०४६ रामनाथलिङ्गप्रतिष्ठाकारणवर्णनम्

॥ श्रीराम उवाच॥
पम्पारण्ये वयं दीनास्त्वया वानरपुङ्गव॥
आश्वासिताः कारयित्वा सख्यमादित्यसूनुना॥१॥
त्वां दृष्ट्वा पितरं बन्धून्कौसल्यां जननीमपि ॥
न स्मरामो वयं सर्वान्मे त्वयोपकृतं बहु॥ २ ॥
मदर्थं सागरस्तीर्णो भवता बहु योजनः ॥
तलप्रहाराभिहतो मैनाकोऽपि नगोत्तमः ॥ ३ ॥
नागमाता च सुरसा मदर्थं भवता जिता ॥
छायाग्रहां महाक्रूराम वधीद्राक्षसीं भवान् ॥ ४ ॥
सायं सुवेलमासाद्य लङ्कामाहत्य पाणिना ॥
अयासी रावणगृहं मदर्थं त्वं महाकपे ॥ ५ ॥
सीतामन्विष्य लङ्कायां रात्रौ गतभयो भवान्॥
अदृष्ट्वा जानकीं पश्चादशोकवनिकां ययौ ॥ ६ ॥
नमस्कृत्य च वैदेहीमभिज्ञानं प्रदाय च ॥
चूडामणिं समादाय मदर्थं जानकीकरात् ॥ ७ ॥
अशोकवनिकावृक्षानभाङ्क्षीस्त्वं महाकपे ॥
ततस्त्वशीतिसाहस्रान्किङ्करान्नाम राक्षसान् ॥ ८ ॥
रावणप्रतिमान्युद्धे पत्यश्वेभरथाकुलान् ॥
अवधीस्त्वं मदर्थे वै महाबलपराक्रमान् ॥ ९ ॥
ततः प्रहस्ततनयं जम्बुमालिनमागतम् ॥
अवधीन्मन्त्रितनयान्सप्त सप्तार्चिवर्चसः ॥ 3.1.46.१० ॥
पञ्च सेनापतीन्पश्चादनयस्त्वं यमालयम् ॥
कुमारमक्षमवधीस्ततस्त्वं रणमूर्धनि ॥ ११ ॥
तत इन्द्रजिता नीतो राक्षसेन्द्र सभां शुभाम् ॥
तत्र लङ्केश्वरं वाचा तृणीकृत्यावमन्य च ॥ १२ ॥
अभाङ्क्षीस्त्वं पुरीं लङ्कां मदर्थं वायुनन्दन ॥
पुनः प्रतिनिवृत्तस्त्वमृष्यमूकं महागिरिम् ॥ १३ ॥
एवमादि महादुःखं मदर्थं प्राप्तवानसि ॥
त्वमत्र भूतले शेषे मम शोकमुदीरयन् ॥ १४ ॥
अहं प्राणान्परित्यक्ष्ये मृतोऽसि यदि वायुज ॥
सीतया मम किं कार्यं लक्ष्मणेनानुजेन वा ॥ १५ ॥
भरतेनापि किं कार्यं शत्रुघ्नेन श्रियापि वा ॥
राज्येनापि न मे कार्यं परेतस्त्वं कपे यदि ॥ १६ ॥
उत्तिष्ठ हनुमन्वत्स किं शेषेऽद्य महीतले ॥
शय्यां कुरु महाबाहो निद्रार्थं मम वानर ॥ १७ ॥
कन्दमूलफलानि त्वमाहारार्थं ममाहर ॥
स्नातुमद्य गमिष्यामि शीघ्रं कलशमानय ॥ १८ ॥
अजिनानि च वासांसि दर्भांश्च समुपाहर ॥
ब्रह्मास्त्रेणावबद्धोऽहं मोचितश्च त्वया हरे ॥ १९ ॥
लक्ष्मणेन सह भ्रात्रा ह्यौषधानयनेन वै ॥
लक्ष्मणप्राणदाता त्वं पौलस्त्यमदनाशनः ॥ 3.1.46.२० ॥
सहायेन त्वया युद्धे राक्षसा न्रावणादिकान् ॥
निहत्यातिबलान्वीरानवापं मैथिलीमहम् ॥ २१ ॥
हनूमन्नञ्जनासूनो सीताशोकविनाशन ॥
कथमेवं परित्यज्य लक्ष्मणं मां च जानकीम् ॥ २२ ॥
अप्रापयित्वायोध्यां त्वं किमर्थं गतवानसि ॥
क्व गतोसि महावीर महाराक्षसकण्टक ॥ २३ ॥
इति पश्यन्मुखं तस्य निर्वाक्यं रघुनन्दनः ॥
प्ररुदन्नश्रुजालेन सेचयामास वायुजम् ॥ २४ ॥
वायुपुत्रस्ततो मूर्च्छामपहाय शनैर्द्विजाः ॥
पौलस्त्यभयसन्त्रस्तलोकरक्षार्थमागतम्॥२५॥
आश्रित्य मानुषं भावं नारायणमजं विभुम्॥
जानकीलक्ष्मणयुतं कपिभिः परिवारितम्॥२६॥
कालाम्भोधरसङ्काशं रणधूलिसमुक्षितम् ॥
जटामण्डलशोभाढ्यं पुण्डरीकायतेक्षणम् ॥ २७ ॥
खिन्नं च बहुशो युद्धे ददर्श रघुनन्दनम् ॥
स्तूयमानममित्रघ्नं देवर्षिपितृकिन्नरैः ॥ २८ ॥
दृष्ट्वा दाशरथिं रामं कृपाबहुलचेतसम् ॥
रघुनाथकरस्पर्शपूर्णगात्रः स वानरः ॥ २९ ॥
पतित्वा दण्डवद्भूमौ कृताञ्जलिपुटो द्विजाः ॥
अस्तौषीज्जानकीनाथं स्तोत्रैः श्रुतिमनोहरैः ॥ 3.1.46.३० ॥
॥ हनूमानुवाच ॥ ॥
नमो रामाय हरये विष्णवे प्रभविष्णवे ॥
आदिदेवाय देवाय पुराणाय गदाभृते ॥ ३१ ॥
विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ॥
प्रहृष्टवानरानीकजुष्टपादाम्बुजाय ते ॥ ३२ ॥
निष्पिष्ट राक्षसेन्द्राय जगदिष्टविधायिने ॥
नमः सहस्रशिरसे सहस्रचरणाय च ॥ ३३ ॥
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ॥
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ॥ ३४ ॥
हरये नारसिंहाय दैत्यराजविदारिणे ॥
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ॥ ३५ ॥
त्रिविक्रमाय भवते बलियज्ञ विभेदिने ॥
नमो वामनरूपाय नमो मन्दरधारिणे ॥ ३६ ॥
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ॥
नमः परशुरामाय क्षत्रियान्तकराय ते ॥३७॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ॥
महादेव महाभीम महाकोदण्डभेदिने ॥ ३८ ॥
क्षत्रियान्तकरक्रूरभार्गवत्रासकारिणे ॥
नमोऽस्त्वहिल्या सन्तापहारिणे चापहारिणे ॥ ३९ ॥
नागायुतवलोपेतताटकादेहहारिणे ॥
शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥ 3.1.46.४० ॥
नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ॥
दशस्यन्दनदुःखाब्धिशोषणागस्त्यरूपिणे ॥ ४१ ॥
अनेकोर्मिसमाधूतसमुद्रमदहारिणे ॥
मैथिलीमानसां भोजभानवे लोकसाक्षिणे ॥ ४२ ॥
राजेन्द्राय नमस्तुभ्यं जानकीपतये हरे ॥
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ॥ ४३ ॥
रामाय रामचन्द्राय वरेण्याय सुखात्मने ॥
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥ ४४ ॥
प्रसीद देवदेवेश भक्तानामभयप्रद ॥
रक्ष मां करु णासिन्धो रामचन्द्र नमोऽस्तु ते ॥ ४५ ॥
रक्ष मां वेदवचसामप्यगोचर राघव ॥
पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥ ४६ ॥
रघुवीर महामोहमपाकुरु ममाधुना ॥
स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु ॥ ४७ ॥
सर्वावस्थासु सर्वत्र पाहि मां रघुनन्दन ॥
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ॥ ४८ ॥
त्वमेव त्वन्महत्त्वं वै जानासि रघुनन्दन ॥
इति स्तुत्वा वायुपुत्रो रामचन्द्रं घृणानिधिम् ॥ ४९ ॥
सीतामप्यभितुष्टाव भक्तियुक्तेन चेतसा ॥
जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥ 3.1.46.५० ॥
दारिद्र्यरणसंहर्त्रीं भक्तानामिष्टदायिनीम् ॥
विदेहराजतनयां राघवानन्दकारिणीम् ॥ ५१ ॥
भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ॥
पौलस्त्यैश्वर्यसंहर्त्रीं भक्ताभीष्टां सरस्वतीम् ॥ ५२ ॥
पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ॥
अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ॥ ५३ ॥
आत्मविद्यां त्रयीरूपामुमारूपां नमाम्य हम् ॥
प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ॥ ५४ ॥
नमामि चन्द्रभगिनीं सीतां सर्वाङ्गसुन्दरीम् ॥
नमामि धर्मनिलयां करुणां वेदमातरम् ॥ ५५ ॥
पद्मालयां पद्महस्तां विष्णुवक्षस्थलालयाम् ॥
नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ॥ ५६ ॥
आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ॥
नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ॥
सीतां सर्वानवद्याङ्गीं भजामि सततं हृदा ॥ ५७ ॥
॥ श्रीसूत उवाच ॥ ॥
स्तुत्वैवं हनुमान्सीतारामचन्द्रौ सभक्तिकम् ॥ ५८ ॥
आनन्दाश्रुपरिक्लिन्नस्तूष्णीमास्ते द्विजोत्तमाः ॥
य इदं वायुपुत्रेण कथितं पापनाशनम् ॥ ५९ ॥
स्तोत्रं श्रीरामचन्द्रस्य सीतायाः पठतेऽन्वहम् ॥
स नरो महदैश्वर्यमश्नुते वाञ्छितं स दा ॥ 3.1.46.६० ॥
अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्विनीः ॥
आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम् ॥ ६१ ॥
एतत्स्तोत्रं सकृ द्विप्राः पठन्नाप्नोत्यसंशयः ॥
एतत्स्तोत्रस्य पाठेन नरकं नैव यास्यति ॥ ६२ ॥
ब्रह्महत्यादिपापानि नश्यन्ति सुमहान्त्यपि ॥
सर्वपापविनिर्मुक्तो देहान्ते मुक्तिमाप्नुयात् ॥ ६३ ॥
इति स्तुतो जगन्नाथो वायुपुत्रेण राघवः ॥
सीतया सहितो विप्रा हनूमन्तमथाब्रवीत् ॥ ६४ ॥
॥ श्रीराम उवाच ॥ ॥
अज्ञानाद्वा नरश्रेष्ठ त्वयेदं साहसं कृतम् ॥
ब्रह्मणा विष्णुना वापि शक्रादित्रिदशैरपि ॥ ६५ ॥
नेदं लिङ्गं समुद्धर्तुं शक्यते स्थापितं मया ॥
महादेवापराधेन पतितोऽस्यद्य मूर्च्छितः ॥ ६६ ॥
इतः परं मा क्रियतां द्रोहः साम्बस्य शूलिनः ॥
अद्यारभ्य त्विदं कुण्डं तव नाम्ना जगत्त्रये ॥ ६७ ॥
ख्यातिं प्रयातु यत्र त्वं पतितो वानरोत्तम ॥
महापातकसङ्घानां नाशः स्यादत्र मज्जनात् ॥ ६८ ॥
महादेवजटाजाता गौतमी सरितां वरा ॥
अश्वमेधसहस्रस्य फलदा स्नायिनां नृणाम् ॥ ६९ ॥
ततः शतगुणा गङ्गा यमुना च सरस्वती ॥
एतन्नदीत्रयं यत्र स्थले प्रवहते कपे ॥ 3.1.46.७० ॥
मिलित्वा तत्र तु स्नानं सहस्रगुणितं स्मृतम् ॥
नदीष्वेतासु यत्स्नानात्फलं पुंसां भवेत्कपे ॥ ७१ ॥
तत्फलं तव कुण्डेऽस्मिन्स्नानात्प्राप्नोत्यसंशयम् ॥
दुर्लभं प्राप्य मानुष्यं हनूमत्कुण्डतीरतः ॥ ७२ ॥
श्राद्धं न कुरुते यस्तु भक्तियुक्तेन चेतसा ॥
निराशास्तस्य पितरः प्रयान्ति कुपिताः कपे ॥ ७३ ॥
कुप्यन्ति मुनयोऽप्यस्मै देवाः सेन्द्राः सचारणाः ॥
न दत्तं न हुतं येन हनूमत्कुण्डतीरतः ॥ ७४ ॥
वृथाजीवित एवासाविहामुत्र च दुःखभाक् ॥
हनूमत्कुण्डसविधे येन दत्तं तिलोदकम् ॥
मोदन्ते पितरस्तस्य घृतकुल्याः पिबन्ति च ॥ ७५ ॥
॥ श्रीसूत उवाच ॥ ॥
श्रुत्वैतद्वचनं विप्रा रामेणोक्तं स वायुजः ॥ ७६ ॥
उत्तरे रामनाथस्य लिङ्गं स्वेनाहृतं मुदा ॥
आज्ञया रामचन्द्रस्य स्थापयामास वायुजः ॥ ७७ ॥
प्रत्यक्षमेव सर्वेषां कपिलाङ्गूलवेष्टितम् ॥
हरोपि तत्पुच्छजा तं बिभर्ति च वलित्रयम् ॥
तदुत्तरायां ककुभि गौरीं संस्थापयन्मुदा ॥ ७८ ॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्रा यदर्थं राघवेण तु ॥।
लिङ्गं प्रतिष्ठितं सेतौ भुक्तिमुक्तिप्रदं नृणाम् ॥ ७९ ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते ॥ 3.1.46.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिङ्गप्रतिष्ठाकारणवर्णनन्नाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥