॥ २३ ॥
॥ प्रार्थनामन्त्रः ॥ ॥
प्राच्यां दिशि च सुग्रीवं दक्षिणस्यां नलं स्मरेत् ॥ २४ ॥
प्रतीच्यां मैन्दनामानमुदीच्यां द्विविदं तथा ॥
रामं च लक्ष्मणं चैव सीतामपि यशस्विनीम् ॥ २५ ॥
अङ्गदं वायुतनयं स्मरेन्मध्ये विभीषणम् ॥
पृथिव्यां यानि तीर्थानि प्राविशंस्त्वा महोदधे ॥ २६ ॥
स्नानस्य मे फलं देहि सर्वस्मात्त्राहि मांहसः ॥
हिरण्यशृङ्गमित्याभ्यां नाभ्यां नारायणं स्मरेत् ॥ २७ ॥
ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु ॥
ब्रह्मलोकमवाप्नोति जायते नेह वै पुनः ॥ २८ ॥
सर्वेषामपि पापानां प्रायश्चित्तं भवेत्ततः ॥
प्रह्लादं नारदं व्यासमम्बरीषं शुकं तथा ॥
अन्यांश्च भगवद्भक्तांश्चिन्तयेदेकमानसः ॥ २९ ॥
॥ स्नानमन्त्रः ॥ ॥
वेदादिर्यो वेदवसिष्ठयोनिः सरित्पतिः सागररत्नयोनिः ॥
अग्निश्च तेजश्च इलां च तेजो रेतोधा विष्णुरमृतस्य नाभिः ॥ 3.1.51.३० ॥
इदं ते अन्याभिरसमानमद्भिर्याः काश्च सिन्धुं प्रविशन्त्यापः ॥
सर्पो जीर्णामिव त्वचं जहामि पापं शरीरात्सशिरस्कोऽभ्युपेत्य ॥३१॥
समुद्राय वयूनाय नमस्कुर्यात्पुनर्द्विजाः ॥
सर्वतीर्थमयं शुद्धं नदीनां पतिमम्बुधिम् ॥ ३२॥
द्वौ समुद्राविति पुनः प्रोच्चार्य स्नानमाचरेत् ॥
ब्रह्माण्डोदरतीर्थानि करस्पृष्टानि ते रवे ॥ ३३ ॥
तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर ॥
प्राच्यां दिशि च सुग्रीवमित्यादिक्रमयोगतः ॥३४॥
स्मृत्वा भूयो द्विजाः सेतौ तृतीयं स्नानमाचरेत् ॥
देवीपत्तनमारभ्य प्रव्रजेद्यदि मानवः ॥ ३५ ॥
तदा तु नवपाषाणमध्ये सेतौ विमुक्तिदे ॥
स्नानमम्बुनिधौ कुर्यात्स्वपापौघापनुत्तये ॥ ३६ ॥
दर्भशय्यापदव्या चेद्गच्छे त्सेतुं विमुक्तिदम् ॥
तदा तत्रोदधावेव स्नानं कुर्याद्विमुक्तये ॥ ३७ ॥
॥ तर्पणविधिः ॥ ॥
पिप्पलादं कविं कण्वं कृतान्तं जीवितेश्वरम् ॥
मन्युं च कालरात्रिं च विद्यां चाहर्गणेश्वरम् ॥ ३८ ॥
वसिष्ठं वामदेवं च पराशरमुमापतिम् ॥
वाल्मिकिं नारदं चैव वालखिल्यान्मुनींस्तथा ॥ ३९ ॥
नलं नीलं गवाक्षं च गवयं गन्धमादनम् ॥
मैन्दं च द्विविदं चैव शरभं चर्षभं तथा ॥ 3.1.51.४० ॥
सुग्रीवं च हनूमन्तं वेगदर्शनमेव च ॥
रामं च लक्ष्मणं सीतां महाभागां यशस्विनीम् ॥ ४१ ॥
त्रिः कृत्वा तर्पयेदेतान्मन्त्रानुक्त्वा यथाक्रमम् ॥
विभोश्च तत्तन्नामानि चतुर्थ्यन्तानि वै द्विजाः ॥४२॥
देवा नृषीन्पितॄंश्चैव विधिवच्च तिलोदकैः॥
द्वितीयान्तानि नामानि चोक्त्वा तर्पयेद्द्विजाः ॥ ४३॥
तर्पयेत्सपवित्रस्तु जले स्थित्वा प्रसन्नधीः ॥
तर्पणात्सर्वतीर्थेषु स्नानस्य फलमाप्नुयात् ॥ ४४ ॥
एवमेतांस्तर्पयित्वा नमस्कृत्योत्तरेज्जलात् ॥
आर्द्रवस्त्रं परित्यज्य शुष्कवासःसमावृतः ॥ ४५ ॥
आचम्य सपवित्रश्च विधिवच्छ्राद्धमाचरेत् ॥
पिण्डान्पितृभ्यो दद्याच्च तिलतण्डुलकैस्तथा ॥ ४६ ॥
एतच्छ्राद्धमशक्तस्य मया प्रोक्तं द्विजोत्तमाः ॥
धनाढ्योऽन्नेन वै श्राद्धं षड्रसेन समाचरेत् ॥ ४७ ॥
गोभूतिलहिरण्यादिदानं कुर्यात्समृद्धिमान् ॥
रामचन्द्रधनुष्कोटावेवमेव समाचरेत् ॥ ४८ ॥
पाषाणदानपूर्वाणि तर्पणान्तानि वै द्विजाः ॥
सेतुमूले यथैतानि विधिवद्व्यतनोद्द्विजाः ॥ ४९ ॥
चक्रतीर्थं ततो गत्वा तत्रापि स्नानमाचरेत् ॥
पश्येच्च सेत्वधिपतिं देवं नारायणं हरिम् ॥ 3.1.51.५० ॥
गच्छन्पश्चिममार्गेण तत्रत्ये चक्रतीर्थके ॥
स्नात्वा दर्भशयं देवं प्रपश्येद्भक्तिपूर्वकम् ॥ ५१ ॥
कपितीर्थं ततः प्राप्य तत्रापि स्नानमाचरेत् ॥
सीताकुण्डं ततः प्राप्य तत्रापि स्नानमाचरेत् ॥ ५२ ॥
ऋणमोचनतीर्थं तु ततः प्राप्य महाफलम् ॥
स्नात्वा प्रणम्य रामं च जानकीरमणं प्रभुम् ॥ ५३ ॥
गच्छेल्लक्ष्मणतीर्थं तु कण्ठादुपरि वापनम् ॥
कृत्वा स्नायाच्च तत्रापि दुष्कृतान्यपि चिन्तयन् ॥ ५४ ॥
ततः स्नात्वा रामतीर्थे ततो देवालयं व्रजेत् ॥
स्नात्वा पापविनाशने च गङ्गायमुनयोस्तथा ॥ ५५ ॥
सावित्र्यां च सरस्वत्यां गायत्र्यां च द्विजोत्तमाः ॥
स्नात्वा च हनुमत्कुण्डे ततः स्नायान्महाफले ॥
ब्रह्मकुण्डं ततः प्राप्य स्नायाद्विधिपुरःसरम् ॥ ५६ ॥
नागकुण्डं ततः प्राप्य सर्वपापविनाशनम् ॥
स्नानं कुर्यान्नरो विप्रा नरकक्लेशनाशनम् ॥
गङ्गाद्याः सरितः सर्वास्तीर्थानि सकलान्यपि ॥ ५७ ॥
सर्वदा नागकुण्डे तु वसन्ति स्वाघशान्तये ॥
अनन्तादिमहानागैरष्टाभिरिदमुत्तमम् ॥ ५८ ॥
कल्पितं मुक्तिदं तीर्थं रामसेतौ शिवङ्करम् ॥
अगस्त्यकुण्डं सम्प्राप्य ततः स्नायादनुत्तमम् ॥ ५९ ॥
अथाग्नितीर्थमासाद्य सर्वदुष्कर्मनाशनम् ॥
स्नात्वा सन्तर्प्य विधिवच्छ्राद्धं कुर्यात्पितॄन्स्मरन् ॥ 3.1.51.६० ॥
गोभूहिरण्य धान्यादि ब्राह्मणेभ्यः स्वशक्तितः ॥
दत्त्वाग्नितीर्थतीरे तु सर्वपापैः प्रमुच्यते ॥ ६१ ॥
अथवा यानि तीर्थानि चक्रतीर्थमुखानि वै ॥
अनुक्रान्तानि विप्रेन्द्राः सर्वपापहराणि तु ॥ ६२ ॥
स्नायात्तदनुपूर्वेण स्नायाद्वापि यथारुचि ॥
स्नात्वैवं सर्वतीर्थेषु श्राद्धादीनि समाचरेत् ॥ ६३ ॥
पश्चाद्रामेश्वरं प्राप्य निषेव्य परमेश्वरम् ॥
सेतुमाधवमागत्य तथा रामं च लक्ष्मणम् ॥ ६४ ॥
सीतां प्रभञ्जनसुतं तथान्यान्कपिसत्तमान् ॥
तत्रत्य सर्वतीर्थेषु स्नात्वा नियमपूर्वकम् ॥ ६५ ॥
प्रणम्य रामनाथं च रामचन्द्रं तथापरान् ॥
नमस्कृत्य धनुष्कोटिं ततः स्नातुं व्रजेन्नरः ॥ ६६ ॥
तत्र पाषाण दानादिपूर्वोक्तनियमं चरेत् ॥
धनुष्कोटौ च दानानि दद्याद्वित्तानुसारतः ॥ ६७ ॥
क्षत्रं गाश्च तथान्यानि वस्त्राण्यन्यानि चादरात् ॥
ब्राह्मणेभ्यो वेदविद्भ्यो दद्याद्वित्तानुसारतः ॥ ६८ ॥
कोटितीर्थं ततः प्राप्य स्नायान्नियमपूर्वकम् ॥
ततो रामेश्वरं देवं प्रणमेद्वृषभध्वजम् ॥ ६९ ॥
विभवे सति विप्रेभ्यो दद्यात्सौवर्णदक्षिणाम्॥
तिलान्धान्यं च गां क्षेत्रं वस्त्राण्यन्यानि तण्डुलान् ॥ 3.1.51.७० ॥
दद्याद्वित्तानुसारेण वित्तलोभविवर्जितः ॥
धूपं दीपं च नैवेद्यं पूजोपकरणानिच ॥ ७१ ॥
रामेश्वराय देवाय दद्याद्वित्तानुसारतः ॥
स्तुत्वा रामेश्वरं देवं प्रणम्य च सभक्तिकम् ॥ ७२ ॥
अनुज्ञाप्य ततो गच्छत्सेतुमाधवसन्निधिम् ॥
तस्मै दत्त्वा च धूपादीननुज्ञाप्य च माधवम् ॥ ७३ ॥
पूर्वोक्तनियमोपेतः पुनरायात्स्वकं गृहम् ॥
ब्राह्मणान्भोजयेदन्नैः षड्रसैः परिपूरितैः ॥ ७४ ॥
तेनैव रामनाथोऽस्मै प्रीतोऽभीष्टं प्रयच्छति ॥
नारकं चास्य नास्त्येव दारिद्र्यं च विनश्यति ॥ ॥ ७५ ॥
सन्ततिर्वर्धते तस्य पुरुषस्य द्विजोत्तमाः ॥
संसारमवधूयाशु सायुज्यमपि यास्यति ॥ ७६ ॥
अत्रागन्तुमशक्तश्चेच्छ्रुतिस्मृत्यागमेषु यत् ॥
ग्रन्थजातं महापुण्यं सेतुमाहात्म्यसूचकम् ॥ ७७ ॥
तं ग्रन्थं पाठयेद्विप्रा महापातकनाशनम् ॥
इदं वा सेतुमाहात्म्यं पठेद्भक्तिपुरःसरम् ॥ ७८ ॥
सेतुस्नानफलं पुण्यं तेनाप्नोति न संशयः ॥
अन्धपङ्ग्वादिविषयमेतत्प्रोक्तं मनीषिभिः ॥ ७९ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितो विप्राः सेतुयात्राक्रमो द्विजाः ॥
एतत्पठन्वा शृण्वन्वा सर्वदुःखाद्विमुच्यते ॥ 3.1.51.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यात्राक्रमवर्णनन्नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥