॥ श्रीसूत उवाच ॥ ॥
अथातः सर्वतीर्थानां वैभवं प्रवदाम्यहम् ॥
सेतुमध्यनिविष्टानामनुक्तानां मुनीश्वराः ॥ १ ॥
अस्ति तीर्थं महापुण्यं नाम्ना तु ऋणमोचनम् ॥
ऋणानि त्रीणि नश्यन्ति नराणामत्र मज्जनात् ॥ ॥ २ ॥
द्विजस्य जायमानस्य ऋणानि त्रीणि सन्ति हि ॥
ऋषीणां देवतानां च पितॄणां च द्विजोत्तमाः ॥ ३॥
ब्रह्मचर्याननुष्ठानादृषीणामृणवान्भवेत् ॥
यज्ञादीनामकरणाद्देवानां च ऋणी भवेत् ॥ ४ ॥
पुत्रानुत्पादनाच्चैव पितृणामृणवान्भवेत् ॥
विनापि ब्रह्मचर्येण विना यागं विना सुतम् ॥ ५ ॥
ऋणमोक्षाभिधे तीर्थे स्नानमात्रेण मानवाः ॥
ऋषिदेवपितॄणां तु ऋणेभ्यो मुक्तिमाप्नुयुः ॥ ६ ॥
ब्रह्मचर्येण यज्ञेन तथा पुत्रोद्भवेन च ॥
नैव तुष्यन्ति ऋषयो देवाः पितृगणास्तथा ॥ ७ ॥
ऋणमोक्षे यथा स्नानादतुलां तुष्टिमाप्नुयुः ॥
किं चात्र मज्जनात्तीर्थे दरिद्रा अधमर्णिनः ॥ ८ ॥
मुक्ता ऋणेभ्यः सर्वेभ्यो धनिनः स्युर्न संशयः ॥
यदत्र मज्जनात्पुंसामृणमुक्तिः प्रजायते ॥ ९ ॥
तस्मादुक्तमिदं तीर्थमृणमोचनसञ्ज्ञया ॥
अतोऽत्र ऋणिभिः सर्वैः स्नातव्यं तद्विमुक्तये ॥ 3.1.42.१० ॥
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥
पाण्डवैः कृतमप्यत्र तीर्थमस्त्यपरं महत् ॥ ११ ॥
यत्रेष्टं धर्मपुत्राद्यैः पाण्डवैः पञ्चभिः पुरा ॥
तदेतत्तीर्थमुद्दिश्य भुक्तिमुक्ति फलप्रदम् ॥ १२ ॥
दशकोटिसहस्राणि तीर्थान्यनुत्तमानि हि ॥
पञ्चपाण्डवतीर्थेस्मिन्सान्निध्यं कुर्वते सदा ॥ १३ ॥
आदित्पा वसवो रुद्राः साध्याश्च समरुद्गणाः ॥
पाण्डवानां महातीर्थे नित्यं सन्निहितास्तथा ॥ १४ ॥
अत्राभिषेकं यः कुर्यात्पितृदेवांश्च तर्पयेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्म लोके स पूज्यते ॥ १५ ॥
अप्येकं भोजयेद्विप्रमेतत्तीर्थतटेऽमले ॥
तेनासौ कर्मणा त्वत्र परत्रापि च मोदते ॥ १६ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाप्यन्य एव वा ॥
अस्मिंस्तीर्थवरे स्नात्वा वियोनिं न प्रयाति वै ॥ १७ ॥
पाण्डवानां महातीर्थे पुण्ययोगेषु यो नरः ॥
स्नायात्स मनुज श्रेष्ठो नरकं नैव पश्यति ॥ १८ ॥
पाण्डवानां महातीर्थं सायं प्रातश्च यः स्मरेत्॥
स स्नातः सर्वतीर्थेषु गङ्गादिषु न संशयः ॥ १९ ॥
इन्द्रादिदेवता भिश्च यत्रेष्टं दैत्यशान्तये ॥
तदन्यद्देवतीर्थाख्यं विद्यते गन्धमादने ॥ 3.1.42.२० ॥
देवतीर्थे नरः स्नात्वा सर्वपापविमोचितः ॥
प्राप्नुयादक्षयाल्ँलोकान्सर्व कामसमन्वितान् ॥ २१ ॥
जन्मप्रभृति यत्पापं स्त्रिया वा पुरुषेण वा ॥
कृतं तद्देवकुण्डेस्मिन्स्नानात्सद्यो विनश्यति ॥ २२ ॥
यथा सुराणां सर्वेषा मादिर्वै मधुसूदनः ॥
तथादिः सर्वतीर्थानां देवकुण्डमनुत्तमम् ॥ २३ ॥
यस्तु वर्षशतं पूर्णमग्निहोत्रमुपासते ॥
यस्त्वेको देवकुण्डेस्मिन्कदाचित्स्नान माचरेत् ॥ २४ ॥
सममेव तयोः पुण्यं नात्र सन्देहकारणम् ॥
दुर्लभं देवतीर्थेस्मिन्दानं वासश्च दुर्लभः ॥ २५ ॥
देवतीर्थाभिगमनं स्नानं चाप्य तिदुर्लभम्॥
देवतीर्थं समासाद्य देवर्षिपितृसेवितम् ॥ २६ ॥
अश्वमेधमवाप्नोति विष्णुलोकं च गच्छति ॥
द्विदिनं त्रिदिनं चापि पञ्च वाथ षडेव वा ॥ २७ ॥
उषित्वा देवकुण्डस्थतीरे नरकनाशने ॥
न मातृयोनिमाप्नोति सिद्धिं चाप्नोत्यनुत्तमाम् ॥ २८ ॥
त्रिरात्रस्नानतो ह्यत्र वाजपेयफलं भवेत् ॥
देवतीर्थस्मृतेः सद्यः पापेभ्यो मुच्यते नरः ॥ २९ ॥
अर्चयित्वा पितॄन्देवानेतत्तीर्थतटे नरः ॥
सर्वकामसमृद्धिः स्यात्सर्वयज्ञफलं लभेत् ॥ 3.1.42.३० ॥
एतत्तीर्थसमं पुण्यं न भूतं न भविष्यति ॥
तस्मादवश्यं स्नातव्यं देवतीर्थे मुमुक्षुभिः ॥ ३१ ॥
ऐहिकामुष्मिकफलप्राप्तिकामैश्च मानवैः ॥
देवतीर्थस्य माहात्म्यं सङ्क्षिप्य कथितं द्विजाः ॥ ३२ ॥
विस्तरेणास्य माहात्म्यं मया वक्तुं न पार्य्यते ॥
सुग्रीवतीर्थं वक्ष्यामि रामसेतौ विमुक्तिदे ॥ ३३ ॥
अत्र स्नात्वा नरो भक्त्या सूर्यलोकं समश्नुते ॥
सुग्रीवतीर्थे स्नानेन हयमेधफलं भवेत् ॥ ३४ ॥
ब्रह्महत्यादि पापानां निष्कृतिश्चापि जायते ॥
सुग्रीवतीर्थगमनाद्गोसहस्रफलं लभेत् ॥ ३५ ॥
स्मरणात्तस्य वेदानां पारायणफलं लभेत् ॥
दिनोपवासमात्रेण तस्य तीर्थस्य तीरतः.॥ ३६ ॥
महापात कनाशः स्यात्प्रायश्चित्तं विना द्विजाः ॥
तत्राभिषेकं कुर्वाणः पितृदेवांश्च तर्पयेत् ॥ ३७ ॥
आप्तोर्यामस्य यज्ञस्य फलमष्टगुणं भवेत् ॥
सुग्रीवतीर्थस्नानेन नरमेधफलं लभेत ॥ ३९ ॥
सुग्रीवतीर्थस्नानेन नरो जातिस्मरो भवेत् ॥
सुग्रीवतीर्थं भो विप्राः प्रयाताभीष्टसिद्धये ॥ ३९ ॥
सुग्रीवतीर्थमा हात्म्यमेवं वः कथितं द्विजाः ॥।
वैभवं नलतीर्थस्य त्विदानीं प्रब्रवीमि वः ॥ 3.1.42.४० ॥।
नलतीर्थे नरः स्नानात्स्वर्गलोकं समश्नुते॥
नलतीर्थे सकृत्सनानात्सर्वपापाविमोचितः॥४१॥
अग्निष्टोमातिरात्रादिफलमाप्नोत्यनुत्तमम्॥
त्रिरात्रमुषितस्तस्मिंस्तर्पयन्पितृदेवताः॥४२॥
सूर्यवद्भासते विप्रा वाजिमेधफलं लभेत् ॥
नीलतीर्थं प्रवक्ष्यामि महापातकनाशनम् ॥ ४३ ॥
अग्निपुत्रेण नीलेन कृतं सेतौ विमुक्तिदम् ॥
नीलतीर्थे नरः स्नानात्सर्वपापविमोचितः ॥ ४४ ॥
बहुवर्ण्यस्य यागस्य फलं शतगुणं लभेत् ॥
नीलतीर्थे नरः स्नात्वा सर्वा भीष्टप्रदायिनि ॥ ४५ ॥
अग्निलोकमवाप्नोति सर्वकामसमृद्धिमान् ॥
गवाक्षेण कृतं तीर्थं गन्धमादनपर्वते ॥ ४६ ॥
विद्यते स्नानमात्रेण नरकं नैव याति सः ॥
अगदेन कृतं तीर्थमस्ति सेतौ विमुक्तिदे ॥ ४७ ॥
अत्र स्नानेन मनुजो देवेन्द्रत्वं समश्नुते ॥।
गजेन गवयेनात्र शरभेण महौजसा ॥ ४८ ॥
कुमुदेन हरेणापि पनसेन बलीयसा ॥
कृतानि यानि तीर्थानि तथाऽन्यैः सर्ववानरैः ॥ ४९ ॥।
रामसेतौ महापुण्ये गन्धमादनपर्वते ॥
तेषु तीर्थेषु यः स्नाति सोऽमृतत्वं समश्नुते ॥ 3.1.42.५० ॥
विभीषणकृतं तीर्थमस्ति पापविमोचनम् ॥
महादुःखप्रशमनं महारोगनिबर्हणम् ॥ ५१ ॥
महापातकसङ्घानामनलोपममुत्तमम् ॥
कुम्भीपाकादिनरकक्लेशनाशनकारणम् ॥ ५२ ॥
दुःस्वप्र नाशनं धन्यं महादारिद्र्यबाधनम्॥
तत्र यो मनुजः स्नायात्तस्य नास्तीह पातकम् ॥ ५३ ॥
स वैकुण्ठमवाप्नोति पुनरावृत्तिवर्जितम् ॥
विभीषणस्य सचिवैः कृतं तीर्थचतुष्टयम् ॥ ५४ ॥
तत्र स्नानेन मनुजः सर्वपापैः प्रमुच्यते ॥
सरयूश्च नदी विप्रा गन्धमादनपर्वते ॥ ५५ ॥
रामनाथं महादेवं सेवितुं वर्तते सदा ॥
तत्र स्नात्वा नराः सर्वे सर्वपातकवर्जिताः ॥ ५६ ॥
सर्वयज्ञतपस्तीर्थसेवाफलमवाप्नुयुः ॥
दशकोटिसहस्राणि तीर्थानि द्विजसत्तमाः ॥ ५७ ॥
वसन्त्यस्मिन्महापुण्ये गन्धमादनपर्वते ॥
गङ्गाद्याः सरितः सर्वास्तथा वै सप्तसागराः ॥ ५८ ॥
ऋष्याश्रमाणि पुण्यानि तथा पुण्यवनानि च ॥
अनुत्तमानि क्षेत्राणि हीरशङ्करयोस्तथा ॥ ५९ ॥
सान्निध्यं कुर्वते नित्यं गन्धमादनपर्वते ॥
उपवीतान्तरं तीर्थं प्रोक्तवांश्चतुराननः ॥ 3.1.42.६० ॥
त्रयस्त्रिंशत्कोट्योऽत्र देवाः पितृगणैः सह ॥
सर्वैश्च मुनिभिः सार्द्धं यक्षैः सिद्धैश्च किन्नरैः ॥
वसन्ति सेतौ देवस्य रामच न्द्रस्य चाज्ञया ॥ ६१ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तं द्विजश्रेष्ठा तीर्थानां वैभवं मया ॥ ६२ ॥
इदं पठन्वा शृण्वन्वा दुःखसङ्घाद्विमुच्यते ॥
कैवल्यं च समाप्नोति पुनरावृत्तिवर्जितम् ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सकलतीर्थप्रशंसायामृणमोचनादितीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः॥४२॥