॥ श्रीसूत उवाच ॥ ॥
रामनाथं समुद्दिश्य कथां पापविनाशिनीम् ॥
प्रवक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ॥ १ ॥
पाण्ड्यदेशाधिपो राजा पुरासीच्छङ्कराभिधः ॥
ब्रह्मण्यः सत्यसन्धश्च यायजूकश्च धार्मिकः ॥ २ ॥
वेदवेदाङ्गतत्त्वज्ञः परसैन्यविदारणः ॥
चतुरोऽप्याश्रमान्वर्णान्धर्मतः परिपालयन्॥ ३ ॥
वैदिकाचारनिरतः पुराणस्मृतिपारगः ॥
शिवविष्ण्वर्चको नित्यमन्यदैवतपूजकः ॥ ४ ॥
महादानप्रदो नित्यं ब्राह्मणानां महात्मनाम् ॥
मृगयार्थं ययौ धीमान्स कदाचित्तपोवनम् ॥ ५ ॥
सिंहव्याघ्रेभमहिष क्रूरसत्वभयङ्करम्॥
झिल्लिकाभीषणरवं सरीसृपसमाकुलम्॥ ६ ॥
भीमश्वापदसम्पूर्णं दावानलभयङ्करम् ॥
महारण्यं प्रविश्याथ शङ्करो राजशेखरः ॥ ॥ ७ ॥
अनेकसैनिकोपेत आखेटिकुलसङ्कुलः ॥
पादुकागूढचरणो रक्तोष्णीषो हरिच्छदः ॥ ८ ॥
बद्धगोधाङ्गुलित्राणो धृतकोदण्डसायकः ॥
कक्ष्याबद्धमहाखङ्गः श्वेताश्ववरमास्थितः ॥ ९ ॥
सुवेषधारी सन्नद्धः पत्तिसङ्घसमावृतः ॥
कान्तारेषु च सर्वेषु पर्वतेषु गुहासु च ॥ 3.1.48.१० ॥
समुत्तीर्ण महास्रोता युवा सिंहपराक्रमः ॥
विचचार बलैः साकं दरीषु मृगयन्मृगान् ॥ ११ ॥
बध्यतां वध्यतामेष याति वेगान्मृगो वने ॥
एवं वदत्सु सैन्येषु स्वयमुत्प्लुत्य शङ्करः ॥ १२ ॥
मृगं हन्ति महाराजो विगाह्य विपिनस्थलीम् ॥
सिंहान्वराहान्महिषान्कुञ्जराच्छरभांस्तथा ॥ १३ ॥
विनिघ्नन्स मृगानन्यान्वन्याञ्छङ्करभूपतिः ॥
कुत्रचिद्विपिनोद्देशे दरीमध्यनिवासिनम् ॥ १४ ॥
व्याघ्रचर्मधरं शान्तं मुनिं नियतमानसम् ॥
व्याघ्रबुद्ध्या जघानाशु शरेणानतपर्वणा ॥ १५ ॥
अतिवेगेन विप्रेन्द्रास्तत्पत्नीं च ससायकः ॥
निजघान पतिप्राणां निविष्टां पत्युरन्तिके ॥१६॥
विलोक्य मातापितरौ तत्पुत्रो निहतौ वने ॥
रुरोद भृशदुःखार्तो विललाप च कातरः ॥१७॥
भोस्तात मातर्मां हित्वा युवां यातौ क्व वाधुना ॥
अहं कुत्र गमिष्यामि को वा मे शरणं भवेत् ॥ १८ ॥
को मामध्यापयेद्वेदाञ्छास्त्रं वा पाठयेत्पितः ॥
अम्ब मे भोजनं का वा दास्यते सोपदेशकम् ॥ १९ ॥
आचाराञ्च्छिक्षयेत्को वा तात त्वयि मृतेऽधुना ॥
अम्ब बालं प्रकुपितं का वा मामुपलाप()येत् ॥ 3.1.48.२० ॥
युवां निरागसावद्य केन पापेन सायकैः ॥
निहतौ वै तपोनिष्ठौ मत्प्राणौ मद्गुरू वने ॥ २१ ॥
एवं तयोः सुतो विप्रा मुक्तकण्ठं रुरोद वै ॥
अथ प्रलपितं श्रुत्वा शङ्करो विपिने चरन् ॥ २२ ॥
तच्छब्दाभिमुखः सद्यः प्रययौ स दरीमुखम् ॥
तत्रत्या मुनयोऽप्याशु समागच्छंस्तमाश्रमम् ॥ २३ ॥
ते दृष्ट्वा मुनयः सर्वे शरेण निहतं मुनिम्॥
तत्पत्नीं च हतां विप्रा राजानं च धनुर्धरम् ॥ २४ ॥
विलपन्तं सुतं चापि विलोक्य भृशविह्वलाः ॥
पुत्रमाश्वासयामासुर्मा रोदीरिति कातरम् ॥ २५ ॥
॥ मुनय ऊचुः ॥ ॥
आढ्ये वापि दरिद्रे वा मूर्खे वा पण्डितेऽपि वा ॥
पीने वाथ कृशे वापि समवर्ती परेतराट् ॥ २६ ॥
वने वा नगरे ग्रामे पर्वते वा स्थलान्तरे ॥
मृत्योर्वशे प्रयातव्यं सर्वैरपि हि जन्तुभिः ॥ २७ ॥
वत्स नित्यं च गर्भस्थैर्जातैरपि च जन्तुभिः ॥
युवभिः स्थविरैः सर्वैर्यातव्यं यमपत्तनम् ॥ २८ ॥
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥
काले प्राप्ते त्वयं देहस्त्यक्तव्यो द्विजपुत्रक ॥ २९ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च सङ्करैः ॥
यातव्यं प्रेतनिलये द्विजपुत्र महामते ॥ 3.1.48.३० ॥
देवाश्च मुनयो यक्षा गन्धर्वोरगराक्षसाः ॥
अन्ये च जन्तवः सर्वे ब्रह्मविष्णुहरादयः ॥ ३१ ॥
सर्वे यास्यन्ति विलयं न त्वं शोचितुमर्हसि ॥
अद्वयं सच्चिदानन्दं यद्ब्रह्मोपनिषद्गतम् ॥ ३२ ॥
न तस्य विलयो जन्म वर्धनं चापि सत्तम ॥
मलभाण्डे नवद्वारे पूयासृक्छोणितालये ॥ ३३ ॥
देहेऽस्मिन्बुद्बुदाकारे कृमियूथसमाकुले ॥
कामक्रोधभयद्रोहमोहमात्सर्यकारिणि ॥ ३४ ॥
परदारपरक्षेत्रपरद्रव्यैकलोलुपे ॥
हिंसासूयाशुचिव्याप्ते विष्ठामूत्रैकभाजने ॥ ३५ ॥
यः कुर्याच्छोभनधियं स मूढः स च दुर्मतिः ॥
बहुच्छिद्रघटाकारे देहेऽस्मिन्नशुचौ सदा ॥ ३६ ॥
वायोरवस्थितिः किं स्यात्प्राणाख्यस्य चिरं द्विज ॥
अतो मा कुरु शोकं त्वं जननीं पितरं प्रति ॥ ३७ ॥
तौ स्वकर्मवशाद्यातौ गृहं त्यक्त्वा त्विदं क्वचित्॥
तव कर्मवशात्त्वं च तिष्ठस्यस्मिन्महीतले ॥ ३८ ॥
यदा कर्मक्षयस्ते स्यात्तदा त्वं च मरिष्यसि ॥
मरिष्यमाणप्रेतो हि मृतप्रेतस्य शोचति ॥ ३९ ॥
यस्मिन्काले समुत्पन्नौ तव माता पिता तथा ॥
न तस्मिंस्त्वं समुत्पन्नस्ततो भिन्ना गतिर्हि वः ॥ 3.1.48.४० ॥
यदि तुल्या गतिस्ते स्यात्ताभ्यां सह महामते ॥।
तर्हि त्वयापि यातव्यं मृतौ यत्र हि तौ गतौ ॥४१॥
मृतानां बान्धवा ये तु मुञ्चन्त्यश्रूणि भूतले ॥
पिबन्त्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै ॥ ४२॥
अतः शोकं परित्यज्य धृतिं कृत्वा समाहितः ॥
अनयोः प्रेतकार्याणि कुरु त्वं वैदिकानि तु ॥ ४३ ॥
शरघातान्मृतावेतौ यस्मात्ते जननी पिता ॥
अतस्तद्दोषशान्त्यर्थमस्थीन्यादाय वै तयोः ॥ ४४ ॥
रामनाथशिवक्षेत्रे रामसेतौ विमुक्तिदे ॥
स्थापयस्व तथा श्राद्धं सपिण्डीकरणादिकम् ॥ ४५ ॥
तत्रैव कुरु शुद्ध्यर्थं तयोर्बाह्मणपुत्रक ॥
तेन दुर्मृत्युदोषस्य शान्तिर्भवति नान्यथा ॥ ४६ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तः स मुनिभिः शाकल्यस्य सुतो द्विजाः ॥
जाङ्गलाख्यस्तयोः सर्वं पितृमेधं चकार वै ॥ ४७ ॥
अन्येद्युरस्थीन्यादाय हालास्यं प्रययौ च सः ॥
तस्माद्रामेश्वरं सद्यो गत्वाऽयं जाङ्गलो द्विजः॥४८॥
मुनिप्रोक्तप्रकारेण तस्मिन्रामेश्वरस्थले॥
निधाय पित्रोरस्थीनि श्राद्धादीन्यकरोत्तथा॥४९॥
प्रथमाब्दिकपर्यन्तं कार्यं तत्राकरोच्च सः॥
स्थित्वाब्दं स मुनेः पुत्र एको जाङ्गलसञ्ज्ञकः॥3.1.48.५॥।
आब्दिकान्ते दिने विप्रो रात्रौ स्वप्ने विलोक्य तु॥
स्वमातरं च पितरं शङ्खचक्रगदाधरौ॥५१॥
गरुडोपरि संविष्टौ पद्ममालाविभूषितौ॥
शोभितौ तुलसीदाम्ना स्फुरन्मकरकुण्डलौ॥५२॥
कौस्तुभालङ्कृतोरस्कौ पीताम्बरविराजितौ ॥
एवं दृष्ट्वा मुनिसुतो जाङ्गलः सुप्रसन्नधीः ॥ ५३ ॥
स्वाश्रमं पुनरागत्य सुखेन न्यवसद्द्विजाः ॥
स्वप्नदृष्टं च वृत्तान्तं मातापित्रोः स जाङ्गलः ॥ ५४ ॥
तेभ्यो न्यवेदयत्सर्वं ब्राह्मणेभ्योऽतिहर्षितः ॥
श्रुत्वा ते मुनयो वृत्तमासन्सम्प्रीतमानसाः ॥ ५५ ॥
अथ राजानमालोक्य सर्वे तेऽपि महर्षयः ॥
अवदन्कुपिता विप्राः शपन्तः शङ्करं नृपम् ॥ ५६ ॥
पाण्ड्यभूप महामूर्ख क्रौर्याद्ब्राह्मणघातक ॥
स्त्रीहत्या ब्रह्महत्या च कृता यस्मात्त्वयाधुना ॥ ५७ ॥
अतः शरीरसन्त्यागं कुरु त्वं हव्यवाहने ॥
नोचेत्तव न शुद्धिः स्यात्प्रायश्चित्तशतैरपि ॥ ५८ ॥
त्वत्सम्भाषणमात्रेण ब्रह्महत्यायुतं भवेत् ॥
अस्मत्सकाशाद्गच्छ त्वं पाण्ड्यानां कुलपांसन ॥ ५९ ॥
इत्युक्तो मुनिभिः पाण्ड्यः शङ्करो द्विजपुङ्गवाः ॥
तथास्तु देहसन्त्यागं करिष्ये हव्यवाहने ॥ 3.1.48.६० ॥
ब्रह्महत्याविशुद्ध्यर्थं भवतां सन्निधावहम् ॥
अनुग्रहं मे कुर्वन्तु भवन्तो मुनिसत्तमाः ॥ ६१ ॥
तथा शरीर सन्त्यागात्पातकं मे लयं व्रजेत् ॥
एवमुक्त्वा मुनीन्सर्वाञ्च्छङ्करः पाण्ड्यभूपतिः ॥ ६२ ॥
स्वान्मन्त्रिणः समाहूय बभाषे वचनं त्विदम् ॥
भो मन्त्रिणो ब्रह्महत्या मयाऽकार्यविचारतः ॥ ६३ ॥
स्त्रीहत्या च तथा क्रूरा महानरकदायिनी ॥
एतत्पातकशुद्ध्यर्थं मुनीनां वचनादहम् ॥ ६४ ॥
प्रदीप्ते ऽग्नौ महाज्वाले परित्यक्ष्ये कलेवरम् ॥
काष्ठान्यानयत क्षिप्रं तैरग्निश्च समिध्यताम् ॥ ६५ ॥
मम पुत्रं च सुरुचिं राज्ये स्थापयताचिरात् ॥
मा शोकं कुरुतामात्या दैवतं दुरतिक्रमम् ॥ ६६ ॥
इतीरिता नृपतिना मन्त्रिणो रुरुदुस्तदा ॥
पाण्ड्यनाथ महाराज रिपूणामपि वत्सल ॥ ६७ ॥
वयं हि भवता नित्यं पुत्रवत्परिपालिताः ॥
त्वां विना न प्रवेक्ष्याम पुरीं देवपुरोपमाम् ॥ ६८ ॥
हव्यवाहं प्रवेक्ष्यामो महा काष्ठसमेधितम् ॥
तेषां प्रलपितं श्रुत्वा पाण्ड्य शङ्करभूपतिः ॥
प्रोवाच मन्त्रिणः सर्वान्वचनं सान्त्वपूर्वकम् ॥ ६९ ॥
॥ शङ्कर उवाच ॥
किं करिष्यथ भोऽमात्या महापातकिना मया ॥ 3.1.48.७० ॥
सिंहासनं समारुह्य न कर्तुं युज्यते बत ॥
चतुरर्णवपर्यन्तधरापालनमञ्जसा ॥ ७१ ॥
मत्पुत्रं सुरुचिं शीघ्रमतः स्थापयतासने ॥
काष्ठान्यानयत क्षिप्रं प्रवेष्टुं हव्यवाहनम् ॥ ७२ ॥
मम मन्त्रिवरा यूयं विलम्बं त्यजताधुना ॥
इत्युक्ता मन्त्रिणः काष्ठं समानिन्युः क्षणेन ते ॥ ७३ ॥
अग्निं प्रज्वलितं काष्ठैर्दृष्ट्वा शङ्करभूपतिः ॥
स्नात्वाचम्य विशुद्धात्मा मुनीनां सन्निधौ तदा ॥ ७४ ॥
अग्निं प्रदक्षिणीकृत्य तान्मुनीनपि सत्वरम्॥
अग्निं मुनीन्नमस्कृत्य ध्यात्वा देवमुमापतिम्॥७५॥
अग्नौ पतितुमारेभे धैर्यमालम्ब्य भूपतिः॥
तस्मिन्नवसरे विप्रा मुनीनामपि शृण्वताम्॥७६॥
अशरीरा समुदभूद्वाणी भैरवनादिनी॥
भोः शङ्कर महीपाल मानलं प्रविशाधुना॥७७॥
ब्रह्महत्यानिमित्तं ते भयं मा भून्महामते ॥
तवोपदेशं वक्ष्यामि रहस्यं वेदसम्मितम् ॥ ७८ ॥
शृणुष्वावहितो राजन्मदुक्तं क्रियतां त्वया ॥
दक्षिणाम्बुनिधेस्तीरे गन्धमादनपर्वते ॥ ७९ ॥
रामसेतौ महापुण्ये महापातकनाशने ॥
रामप्रतिष्ठितं लिगं रामनाथं महेश्वरम् ॥ 3.1.48.८० ॥
सेवस्व वर्षमेकं त्वं त्रिकालं भक्तिपूर्वकम् ॥
प्रदक्षिणप्रक्रमणं नमस्कारं च वै कुरु ॥ ८१ ॥
महाभिषेकः क्रियतां रामनाथस्य वै त्वया ॥
नैवेद्यं विविधं राजन्क्रियतां च दिनेदिने ॥ ८२ ॥
चन्दनागरुकर्पूरै रामलिङ्गं प्रपूजय ॥
भारद्वयेन गव्येन ह्याज्येन त्वभिषेचय ॥ ८३ ॥
प्रत्यहं च गवां क्षीरैर्द्विभारपरिसम्मितैः ॥
मधुद्रोणेन तल्लिङ्गं प्रत्यहं स्नापय प्रभोः ॥ ८४ ॥
प्रत्यहं पायसान्नेन नैवेद्यं कुरु भूपते ॥
प्रत्यहं तिलतैलेन दीपाराधनमाचर ॥ ८५ ॥
एतेन तव राजेन्द्र रामनाथस्य शूलिनः ॥
स्त्रीहत्य्रा ब्रह्महत्या च तत्क्षणादेव नश्यतः ॥ ८६ ॥
दर्शनाद्रामनाथस्य भ्रूणहत्याशतानि च ॥
अयुतं ब्रह्महत्यानां सुरापानायुतं तथा ॥ ८७ ॥
स्वर्णस्तेयायुतं राजन्गुरुस्त्रीगमनायुतम् ॥
एतत्संसर्गदोषाश्च विनश्यन्ति क्षणाद्विभो॥८८॥
महापातकतुल्यानि यानि पापानि सन्ति वै ॥
तानि सर्वाणि नश्यन्ति रामनाथस्य सेवया ॥ ८९ ॥
महती रामनाथस्य सेवा लभ्येत चेन्नृणाम् ॥।
किं गङ्गया च गयया प्रयागेणाध्वरेण वा ॥ 3.1.48.९० ॥
तद्गच्छ रामसेतुं त्वं रामनाथं भजानिशम् ॥
विलम्बं मा कुरु विभो गमने च त्वरां कुरु ॥९१॥।
इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥
तच्छ्रुत्वा मुनयः सर्वे त्वरयन्ति स्म भूपतिम् ॥ ९२ ॥
गच्छ शीघं महाराज रामसेतुं विमुक्तिदम् ॥।
रामनाथस्य माहात्म्यमज्ञात्वास्माभिरीरितम् ॥ ९३ ॥
देहत्यागं कुरुष्वेति वह्नौ प्रज्वलितेऽधुना ॥
अनुज्ञातो मुनिवरैरिति राजा स शङ्करः ॥॥ ॥ ९४ ॥
चतुरङ्गबलं पुर्यां प्रापयित्वा त्वरान्वितः ॥
नमस्कृत्य मुनीन्सर्वान्प्रहृष्टेनान्तरात्मना ॥ ९५ ॥
वृतः कतिपयैः सैन्यैः समादाय धनं बहु ॥
रामनाथस्य सेवार्थमयासीद्गन्धमादनम् ॥ ९६ ॥
उवास वर्षमेकं च रामसेतौ विशुद्धिदे ॥
एकभुक्तो जितक्रोधो विजितेन्द्रियसञ्चयः ॥ ॥ ९७ ॥
त्रिसन्ध्यं रामनाथं च सेवमानः सभक्तिकम् ॥
प्रददौ रामनाथाय दशभारं धनं मुदा ॥ ९८ ॥
प्रत्यहं रामनाथस्य महापूजामकारयत् ॥
अकरोच्च धनुष्कोटौ प्रत्यहं भक्तिपूर्वकम् ॥ ९९ ॥
स्नानं प्रतिदिनं चान्नं ब्राह्मणेभ्य ददौ मुदा ॥
अशरीरावचःप्रोक्तमखिलं पूजनं तथा ॥ 3.1.48.१०० ॥
एवं कृतवतस्तस्य वर्षमेकं गतं द्विजाः ॥
वर्षान्ते स शुचिर्भूत्वा शङ्करस्तुष्टमानसः ॥
तुष्टाव परमेशानं रामनाथं घृणानिधिम् ॥ १ ॥
॥शङ्कर उवाच ॥ ॥
नमामि रुद्रमीशानं रामनाथमुमापतिम् ॥ २ ॥
पाहि मां कृपया देव ब्रह्महत्यां दहाशु मे ॥
त्रिपुरघ्न महादेव कालकूटविषादन ॥ ३ ॥
रक्ष मां त्वं दयासिन्धो स्त्रीहत्यां मे विमोचय ॥
गङ्गाधर विरूपाक्ष रामनाथ त्रिलोचन ॥ ४ ॥
मां पालय कृपादृष्ट्या छिन्धि मत्पातकं विभो ॥
कामारे कामसन्दायिन्भक्तानां राघवेश्वर ॥ ॥ ॥ ५ ॥
कटाक्षं पातय मयि शुद्धं मां कुरु धूर्जटे ॥
मार्कण्डेयभयत्राण मृत्युञ्जय शिवाव्यय ॥ ६ ॥
नमस्ते गिरिजार्धाय निष्पापं कुरु मां सदा ॥
रुद्राक्षमालाभरण चन्द्रशेखर शङ्कर ॥ ७ ॥
वेदोक्तसम्यगाचारयोग्यं मां कुरु ते नमः ॥
सूर्यदन्तभिदे तुभ्यं भारतीनासिकाच्छिदे ॥ ८ ॥
रामेश्वराय देवाय नमो मे शुद्धिदो भव ॥
आनन्दं सच्चिदानन्दं रामनाथं वृषध्वजम् ॥ ९ ॥
भूयोभूयो नमस्यामि पातकं मे विनश्यतु ॥
भक्त्यैवं स्तुवतस्तस्य रामनाथं महेश्वरम् ॥ 3.1.48.११० ॥
निर्जगाम मुखाद्राज्ञो ब्रह्महत्यातिभीषणा ॥
नीलवस्त्रधरा क्रूरा महारक्तशिरोरुहा ॥ ११ ॥
तां ब्रह्महत्यां बीभत्सां नृपवक्त्राद्विनिर्गताम् ॥
निजघान त्रिशूलेन भैरवो रुद्रशासनात् ॥ १२ ॥
हतायां ब्रह्महत्यायां भैरवेण शिवाज्ञया ॥
रामनाथो नृपं प्राह स्तुत्या तस्य प्रसन्नधीः ॥ १३ ॥
॥ श्रीरामनाथ उवाच ॥ ॥
पाण्ड्यभूप महाराज स्तोत्रेणानेन तेऽनघ ॥
प्रसन्नोऽहं वरं दास्ये तुभ्यं वरय चेप्सितम् ॥ १४ ॥
स्त्रीहत्याब्रह्महत्याभ्यां यस्ते दोषः स निर्गतः ॥
शुद्धो विधूतपापोऽसि राज्यं पालय पूर्ववत् ॥ १५ ॥
ये मामत्र निषेवन्ते भक्तियुक्तेन चेतसा ॥
नाशयामि नृणां तेषां ब्रह्महत्यायुतान्यपि ॥ १६ ॥
सुरापानायुतं भूप गुरुस्त्रीगमनायुतम् ॥
स्वर्णस्तेयायुतमपि तत्संसर्गायुतं तथा ॥ १७ ॥
अन्यान्यपि च पापानि नाशयामि न संशयः ॥
मत्सेविनो नरा राजन्न भूयः संसरन्ति ते ॥ १८ ॥
किं तु सायुज्यरूपां मे मुक्तिं यास्यन्त्यसंशयम् ॥
स्तुवन्त्यनेन स्तोत्रेण ये मां भक्तिपुरःसरम् ॥ १९ ॥
नाशयाम्यहमेतेषां महापातकसञ्चयम् ॥
प्रीतोऽहं तव भक्त्या च स्तोत्रेण मनुजेश्वर ॥ 3.1.48.१२० ॥
यथेष्टं प्रार्थय वरं मत्तस्त्वं वरदान्नृप ॥
एवमुक्तः शिवेनाथ शङ्करो नृपपुङ्गवः ॥
रामनाथं बभाषे तं शङ्करं करुणानिधिम् ॥ २१ ॥
॥ नृप उवाच ॥ ॥
तव सन्दर्शनेनाहं कृतार्थोऽस्मि महेश्वर ॥ २२ ॥
इतः परं प्रार्थनीयं मम नास्त्यधुनाधिकम् ॥
मृकण्डुसुतसन्तापहारि पादयुगं तव ॥ २३ ॥
दृष्टं मया महादेव नातः प्रार्थ्यं विभोस्ति वै ॥
त्वत्पादपद्मयुगुले निश्चला भक्तिरस्तु मे ॥ २४ ॥
न पुनर्जन्म मे भूयान्मातॄणामुदरेऽशुचौ ॥
ये मत्कृतमिदं स्तोत्रं कीर्तयन्ति तव प्रभो ॥
ते नराः पापनिर्मुक्तास्त्वत्सेवाफलमाप्नुयुः ॥२५॥ ॥
॥ श्रीसूत उवाच ॥ ॥
तथास्त्वित्यनुगृह्यैनं रामनाथो द्विजोत्तमाः ॥ २६ ॥
नीलकण्ठो विरूपाक्षो लिङ्गरूपे तिरोहितः ॥
राजापि रामनाथेन विहितानुग्रहस्ततः ॥ २७ ॥
रामनाथं नमस्कृत्य कृतार्थेनान्तरात्मना ॥
स सेनासंवृतः प्रीतः प्रययावात्मनः पुरीम् ॥ २८ ॥
वृत्तान्तमेतमवदन्मुनीनां वनवासिनाम् ॥
तेभ्यषिञ्चन्नृपं राज्ये मुनयः प्रीतमानसाः ॥ २९ ॥
पुत्रदारयुतो राजा प्राप्य राज्यमकण्टकम् ॥
मन्त्रिभिः सहितो विप्रा ररक्ष पृथिवीं चिरम् ॥ 3.1.48.१३० ॥
ततोन्तकाले सम्प्राप्ते ध्यायन्रामेश्वरं शिवम् ॥
देहान्ते रामनाथस्य सायुज्यं प्रययौ शुभम् ॥ ३१ ॥
एवं वः कथितं विप्रा रामनाथस्य वैभवम् ॥
चरितं पुण्यमाख्यानं शङ्कराख्य नृपस्य च ॥ ३२ ॥
शृण्वन्पठन्वा मनुजस्त्विममध्यायमादरात् ॥
सर्वपापविनिर्मुक्तो रामनाथं समश्नुते ॥ १३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसायां शाकल्यदुर्मरणदोषशान्तिपूर्वक शङ्करस्त्रीहत्याब्रह्महत्यादोषशान्तिवर्णनन्नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥ ॥ छ ॥ ॥ ॥