श्रीसूत उवाच॥
अथेदानीं प्रवक्ष्यामि रामनाथस्य वैभवम्॥
यच्छ्रुत्वा सर्वपापेभ्यो मु्च्यते मानवो भुवि॥१॥
रामप्रतिष्ठितं लिङ्गं यः पश्यति नरः सकृत् ॥
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ॥ २ ॥
दशवर्षैस्तु यत्पुण्यं क्रियते तु कृते युगे ॥
त्रेतायामेकवर्षेण तत्पुण्यं साध्यते नृभिः ॥ ३ ॥
द्वापरे तच्च मासेन तद्दिनेन कलौ युगे ॥
तत्फलं कोटिगुणितं निमिषे निमिषे नृणाम् ॥ ४ ॥
निःसन्देहं भवेदेवं रामनाथविलोकिनाम् ॥
रामेश्वर महालिङ्गे तीर्थानि सकलान्यपि ॥५॥
विद्यन्ते सर्वदेवाश्च मुनयः पितरस्तथा ॥
एककालद्विकालं वा त्रिकालं सर्वदैव वा ॥६॥
ये स्मरन्ति महादेवं रामनाथं विमुक्तिदम् ॥
कीर्तयन्त्यथवा विप्रास्ते विमुक्ताघपञ्जराः॥७॥
सच्चिदानन्दमद्वैतं साम्बं रुद्रं प्रयान्ति वै ॥
रामेश्वराख्यं यल्लिङ्गं रामचन्द्रेण पूजि तम् ॥८॥
यस्य स्मरणमात्रेण यमपीडापि नो भवेत् ॥
रामेश्वरमहालिङ्गं येऽर्चयन्ति सकृन्नराः ॥९॥
न मानुषास्ते विज्ञेयाः किं तु रुद्रा न संशयः ॥
रामेश्वरमहालिङ्गं नार्चितं येन भक्तितः ॥ 3.1.43.१० ॥
चिरकालं स संसारे संसरेद्दुःखसङ्कुले ॥
रामेश्वरमहालिङ्गं ये पश्यन्ति सकृन्नराः ॥ ११ ॥।
किं दानैः किं व्रतैस्तेषां किं तपोभिः किमध्वरैः ॥
रामेश्वरमहालिङ्गं यो न चिन्तयति क्षणम् ॥१२॥
अज्ञानी स च पापी स्यात्स मूको बधिरस्तथा ॥
स जडोंऽधश्च विज्ञेयश्छिद्रं तस्य सदा भवेत् ॥ १३ ॥
धनक्षेत्रसुतादीनां तस्य हानिस्तथा भवेत् ॥
रामेश्वरमहालिङ्गे सकृद्दृष्टे मुनीश्वराः ॥ १४ ॥
किं काश्या गयया किं वा प्रयागेणापि किं फलम् ॥
दुर्लभं प्राप्य मानुष्यं मानवा यत्र भूतले ॥ १५ ॥
रामनाथमहालिङ्गं नमस्यन्त्यर्चयन्ति च ॥।
जन्म तेषां हि सफलं ते कृतार्थाश्च नेतरे ॥१६॥
रामेश्वरमहालिङ्गे पूजिते वा स्मृतेपि वा ॥
विष्णुना ब्रह्मणा किं वा शक्रेणाप्यखिलामरैः ॥१७॥
रामनाथमहालिङ्गं भक्तियुक्ताश्च ये नराः ॥
तेषां प्रणामस्मरणपूजायुक्तास्तु ये नराः ॥ १८ ॥
न ते पश्यन्ति दुःखानि नैव यान्ति यमालयम् ॥
ब्रह्महत्यासहस्राणि सुरापानायुतानि च ॥१९॥
दृष्टे रामेश्वरे देवे विलयं यान्ति कृत्स्नशः ॥
ये वाञ्छन्ति सदा भोगं राज्यं च त्रिदशालये ॥3.1.43.२०॥
रामे श्वरमहालिङ्गं ते नमन्तु सकृन्मुदा ॥
यानि कानि च पापानि जन्मकोटिकृतान्यपि ॥ २१ ॥
तानि रामेश्वरे दृष्टे विलयं यान्ति सर्वदा ॥
सम्पर्कात्कौतुकाल्लोभाद्भयाद्वापि च संस्मरन् ॥ २२ ॥
रामेश्वरमहालिङ्गं नेहामुत्र च दुःखभाक् ॥
रामेश्वरमहालिङ्गं कीर्तयन्नर्चयन्नपि ॥ २३ ॥
अवश्यं रुद्रसारूप्यं लभते नात्र संशयः ॥
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुते क्षणात् ॥ २४ ॥
तथा पापानि सर्वाणि रामेश्वरविलोकनात् ॥
रामेश्वरमहालिङ्गभक्तिरष्टविधा स्मृता ॥ २५ ॥
तद्भक्तजनवात्सल्यं तत्पूजापरितोषणम् ॥
स्वयं तत्पूजनं भक्त्या तदर्थे देहचेष्टितम् ॥ २६ ॥
तन्माहात्म्यकथानां च श्रवणेष्वादरस्तथा ॥
स्वरनेत्रशरीरेषु विकारस्फुरणं तथा ॥ २७ ॥
रामेश्वरमहालिङ्गस्मरणं सन्ततं तथा ॥
रामेश्वरमहालिङ्गमाश्रित्यैवोपजीवनम् ॥ २८ ॥
b
एवमष्टविधा भक्तिर्यस्मिन्म्लेच्छेऽपिविद्यते ॥
स एव मुक्तिक्षेत्राणां दायभाक्परिकीर्त्यते ॥ २९ ॥
भक्त्या त्वनन्यया मुक्तिर्ब्रह्मज्ञानेन निश्चिता ॥
वेदान्तशास्त्रश्रवणाद्यतीनामूर्ध्वरेतसाम् ॥ 3.1.43.३० ॥
सा च मुक्तिर्विना ज्ञानदर्शनश्रवणोद्भवम् ॥
यत्राश्रमं विना विप्रा विरक्तिं च विना तथा ॥ ३१ ॥
सर्वेषां चैव वर्णानामखिलाश्रमिणामपि ॥
रामेश्वरमहालिङ्गदर्शनादेव केवलात् ॥ ३२ ॥
अपुनर्भवदा मुक्तिर्भ विष्यत्यविलम्बिता ॥
कृमिकीटाश्च देवाश्च मुनयश्च तपोधनाः ॥ ३३ ॥
तुल्या रामेश्वरक्षेत्रे रामनाथप्रसादतः ॥
पापं कृतं मयानेकमिति मा क्रियतां भयम् ॥ ३४ ॥
मा गर्वः क्रियतां पुण्यं मयाकारीति वा जनैः ॥
रामेश्वरमहालिङ्गे साम्बरुद्रे विलोकिते ॥ ३५ ॥
न न्यूना नाधिकाश्च स्युः किं तु सर्वे जनाः समाः ॥
रामेश्वरमहालिङ्गं यः पश्यति सभक्तिकम् ॥ ३६ ॥
न तेन तुल्यतामेति चतुर्वेद्यपि भूतले ॥
रामेश्वरमहालिङ्गे भक्तो यः श्वपचोऽपि सन् ॥ ३७ ॥
तस्मै दानानि देयानि नान्यस्मै च त्रयीविदे ॥
या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् ॥ ३८ ॥
सा गतिः सर्वजन्तूनां रामेश्वरविलोकिनाम् ॥
रामनाथशिवक्षेत्रे ये वसन्ति नरा द्विजाः ॥ ३९ ॥
ते सर्वे पञ्चवक्त्राः स्युश्चन्द्रालङ्कृतमस्तकाः ॥
नागाभरणसंयुक्तास्तथैव वृषभध्वजाः ॥ 3.1.43.४० ॥
त्रिनेत्रा भस्मदिग्धाङ्गाः कपालाकृतिशेखराः ॥
साक्षात्साम्बा महादेवा भवेयुर्नात्र संशयः ॥४१ ॥
रामनाथशिवक्षेत्रं ये व्रजन्ति नरा मुदा ॥
पदेपदेऽश्वमेधानां प्राप्नुयुः सुकृतानि ते ॥ ४२ ॥
रामसेतुं समाश्रित्य रामनाथस्य तुष्टये॥
ददाति ग्राममेकं यो ब्राह्मणाय सभक्तिकम् ॥४३॥
तेन भूः सकला दत्ता सशैलवनकानना ॥
पत्रं पुष्पं फलं तोयं रामनाथाय यो नरः ॥ ४४ ॥
भक्त्या ददाति तं रक्षेद्रामनाथो ह्यहर्निशम्॥
रामनाथमहालिङ्गे साम्बे कारुणिके शिवे ॥ ४५ ॥
अत्यन्तदुर्लभा भक्तिस्तत्पूजाप्यतिदुर्लभा ॥
स्तोत्रं च दुर्लभं प्रोक्तं स्मरणं चातिदुर्लभम् ॥ ४६ ॥
रामनाथेश्वरं लिङ्गं महादेवं त्रिलोचनम् ॥
शरणं ये प्रपद्यन्ते भक्तियुक्तेन चेतसा ॥ ४७ ॥
लाभस्तेषां जयस्तेषा मिह लोके परत्र च ॥
रामनाथमहालिङ्गविषया यस्य शेमुषी ॥ ४८ ॥
दिवारात्रं च भवति स वै धन्यतरो भुवि ॥
रामनाथेश्वरं लिङ्गं यो न पूजयते शिवम्॥ ४९ ॥
नायं भुक्तेश्च मुक्तेश्च राज्यानामपि भाजनम् ॥
रामेश्वरमहालिङ्गं यः पूजयति भक्तितः ॥ 3.1.43.५० ॥
भुक्तिमुक्त्योश्च राज्यानामसौ परमभाजनम् ॥
रामनाथार्चनसमं नाधिकं पुण्यमस्ति वै ॥ ५१ ॥
रामनाथेश्वरं लिङ्गं द्वेष्टि यो मोहमास्थितः ॥
ब्रह्महत्यायुतं तेन कृतं नरककारणम् ॥ ५२ ॥
तत्सम्भाषणमात्रेण मानवो नरकं व्रजेत् ॥
रामनाथपरा देवा रामनाथपरा मखाः ॥ ५३ ॥
रामनाथपराः सर्वे तस्माद न्यन्न विद्यते ॥
अतः सर्वं परित्यज्य रामनाथं समाश्रयेत् ॥ ५४ ॥
रामनाथमहालिङ्गं शरणं याति चेन्नरः ॥
दौर्मत्यं तस्य नास्त्येव शिवलोकं च यास्यति ॥ ५५ ॥
सर्वयज्ञतपोदानतीर्थस्नानेषु यत्फलम् ॥
तत्फलं कोटिगुणितं रामनाथस्य सेवया॥५६॥
रामनाथेश्वरं लिङ्गं चिन्तयन्घटिका द्वयम् ॥
कुलैकवंशमुद्धृत्य शिवलोके महीयते ॥ ५७ ॥
दिनमेकं तु यः पश्येद्रामनाथं महेश्वरम् ॥
इहैव धनवान्भूत्वा सोंऽते रुद्रश्च जायते ॥ ५८ ॥
यः स्मरेत्प्रातरुत्थाय रामनाथं महेश्वरम् ॥
अनेनैव शरीरेण स शिवो वर्तते भुवि ॥ ५९ ॥
रामनाथमहालिङ्गद्रष्टुर्दर्शनमात्रतः ॥
अन्येषां प्राणिनां पापं तत्क्षणादेव नश्यति ॥ 3.1.43.६० ॥
रामनाथेश्वरं लिङ्गं मध्याह्ने यस्तु पश्यति ॥
सुरापानसहस्राणि तस्य नश्यन्ति तत्क्षणात् ॥ ॥ ६१ ॥
सायङ्काले पश्यति यो रामनाथं सभक्तिकम् ॥
गुरुस्त्रीगमनोत्पन्नपातकं तस्य नश्यति ॥ ६२ ॥
सायङ्काले महास्तोत्रैः स्तौति रामेश्वरं तु यः ॥
स्वर्णस्तेयसहस्राणि तस्य नश्यन्ति तत्क्षणात् ॥ ६३ ॥
स्नानं च धनुषः कोटौ रामनाथस्य दर्शनम् ॥
इति लभ्येत वै पुंसां किं गङ्गाजलसेवया ॥ ६४ ॥
रामनाथमहालिङ्गसेवया यन्न लभ्यते ॥
तदन्यद्धर्मजालेन नैव लभ्येत कर्हिचित् ॥ ६५ ॥
रामनाथं महालिगं यः कदापि न पश्यति ॥
सङ्करः स तु विज्ञेयो न पितुर्बीजसम्भवः ॥ ६६ ॥
रामनाथेतिशब्दं यस्त्रिः पठेत्प्रातरुत्थितः ॥
तस्य पूर्वदिनोत्पन्नपातकं नश्यति क्षणात् ॥ ६७ ॥
रामनाथे महालिङ्गे भक्तरक्षणदीक्षिते ॥
भोजने विद्यमानेऽपि याचनाः किं प्रयास्यथ ॥ ६८ ॥
रामनाथमहालिङ्गे प्रसन्ने करुणानिधौ ॥
नश्यन्ति सकलाः क्लेशा यथा सूर्योदये हिमम् ॥ ६९ ॥
प्राणोत्क्रमणवेलायां रामनाथं स्मरेद्यदि ॥
जन्मनेऽसौ न कल्पेत भूयः शङ्करतामियात् ॥ 3.1.43.७० ॥
रामनाथ महादेव मां रक्ष करुणानिधे ॥
इति यः सततं ब्रूयात्कलिनासौ न बाध्यते ॥ ७१ ॥
रामनाथ जगन्नाथ धूर्जटे नीललोहित ॥
इति यः सततं ब्रूयाद्बाध्यतेऽसौ न मायया ॥ ७२ ॥
नीलकण्ठ महादेव रामेश्वरसदाशिव ॥
इति ब्रुवन्सदा जन्तुर्नैव कामेन बाध्यते ॥ ७३ ॥
रामेश्वर यमाराते कालकूटविषादन ॥
इतीरयञ्जनो नित्यं न क्रोधेन प्रपीड्यते ॥ ७४ ॥
रामनाथालयं यस्तु दारुभिः कुरुते नरः ॥
स पुमान्स्वर्गमाप्नोति त्रिकोटिकुलसंयुतः ॥ ७५ ॥
इष्टकाभिस्तु यः कुर्यात्स वैकुण्ठमवाप्नुयात् ॥
शिलाभिः कुरुते यस्तु स गच्छेद्ब्रह्मणः पदम् ॥ ७६ ॥
स्फटिकादिशिलाभेदैः कुर्वन्नस्यालयं जनः ॥
शिवलोकमवाप्नोति विमानवरमास्थितः ॥ ७७ ॥
रामनाथालयं ताम्रैः कुर्वन्भक्तिपुरःसरम् ॥
शिवसामीप्यमाप्नोति शिवस्यार्द्धासनस्थितः ॥ ७८ ॥
रामेश्वरालयं रूप्यैः कुर्वन्वै मानवो मुदा ॥
शिवसारूप्यमाप्नोति शिववन्मोदते सदा ॥ ७९ ॥
रामनाथालयं हेम्ना यः करोति सभक्तिकम् ॥
स नरो मुक्तिमाप्नोति शिवसायुज्यरूपिणीम् ॥ 3.1.43.८० ॥
रामनाथालयं हेम्ना धनाढ्यः कुरुते नरः ॥
मृदा दरिद्रः कुरुते तयोः पुण्यं समं स्मृतम् ॥ ८१ ॥
रामनाथमहालिङ्गस्नानकाले द्विजोत्तमाः ॥
त्रिसन्ध्यं गेयनृत्ते च मुखवाद्यैश्च काहलम् ॥ ८२ ॥
वाद्यान्यन्यानि कुरुते यः पुमान्भक्तिपूर्वकम् ॥
स महापातकैर्मुक्तो रुद्रलोके महीयते ॥ ॥ ८३ ॥
योभिषेकस्य समये रामनाथस्य शूलिनः ॥
रुद्राध्यायं च चमकं तथा पुरुषसूक्तकम् ॥ ८४ ॥
त्रिसुपर्णं पञ्चशान्तिं पावमान्यादिकं तथा ॥
जपेत्प्रीतियुतो विप्रा नरकं न समश्नुते ॥ ८५ ॥
गवां क्षीरेण दध्ना च पञ्चगव्यैर्घृतैस्तथा ॥
रामनाथमहालिङ्गस्नानं नरकनाशनम् ॥ ॥ ८६ ॥
रामनाथमहालिङ्गं घृतेन स्नापयेच्च यः ॥
कल्पजन्मार्जितं पापं तत्क्षणादेव नश्यति ॥ ८७ ॥
रामनाथमहालिङ्गं गोक्षीरैः स्नापयन्नरः ॥
कुलैकविंशमुत्तार्य शिवलोके महीयते ॥ ८८ ॥
रामनाथमहालिङ्गं दध्ना संस्नापयन्नरः ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ८९ ॥
अभ्यङ्गं तिलतैलेन रामेश्वरशिवस्य यः ॥
करोति हि सकृद्भक्त्या स कुबेरगृहे वसेत् ॥ 3.1.43.९० ॥
रामनाथमहालिङ्गे स्नानमिक्षुरसेन यः ॥
सकृदप्याचरेद्भ क्त्या चन्द्रलोकं समश्नुते ॥ ९१ ॥
लिकुचाम्ररसोत्पन्नसारेण स्नापयन्नरः ॥
रामनाथमहालिङ्गं पितृलोकं समश्नुते ॥ ९२ ॥
नालिकेरजलैः स्नानं रामनाथमहेश्वरे ॥
ब्रह्महत्यादिपापानां नाशनं परिकीर्तितम् ॥ ९३ ॥
रामनाथमहालिङ्गं रम्भापक्वैर्विमर्दयन् ॥
विनाश्य सकलं पापं वायुलोके मही यते। ९४ ॥
वस्त्रपूतेन तोयेन रामनाथं महेश्वरम् ॥
स्नापयन्वारुणं लोकमाप्नोति द्विजसत्तमाः ॥ ९५ ॥
चन्दनोदकधाराभी रामनाथं महेश्वरम् ॥
स्नापयेत्पुरुषो विप्रा गान्धर्वं लोकमाप्नुयात् ॥ ९६ ॥
पुष्पवासिततोयेन हेमसम्पृक्तवारिणा ॥
पद्मवासिततोयेन स्नानाद्रामेश्वरस्य तु ॥ ९७ ॥
महेन्द्रासनमारुह्य तेनैव सह मोदते॥
पाटलोत्पलकल्हारपुन्नागकरवीरकैः ९८ ॥
वासितैर्वारिभिर्विप्रा रामेश्वरमहेश्वरम् ॥
अभिषिच्य महद्भिश्च पातकैः स विमुच्यते ॥ ९९ ॥
यानि चान्यानि पुष्पाणि सुरभीणि महान्ति च ॥
तद्गन्धवासितैस्तोयैरभिषिच्य दयानिधिम् ॥ 3.1.43.१०० ॥
रामेश्वरमहालिङ्गं शिवलोके महीयते ॥
एलाकर्पूरलामज्जवासितैः शुद्धवारिभिः ॥ १ ॥
रामेश्वरमहालिङ्गमभिषिच्य विशुद्धधीः ॥
आग्नेयं लोकमासाद्य सर्वाकामा न्समश्नुते ॥ २ ॥
रामनाथाभिषेकार्थं मृद्धटान्यः प्रयच्छति ॥
इह लोके शतायुः स्यात्सर्वकाम समृद्धिमान् ॥ ३ ॥
ताम्रकुम्भप्रदानेन देवेन्द्रत्वमवा प्नुयात् ॥
रौप्यकुम्भप्रदानेन ब्रह्मलोकं समश्नुते ॥ ४ ॥
हेमकुम्भप्रदानेन शिवलोके महीयते ॥
रत्नकुम्भप्रदानेन शिवसामीप्यमश्नुते ॥५॥
रामनाथाभिषेकार्थं नैवेद्यार्थमपि द्विजाः ॥
यो गां पयस्विनीं दद्यात्सोऽश्वमेधफलं लभेत् ॥ ६ ॥
प्राप्नोति शिववेषं च देहान्ते शिवलोकभाक्॥
रामसेतौ धनुष्कोटौ रामनाथेत्युदीर्य यः ॥ ७ ॥
यत्र क्वाप्याचरेत्स्नानं सेतुस्नानफलं लभेत्॥
सुधाप्रलिप्तं यः कुर्याद्रामनाथशिवालयम् ॥ ८ ॥
तत्पुण्यं गदितुं नाहं शक्तो वर्षशतादपि ॥
नवीकरोति यो मर्त्यो रामनाथशिवालयम् ॥ ९ ॥
कर्तुः शतगुणं ज्ञेयं तस्य पुण्यफलं द्विजाः ॥
छिन्नं भिन्नं च यः सम्यग्रामनाथशिवालयम् ॥ 3.1.43.११० ॥
करोति भक्त्या पुरुषो ब्रह्महत्यायुतं दहेत् ॥
रामनाथस्य पुरतो दीपानारोपयन्मुदा ॥ ११ ॥
अविद्यापटलं भित्त्वा याति ब्रह्म सनातनम् ॥
घृतं तैलं तथा मुद्गाञ्छर्करास्तण्डुलान्गुडान् ॥ १२ ॥
प्रयच्छन्रामनाथाय देवेन्द्रपदमश्नुते ॥
रामनाथमहालिङ्गदर्शनादर्चनात्स्मृतेः ॥ १३ ॥
स्पर्शनादपि पापानि विलयं यान्ति तत्क्षणात्॥
रामनाथाय यो दद्यान्महाघण्टां च दर्पणम् ॥१४॥
विमानशतसं भोगैश्चिरं शिवपुरे वसेत् ॥
भेरीमृदङ्गपटह निःसाणमुरजादिकम् ॥ १५ ॥
वंशकांस्यादिवादित्रं तथा वाद्यान्तराणि च ॥
प्रयच्छन्रामनाथाय महादे वाय सादरम् ॥ १६ ॥
स विमानैर्महाभोगैर्वाद्यघोषसमन्वितैः ॥
अनेकयुगपर्यन्तं शिवलोके महीयते ॥ १७ ॥
रामनाथं समुद्दिश्य यद्दत्तं स्वल्प मादरात् ॥
तदनन्तफलं दातुः परत्र भवति ध्रुवम् ॥ १८ ॥
रामेश्वरे महाक्षेत्रे रामनाथस्य सन्निधौ ॥
वसन्मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ॥ ॥ १९ ॥
आयुः प्रयाति त्वरितं त्वरितं याति यौवनम् ॥
त्वरितं सम्पदो यान्ति दारपुत्रादयस्तथा ॥ 3.1.43.१२० ॥
राजादिभिर्धनं बाध्यं गृहक्षेत्रादिकं तथा ॥
सर्वं च क्षणिकं विप्रा गृहोपकरणादिकम् ॥ २१ ॥
तस्मात्सर्वं परित्यज्य संसारस्योपलालनम् ॥
रामेश्वरमहालिङ्गमापन्नार्तिहरं नृणाम् ॥ ॥ २२ ॥
श्रोतव्यं कीर्तितव्यं च स्मर्तव्यं च मनीषिभिः ॥
रामेश्वराय देवाय यो वै ग्रामान्प्रयच्छति ॥ २३ ॥
स हि प्रारब्धदेहान्ते शिव एव प्रजा यते ॥
पात्राणामुत्तमं पात्रं रामनाथो महेश्वरः ॥ २४ ॥
तस्मै दत्त्वा द्विजाः सत्यमनन्तं सुखमश्नुते ॥
रामनाथमहालिङ्गदर्शनावधि पातकम् ॥ ॥ २५ ॥
दत्त्वा तस्मै जनः किञ्चित्सार्वभौमो भवेद्ध्रुवम् ॥
तालवृन्तं ध्वजं छत्रं चन्दनं गुग्गुलुं तथा ॥ २६ ॥
ताम्रकांस्यादिरजतहेमरत्नमयान्ध टान् ॥
प्रयच्छन्त्यभिषेकार्थं रामनाथस्य ये नराः ॥ २७ ॥
भूमण्डलाधिपतयो जायन्ते ते भवान्तरे ॥
रामनाथस्य पूजार्थं पुष्पाण्युत्पादयन्ति ये ॥ ॥ २८ ॥
अश्वमेधादियागानां फलान्यद्धाप्नुवन्ति ते ॥
रामेश्वरे महालिङ्गे पूजिते नमिते स्मृते ॥ २९ ॥
श्रुते दृष्टे च विप्रेन्द्रा दुर्लभं नास्ति किञ्चन॥
रामनाथमहालिङ्गं सेवितुं यः पुमान्व्रजेत् ॥ 3.1.43.१३० ॥
तं दृष्ट्वा भयमाप्नोति तस्य पापौघ आशु वै ॥
रामनाथो महादेवो दृष्टो यदि भवेन्नृभिः ॥ ॥३१॥
किंवेदैः किमु वा शास्त्रैः किं वा तीर्थनिषेवणैः॥
चन्दनं कुङ्कुमं कोष्ठं कस्तूरीं गुग्गुलुं तथा ॥ ३२ ॥
मृगनाभिं च सरलं दद्याद्रामेश्वराय यः ॥
स भूमाविह जायेत धनाढ्यो वेदपारगः ॥ ३३ ॥
मुक्ताभरणवस्त्राणि महार्हाणि ददाति यः ॥
रामनाथाय देवाय नासौ दौर्गत्यमाप्नुयात् ॥ ३४ ॥
रामनाथमहालिङ्गं गङ्गातोयैः समाहृतैः ॥
योऽभिषिञ्चत्यसौ पूज्यः शिवस्यापि न संशयः ॥ ३५ ॥
यावन्न याति मरणं यावन्नाक्रमते जरा ॥
यावन्नेन्द्रियवैकल्यं तावदेव द्विजोत्तमाः ॥३६॥
तावदेव महादेवो रामनाथो मुमुक्षुभिः ॥
वन्द्यः पूज्यश्च मन्तव्यः स्तुत्यश्च सततं शिवः ॥ ३७ ॥
रामेश्वरमहालिङ्गपूजातुल्यो न विद्यते ॥
धर्मः सर्वपुराणेषु सर्वशास्त्रेषु वै तथा ॥ ३८ ॥
रामनाथेश्वरं देवं महाकारुणिकं प्रभुम् ॥
भक्त्या भजन्ति ये नित्यं ते भूलोके सुखान्विताः ॥ ३९ ॥
भुक्त्वा भोगान्बहुसुखान्पुत्रदारयुता भृशम् ॥
एतच्छरीरपातान्ते मुक्तिं यास्यन्ति शाश्वतीम् ॥ 3.1.43.१४० ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्रा रामनाथस्य वै भवम् ॥
यस्त्वेतच्छृणुयान्नित्यं पठते च सभक्तिकम् ॥ ४१ ॥
स रामनाथसेवायाः फलमाप्नोत्यनुत्तमम् ॥
धनुष्कोटिमहातीर्थस्नानपुण्यं च यास्यति ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसावर्णनन्नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥