०५० निधिचरितकथनम्

॥ श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि सेतुमाधववैभवम्॥
शृणुध्वं मुनयो भक्त्या पुण्यं पापहरं परम्॥ १ ॥
पुरा पुण्यनिधिर्नाम राजा सोमकुलोद्भवः ॥
मधुरां पालयामास हालास्येश्वरभूषिताम् ॥ २ ॥
कदाचित्स महीपालश्चतुरङ्गबलान्वितः ॥
सांऽतःपुरपरीवारो मधुरायां निजं सुतम् ॥ ३ ॥
स्थापयित्वा रामसेतुं प्रययौ स्नानकौतुकी ॥
तत्र गत्वा धनुष्कोटौ स्नात्वा सङ्कल्पपूर्वकम् ॥ ४ ॥
अन्येष्वपि च तीर्थेषु तत्रत्येषु नृपोत्तमः ॥
सस्नौ रामेश्वरं देवं सिषेवे च सभक्तिकम् ॥ ॥ ५ ॥
एवं स बहुकालं वै तत्रैव न्यवसत्सुखम् ॥
रामसेतौ वसन्पुण्ये गन्धमादनपर्वते ॥ ६ ॥
विष्णुप्रीतिकरं यज्ञं कदाचिदकरोन्नृपः ॥
यज्ञावसाने राजासौ मुदावभृथकौतुकी ॥ ७ ॥
सस्नौ रामधनुष्कोटौ सदारः सपरिच्छदः ॥
सेवित्वा रामनाथं च स वेश्म प्रययौ द्विजाः ॥ ८ ॥
एवं निवसमानेऽस्मिन्राज्ञि पुण्यनिधौ तदा ॥
कदाचिद्धरिणा लक्ष्मीर्विनोदकलहाकुला ॥ ९ ॥
हरिणा समयं कृत्वा नृपभक्तिं परीक्षितुम् ॥
विष्णुना प्रेषिता लक्ष्मीर्वैकुण्ठात्कमलालया ॥ 3.1.50.१० ॥
अष्टवर्षवयोरूपा प्रययौ गन्धमादने ॥
तत्रागत्य धनुष्कोटौ तस्थौ सा कमलालया ॥ ११ ॥
तस्मिन्नवसरे राजा ययौ गुणनिधिर्द्विजाः ॥
स्नातुं रामधनुष्कोटौ सदारः सहसैनिकः ॥ १२ ॥
तत्र गत्वा स राजाऽयं स्नात्वा नियमपूर्वकम्॥
तुलापुरुषमुख्यानि कृत्वा दानानि कृत्स्नशः ॥ १३ ॥
प्रयातुकामो भवनं कन्यां काञ्चिद्ददर्श सः ॥
अतीवरूपसम्पन्नामष्टवर्षां शुचिस्मिताम्॥ ॥ १४ ॥
दृष्ट्वा नृपस्तां पप्रच्छ कन्यां चारुविलोचनाम् ॥
चारुस्मितां चारुदतीं बिम्बोष्ठीं तनुमध्यमाम् ॥ १५ ॥
॥ पुण्यनिधिरुवाच ॥ ॥
का त्वं कन्ये सुता कस्य कुतो वा त्वमिहागता ॥
अत्रागमेन किं कार्यं तव वत्से शुचिस्मिते ॥ १६ ॥
एवं नृपस्तां पप्रच्छ कन्यामुत्पललोच नाम्॥
एवं पृष्टा तदा कन्या नृपं तमवदद्विजाः ॥ १७ ॥
न मे माता पिता नास्ति न च मे बान्धवास्तथा ॥
अनाथाहं महाराज भविष्यामि च ते सुता ॥ १८ ॥
त्वद्गृहेऽहं निवत्स्यामि तात त्वां पश्यतीसदा ॥
हठात्कृष्यति यो वा मां ग्रहीष्यति करेण तम् ॥ १९ ॥
यदि शासिष्यसे भूप तदाहं तव मन्दिरे ॥
वत्स्यामि ते सुता भूत्वा पितर्गुणनिधे चिरम् ॥ 3.1.50.२० ॥
एवमुक्तस्तदा प्राह कन्यां गुणनिधिर्नृपः ॥
अहं सर्वं करिष्यामि त्वदुक्तं कन्यके शुभे ॥ २१ ॥
ममापि दुहिता नास्ति पुत्रोऽस्त्येकः कुलोद्वहः ॥
तव यस्मिन्रुचिर्भद्रे त्वां तस्मै प्रददाम्यहम् ॥ २२ ॥
आगच्छ मद्गृहं कन्ये मम चान्तःपुरे वस ॥
मद्भार्यायाः सुता भूत्वा यथाकाममनिन्दिते ॥ २३ ॥
इत्युक्ता सा नृपेणाथ कन्या कमललोचना ॥।
तथा स्त्विति नृपं प्रोच्य तेन साकं ययौ गृहम् ॥ २४ ॥
राजा स्वभार्याहस्ते तां प्रददौ कन्यकां शुभाम् ॥
अब्रवीच्च स्वकां भार्यां राजा विन्ध्यावलिं तदा ॥ २५ ॥
आवयोः कन्यका चेयं राज्ञि विन्ध्यावले शुभे ॥
रक्षेमां सर्वथा त्वं वै पुरुषान्तरतः प्रिये ॥ २६ ॥
इतीरिता नृपेणासौ भार्या विन्ध्या वलिस्तदा ॥
ओमित्युक्त्वाथ तां कन्यां पुत्रीं जग्राह पाणिना ॥ २७ ॥
पोषिता पालिता राज्ञा सुतवत्कन्यका च सा ॥
न्यवात्सीत्सुसुखं राज्ञो भवने लालिता सदा ॥२८॥
अथ विष्णुर्जगन्नाथो लक्ष्मीमन्वेष्टुमादरात् ॥
आरूढविनतानन्दो वैकुण्ठान्निर्ययौ द्विजाः ॥२९॥
विनिर्गत्य स वैकुण्ठा द्विलङ्घितवियत्पथः ॥
बभ्राम च बहून्देशाल्लँक्ष्मीं तत्र न दृष्टवान्॥3.1.50.३०॥
रामसेतुमथागच्छद्गन्धमादनपर्वते ॥
अन्विष्य सर्वतो रामसेतुं बभ्राम चेन्दि राम्॥ ३१ ॥
एतस्मिन्नेव काले सा पुष्पावचयकौतुकात् ॥
सखीभिः कन्यकायासीद्भवनोद्यानपादपान् ॥ ३२ ॥
पुष्पाण्यवचिनोति स्म सखीभिः सह कानने ॥
तत्रागत्य ततो विष्णुर्विप्ररूपधरो द्विजाः ॥ ३३ ॥
गङ्गाम्भो विदधत्स्कन्धे वहञ्छत्रं करम्ण च ॥
गङ्गास्नायिद्विजस्येव रचयन्वेषमात्मनः ॥ ३४ ॥
धारयन्दक्षिणे पाणौ कुशाग्रन्थिपवित्रकम् ॥
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्रावलिशोभितः ॥ ३५ ॥
प्रजपञ्छिवनामानि धृतरुद्राक्ष मालिकः ॥
सोत्तरीयः शुचिर्विप्राः समायातो जनार्दनः ॥ ३६ ॥
तमागतं द्विजं दृष्ट्वा स्तब्धाऽतिष्ठत कन्यका ॥
अपश्यदष्टवर्षां तां वल्लभां पुष्प हारिणीम् ॥ ३७ ॥
दृष्ट्वा स त्वरया विप्रः कन्यां मधुरभाषिणीम् ॥
हठात्कृत्य करेणासौ जग्राह गरुडध्वजः ॥ ३८ ॥
तदा चुक्रोश सा कन्या सखीभिः सह कानने ॥
तमाक्रोशं समाकर्ण्य राजा स तु समागतः ॥ ३९ ॥
प्रययौ भवनोद्यानं वृतः कतिपयैर्भटैः ॥
गत्वा पप्रच्छ तां कन्यां तत्सखीरपि भूपतिः ॥ 3.1.50.४० ॥
किमर्थमधुना क्रुष्टं सखीभिः सह कन्यके ॥
त्वया तु भवनोद्याने तत्र कारणमुच्यताम् ॥ ४१ ॥
केन त्वं परिभूतासि हठात्कृष्य सुते मम ॥
इति पृष्टा तमाचष्ट कन्या गुणनिधिं नृपम् ॥
बाष्पपूर्णानना खिन्ना रुषिता भृशकातरा ॥ ४२ ॥
॥ कन्योवाच ॥ ॥
अयं विप्रो हठात्कृत्य जगृहे पाण्ड्यनाथ माम् ॥ ४३ ॥
तातात्र वृक्षमूलेऽसौ स तिष्ठत्यकुतोभयः ॥
तदाकर्ण्य वचस्तस्या राजा गुणनिधिः सुधीः ॥ ४४ ॥
जग्राह तरसा विप्रमविद्वांस्तद्बलं हठात् ॥
रामनाथालयं नीत्वा निगृह्य च हठात्तदा ॥ ४५ ॥
बद्ध्वा निगडपाशाभ्या मानयन्मण्डपं च तम् ॥
आत्मपुत्रीं समाश्वास्य शुद्धान्तमनयन्नृपः ॥ ४६ ॥
स्वयं च प्रययौ रम्यं भवनं नृपपुङ्गवः ॥
ततो रात्रौ स्वपन्राजा स्वप्ने विप्रं ददर्श तम् ॥ ४७ ॥
शङ्खचक्रगदापद्मवनमालाविभूषितम् ॥
कौस्तुभालङ्कृतोरस्कं पीताम्बरधरं हरिम् ॥ ४८ ॥
कालमेघच्छविं कान्तं गरुडोपरि संस्थितम् ॥
चारुस्मितं चारुदन्तं लसन्मकरकुण्डलम् ॥ ४९ ॥
विष्वक्सेनप्रभृतिभिः किङ्करैरुपसेवितम् ॥
शेषपर्यङ्कशयनं नारदादि मुनिस्तुतम् ॥ 3.1.50.५० ॥
ददर्श च स्वकां कन्यां विकासिकमलस्थिताम् ॥
धृतपङ्कजहस्तां तां नीलकुञ्चितमूर्धजाम् ॥ ५१ ॥
विष्णुवक्षस्थल्रावासां समुन्नतपयोधराम् ॥
दिग्गजैरभिषिक्ताङ्गीं श्यामां पीताम्बरावृताम् ॥ ५२ ॥
स्वर्णपङ्कजसङ्क्लृप्तमालालङ्कृतमूर्धजाम् ॥
दिव्याभरणशोभाढ्यां चारुहा रविभूषिताम् ॥ ५३ ॥
अनर्घरत्नसङ्क्लृप्तनासाभरणशोभिताम् ॥
सुवर्णनिष्काभरणां काञ्चीनूपुरराजिताम् ॥ ५४ ॥
महालक्ष्मीं ददर्शासौ राजा रात्रौ स्वकां सुताम् ॥
एवं दृष्ट्वा नृपः स्वप्ने विप्रं तं स्वसुतामपि ॥ ५५ ॥
उत्थितः सहसा तल्पात्कन्यागृहमवाप च ॥
तथैव दृष्टवान्कन्यां यथा स्वप्ने ददर्श ताम् ॥ ५६ ॥
अथोदिते सवितरि कन्यामादाय भूमिपः ॥
रामनाथालयं प्राप ब्राह्मणं न्यस्तवान्यतः ॥ ५७ ॥
स मण्डपवरे विप्रं ददर्श हरिरूपिणम् ॥
यथा ददर्श स्वप्ने तं वनमालादिचिह्नितम् ॥
विष्णुं विज्ञाय तुष्टाव नृपतिर्हरिमीश्वरम् ॥ ५८ ॥
॥ पुण्यनिधिरुवाच ॥ ॥
नमस्ते कमलाकान्त प्रसीद गरुडध्वज ॥ ५९ ॥
शार्ङ्गपाणे नमस्तुभ्यमपराधं क्षमस्व मे ॥
नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते ॥ 3.1.50.६० ॥
कौस्तुभालङ्कृताङ्काय नमः श्रीवत्सलक्ष्मणे ॥
नमस्ते ब्रह्मपुत्राय दैत्यसङ्घविदारिणे ॥ ६१ ॥
अशेषभुवनावासनाभिपङ्कजशालिने ॥
मधुकैटभसंहर्त्रे रावणान्तकराय ते ॥६२॥
प्रह्रादरक्षिणे तुभ्यं धरित्रीपतये नमः ॥
निर्गुणायाप्रमेयाय विष्णवे बुद्धिसाक्षिणे ॥६३॥
नमस्ते श्रीनिवासाय जग द्धात्रे परात्मने॥
नारायणाय देवाय कृष्णाय मधुविद्विषे॥६४॥
नमः पङ्कजनाभाय नमः पङ्कजचक्षुषे॥
नमः पङ्कजहस्तायाः पतये पङ्कजाङ्घ्रये ॥६५॥
भूयोभूयो जगन्नाथ नमः पङ्कजमालिने ॥
दयामूर्त्ते नमस्तुभ्यमपराधं क्षमस्व मे ॥ ६६ ॥
मया निगडपाशाभ्यां यः कृतो मधुसूदन ॥
अनयस्त्वत्स्वरूपमविदित्वा कृतः प्रभो ॥ ६७ ॥
अतो मदपराधोऽयं क्षन्तव्यो मधुसूदन ॥
एवं स्तुत्वा महाविष्णुं राजा पुण्यनिधिर्द्विजाः ॥ ६८ ॥
लक्ष्मीं तुष्टाव जननीं सर्वेषां प्राणिनां मुदा ॥
नमो देवि जगद्धात्रि विष्णुवक्षस्थलालये ॥ ६९ ॥
नमोब्धिसम्भवे तुभ्यं महालक्ष्मि हरिप्रिये ॥
सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः ॥ 3.1.50.७० ॥
सन्ध्यायै च प्रभायै च धात्र्यै भूत्यै नमोनमः ॥
श्रद्धायै चैव मेधायै सरस्वत्यै नमोनमः ॥ ७१ ॥
यज्ञविद्ये महाविद्ये गुह्यविद्येतिशोभने ॥
आत्मविद्ये च देवेशि मुक्तिदे सर्वदेहिनाम् ॥ ७२ ॥
त्रयीरूपे जगन्मातर्जगद्रक्षाविधायिनि ॥
रक्ष मां त्वं कृपादृष्ट्या सृष्टिस्थित्यन्तकारिणि ॥ ७३ ॥
भूयोभूयो नमस्तुभ्यं ब्रह्ममात्रे महेश्वरि ॥
इति स्तुत्वा महालक्ष्मीं प्रार्थयामास माधवम् ॥ ७४॥
यदज्ञानान्मया विष्णो त्वयि दोषः कृतोऽधुना ॥
पादे निगडबन्धेन स द्रोहः क्षम्यतां त्वया ॥ ७६ ॥
लोकास्ते शिशवः सर्वे त्वं पिता जगतां हरे॥
सुताऽपराधः पितृभिः क्षन्तव्यो मधुसूदन ॥ ७६ ॥
अपराधिनां च दैत्यानां स्वरूपमपि दत्तवान् ॥
भवान्विष्णो ममापीममपराधं क्षमस्व वै ॥ ॥ ७७ ॥
जिघांसयापि भगवन्नागतां पूतनां पुरा ॥
अनयस्त्वत्पदाम्भोजं तन्मां रक्ष कृपानिधे ॥
लक्ष्मीकान्त कृपादृष्टिं मयि पातय केशव ॥ ७८ ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
इति सम्प्रार्थितो विष्णु राज्ञा तेन द्विजोत्तमाः ॥
प्राह गम्भीरया वाचा नृपं पुण्यनिधिं ततः ॥ ७९ ॥
॥ विष्णुरुवाच ॥ ॥
राजन्न भीस्त्वया कार्या मद्बन्धननिमित्तजा ॥ 3.1.50.८० ॥
भक्तवश्यत्वमधुना तव प्रतिहितं मया ॥
मम प्रीतिकरं यज्ञमकरोद्यद्भवानिह ॥ ॥ ९१ ॥
अतस्त्वं मम भक्तोसि राजन्पुण्यनिधेऽधुना ॥
तेनाहं तव वश्योऽस्मि भक्तिपाशेन यन्त्रितः ॥ ८२ ॥
भक्तापराधं सततं क्षमाम्यहमरिं दम ॥
त्वद्भक्तिं ज्ञातुकामेन मया सम्प्रेरिता त्वियम् ॥ ८३ ॥
लक्ष्मीर्मम प्रिया राजंस्त्वयासंरक्षिताऽधुना ॥
तेनाहं तव तुष्टोऽस्मि मत्स्वरूपा त्वियं सदा ॥ ८४ ॥
अस्यां यो भक्तिमांल्लोके स मद्भक्तोऽभिधीयते ॥
अस्यां यो विमुखो राजन्स मद्द्वेषी स्मृतः सदा ॥ ८५ ॥
त्वमिमां भक्तिसं युक्तो यस्मात्पूजितवानसि ॥
मत्पूजापि कृता तस्मान्मदभिन्ना त्वियं यतः ॥ ८६ ॥
अतस्त्वया नापराधः कृतो मयि नरेश्वर ॥
किं तु पूजैव विहिता तां त्वयार्चयता मम ॥ ९७ ॥
त्वया मद्भार्यया साकं सङ्केतोऽकारि यत्पुरा ॥
तत्सङ्केताभिगुत्यर्थं मां यद्बन्धितवानसि ॥ ८८ ॥
तेन प्रीतोस्मि ते राजल्ँलक्ष्मीः संरक्षिताऽधुना ॥
मत्स्वरूपा च सा लक्ष्मीर्जगन्माता त्रयीमयी ॥ ८९ ॥
तद्रक्षां कुर्वता भूप त्वया यद्बन्धनं मम ॥
तत्प्रियं मम राजेन्द्र मा भयं क्रियतां त्वया ॥ 3.1.50.९० ॥
इयं लक्ष्मीस्तव सुता सत्यमेव न संशयः ॥
इतीरितेऽथ हरिणा लक्ष्मीः प्रोवाच भूपतिम् ॥ ॥ ९१ ॥
॥ लक्ष्मीरुवाच ॥ ॥
राजन्प्रीतास्मि ते चाहं रक्षिता यद्गृहे त्वया ॥
त्वद्भक्तिशोधनार्थं वा अहं विष्णुरुभावपि ॥ ९२ ॥
विनोद कलहव्याजादागताविह भूपते ॥
तव योगेन भक्त्या च तुष्टावावां परन्तप ॥ ९३ ॥
आवयोः कृपया राजन्सुखं ते भवतात्सदा ॥
सर्वभूमण्डलैश्वर्यं सदा ते भवतु ध्रुवम् ॥ ९४ ॥
आवयोः पादयुगले भक्तिर्भवतु ते ध्रुवा ॥
देहान्ते मम सायुज्यं पुनरावृत्तिवर्जितम् ॥ ९५ ॥
नित्यं भवतु ते राजन्मा भूत्ते पापधीस्तथा ॥
सदा धर्मे भव धीर्विष्णुभक्तियुता तव ॥९६॥
एवमुक्त्वा नृपं लक्ष्मीर्विष्णोर्वक्षस्थलं ययौ ॥
अथ विष्णुरुवाचेदं राजानं द्विज पुङ्गवाः ॥ ९७ ॥
यथा त्वयात्र बद्धोहं निगडेन नृपोतम ॥
तद्रूपेणैव वत्स्यामि सेतुमाधवसञ्ज्ञितः ॥ ९८ ॥
मयैव कारितः सेतुस्तद्रक्षार्थमहं नृप ॥
भूतराक्षससङ्घेभ्यो भयानामुपशान्तये ॥९९॥
ब्रह्मापि सेतुरक्षार्थं वसत्यत्रदिवानिशम्॥
शङ्करो रामनाथाख्यो नित्यं सेतौ वसत्यथ॥3.1.50.१००॥
इन्द्रादिलोकपालाश्च वसन्त्यत्रमुदान्विताः ॥
अतोऽहमत्रवत्स्यामि सेतुमाधवसञ्ज्ञया ॥१॥
सेतुसंरक्षणार्थं वै सर्वोपद्रवशान्तये ॥
सर्वेषामिष्टसिद्ध्यर्थं सर्वपापोपशान्तये ॥ २ ॥
त्वया निगडबद्धं मां सेवते येऽत्र मानवाः ॥
ते यान्ति मम सायुज्यं सर्वाभीष्टं तथा नृप ॥ ३ ॥
मम लक्ष्म्यास्तव तथा चरितं ये पठन्ति वै॥
न ते यास्यन्ति दारिद्र्यं किं त्वैश्वर्यं व्रजन्ति ते ॥४॥
त्वत्कृतं यदिदं स्तोत्रं मम लक्ष्म्या विशाम्पते ॥
ये पठन्ति च शृण्वन्ति लिखन्ति च मुदान्विताः ॥ ५ ॥
न तेषां पुनरावृत्तिर्मम लोकात्कदाचन ॥
इत्युक्त्वा स हरिस्तत्र नृपं पुण्यनिधिं तदा ॥ ६ ॥
तत्रैव पूर्णरूपेण सन्नि धत्ते स्म सर्वदा ॥
नृपः पुण्यनिधिर्विप्राः सेतुमाधवरूपिणम्॥ ७ ॥
विष्णुं प्रणम्य भक्त्या तु महापूजां विधाय च ॥
सेवित्वा रामनाथं च स्वमेव भवनं ययौ ॥ ८ ॥
यावज्जीवमसौ तत्र सेतौ न्यवसदुत्तमे ॥
मधुरायां निजं पुत्रं स्थापयामास पालकम् ॥ ९ ॥
तत्रैव निवसन्राजा देहान्ते मुक्तिमाप्तवान् ॥
विन्ध्यावलिश्च तत्पत्नी तमेवानुममार सा ॥
पतिव्रता पतिप्राणा प्रययौ सापि सद्गतिम्॥3.1.50.११०॥।
॥ श्रीसूत उवाच ॥ ॥
येत्र भक्तियुता नित्यं सेवन्ते सेतुमाधवम् ॥ ११ ॥
न तेषां पुनरावृत्तिः कैलासाज्जातु जायते ॥
सेतुमाधवसेवा ये न कुर्वन्त्यत्र मानवाः ॥ ॥ १२ ॥
न तेषां रामनाथस्य सेवा फलवती भवेत् ॥
गृहीत्वा सैकतं सेतोर्गङ्गायां निक्षिपेद्यदि ॥ १३ ॥
विभज्य माधवपुरे वैकुण्ठे स वसेन्नरः ॥
गङ्गां जिगमिषुर्विप्राः सेतुमाधवसन्निधौ ॥ १४ ॥
सङ्कल्प्य गङ्गां निर्गच्छेत्सा यात्रा सफला भवेत्॥
आनीय गङ्गासलिलं रामेशमभि षिच्य च ॥ १५ ॥
सेतौ निक्षिप्य तद्भारं ब्रह्म प्राप्नोत्यसंशयः ॥
इति वः कथितं विप्राः सेतुमाधववैभवम् ॥ १६ ॥
एतत्पठन्वा शृण्वन्वा वैकुण्ठे लभते गतिम् ॥ ११७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीय ब्रह्मखण्डे सेतुमाहात्म्ये सेतुमाधवप्रशंसायां पुण्य निधिचरितकथनन्नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥