०४७ ब्रह्महत्योत्पत्तिहेतुनिरूपणम्

॥ ऋषय ऊचुः ॥ ॥

विश्वास-प्रस्तुतिः - १

राक्षसस्य वधात् सूत
रावणस्य महामुने ॥
ब्रह्महत्या कथम् अभूद्
राघवस्य महात्मनः ॥ ॥ १ ॥

मूलम् - १

राक्षसस्य वधात्सूत रावणस्य महामुने ॥
ब्रह्महत्या कथमभूद्राघवस्य महात्मनः ॥ ॥ १ ॥

विश्वास-प्रस्तुतिः - २

ब्राह्मणस्य वधात् सूत
ब्रह्महत्या ऽभिजायते ॥
न ब्राह्मणो दशग्रीवः
कथं तद्वद नो मुने ॥ २ ॥

मूलम् - २

ब्राह्मणस्य वधात्सूत ब्रह्महत्याभिजायते ॥
न ब्राह्मणो दशग्रीवः कथं तद्वद नो मुने ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

ब्रह्महत्या भवेत् क्रूरा
रामचन्द्रस्य धीमतः ॥
एतन्नः श्रद्दधानानां
वद कारुण्यतोऽधुना ॥ ३ ॥

मूलम् - ३

ब्रह्महत्या भवेत्क्रूरा रामचन्द्रस्य धीमतः ॥
एतन्नः श्रद्दधानानां वद कारुण्यतोऽधुना ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

इति पृष्टस्ततः सूतो
नैमिषारण्यवासिभिः ॥
वक्तुं प्रचक्रमे तेषां
प्रश्नस्योत्तरम् उत्तमम्॥ ४ ॥ ॥ ।

मूलम् - ४

इति पृष्टस्ततः सूतो नैमिषारण्यवासिभिः ॥
वक्तुं प्रचक्रमे तेषां प्रश्नस्योत्तरमुत्तमम्॥ ४ ॥ ॥ ।

। श्रीसूत उवाच ॥ ॥
विश्वास-प्रस्तुतिः - ५

ब्रह्मपुत्रो महातेजाः
पुलस्त्यो नाम वै द्विजाः ॥
बभूव तस्य पुत्रोऽभूद्
विश्रवा इति विश्रुतः ॥ ५ ॥

मूलम् - ५

ब्रह्मपुत्रो महातेजाः पुलस्त्योनाम वै द्विजाः ॥
बभूव तस्य पुत्रोऽभूद्विश्रवा इति विश्रुतः ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

तस्य पुत्रः पुलस्त्य
विश्रवा मुनिपुङ्गवाः ॥
चिरकालं तपस्तेपे
देवैरपि सुदुष्करम् ॥ ६ ॥

मूलम् - ६

तस्य पुत्रः पुलस्त्य स्य विश्रवा मुनिपुङ्गवाः ॥
चिरकालं तपस्तेपे देवैरपि सुदुष्करम् ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

तपः कुर्वति तस्मिंस्तु
सुमाली नाम राक्षसः ॥
पाताललोकाद्भूलोकं
सर्वं वै विचचार ह ॥ ७ ॥

मूलम् - ७

तपः कुर्वति तस्मिंस्तु सुमाली नाम राक्षसः ॥
पाताललोकाद्भूलोकं सर्वं वै विचचार ह ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

हेमनिष्काङ्गदधरः
कालमेघनिभच्छविः ॥
समादाय सुतां कन्यां
पद्महीनामिव श्रियम् ॥ ८ ॥

मूलम् - ८

हेमनिष्काङ्गदधरः कालमेघनिभच्छविः ॥
समादाय सुतां कन्यां पद्महीनामिव श्रियम् ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

विचरन्स महीपृष्ठे
कदाचित्पुष्पकस्थितम् ॥
दृष्ट्वा विश्रवसः पुत्रं
कुबेरं वै धनेश्वरम् ॥ ९ ॥

मूलम् - ९

विचरन्स महीपृष्ठे कदाचित्पुष्पकस्थितम् ॥
दृष्ट्वा विश्रवसः पुत्रं कुबेरं वै धनेश्वरम् ॥ ९ ॥

विश्वास-प्रस्तुतिः - 3.1.47.१०

चिन्तयामास विप्रेन्द्राः
सुमाली स तु राक्षसः ॥
कुबेरसदृशः पुत्रो
यद्य् अस्माकं भविष्यति ॥ 3.1.47.१० ॥

मूलम् - 3.1.47.१०

चिन्तयामास विप्रेन्द्राः सुमाली स तु राक्षसः ॥
कुबेरसदृशः पुत्रो यद्यस्माकं भविष्यति ॥ 3.1.47.१० ॥

विश्वास-प्रस्तुतिः - ११

वयं वर्धामहे सर्वे
राक्षसा ह्यकुतोभयाः ॥
विचार्यैवं निजसुताम्
अब्रवीद् राक्षसेश्वरः ॥ ११ ॥

मूलम् - ११

वयं वर्द्धामहे सर्वे राक्षसा ह्यकुतोभयाः ॥
विचार्यैवं निजसुतामब्रवीद्राक्षसेश्वरः ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

सुते प्रदान-कालोऽद्य
तव कैकसि शोभने ॥
अद्य ते यौवनं प्राप्तं
तद् देया त्वं वराय हि ॥ १२ ॥

मूलम् - १२

सुते प्रदानकालोऽद्य तव कैकसि शोभने ॥
अद्य ते यौवनं प्राप्तं तद्देया त्वं वराय हि ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

अप्रदानेन पुत्रीणां
पितरो दुःखम् आप्नुयुः ॥
किं च सर्व-गुणोत्कृष्टा
लक्ष्मीर् इव सुते शुभे ॥ १३ ॥

मूलम् - १३

अप्रदानेन पुत्रीणां पितरो दुःखमाप्नुयुः ॥
किं च सर्वगुणोत्कृष्टा लक्ष्मीरिव सुते शुभे ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

प्रत्याख्यान-भयात् पुम्भिर्
न च त्वं प्रार्थ्यसे शुभे ॥
कन्यापितृत्वं दुःखाय
सर्वेषां मानकाङ्क्षिणाम् ॥१४ ॥

मूलम् - १४

प्रत्याख्यानभयात्पुम्भिर्न च त्वं प्रार्थ्यसे शुभे ॥
कन्यापितृत्वं दुःखाय सर्वेषां मानकाङ्क्षिणाम् ॥१४ ॥

विश्वास-प्रस्तुतिः - १५

न जानेऽहं वरः को वा
वरयेदिति कन्यके ॥
सा त्वं पुलस्त्य-तनयं
मुनिं विश्रवसं द्विजम् ॥ १५ ॥

मूलम् - १५

न जानेऽहं वरः को वा वरयेदिति कन्यके ॥
सा त्वं पुलस्त्यतनयं मुनिं विश्रवसं द्विजम् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

पितामहकुलोद्भूतं
वरयस्व स्वयङ्गता ॥
कुबेरतुल्यास्तनया
भवेयुस्ते न संशयः ॥ १६ ॥

मूलम् - १६

पितामहकुलोद्भूतं वरयस्व स्वयङ्गता ॥
कुबेरतुल्यास्तनया भवेयुस्ते न संशयः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

कैकसी तद्वचः श्रुत्वा
सा कन्या पितृगौरवात् ॥
अङ्गीचकार तद्वाक्यं
तथास्त्व् इति शुचिस्मिता ॥ १७ ॥

मूलम् - १७

कैकसी तद्वचः श्रुत्वा सा कन्या पितृगौरवात् ॥
अङ्गीचकार तद्वाक्यं तथास्त्विति शुचिस्मिता ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

पर्णशालां मुनिश्रेष्ठा
गत्वा विश्रवसो मुनेः ॥
अतिष्ठदन्तिके तस्य
लज्जमाना ह्यधोमुखी ॥ १८ ॥

मूलम् - १८

पर्णशालां मुनिश्रेष्ठा गत्वा विश्रवसो मुनेः ॥
अतिष्ठदन्तिके तस्य लज्जमाना ह्यधोमुखी ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

तस्मिन्नवसरे विप्राः
पुलस्त्यतनयः सुधीः ॥
अग्निहोत्रमुपास्ते स्म
ज्वलत्पावकसन्निभः ॥ १९ ॥

मूलम् - १९

तस्मिन्नवसरे विप्राः पुलस्त्यतनयः सुधीः ॥
अग्निहोत्रमुपास्ते स्म ज्वलत्पावकसन्निभः ॥ १९ ॥

विश्वास-प्रस्तुतिः - 3.1.47.२०

सन्ध्याकालम् अतिक्रूरम्
अविचिन्त्य तु कैकसी ॥
अभ्येत्य तं मुनिं सुभ्रूः
पितुर्वचनगौरवात् ॥ 3.1.47.२० ॥

मूलम् - 3.1.47.२०

सन्ध्याकालमतिक्रूरमविचिन्त्य तु कैकसी ॥
अभ्येत्य तं मुनिं सुभ्रूः पितुर्वचनगौरवात् ॥ 3.1.47.२० ॥

तस्थावधोमुखी भूमिं लिखत्यङ्गुष्ठकोटिना ॥
विश्वास-प्रस्तुतिः - २१

विश्रवास् तां विलोक्याथ
कैकसीं तनुमध्यमाम् ॥
उवाच सस्मितो विप्राः
पूर्णचन्द्रनिभाननाम् ॥ २१ ॥ ॥

मूलम् - २१

विश्रवास्तां विलोक्याथ कैकसीं तनुमध्यमाम् ॥
उवाच सस्मितो विप्राः पूर्णचन्द्रनिभाननाम् ॥ २१ ॥ ॥

विश्वास-प्रस्तुतिः - २२

॥ विश्रवा उवाच ॥ ॥
शोभने कस्य पुत्री त्वं
कुतो वा त्वमिहागता ॥२२॥

मूलम् - २२

॥ विश्रवा उवाच ॥ ॥
शोभने कस्य पुत्री त्वं कुतो वा त्वमिहागता ॥२२॥

विश्वास-प्रस्तुतिः - २३

कार्यं किं वा त्वमुद्दिश्य
वर्तसेऽत्र शुचिस्मिते ॥
यथार्थतो वदस्वाद्य
मम सर्वम् अनिन्दिते ॥ २३ ॥

मूलम् - २३

कार्यं किं वा त्वमुद्दिश्य वर्तसेऽत्र शुचिस्मिते ॥
यथार्थतो वदस्वाद्य मम सर्वमनिन्दिते ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

इतीरिता कैकसी सा
कन्या बद्धाञ्जलिर् द्विजाः ॥
उवाच तं मुनिं प्रह्वा
विनयेन समन्विता ॥ २४ ॥

मूलम् - २४

इतीरिता कैकसी सा कन्या बद्धाञ्जलिर्द्विजाः ॥
उवाच तं मुनिं प्रह्वा विनयेन समन्विता ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

तपः प्रभावेन मुने
मद्-अभिप्रायम् अद्य तु ॥
वेत्तुमर्हसि सम्यक्त्वं
पुलस्त्य-कुलदीपन ॥२५॥

मूलम् - २५

तपः प्रभावेन मुने मदभिप्रायमद्य तु ॥
वेत्तुमर्हसि सम्यक्त्वं पुलस्त्यकुलदीपन ॥२५॥

विश्वास-प्रस्तुतिः - २६

अहं तु कैकसी नाम
सुमालिदुहिता मुने ॥
मत्तातस्याज्ञया ब्रह्मंस्
तवान्तिकमुपागता ॥२६॥

मूलम् - २६

अहं तु कैकसी नाम सुमालिदुहिता मुने ॥
मत्तातस्याज्ञया ब्रह्मंस्तवान्तिकमुपागता ॥२६॥

विश्वास-प्रस्तुतिः - २७

शेष त्वं ज्ञानदृष्ट्याद्य
ज्ञातुमर्हस्यसंशयः॥
क्षणं ध्यात्वा मुनिः प्राह
विश्रवाः स तु कैकसीम् ॥२७॥

मूलम् - २७

शेष त्वं ज्ञानदृष्ट्याद्य ज्ञातुमर्हस्यसंशयः॥
क्षणं ध्यात्वा मुनिः प्राह विश्रवाः स तु कैकसीम् ॥२७॥

विश्वास-प्रस्तुतिः - २८

मया ते विदितं सुभ्रूर्
मनोगतमभीप्सितम्॥
पुत्राभिलाषिणी सा त्वं
मामगाः साम्प्रतं शुभे ॥२८॥

मूलम् - २८

मया ते विदितं सुभ्रूर्मनोगतमभीप्सितम्॥
पुत्राभिलाषिणी सा त्वं मामगाः साम्प्रतं शुभे ॥२८॥

विश्वास-प्रस्तुतिः - २९

सायङ्कालेऽधुना क्रूरे
यस्मान्मां त्वमुपागता ॥
पुत्राभिलाषिणी भूत्वा
तस्मात्त्वां प्रब्रवीम्यहम्॥२९॥

मूलम् - २९

सायङ्कालेऽधुना क्रूरे यस्मान्मां त्वमुपागता ॥
पुत्राभिलाषिणी भूत्वा तस्मात्त्वां प्रब्रवीम्यहम्॥२९॥

विश्वास-प्रस्तुतिः - 3.1.47.३०

शृणुष्वावहिता रामे
कैकसी त्वम् अनिन्दिते ॥
दारुणान् दारुणाकारान्
दारुणाभिजनप्रियान्॥3.1.47.३० ॥

मूलम् - 3.1.47.३०

शृणुष्वावहिता रामे कैकसी त्वमनिन्दिते ॥
दारुणान्दारुणाकारान्दारुणाभिजनप्रियान्॥3.1.47.३० ॥

विश्वास-प्रस्तुतिः - ३१

जनयिष्यसि पुत्रांस्त्वं
राक्षसान्क्रूरकर्मणः ॥
श्रुत्वा तद्वचनं सा तु
कैकसी प्रणिपत्य तम् ॥ ३१ ॥

मूलम् - ३१

जनयिष्यसि पुत्रांस्त्वं राक्षसान्क्रूरकर्मणः ॥
श्रुत्वा तद्वचनं सा तु कैकसी प्रणिपत्य तम् ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

पुलस्त्यतनयं प्राह
कृताञ्जलिपुटा द्विजाः ॥
भगवन्न् ईदृशाः पुत्रास्
त्वत्तः प्राप्तुं न युज्यते ॥ ३२ ॥

मूलम् - ३२

पुलस्त्यतनयं प्राह कृताञ्जलिपुटा द्विजाः ॥
भगवदीदृशाः पुत्रास्त्वत्तः प्राप्तुं न युज्यते ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

इत्युक्तः स मुनिः प्राह
कैकसीं तां सुमध्यमाम् ॥
मद्वंशानुगुणः पुत्रः
पश्चिमस्ते भविष्यति ॥ ३३ ॥+++(5)+++

मूलम् - ३३

इत्युक्तः स मुनिः प्राह कैकसीं तां सुमध्यमाम् ॥
मद्वंशानुगुणः पुत्रः पश्चिमस्ते भविष्यति ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

धार्मिकः शास्त्रविच्छान्तो
न तु राक्षसचेष्टितः ॥
इत्युक्ता कैकसी विप्राः
काले कतिपये गते ॥ ३४ ॥

मूलम् - ३४

धार्मिकः शास्त्रविच्छान्तो न तु राक्षसचेष्टितः ॥
इत्युक्ता कैकसी विप्राः काले कतिपये गते ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

सुषुवे तनयं क्रूरं
रक्षोरूपं भयङ्करम् ॥
द्विपञ्चशीर्षं कुमतिं
विंशद्बाहुं भयानकम्॥ ३५ ॥

मूलम् - ३५

सुषुवे तनयं क्रूरं रक्षोरूपं भयङ्करम् ॥
द्विपञ्चशीर्षं कुमतिं विंशद्बाहुं भयानकम्॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

ताम्रोष्ठं कृष्णवदनं
रक्तश्मश्रु शिरोरुहम् ॥
महादंष्ट्रं महाकायं
लोकत्रासकरं सदा ॥ ३६ ॥

मूलम् - ३६

ताम्रोष्ठं कृष्णवदनं रक्तश्मश्रु शिरोरुहम् ॥
महादंष्ट्रं महाकायं लोकत्रासकरं सदा ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

दशग्रीवाभिधः सोऽभूत्
तथा रावण नामवान्॥
रावणानन्तरं जातः
कुम्भकर्णाभिधः सुतः ॥ ३७ ॥

मूलम् - ३७

दशग्रीवाभिधः सोऽभूत्तथा रावण नामवान्॥
रावणानन्तरं जातः कुम्भकर्णाभिधः सुतः ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

ततः शूर्पणखा नाम्ना
क्रूरा जज्ञे च राक्षसी ॥
ततो बभूव कैकस्या
विभीषण इति श्रुतः ॥ ३८ ॥

मूलम् - ३८

ततः शूर्पणखा नाम्ना क्रूरा जज्ञे च राक्षसी ॥
ततो बभूव कैकस्या विभीषण इति श्रुतः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

पश्चिमस्तनयो धीमान्
धार्मिको वेदशास्त्रवित् ॥
एते विश्रवसः पुत्रा
दशग्रीवादयो द्विजाः ॥ ३९ ॥

मूलम् - ३९

पश्चिमस्तनयो धीमान्धार्मिको वेदशास्त्रवित् ॥
एते विश्रवसः पुत्रा दशग्रीवादयो द्विजाः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - 3.1.47.४०

अतो दशग्रीववधात्
कुम्भकर्णवधाद् अपि ॥
ब्रह्महत्या समभवद्
रामस्याक्लिष्टकर्मणः ॥ 3.1.47.४० ॥+++(4)+++

मूलम् - 3.1.47.४०

अतो दशग्रीववधात्कुम्भकर्णवधादपि ॥
ब्रह्महत्या समभवद्रामस्याक्लिष्टकर्मणः ॥ 3.1.47.४० ॥

विश्वास-प्रस्तुतिः - ४१

अतस् तच्छान्तये रामो
लिङ्गं रामेश्वराभिधम् ॥
स्थापयामास विधिना
वैदिकेन द्विजोत्तमाः ॥ ४१ ॥

मूलम् - ४१

अतस्तच्छान्तये रामो लिङ्गं रामेश्वराभिधम् ॥
स्थापयामास विधिना वैदिकेन द्विजोत्तमाः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

एवं रावणघातेन ब्रह्महत्यासमुद्भवः ॥
समभूद्रामचन्द्रस्य लोककान्तस्य धीमतः ॥ ४२ ॥

मूलम् - ४२

एवं रावणघातेन ब्रह्महत्यासमुद्भवः ॥
समभूद्रामचन्द्रस्य लोककान्तस्य धीमतः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

तत्सहैतुकमाख्यातं भवतां ब्रह्मघातजम्॥
पापं यच्छान्तये रामो लिङ्गं प्रातिष्ठिपत्स्वयम् ॥ ४३ ॥

मूलम् - ४३

तत्सहैतुकमाख्यातं भवतां ब्रह्मघातजम्॥
पापं यच्छान्तये रामो लिङ्गं प्रातिष्ठिपत्स्वयम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

एवं लिङ्गं प्रतिष्ठाप्य रामचन्द्रोऽतिधार्मिकः ॥
मेने कृतार्थमात्मानं ससीता वरजो द्विजाः ॥ ४४ ॥

मूलम् - ४४

एवं लिङ्गं प्रतिष्ठाप्य रामचन्द्रोऽतिधार्मिकः ॥
मेने कृतार्थमात्मानं ससीता वरजो द्विजाः ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

ब्रह्महत्या गता यत्र रामचन्द्रस्य भूपतेः ॥
तत्र तीर्थमभूत्किञ्चिद्ब्रह्महत्याविमोचनम् ॥ ४५ ॥

मूलम् - ४५

ब्रह्महत्या गता यत्र रामचन्द्रस्य भूपतेः ॥
तत्र तीर्थमभूत्किञ्चिद्ब्रह्महत्याविमोचनम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

तत्र स्नानं महापुण्यं ब्रह्महत्याविनाशनम् ॥
दृश्यते रावणोऽद्यापि छायारूपेण तत्र वै ॥ ४६ ॥

मूलम् - ४६

तत्र स्नानं महापुण्यं ब्रह्महत्याविनाशनम् ॥
दृश्यते रावणोऽद्यापि छायारूपेण तत्र वै ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

तदग्रे नागलोकस्य बिलमस्ति महत्तरम् ॥
दशग्रीववधोत्पन्नां ब्रह्महत्यां बलीयसीम् ॥ ४७ ॥

मूलम् - ४७

तदग्रे नागलोकस्य बिलमस्ति महत्तरम् ॥
दशग्रीववधोत्पन्नां ब्रह्महत्यां बलीयसीम् ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

तद्बिलं प्रापयामास जानकीरमणो द्विजाः ॥
तस्योपरि बिलस्याथ कृत्वा मण्डपमुत्तमम् ॥ ४८ ॥

मूलम् - ४८

तद्बिलं प्रापयामास जानकीरमणो द्विजाः ॥
तस्योपरि बिलस्याथ कृत्वा मण्डपमुत्तमम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

भैरवं स्थापयामास रक्षार्थं तत्र राघवः ॥
भैरवाज्ञापरित्रस्ता ब्रह्महत्या भयङ्करी ॥ ४९ ॥

मूलम् - ४९

भैरवं स्थापयामास रक्षार्थं तत्र राघवः ॥
भैरवाज्ञापरित्रस्ता ब्रह्महत्या भयङ्करी ॥ ४९ ॥

विश्वास-प्रस्तुतिः - 3.1.47.५०

नाशक्नोत्तद्बिलादूर्ध्वं निर्गन्तुं द्विजसत्तमाः ॥
तस्मिन्नेव बिले तस्थौ ब्रह्महत्या निरुद्यमा ॥ 3.1.47.५० ॥

मूलम् - 3.1.47.५०

नाशक्नोत्तद्बिलादूर्ध्वं निर्गन्तुं द्विजसत्तमाः ॥
तस्मिन्नेव बिले तस्थौ ब्रह्महत्या निरुद्यमा ॥ 3.1.47.५० ॥

विश्वास-प्रस्तुतिः - ५१

रामनाथमहालिङ्गं दक्षिणे गिरिजा मुदा ॥
वर्तते परमानन्दशिवस्यार्धशरीरिणी ॥ ५१ ॥

मूलम् - ५१

रामनाथमहालिङ्गं दक्षिणे गिरिजा मुदा ॥
वर्तते परमानन्दशिवस्यार्धशरीरिणी ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

आदित्यसोमौ वर्तेते पार्श्वयोस्तत्र शूलिनः ॥
देवस्य पुरतो वह्नी रामनाथस्य वर्तते ॥ ५२ ॥

मूलम् - ५२

आदित्यसोमौ वर्तेते पार्श्वयोस्तत्र शूलिनः ॥
देवस्य पुरतो वह्नी रामनाथस्य वर्तते ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

आस्ते शतक्रतुः प्राच्यामाग्नेयां च तथाऽनलः ॥
आस्ते यमो दक्षिणस्यां रामनाथस्य सेवकः ॥ ५३ ॥

मूलम् - ५३

आस्ते शतक्रतुः प्राच्यामाग्नेयां च तथाऽनलः ॥
आस्ते यमो दक्षिणस्यां रामनाथस्य सेवकः ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

नैर्ऋते निर्ऋतिर्विप्रा वर्तते शङ्करस्य तु ॥
वारुण्यां वरुणो भक्त्या सेवते राघवेश्वरम् ॥ ५४ ॥

मूलम् - ५४

नैर्ऋते निर्ऋतिर्विप्रा वर्तते शङ्करस्य तु ॥
वारुण्यां वरुणो भक्त्या सेवते राघवेश्वरम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

वायव्ये तु दिशो भागे वायुरास्ते शिवस्य तु ॥
उत्तरस्यां च धनदो रामनाथस्य वर्तते ॥ ५५ ॥

मूलम् - ५५

वायव्ये तु दिशो भागे वायुरास्ते शिवस्य तु ॥
उत्तरस्यां च धनदो रामनाथस्य वर्तते ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

ईशान्येऽस्य च दिग्भागे महेशो वर्तते द्विजाः ॥
विनायक कुमारौ च महादेवसुतावुभौ ॥ ५६ ॥

मूलम् - ५६

ईशान्येऽस्य च दिग्भागे महेशो वर्तते द्विजाः ॥
विनायक कुमारौ च महादेवसुतावुभौ ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

यथाप्रदेशं वर्तेते रामनाथालयेऽधुना ॥
वीरभद्रादयः सर्वे महेश्वरगणेश्वराः ॥ ५७ ॥

मूलम् - ५७

यथाप्रदेशं वर्तेते रामनाथालयेऽधुना ॥
वीरभद्रादयः सर्वे महेश्वरगणेश्वराः ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

यथाप्रदेशं वर्तन्ते रामनाथालये सदा ॥
मुनयः पन्नगाः सिद्धा गन्धर्वाप्सरसां गणाः ॥ ५८ ॥

मूलम् - ५८

यथाप्रदेशं वर्तन्ते रामनाथालये सदा ॥
मुनयः पन्नगाः सिद्धा गन्धर्वाप्सरसां गणाः ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

सन्तुष्यमाणहृदया यथेष्टं शिवसन्निधौ ॥
वर्तन्ते रामनाथस्य सेवार्थं भक्तिपूर्वकम् ॥ ५९ ॥

मूलम् - ५९

सन्तुष्यमाणहृदया यथेष्टं शिवसन्निधौ ॥
वर्तन्ते रामनाथस्य सेवार्थं भक्तिपूर्वकम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः - 3.1.47.६०

रामनाथस्य पूजार्थं श्रोत्रियान्ब्राह्मणान्बहून् ॥
रामेश्वरे रघुपतिः स्थापयामास पूजकान् ॥ 3.1.47.६० ॥

मूलम् - 3.1.47.६०

रामनाथस्य पूजार्थं श्रोत्रियान्ब्राह्मणान्बहून् ॥
रामेश्वरे रघुपतिः स्थापयामास पूजकान् ॥ 3.1.47.६० ॥

विश्वास-प्रस्तुतिः - ६१

रामप्रतिष्ठितान्विप्रान्हव्यकव्यादिनार्चयेत् ॥
तुष्टास्ते तोषिताः सर्वा पितृभिः सहदेवताः ॥ ६१ ॥

मूलम् - ६१

रामप्रतिष्ठितान्विप्रान्हव्यकव्यादिनार्चयेत् ॥
तुष्टास्ते तोषिताः सर्वा पितृभिः सहदेवताः ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२

तेभ्यो बहुधनान्ग्रामान्प्रददौ जानकीपतिः ॥
रामनाथमहादेव नैवेद्यार्थमपि द्विजाः ॥ ६२ ॥

मूलम् - ६२

तेभ्यो बहुधनान्ग्रामान्प्रददौ जानकीपतिः ॥
रामनाथमहादेव नैवेद्यार्थमपि द्विजाः ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

बहून्ग्रामान्बहुधनं प्रददौ लक्ष्मणाग्रजः ॥
हारकेयूरकटकनिष्काद्याभरणानि च ॥ ६३ ॥

मूलम् - ६३

बहून्ग्रामान्बहुधनं प्रददौ लक्ष्मणाग्रजः ॥
हारकेयूरकटकनिष्काद्याभरणानि च ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

अनेकपट्ट वस्त्राणि क्षौमाणि विविधानि च ॥
रामनाथाय देवाय ददौ दशरथात्मजः ॥ ६४ ॥

मूलम् - ६४

अनेकपट्ट वस्त्राणि क्षौमाणि विविधानि च ॥
रामनाथाय देवाय ददौ दशरथात्मजः ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

गङ्गा च यमुना पुण्या सरयूश्च सरस्वती ॥
सेतौ रामेश्वरं देवं भजन्ते स्वाघशान्तये ॥ ६५ ॥

मूलम् - ६५

गङ्गा च यमुना पुण्या सरयूश्च सरस्वती ॥
सेतौ रामेश्वरं देवं भजन्ते स्वाघशान्तये ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

एतदध्यायपठनाच्छ्रवणादपि मानवः ॥
विमुक्तः सर्वपापेभ्यः सायुज्यं लभते हरेः ॥ ६६ ॥

मूलम् - ६६

एतदध्यायपठनाच्छ्रवणादपि मानवः ॥
विमुक्तः सर्वपापेभ्यः सायुज्यं लभते हरेः ॥ ६६ ॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामस्य ब्रह्महत्योत्पत्तिहेतुनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥ ॥ ॥