॥ श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि रामनाथस्य शूलिनः ॥
स्तोत्राध्यायं महापुण्यं शृणुत श्रद्धया द्विजाः ॥ ॥ १ ॥
रामः प्रतिष्ठिते लिङ्गे तुष्टाव परमेश्वरम् ॥
लक्ष्मणो जानकी सीता सुग्रीवाद्याः कपीश्वराः ॥ २ ॥
ब्रह्मप्रभृतयो देवाः कुम्भजाद्या महर्षयः ॥
अस्तुवन्भक्तिसंयुक्ताः प्रत्येकं राघवेश्वरम् ॥ ३ ॥
तद्वक्ष्याम्यानुपूर्व्येण शृणुतादरपूर्वकम् ॥
एतच्छ्रवणमात्रेण मुक्तः स्या न्मानवो द्विजाः ॥ ४ ॥
॥ श्रीराम उवाच ॥ ॥
नमो महात्मने तुभ्यं महामायाय शूलिने ॥
स्वपदाम्बुजभक्तार्तिहारिणे सर्प हारिणे ॥ ५ ॥
नमो देवाधिदेवाय रामनाथाय साक्षिणे ॥
नमो वेदान्तवेद्याय योगिनां तत्त्वदायिने ॥ ६ ॥
सर्वदानन्दपूर्णाय विश्वनाथाय शम्भवे ॥
नमो भक्तभयच्छेदहेतुपादाब्जरेणवे ॥ ७ ॥
नमस्तेऽखिलनाथाय नमः साक्षात्परात्मने ॥
नमस्तेऽद्भुतवीर्याय महापातकनाशिने ॥ ॥ ८ ॥
कालकालाय कालाय कालातीताय ते नमः ॥
नमोऽविद्यानिहन्त्रे ते नमः पापहराय च ॥ ९ ॥
नमः संसारतप्तानां तापनाशैकहेतवे ॥
नमो मद्ब्रह्महत्याविनाशिने च विषाशिने ॥ 3.1.49.१० ॥
नमस्ते पार्वतीनाथ कैलासनिलयाव्यय ॥
गङ्गाधर विरूपाक्ष मां रक्ष सकलापदः ॥ ११ ॥
तुभ्यं पिनाकहस्ताय नमो मदनहारिणे ॥
भूयोभूयो नमस्तुभ्यं सर्वावस्थासु सर्वदा ॥ १२ ॥
॥ लक्ष्मण उवाच ॥ ॥
नमस्ते रामनाथाय त्रिपुरघ्नाय शम्भवे ॥
पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥ १३ ॥
नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ॥
नमः शिवाय सोमाय मार्कण्डेय भयच्छिदे ॥ १४ ॥
नमः सर्वप्रपञ्चस्य सृष्टिस्थित्यन्तहेतवे ॥
नम उग्राय भीमाय महादेवाय साक्षिणे ॥ १५ ॥
सर्वज्ञाय वरेण्याय वरदाय वराय ते ॥
श्रीकण्ठाय नमस्तुभ्यं पञ्चपातकभेदिने ॥ १६ ॥
नमस्तेऽस्तु परानन्दसत्यविज्ञानरूपिणे ॥
नमस्ते भवरोगघ्न स्नायूनां पतये नमः ॥ ॥ १७ ॥
पतये तस्कराणां ते वनानां पतये नमः ॥
गणानां पतये तुभ्यं विश्वरूपायसाक्षिणे ॥१८ ॥
कर्मणा प्रेरितः शम्भो जनिष्ये यत्रयत्र तु ॥
तत्रतत्र पदद्वन्द्वे भवतो भक्तिरस्तु मे ॥ १९ ॥
असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ॥
वैदिकाचारमार्गे च रतिः स्याद्भवते नमः ॥ 3.1.49.२० ॥ ॥
॥ सीतोवाच ॥ ॥
परमकारण शङ्कर धूर्जटे गिरिसुतास्तनकुङ्कुमशोभित ॥
मम पतौ परिदेहि मतिं सदा न विषमां परपूरुषगोचराम् ॥ ॥ २१ ॥
गङ्गाधर विरूपाक्ष नीललोहित शङ्कर ॥
रामनाथ नमस्तुभ्यं रक्ष मा करुणाकर ॥ २२ ॥
नमस्ते देवदेवेश नमस्ते करुणालय ॥।
नमस्ते भवभीतानां भवभीतिविमर्दन ॥ २३ ॥
नाथ त्वदीयचरणाम्बुजचिन्तनेन निर्द्धूय भास्करसुताद्भयमाशु शम्भो ॥
नित्यत्वमाशु गतवान्स मृकण्डुपुत्रः किं वा न सिध्यति तवाश्रयणात्परेश ॥ २४ ॥
परेशपरमानन्द शरणागतपालक ॥
पातिव्रत्यं मम सदा देहि तुभ्यं नमोनमः ॥ ॥ २५ ॥
॥ हनूमानुवाच ॥ ॥
देवदेव जगन्नाथ रामनाथ कृपानिधे ॥
त्वत्पादाम्भोरुहगता निश्चला भक्तिरस्तु मे ॥ २६ ॥
यं विना न जगत्सत्ता तद्भानमपि नो भवेत्॥
नमः सद्भानरूपाय रामनाथाय शम्भवे ॥ २७ ॥
अङ्गद उवाच ॥ ॥
यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् ॥
न भासते नमस्तस्मै रामनाथाय शम्भवे ॥ २८ ॥
॥ जाम्बुवानुवाच ॥ ॥
सर्वानन्दो यदानन्दो भासते परमार्थतः ॥
नमो रामेश्वरायास्मै परमानन्दरूपिणे ॥ २९ ॥
॥ नील उवाच ॥ ॥
यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ॥
तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे ॥ 3.1.49.३० ॥
॥ नल उवाच ॥ ॥
ब्रह्मविष्णुमहेशाना यदविद्याविजृम्भिताः ॥
नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते ॥ ३१ ॥
॥ कुमुद उवाच ॥ ॥
यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः ॥
कल्पितं कारणायास्मै रामनाथाय शम्भवे ॥ ३२ ॥
॥ पनस उवाच ॥ ॥
जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृम्भितम् ॥
जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे ॥ ३३ ॥
॥ गज उवाच ॥ ॥
यत्स्वरूपापरिज्ञानात्कार्याणां परमा णवः ॥
कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा ॥ ३४ ॥
तमहं परमानन्दं रामनाथं महेश्वरम् ॥
आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम् ॥ ॥ ३५ ॥
॥ गवाक्ष उवाच ॥ ॥
अज्ञानपाशबद्धानां पशूनां पाशमोचकम् ॥
रामेश्वरं शिवं शान्तमुपैमि शरणं सदा ॥ ३६ ॥ ॥
॥ गवय उवाच ॥ ॥
साध्वस्तजगदाधारं चन्द्रचूडमुमापतिम् ॥
रामनाथं शिवं वन्दे संसारामयभेषजम् ॥ ३७ ॥ ॥
शरभ उवाच ॥ ॥
अन्तःकरणमात्मेति यदज्ञानाद्विमोहितैः ॥
भण्यते रमनाथं तमात्मानं प्रणमाम्यहम् ॥ ३८ ॥
॥ गन्धमादन उवाच ॥ ॥
रामनाथमुमानाथं गणनाथं च त्र्यम्बकम् ॥
सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम् ॥३९ ॥
॥ सुग्रीव उवाच ॥ ॥
संसाराम्भोधि मध्ये मां जन्ममृत्युजले भये ॥
पुत्रदारधनक्षेत्रवीचिमालासमाकुले ॥ 3.1.49.४० ॥
मज्जद्ब्रह्माण्डखण्डे च पतितं नाप्तपारकम् ॥
क्रोशन्तमवशं दीनं विषयव्या लकातरम् ॥ ४१ ॥
व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिदम् ॥
मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते ॥ ४२ ॥
॥ विभीषण उवाच ॥ ॥
संसारवनमध्ये मां विनष्टनिजमार्गके ॥
व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे ॥ ४३ ॥
बाल्ययौवनवार्धक्यमहाभीमान्धकूपके ॥
क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते ॥ ४४ ॥
त्रासभूकण्टकाढ्ये च सीदन्तमधुनान्धकम् ॥
शोभनां पदवीं शम्भो नय रामेश्वराधुना ॥ ४५ ॥
॥ सर्वे वानरा ऊचुः ॥ ॥
निन्द्यानिन्द्येषु सर्वत्र जनित्वा योनिषु प्रभो ॥
कुम्भीपाकादिनरके पतित्वा च पुनस्तथा ॥ ४६ ॥
जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते ॥
संसारे पतितानस्मान्रामनाथ दयानिधे ॥ ४७ ॥
अनाथान्विवशान्दीनान्क्रोशतः पाहि शङ्कर ॥
नमस्तेस्तु दयासिन्धो रामनाथ महेश्वर ॥ ४८ ॥
॥ ब्रह्मोवाच ॥ ॥
नमस्ते लोकनाथाय रामनाथाय शम्भवे ॥
प्रसीद मम सर्वेश मदविद्यां विनाशय ॥ ४९ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥
तमहं शङ्करं वन्दे रामनाथमुमापतिम् ॥ 3.1.49.५० ॥
॥ यम उवाच ॥ ॥
पुत्रौ गणेश्वरस्कन्दौ वृषो यस्य च वाहनम् ॥
तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये ॥ ५१ ॥
॥ वरुण उवाच ॥ ॥
यस्य पूजाप्रभावेन जित मृत्युर्मृकण्डुजः॥
मृत्युञ्जयमुपासेऽहं रामनाथं हृदा तु तम् ॥ ५२ ॥
॥ कुबेर उवाच ॥ ॥
ईश्वराय लसत्कर्णकुण्डलाभरणाय ते ॥
लाक्षारुणशरीराय नमो रामेश्वराय वै ॥ ५३ ॥
॥ आदित्य उवाच ॥ ॥
नमस्तेऽस्तु महादेव रामनाथ त्रियम्बक ॥
दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव ॥ ५४ ॥
॥ सोम उवाच ॥ ॥
नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ॥
रामनाथ दयाम्भोधे स्मशाननिलयाय ते ॥ ५५ ॥
॥ अग्निरुवाच ॥ ॥
इन्द्राद्यखिलदिक्पालसंसेवितपदाम्बुज ॥
रामनाथाय शुद्धाय नमो दिग्वाससे सदा ॥ ५६ ॥
॥ वायुरुवाच ॥ ॥
हराय हरिरूपाय व्याघ्रचर्माम्बराय च ॥
रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव ॥ ५७ ॥
॥ बृहस्पतिरुवाच ॥ ॥
अहन्तासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ॥
रामनाथ ममाज्ञानमाशु नाशय ते नमः ॥ ५८ ॥ ॥
॥ शुक्र उवाच ॥ ॥
वञ्चकानामलभ्याय महामन्त्रार्थरूपिणे ॥
नमो द्वैतविहीनाय रामनाथाय शम्भवे ॥ ५९ ॥
॥ अश्विनावूचतुः ॥ ॥
आत्मरूपतया नित्यं योगिनां भासते हृदि ॥
अनन्य भानवेद्याय नमस्ते राघवेश्वर ॥ 3.1.49.६० ॥
॥ अगस्त्य उवाच ॥ ॥
आदिदेव महादेव विश्वेश्वर शिवाव्यय ॥
रामनाथाम्बिकानाथ प्रसीद वृष भध्वज ॥ ६१ ॥
अपराधसहस्रं मे क्षमस्व विधुशेखर ॥
ममाहमिति पुत्रादावहन्तां मम मोचय ॥ ६२ ॥
॥ सुतीक्ष्ण उवाच ॥ ॥
क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ॥
नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम् ॥ ६३ ॥
॥ विश्वामित्र उवाच ॥ ॥
श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ॥
त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य ॥६४॥ ॥
॥ गालव उवाच ॥ ॥
दानानि यज्ञा नियमास्तपांसि गङ्गादितीर्थेषु निमज्जनानि ॥
रामेश्वरं त्वां न नमन्ति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र ॥ ६५ ॥
॥ वसिष्ठ उवाच ॥ ॥
कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ॥
नमेत चेत्तानि लयं व्रजेयुर्यथान्धकारो रवितेजसाऽद्धा ॥ ६६ ॥
॥ अत्रिरुवाच ॥ ॥
दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवन्तमीशम् ॥
पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम् ॥ ६७ ॥
अङ्गिरा उवाच ॥
यो रामनाथं मनुजो भवन्तमुपेत्य बन्धून्प्रणमन्स्मरेत ॥
सन्तारयेत्तानपि सर्वपापात्किम द्भुतं तस्य कृतार्थतायाम्॥ ६८ ॥
॥ गौतम उवाच ॥ ॥
श्रीरामनाथेश्वर गूढमेत्तद्रहस्यभूतं परमं विशोकम् ॥
त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वन्ति हि तेऽपि धन्याः ॥ ६९ ॥
॥ शतानन्द उवाच ॥ ॥
वेदान्तविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ॥
शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ ॥ 3.1.49.७० ॥
॥ भृगुरुवाच ॥ ॥
रामनाथ तव पादपङ्कजं द्वन्द्वचिन्तनविधूतकल्मषः ॥
निर्भयं व्रजति सत्सुखा द्वयं सुप्रभं त्वथ अमोघचिद्धनम् ॥ ७१ ॥
॥ कुत्स उवाच ॥ ॥
रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ॥
रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः ॥ ७२ ॥
॥ काश्यप उवाच ॥ ॥
रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ॥
वेदशास्त्र जपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम् ॥ ७३ ॥
श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रान्तिकाले भवान्या च साकम् ॥
मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम् ॥ ७४ ॥
॥ गन्धर्वा ऊचुः ॥ ॥
रामनाथ त्वमस्माकं भजतां भवसागरे ॥
अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः ॥ ७५ ॥
॥ किन्नरा ऊचुः ॥ ॥
रामनाथ भवारण्ये व्याधिव्याघ्रभयानके ॥
त्वामन्तरेण नास्माकं पदवीदर्शको भवेत् ॥ ७६ ॥
॥ यक्षा ऊचुः ॥ ॥
रामनाथेन्द्रियारातिबाधा नो दुःसहा सदा ॥
तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे ॥ ७७ ॥
॥ नागा ऊचुः ॥ ॥
अचिन्त्यमहिमानं त्वा रामनाथ वयं कथम्॥
स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते ॥ ॥ ७८ ॥
॥ किम्पुरुषा ऊचुः ॥ ॥
नानायोनौ च जननं मरणं चाप्यनेकशः ॥
विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते ॥ ७९ ॥
॥ विद्याधरा ऊचुः ॥ ॥
अम्बिकापतये तुभ्यमसङ्गाय महात्मने॥
नमस्ते रामनाथाय प्रसीद वृषभध्वज ॥ 3.1.49.८० ॥
॥ वसव ऊचुः ॥ ॥
रामनाथगणेशाय गणवृन्दार्चिताङ्घ्रये ॥
गङ्गाधराय गुह्याय नमस्ते पाहि नः सदा ॥ ८१ ॥
॥ विश्वेदेवा ऊचुः ॥ ॥
ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् ॥
रामनाथाय साम्बाय नमोऽस्मान्रक्ष शङ्कर ॥ ८२ ॥
॥ मरुत ऊचुः ॥ ॥
परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः ॥
नमस्ते रामनाथाय स्वयम्भानाय शम्भवे ॥ ८३ ॥
॥ साध्या ऊचुः ॥ ॥
स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने ॥
रामेश्वराय देवाय नमोऽविद्या विभेदिने ॥ ८४ ॥
॥ सर्वे देवा ऊचुः ॥ ॥
सच्चिदानन्दसम्पूर्णं द्वैतवस्तुविवर्जितम् ॥
ब्रह्मात्मानं स्वयम्भानमादिमध्यान्तवर्जितम् ॥ ८५ ॥
अविक्रियमसङ्गं च परिशुद्धं सनातनम् ॥
आकाशादिप्रपञ्चानां साक्षिभूतं परामृतम्॥८६॥
प्रमातीतं प्रमाणानामपि बोधप्रदायिनम्॥
आविर्भावतिरोभाव सङ्कोचरहितं सदा ॥ ८७ ॥
स्वस्मिन्नध्यस्तरूपस्य प्रपञ्चस्यास्य साक्षिणम् ॥
निर्लेपं परमानन्दं निरस्तसकलक्रियम्॥ ८८ ॥
भूमानन्दं महात्मानं चिद्रूपं भोगवर्जितम् ॥
रामनाथं वयं सर्वे स्वपातकविशुद्धये ॥ ८९ ॥
चिन्तयामः सदा चित्ते स्वात्मानन्दबुभुत्सवः ॥
रक्षास्मान्करुणासिन्धो राम नाथ नमोऽस्तु ते ॥3.1.49.९॥।
रामनाथाय रुद्राय नमः संसारहारिणे ॥
ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया ॥ ९१ ॥
विभीषणसचिवा ऊचुः ॥
वरदाय वरेण्याय त्रिनेत्राय त्रिशूलिने ॥
योगिध्येयाय नित्याय रामनाथाय ते नमः ॥ ९२ ॥
॥ सूत उवाच ॥ ॥
इति रामादिभिः सर्वैः स्तुतो रामेश्वरः शिवः ॥
प्राह सर्वान्समाहूय रामादीन्द्विजसत्तमाः ॥ ९३ ॥
रामराम महाभाग जानकीरमण प्रभो ॥
सौमित्रे जानकि शुभे हे सुग्रीव मुखास्तथा ॥ ९४ ॥
अन्ये ब्रह्ममुखा यूयं शृणुध्वं सुसमास्थिताः ॥
स्तोत्राध्यायमिमं पुण्यं युष्माभिः कृतमादरात् ॥ ९५ ॥
ये पठन्ति च शृण्वन्ति श्रावयन्ति च मानवाः ॥ ॥
मदर्चनफलं तेषां भविष्यति न संशयः ॥ ९६ ॥
रामचन्द्रधनुष्कोटिस्नानपुण्यं च वै भवेत् ॥
वर्षमेकं रामसेतौ वासपुण्यं भविष्यति ॥ ९७ ॥
गन्धमादनमध्यस्थसर्वर्तीर्थाभिमज्जनात् ॥
यत्पुण्यं तद्भवेत्तेन नात्र संशयकारणम् ॥ ९८ ॥
उक्त्वैवं रामनाथोऽपि स्वात्मलिङ्गे तिरोदधे ॥
स्तोत्राध्यायमिमं पुण्यं नित्यं सङ्कीर्तयन्नरः ॥ ९९ ॥
जरामरणनिर्मुक्तो जन्मदुःखविवर्जितः ॥
रामनाथस्य सायुज्यमुक्तिं प्राप्नोत्यसंशयः ॥ 3.1.49.१०० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामादिभी रामनाथस्तोत्रकथनन्नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥