॥ ऋषय ऊचुः ॥ ॥
सर्ववेदार्थतत्त्वज्ञ पुराणार्णवपारग ॥
व्यासपादाम्बुजद्वन्द्वनमस्कारहृताशुभ ॥ १ ॥
पुराणार्थोपदेशेन सर्वप्राण्युपका रक ॥
त्वया ह्यनुगृहीताः स्म पुराणकथनाद्वयम् ॥ २ ॥
अधुना सेतुमाहात्म्यकथनात्सुतरां मुने ॥
वयं कृतार्थाः सञ्जाता व्यासशिष्य महामते ॥ ॥ ३ ॥
यथा प्रातिष्ठिपल्लिङ्गं रामो दशरथात्मजः ॥
तच्छ्रोतुं वयमिच्छामस्त्वमिदानीं वदस्व नः ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
यदर्थं स्थापितं लिङ्गं गन्धमादनपर्वते ॥
रामचन्द्रेण विप्रेन्द्र तदिदानीं ब्रवीमि वः ॥ ५ ॥
हृतभार्यो वनाद्रामो रावणेन बलीयसा ॥
कपिसेनायुतो धीरः ससौमि त्रिर्महाबलः ॥६॥
महेन्द्रं गिरिमासाद्य व्यलोकयत वारिधिम् ॥
तस्मिन्नपारे जलधौ कृत्वा सेतुं रघूद्वहः ॥७॥
तेन गत्वा पुरीं लङ्कां रावणेनाभिरक्षि ताम् ॥
अस्तङ्गते सहस्रांशौ पौर्णमास्यां निशामुखे॥८॥
रामः ससैनिको विप्राः सुवेलगिरिमारुहत् ॥
ततः सौधस्थितं रात्रौ दृष्ट्वा लङ्केश्वरं बली। ॥ ॥ ९ ॥
सूर्यपुत्रोऽस्य मुकुटं पातयास भूतले ॥
राक्षसो भग्नमुकुटः प्रविवेश गृहोदरम् ॥ 3.1.44.१० ॥
गृहं प्रविष्टे लङ्केशे रामः सुग्रीवसंयुतः ॥
सानुजः सेनया सार्द्धमवरुह्य गिरेस्तटात् ॥११॥
सेनां न्यवेशयद्वीरो रामो लङ्कासमीपतः ॥
ततो निवेशमानांस्तान्वानरान्रावणानुगाः ॥ १२॥
अभिजग्मुर्महाकायाः सायुधाः सहसैनिकाः ॥
पर्वणः पूतनो जृम्भः खरः क्रोधवशो हरिः ॥१३॥
प्रारुजश्चारुजश्चैव प्रहस्तश्चेतरे तथा ॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ॥ १४ ॥
अन्तर्धानवधं तत्र चकार स्म विभीषणः ॥
ते दृश्यमाना बलिभिर्हरिभिर्दूरपातिभिः ॥ १५ ॥
निहताः सर्वतश्चैते न्यपतन्वै गतासवः ॥
अमृष्यमाणः सबलो रावणो निर्ययावथ ॥ १६ ॥
व्यूह्य तान्वानरान्सर्वान्न्यवारयत सायकैः ॥
राघवस्त्वथ निर्याय व्यूढानीको दशाननम् ॥ १७ ॥
प्रत्ययुध्यत वेगेन द्वन्द्वयुद्धमभूत्तदा ॥
युयुधे लक्ष्मणेनाथ इन्द्रजिद्रावणात्मजः ॥ १८ ॥
विरूपाक्षेण सुग्रीवस्तारेयेणापि खर्वटः ॥
पौण्ड्रेण च नलस्तत्र पुटेशः पनसेन च ॥ १९ ॥
अन्येपि कपयो वीरा राक्षसैर्द्वन्द्वमेत्य तु ॥
चक्रुर्युद्धं सुतुमुलं भीरूणां भयवर्द्धनम् ॥ 3.1.44.२० ॥
अथ रक्षांसि भिन्नानि वानरैर्भीमविक्रमैः ॥
प्रदुद्रुवू रणादाशु लङ्कां रावणपालिताम् ॥ २१ ॥
भग्नेषु सर्वसैन्येषु रावणप्रेरितेन वै ॥
पुत्रेणेन्द्रजिता युद्धे नागास्त्रैरतिदारुणैः ॥ २२ ॥
विद्धौ दाशरथी विप्रा उभौ तौ रामलक्ष्मणौ ॥
मोचितौ वैनतेयेन गरुडेन महात्मना ॥ २३ ॥
तत्र प्रहस्तस्तरसा समभ्येत्य विभीषणम् ॥
गदया ताडयामास विनद्य रणकर्कशः ॥ २४ ॥
स तयाभिहतो धीमान्गदया भामिवेगया ॥
नाकम्पत महाबाहुर्हिमवानिव सुस्थितः ॥ २५ ॥
ततः प्रगृह्य विपुलामष्टघण्टां विभीषणः ॥
अभिमन्त्र्य महाशक्तिं चिक्षे पास्य शिरः प्रति॥२६॥
पतन्त्या स तया वेगाद्राक्षसोऽशनिना यथा।
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः॥२७॥
तं दृष्ट्वा निहतं सङ्ख्ये प्रहस्तं क्षणदाचरम्॥
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्॥२८॥
कपिसैन्यं समालोक्य विद्रुतं पवनात्मजः॥
धूम्राक्षमाजघानाशु शरेण रणमूर्धनि॥२९॥
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ॥
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥3.1.44.३०॥
ततः शयानं लङ्केशः कुम्भकर्णमबोधयत् ॥
प्रबुद्धं प्रेषयामास युद्धाय स च रावणः ॥ ३१ ॥
आगतं कुम्भकर्णं तं ब्रह्मास्त्रेण तु लक्ष्मणः ॥
जघान समरे क्रुद्धो गतासुर्न्यपतच्च सः ॥ ३२ ॥
दूषणस्यानुजौ तत्र वत्रवेगप्रमाथिनौ ॥
हनुमन्नीलनिहतौ रावणप्रतिमौ रणे ॥ ३३ ॥
वज्रदंष्ट्रं समवधीद्विश्वकर्मसुतो नलः ॥
अकम्पनं च न्यहनत्कुमुदो वानरर्षभः ॥ ३४ ॥
षष्ठ्यां पराजितो राजा प्राविशच्च पुरीं ततः ॥
अतिकायो लक्ष्मणेन हतश्च त्रिशिरास्तथा ॥ ३५ ॥
सुग्रीवेण हतौ युद्धे देवान्त कनरान्तकौ ॥
हनूमता हतौ युद्धे कुम्भकर्णसुतावुभौ ॥ ३६ ॥
विभीषणेन निहतो मकराक्षः खरात्मजः ॥
तत इन्द्रजितं पुत्रं चोदयामास रावणः॥३७॥
इन्द्रजिन्मोहयित्वा तौ भ्रातरौ रामलक्षमणौ॥
घोरैः शरैरङ्गदेन हतवाहो दिवि स्थितः॥३८॥
कुमुदाङ्गदसुग्रीवनलजाम्बवदादिभिः॥
सहिता वानराः सर्वे न्यपतंस्तेन घातिताः॥३९॥
एवं निहत्य समरे ससैन्यौ रामलक्ष्मणौ॥
अन्तर्दधे तदा व्योम्नि मेघनादो महाबलः ॥ 3.1.44.४० ॥
ततो विभीषणो राममिक्ष्वाकुकुलभूषणम् ॥
उवाच प्राञ्जलिर्वाक्यं प्रणम्य च पुनःपुनः ॥ ४१ ॥
अयमम्भो गृहीत्वा तु राजराजस्य शासनात् ॥
गुह्यकोऽभ्यागतो राम त्वत्सकाशमरिन्दम ॥ ४२ ॥
इदमम्भः कुबेरस्ते महाराज प्रयच्छति ॥
अन्तर्हितानां भूतानां दर्शनार्थं परं तप ॥ ४३ ॥
अनेन स्पृष्टनयनो भूतान्यन्तर्हितान्यपि ॥
भवान्द्रक्ष्यति यस्मै वा भवानेतत्प्रदास्यति ॥ ४४ ॥
सोऽपि द्रक्ष्यति भूतानि वियत्त्यन्तर्हितानि वै ॥
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् ॥ ४५ ॥
चकार नेत्रयोः शौचं लक्ष्मणश्च महाबलः ।
सुग्रीवजाम्बवन्तौ च हनुमानङ्गदस्तथा ॥ ४६ ॥
मैन्दद्विविदनीलाश्च ये चान्ये वानरास्तथा ॥
ते सर्वे रामदत्तेन वारिणा शुद्धचक्षुषः ॥ ४७ ॥
आकाशेन्तर्हितं वीरमपश्यन्रावणा त्मजम् ॥
ततस्तमभिदुद्राव सौमित्रिर्दृष्टिगोचरम् ॥ ४८ ॥
ततो जघान सङ्कुद्धो लक्ष्मणः कृतलक्षणः ॥
कुवेरप्रेषितजलैः पवित्रीकृतलोचनः ॥ ॥ ४९ ॥
ततः समभवद्युद्धं लक्ष्मणेन्द्रजितोर्महत् ॥
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥ 3.1.44.५० ॥
ततस्तृतीयदिवसे यत्नेन महता द्विजाः ॥
इन्द्रजिन्निहतो युद्धे लक्ष्मणेन बलीयसा ॥ ५१ ॥
ततो मूलबलं सर्वं हतं रामेण धीमता ॥
अथ क्रुद्धो दशग्रीवः प्रियपुत्रे निपातिते ॥ ५२ ॥
निर्ययौ रथमास्थाय नगराद्बहुसैनिकः ॥
रावणो जानकीं हन्तुमुद्युक्तो विन्ध्यवारितः ॥ ५३ ॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ॥
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ ५४ ॥
ऐन्द्रं रथं समारुह्य रामो धर्मभृतां वरः ॥
शिरांसि राक्षसेन्द्रस्य ब्रह्मास्त्रेणावधीद्रणे ॥ ५५ ॥
ततो हतदशग्रीवं रामं दशरथात्मजम् ॥
आशीर्भिर्जययुक्ताभिर्देवाः सर्षिपुरोगमाः ॥ ५६ ॥
तुष्टुवुः परिसन्तुष्टाः सिद्धविद्याधरास्तथा ॥
रामं कमलपत्राक्षं पुष्प वर्षेरवाकिरन् ॥ ५७ ॥
रामस्तैः सुरसङ्घातैः सहितः सैनिकैर्वृतः ॥
सीतासौमित्रिसहितः समारुह्य च पुष्पकम् ॥ ५८ ॥
तथाभिषिच्य राजानं लङ्कायां च विभीषणम् ॥
कपिसेनावृतो रामो गन्धमादनमन्वगात् ॥५९॥
परिशोध्य च वैदेहीं गन्धमादनपर्वते ॥
रामं कमलपत्राक्षं स्थितवानर संवृतम् ॥ 3.1.44.६० ॥
हतलङ्केश्वरं वीरं सानुजं सविभीषणम् ॥
सभार्यं देववृन्दैश्च सेवितं मुनिपुङ्गवैः ॥ ६१ ॥
मुनयोऽभ्यागता द्रष्टुं दण्डकारण्य वासिनः ॥
अगस्त्यं ते पुरस्कृत्य तुष्टुवुर्मैथिलीपतिम् ॥ ६२ ॥
॥ मुनय ऊचुः ॥ ॥
नमस्ते रामचन्द्राय लोकानुग्रहकारिणे ॥
अरावणं जगत्कर्तुमवतीर्णाय भूतले ॥ ६३ ॥
ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे ॥
नमस्ते जितमारीच सुवाहुप्राणहारिणे ॥ ६४ ॥
अहल्यामुक्तिसन्दायिपादपङ्कजरेणवे ॥
नमस्ते हरकोदण्डलीलाभञ्जनकारिणे ॥ ६५ ॥
नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने ॥
नमस्ते रेणुकापुत्रपराजयविधायिने ॥ ६६ ॥
सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् ॥
सत्यं पितृवचः कर्तुं नमो वनमुपे युषे ॥ ६७ ॥
भरतप्रार्थनादत्तपादुकायुगुलाय ते ॥
नमस्ते शरभङ्गस्य स्वर्गप्राप्त्यैकहेतवे ॥ ६८ ॥
नमो विराधसंहर्त्रे गृधराजस खाय ते ॥
मायामृगमहाक्रूरमारीचाङ्गविदारिणे ॥ ६९ ॥
सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् ॥
जटायुषं तु सन्दह्य तत्कैवल्यप्रदायिने ॥ ॥ 3.1.44.७० ॥
नमः कबन्धसंहर्त्रे शवरीपूजिताङ्घ्रये ॥
प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते ॥ ७१ ॥
नमः कृतवते सेतुं समुद्रे वरुणालये ॥
सर्वराक्षससंहर्त्रे रावणप्राणहारिणे ॥ ७२ ॥
संसाराम्बुधिसन्तारपोतपादाम्बुजाय ते ॥
नमो भक्तार्तिसंहर्त्रे सच्चिदानन्दरूपिणे ॥ ७३ ॥
नमस्ते राम भद्राय जगतामृद्धिहेतवे ॥
रामादिपुण्यनामानि जपतां पापहारिणे ॥ ७४ ॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यन्तकारिणे ॥
नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित ॥ ७८५ ॥
ससीताय नमस्तुभ्यं विभीषणसुखप्रद ॥
लङ्केश्वरवधाद्राम पालितं हि जगत्त्वया ॥ ७६ ॥
रक्षरक्ष जगन्नाथ पाह्य स्माञ्जानकीपते ॥
स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ॥ ७७ ॥
॥ श्रीसूत उवाच ॥ ॥
य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम् ॥
त्रिसन्ध्यं पठते भक्त्या भुक्तिं मुक्तिं च विन्दति ॥ ७८ ॥
प्रयाणकाले पठतो न् भीतिरुपजायते ॥
एतत्स्तोत्रस्य पठनाद्भूतवेतालकादयः ॥ ॥ ७९ ॥
नश्यन्ति रोगा नश्यन्ति नश्यते पापसञ्चयः ॥
पुत्रकामो लभेत्पुत्रं कन्या विन्दति सत्पतिम् ॥ 3.1.44.८० ॥
मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत्॥
सर्वान्कामानवाप्नोति पठन्भक्त्या त्विमं स्तवम् ॥ ८१ ॥
ततो रामो मुनीन्प्राह प्रणम्य च कृताञ्जलिः ॥
अहं विशुद्धये प्राप्यः सकलैरपि मानवैः ॥ ८२ ॥
मद्दृष्टिगोचरो जन्तुर्नित्यमोक्षस्य भाजनम् ॥
तथापि मुनयो नित्यं भक्तियुक्तेन चेतसा ॥ ८३ ॥
स्वात्मलाभेन सन्तुष्टान्साधून्भूतसुहृत्तमान् ॥
निरहङ्कारिणः शान्तान्नमस्याम्यूर्ध्वरेतसः ॥ ८४ ॥
यस्माद्ब्रह्मण्यदेवोऽहमतो विप्रान्भजे सदा ॥
युष्मान्पृच्छाम्यहं किञ्चित्तद्वदध्वं विचार्य तु ॥ ८५ ॥
रावणस्य वधाद्विप्रा यत्पापं मम वर्तते ॥
तस्य मे निष्कृतिं ब्रूत पौलस्त्यवधजस्य हि ॥
यत्कृत्वा तेन पापे न मुच्येऽहं मुनिपुङ्गवाः ॥ ८६ ॥
॥ मुनय ऊचुः ॥ ॥
सत्यव्रत जगन्नाथ जगद्रक्षाधुरन्धर ॥ ८७ ॥
सर्वलोकोपकारार्थं कुरु राम शिवार्चनम् ॥
गन्धमादनशृङ्गेऽस्मिन्महापुण्ये विमुक्तिदे ॥ ८८ ॥
शिवलिङ्गप्रतिष्ठां त्वं लोकसङ्ग्रहकाम्यया ॥
कुरु राम दशग्रीववधदोषापनुत्तये ॥ ॥८९॥
लिङ्गस्थापनजं पुण्यं चतुर्वक्त्रोऽपि भाषितुम्॥
न शक्नोति ततो वक्तुं किं पुनर्मनुजेश्वर॥3.1.44.९॥।
यत्त्वया स्थाप्यते लिगं गन्धमादनपर्वते ॥
अस्य सन्दर्शनं पुंसां काशीलिङ्गावलोकनात् ॥ ९१ ॥
अधिकं कोटिगुणितं फलवत्स्यान्न संशयः ॥
तव नाम्ना त्विदं लिङ्गं लोके ख्यातिं समश्नुताम् ॥ ९२ ॥
नाशकं पुण्यपापाख्यकाष्ठानां दहनोपमम् ॥
इदं रामेश्वरं लिङ्गं ख्यातं लोके भविष्यति ॥ ९३ ॥
मा विलम्बं कुरुष्वातो लिङ्गस्थापनकर्मणि ॥
रामचन्द्र महाभाग करुणापूर्णविग्रह ॥ ९४ ॥
॥ श्रीसूत उवाच ॥ ॥
इति श्रुत्वा वचो रामो मुनीनां तं मुनीश्वराः ॥
पुण्यकालं विचार्याथ द्विमुहूर्तं जगत्पतिः ॥ ९५ ॥
कैलासं प्रेषयामास हनुमन्तं शिवालयम् ॥
शिवलिङ्गं समानेतुं स्थापनार्थं रघूद्वहः ॥ ९६ ॥
॥ राम उवाच ॥ ॥
हनूमन्नञ्जनीसूनो वायुपुत्र महाबल ॥
कैलासं त्वरितो गत्वा लिङ्गमानय मा चिरम् ॥ ९७ ॥
इत्याज्ञप्तस्स रामेण भुजावास्फाल्य वीर्यवान् ॥
मुहूर्तद्वितयं ज्ञात्वा पुण्यकालं कपीश्वरः ॥ ९८ ॥
पश्यतां सर्वदेवानामृषीणां च महात्मनाम् ॥
उत्पपात महावेगश्चालयन्गन्धमादनम् ॥९९॥
लङ्घयन्स वियन्मार्गं कैलासं पर्वतं ययौ ॥
न ददर्श महादेवं लिङ्गरूपधरं कपिः॥3.1.44.१००॥
कैलासे पर्वते तस्मिन्पुण्ये शङ्करपालिते ॥
आञ्जनेयस्तपस्तेपे लिङ्गप्राप्त्यर्थमादरात् ॥ १ ॥
प्रागग्रेषु समासीनः कुशेषु मुनिपुङ्गवाः ॥
ऊर्ध्वबाहुर्निरालम्बो निरुच्छ्वासो जितेन्द्रियः ॥ २ ॥
प्रसादयन्महादेवं लिङ्गं लेभे स मारुतिः ॥
एतस्मिन्नन्तरे विप्रा मुनिभिस्तत्त्वदर्शिभिः ॥ ३ ॥
अनागतं हनूमन्तं कालं स्वल्पावशेषितम् ॥
ज्ञात्वा प्रकथितं तत्र रामं प्रति महामतिम् ॥ ४ ॥
रामराम महाबाहो कालो ह्यत्येति साम्प्रतम् ॥
जानक्या यत्कृतं लिङ्गं सैकतं लीलया विभो ॥ ५ ॥
तल्लिङ्गं स्थापयस्वाद्य महालिङ्गमनुत्तमम् ॥
श्रुत्वैतद्वचनं रामो जानक्या सह सत्वरम् ॥ ६ ॥
मुनिभिः सहितः प्रीत्या कृतकौतुकमङ्गलः ॥
ज्येष्ठे मासे सिते पक्षे दशम्यां बुधहस्तयोः ॥ ७ ॥
गरानन्दे व्यतीपाते कन्या चन्द्रे वृषे रवौ ॥
दशयोगे महापुण्ये गन्धमादनपर्वते ॥ ८ ॥
सेतुमध्ये महादेवं लिङ्गरूपधरं हरम् ॥
ईशानं कृत्तिवसनं गङ्गाचन्द्रकलाधरम् ॥ ९ ॥
रामो वै स्थापयामास शिवलिङ्गमनुत्तमम् ॥
लिङ्गस्थं पूजयामास राघवः साम्बमीश्वरम् ॥ 3.1.44.११० ॥
लिङ्गस्थः स महादेवः पार्वत्या सह शङ्करः ॥
प्रत्यक्षमेव भगवान्दत्तवान्वरमुत्तमम् ॥ ११ ॥
सर्वलोकशरण्याय राघवाय महात्मने ॥
त्वयात्र स्थापितं लिङ्गं ये पश्यन्ति रघूद्वह ॥ १२ ॥
महापातकयुक्ताश्च तेषां पापं प्रणश्यति ॥
सर्वाण्यपि हि पापानि धनुष्कोटौ निमज्जनात् ॥ १३ ॥
दर्शनाद्रामलिङ्गस्य पातकानि महान्त्यपि ॥
विलयं यान्ति राजेन्द्र रामचन्द्र न संशयः ॥ १४ ॥
प्रादादेवं हि रामाय वरं देवोंऽबिकापतिः ॥
तदग्रे नन्दिकेशं च स्थापयामास राघवः ॥ ॥ १५ ॥
ईश्वरस्याभिषेकार्थं धनुष्कोट्याथ राघवः ॥
एकं कूपं धरां भित्त्वा जनयामास वै द्विजाः ॥ १६ ॥
तस्माज्जलमुपादाय स्नापयामास शङ्करम् ॥
कोटितीर्थमिति प्रोक्तं तत्तीर्थं पुण्यमुत्तमम् ॥ १७ ॥
उक्तं तद्वैभवं पूर्वमस्माभिर्मुनिपुङ्गवाः ॥
देवाश्च मुनयो नागा गन्धर्वाप्स रसां गणाः ॥
सर्वेपि वानरा लिङ्गमेकैकं चक्रुरादरात् ॥ १८ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्रा यथा रामेण धीमत ॥५९ ॥॥
स्थापितं शिवलिङ्गं वै भुक्तिमुक्तिप्रदायकम् ॥
इमां लिङ्गप्रतिष्ठां यः शृणोति पठतेऽथवा ॥ 3.1.44.१२० ॥
स रामेश्वरलिङ्गस्य सेवाफलमवाप्नुयात् ॥॥
सायुज्यं च समाप्नोति रामनाथस्य वैभवात् ॥ १२१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिङ्गप्रतिष्ठाविधिवर्णनन्नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥