०४५ रामचन्द्रतत्त्वज्ञानोपदेशवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
एवं प्रतिष्ठिते लिङ्गे रामेणाक्लिष्टकारिणा ॥
लिङ्गं वरं समादाय मारुतिः सहसाऽऽययौ ॥ १ ॥
रामं दाशरथिं वीरमभिवाद्य स मारुतिः ॥
वैदेहीलक्ष्मणौ पश्चात्सुग्रीवं प्रणनाम च ॥ २ ॥
सीता सैकतलिङ्गं तत्पूजयन्तं रघूद्वहम् ॥
दृष्ट्वाथ मुनिभिः सार्द्धं चुकोप पवनात्मजः ॥ ३ ॥
अत्यन्तं खेदखिन्नः सन्वृथाकृतपरिश्रमः ॥
उवाच रामं धर्मज्ञं हनूमानञ्जनात्मजः ॥ ४ ॥
॥ हनूमानुवाच ॥ ॥
दुर्जातोऽहं वृथा राम लोके क्लेशाय केवलम् ॥
खिन्नोऽस्मि बहुशो देव राक्षसैः क्रूरकर्मभिः ॥ ५ ॥
मा स्म सीमन्तिनी काचिज्जनयेन्मादृशं सुतम् ॥
यतोऽनुभूयते दुःखमनन्तं भवसागरे ॥ ६ ॥
खिन्नोऽस्मि सेवया पूर्वं युद्धेनापि ततोधिकम्॥
अनन्तं दुःखमधुना यतो मामवमन्यसे ॥ ७ ॥
सुग्रीवेण च भार्यार्थं राज्यार्थं राक्षसेन च ॥
रावणावरजेन त्वं सेवितो ऽसि रघूद्वह ॥ ८ ॥
मया निर्हेतुकं राम सेवितोऽसि महामते ॥
वानराणामनेकेषु त्वयाज्ञप्तोऽहमद्य वै ॥ ९ ॥
शिवलिङ्गं समानेतुं कैलासात्पर्वतो त्तमात् ॥
कैलासं त्वरितो गत्वा न चापश्यं पिनाकिनम् ॥ 3.1.45.१० ॥
तपसा प्रीणयित्वा तं साम्बं वृषभवाहनम् ॥
प्राप्तलिङ्गो रघुपते त्वरितः समु पागतः ॥ ११ ॥
अन्यलिङ्गं त्वमधुना प्रतिष्ठाप्य तु सैकतम् ॥
मुनिभिर्देवगन्धर्वैः साकं पूजयसे विभो ॥ १२ ॥
मयानीतमिदं लिङ्गं कैलासा त्पर्वताद्वृथा ॥
अहो भाराय मे देहो मन्दभाग्यस्यजायते ॥ १३ ॥
भूतलस्य महाराज जानकीरमण प्रभो ॥
इदं दुःखमहं सोढुं न शक्नोमि रघूद्वह ॥ १४
किं करिष्यामि कुत्राहं गमिष्यामि न मे गतिः ॥
अतः शरीरं त्यक्ष्यामि त्वयाहमवमानितः ॥ १५ ॥
॥ श्रीसूत उवाच ॥
एवं स बहुशो विप्राः क्रुशित्वा पवनात्मजः ॥
दण्डवत्प्रणतो भूमौ क्रोधशोकाकुलोऽभवत् ॥ १६ ॥
तं दृष्ट्वा रघुनाथोऽपि प्रहसन्निदमब्रवीत् ॥
पश्यतां सवदेवानां मुनीनां कपिरक्षसाम् ॥
सान्त्वयन्मारुतिं तत्र दुःखं चास्य प्रमार्जयन् ॥ १७ ॥
॥ श्रीराम उवाच ॥
सर्वं जानाम्यहं कार्यमात्मनोऽपि परस्य च ॥ १८ ॥
जातस्य जायमानस्य मृतस्यापि सदा कपे ॥
जायते म्रियते जन्तुरेक एव स्वकर्मणा १९ ॥
प्रयाति नरकं चापि परमात्मा तु निर्गुणः ॥
एवं तत्त्वं विनिश्चित्य शोकं मा कुरु वानर ॥ 3.1.45.२० ॥
लिङ्गत्रयविनिर्मुक्तं ज्योतिरेकं निरञ्जनम् ॥
निराश्रयं निर्विकारमात्मानं पश्य नित्यशः ॥ २१ ॥
किमर्थं कुरुषे शोकं तत्त्वज्ञानस्य बाधकम् ॥
तत्त्वज्ञाने सदा निष्ठां कुरु वानरसत्तम ॥ २२ ॥
स्वयम्प्रकाशमात्मानं ध्यायस्व सततं कपे ॥
देहादौ ममतां मुञ्च तत्त्वज्ञानविरोधिनीम् ॥ २३ ॥
धर्मं भजस्व सततं प्राणिहिंसां परित्यज ॥
सेवस्व साधुपुरुषाञ्जहि सर्वेन्द्रियाणि च ॥ २४ ॥
परित्यजस्व सततमन्येषां दोषकीर्तनम् ॥
शिवविष्ण्वादिदेवानामर्चां कुरु सदा कपे ॥ २५ ॥
सत्यं वदस्व सततं परित्यज शुचं कपे ॥
प्रत्यग्ब्रह्मैकताज्ञानं मोहवस्तुसमुद्गतम् ॥ २६ ॥
शोभनाशोभना भ्रान्तिः कल्पि तास्मिन्यथार्थवत् ॥
अध्यास्ते शोभनत्वेन पदार्थे मोहवैभवात् ॥ २७ ॥
रोगो विजायते नृणां भ्रान्तानां कपिसत्तम ॥
रागद्वेषबलाद्बद्धा धर्मा धर्मवशङ्गताः ॥ २८ ॥
देवतिर्यङ्मनुष्याद्या निरयं यान्ति मानवाः ॥
चन्दनागरुकर्पूरप्रमुखा अतिशोभनाः ॥ २९ ॥
मलं भवन्ति यत्स्पर्शात्तच्छरीरं कथं सुखम्॥
भक्ष्यभोज्यादयः सर्वे पदार्था अतिशोभनाः ॥3.1.45.३०॥
विष्ठा भवन्ति यत्सङ्गात्तच्छरीरं कथं सुखम्॥
सुगन्धि शीतलं तोयं मूत्रं यत्सङ्गमाद्भवेत् ॥३१॥
तत्कथं शोभनं पिण्डं भवेद्ब्रूहि कपेऽधुना ॥
अतीव धवलाः शुद्धाः पटा यत्सङ्गमेनहि ॥३२॥
भवन्ति मलिनाः स्वेदात्तत्कथं शोभनं भवेत ॥
श्रूयतां परमार्थो मे हनूमन्वायुनन्दन ॥ ३३ ॥
अस्मिन्संसारगर्ते तु किञ्चित्सौख्यं न विद्यते ॥
प्रथमं जन्तुराप्नोति जन्म बाल्यं ततः परम् ॥ ॥३४॥
पश्चाद्यौवनमाप्नोति ततो वार्धक्यमश्नुते ॥
पश्चान्मृत्युमवाप्नोति पुनर्जन्म तदश्नुते ॥३५॥
अज्ञानवैभवादेव दुःखमाप्नोति मानवः ॥
तदज्ञान निवृत्तौ तु प्राप्नोति सुखमुत्तमम् ॥३६॥
अज्ञानस्य निवृत्तिस्तु ज्ञानादेव न कर्मणा ॥
ज्ञानं नाम परं ब्रह्म ज्ञानं वेदान्तवाक्यजम् ॥३७॥
तज्ज्ञानं च विरक्तस्य जायते नेतरस्य हि ॥
मुख्याधिकारिणः सत्यमाचार्यस्य प्रसादतः ॥३९॥
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ॥
तदा मर्त्योऽमृतोऽत्रैव परं ब्रह्म समश्नुते ॥ ३९ ॥
जाग्रतं च स्वपन्तं च भुञ्जन्तं च स्थितं तथा ॥
इमं जनं सदा क्रूरः कृतान्तः परिकर्षति ॥ 3.1.45.४० ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ॥
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ ४१ ॥
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ॥
यथा नराणां जातानां नान्यत्र पतनाद्भयम् ॥ ४२ ॥
यथा गृहं दृढस्तम्भं जीर्णं काले विनश्यति ॥
एवं विनश्यन्ति नरा जरामृत्युवशङ्गताः ॥ ४३ ॥
अहोरात्रस्य गमनान्नृणामायुर्विनश्यति ॥
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ॥ ४४ ॥
नश्यत्यायुः स्थितस्यापि धावतोऽपि कपीश्वर ॥
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ॥ ४५ ॥
चरित्वा दूरदेशं च सह मृत्युर्निवर्तते ॥
शरीरे वलयः प्राप्ताः श्वेता जाताः शिरोरुहाः ॥ ४६ ॥
जीर्यते जरया देहः श्वासकासादिना तथा ॥
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ॥ ४७ ॥
समेत्य च व्यपेयातां कालयोगेन वानर ॥
एवं भार्या च पुत्रश्च वधुक्षेत्रधनानि च ॥ ४८ ॥
क्वचित्सम्भूय गच्छन्ति पुनरन्यत्र वानर ॥
यथा हि पान्थं गच्छन्तं पथि कश्चित्पथि स्थितः॥ ४९ ॥
अहमप्या गमिष्यामि भवद्भिः साकमित्यथ ॥
कञ्चित्कालं समेतौ तौ पुनरन्यत्र गच्छतः ॥ 3.1.45.५० ॥
एवं भार्यासुतादीनां सङ्गमो नश्वरः कपे ॥
शरीरजन्मना साकं मृत्युः सञ्जायते ध्रुवम् ॥ ५१ ॥
अवश्यम्भाविमरणे न हि जातु प्रतिक्रिया ॥
एतच्छरीरपाते तु देही कर्मगतिं गतः ॥ ५२ ॥
प्राप्य पिण्डान्तरं वत्स पूर्वपिण्डं त्यजत्यसौ ॥
प्राणिनां न सदैकत्र वासो भवति वानर ॥ ५३ ॥
स्वस्वकर्मवशात्सर्वे वियुज्यन्ते पृथक्पृथक् ॥
यथा प्राणिशरीराणि नश्यन्ति च भवन्ति च ॥ ५४ ॥
आत्मनो जन्ममरणे नैव स्तः कपिसत्तम ॥
अतस्त्वमञ्जनासूनो विशोकं ज्ञानमद्वयं ॥। ॥ ५५ ॥
सद्रूपममलं ब्रह्म चिन्तयस्व दिवानिशम् ॥
त्वत्कृतं मत्कृतं कर्म मत्कृतं त्वाकृतं तथा ॥ ५६ ॥
मल्लिङ्गस्थापनं तस्मात्त्वल्लिङ्ग स्थापनं कपे ॥
मुहूर्तातिक्रमाल्लिङ्गं सैकतं सीतया कृतम् ॥ ५७ ॥
मयात्र स्थापितं तस्मात्कोपं दुःखं च मा कुरु ॥
कैलासादागतं लिङ्गं स्थापयास्मिच्छुभे दिने ॥ ५८ ॥
तव नाम्ना त्विदं लिङ्गं यातु लोकत्रये प्रथाम् ॥
हनूमदीश्वरं दृष्ट्वा द्रष्टव्यो राघवेश्वरः ॥ ५९ ॥
ब्रह्मराक्षसयूथानि हतानि भवता कपे ॥
अतः स्वनाम्ना लिङ्गस्य स्थापनात्त्वं प्रमोक्ष्यसे ॥ 3.1.45.६० ॥
स्वयं हरेण दत्तं तु हनूमन्नामकं शिवम् ॥
सम्पश्यन्रामनाथं च कृतकृत्यो भवेन्नरः ॥ ६१ ॥
योजनानां सहस्रेऽपि स्मृत्वा लिङ्गं हनूमतः ॥
रामनाथेश्वरं चापि स्मृत्वा सायुज्यमाप्नुयात् ॥ ६२ ॥
तेनेष्टं सर्वयज्ञैश्च तपश्चाकारि कृत्स्नशः ॥
येन दृष्टौ महादेवौ हनूमद्राघवेश्वरौ ॥ ६३ ॥
हनूमता कृतं लिङ्गं यच्च लिङ्गं मया कृतम् ॥
जानकीयं च यल्लिङ्गं यल्लिङ्गं लक्ष्मणेश्वरम् ॥ ६४ ॥
सुग्रीवेण कृतं यच्च सेतुकर्त्रा नलेन च ॥
अङ्गदेन च नीलेन तथा जाम्बवता कृतम् ॥ ६५ ॥
विभीषणेन यच्चापि रत्नलिङ्गं प्रतिष्ठितम् ॥
इन्द्राद्यैश्च कृतं लिङ्गं यच्छेषाद्यैः प्रतिष्ठितम् ॥ ६६ ॥
इत्येकादशरूपोऽयं शिवः साक्षाद्विभासते ॥
सदा ह्येतेषु लिङ्गेषु सन्निधत्ते महेश्वरः ॥ ६७ ॥
तत्स्वपापौघशुद्ध्यर्थं स्थापयस्व महेश्वरम् ॥
अथ चेत्त्वं महाभाग लिङ्गमुत्सादयिष्यसि ॥ ६८ ॥
मयात्र स्थापितं वत्स सीतया सैकतं कृतम् ॥
स्थापयिष्यामि च ततो लिङ्गमेतत्त्वया कृतम् ॥ ६९ ॥
पातालं सुतलं प्राप्य वितलं च रसातलम् ॥
तलातलं च तदिदं भेदयित्वा तु तिष्ठति ॥ 3.1.45.७० ॥
प्रतिष्ठितं मया लिङ्गं भेत्तुं कस्य बलं भवेत् ॥
उत्तिष्ठ लिङ्गमुद्वास्य मयैतत्स्थापितं कपे ॥ ॥ ७१ ॥
त्वया समाहृतं लिङ्गं स्थापयस्वाशु मा शुचः ॥
इत्युक्तस्तं प्रणम्याथाज्ञातसत्त्वोऽथ वानरः ॥ ७२ ॥
उद्वासयामि वेगेन सैकतं लिङ्गमुत्त मम्॥
संस्थापयामि कैलासादानीतं लिङ्गमादरात् ॥ ७३ ॥
उद्वासने सैकतस्य कियान्भारो भवेन्मम ॥
चेतसैवं विचार्यायं हनूमान्मारुता त्मजः ॥ ७४ ॥
पश्यतां सर्वदेवानां मुनीनां कपिरक्षसाम् ॥
पश्यतो रामचन्द्रस्य लक्ष्मणस्यापि पश्यतः ॥ ७५ ॥
पश्यन्त्या अपि वैदेह्या लिङ्गं तत्सैकतं बलात् ॥
पाणिना सर्वयत्नेन जग्राह तरसा बली ॥ ७६ ॥
यत्नेन महता चायं चालयन्नपि मारुतिः ॥
नालं चालयितुं ह्यासीत्सैकतं लिङ्गमोजसा ॥ ७७ ॥
ततः किलकिलाशब्दं कुर्वन्वानरपुङ्गवः ॥
पुच्छमुद्यम्य पाणिभ्यां निरास्थत्तन्निजौजसा ॥ ७८ ॥
इत्यनेकप्रकारेण चाल यन्नपि वानरः ॥
नैव चालयितुं शक्तो बभूव पवनात्मजः ॥ ७९ ॥
तद्वेष्टयित्वा पुच्छेन पाणिभ्यां धरणीं स्पृशन् ॥
उत्पपाताथ तरसा व्योम्नि वायुसुतः कपिः ॥ 3.1.45.८० ॥
कम्पयन्स धरां सर्वां सप्तद्वीपां सपर्वतम् ॥
लिङ्गस्य क्रोशमात्रे तु मूर्च्छितो रुधिरं वमन् ॥ ८१ ॥
पपात हनुमान्विप्राः कम्पिताङ्गो धरातले ॥
पततो वायुपुत्रस्य वक्त्राच्च नयनद्वयात् ॥ ८२ ॥
नासापुटाच्छ्रोत्ररन्ध्रादपानाच्च द्विजोत्तमाः ॥
रुधिरौघः प्रसुस्राव रक्तकुण्ड मभूच्च तत्॥ ८३ ॥
ततो हाहाकृतं सर्वं सदेवासुरमानुषम् ॥
धावन्तौ कपिभिः सार्द्धमुभौ तौ रामलक्ष्मणौ ॥ ८४ ॥
जानकीसहितौ विप्रा ह्यास्तां शोकाकुलौ तदा ॥
सीतया सहितौ वीरौ वानरैश्च महाबलौ ॥ ८५ ॥
रुरुचाते तदा विप्रा गन्धमादनपर्वते ॥
यथा तारागणयुतौ रजन्यां शशि भास्करौ ॥ ८६ ॥
ददर्शतुर्हनूमन्तं चूर्णीकृतकलेवरम्॥
मूर्च्छितं पतितं भूमौ वमन्तं रुधिरं मुखात्॥ ८७ ॥
विलोक्य कपयः सर्वे हाहाकृत्वाऽपतन्भुवि ॥
कराभ्यां सदयं सीता हनूमन्तं मरुत्सुतम्॥ ८८ ॥
ताततातेति पस्पर्श पतितं धरणीतले ॥
रामोऽपि दृष्ट्वा पतितं हनूमन्तं कपीश्वरम् ॥ । ८९ ॥
आरोप्याङ्कं स्वपाणिभ्यामाममर्श कलेवरम् ॥
विमुञ्चन्नेत्रजं वारि वायुजं चाव्रवीद्द्विजाः ॥ 3.1.45.९० ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामचन्द्रतत्त्वज्ञानोपदेशवर्णनन्नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥