०४१ काश्यपपापशान्तिवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि गायत्रीं च सरस्वतीम् ॥
लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ॥ १ ॥
कश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थद्वये शुभे ॥
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
मुने कश्यपनामासावकरोत्किं हि पातकम् ॥
स्नात्वा तीर्थद्वयेप्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥ ३ ॥
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ॥
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
गायत्र्याश्च सरस्वत्या माहात्म्यप्रतिपादकम् ॥
इतिहासं प्रवक्ष्यामि शृण्वतां पापनाशनम् ॥ ५ ॥
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ॥
अध्यास्ते हास्तिनपुरं पालयन्धर्मतो महीम् ॥ ६ ॥
स राजा जातु विपिने चचार मृगया रतः ॥
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥७ ॥
नष्टमेकं स विपिने मार्गयन्मृगमादरात् ॥
ध्यानारूढं मुनिं दृष्ट्वा प्राह तं चीरवाससम् ॥ ८ ॥।
मया बाणेन विपिने मृगो विद्धोऽधुना मुने ॥
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ॥ ९ ॥
समाधिनिष्ठो मौनित्वान्न किं चिदपि सोऽब्रवीत् ॥
ततो धनुरटन्याऽसौ स्कन्धे तस्य महामुनेः। 3.1.41.१० ॥
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ॥
मुनेस्तस्य सुतः कश्चिच्छृङ्गीनाम बभूव वै ॥ ११ ॥
सखा तस्य कृशाख्योऽभूच्छृङ्गिणो द्विजसत्तमाः ॥
सखायं शृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥ १२ ॥
पिता तव मृतं सर्पं स्कन्धेन वहतेऽधुना ॥
मा भूद्दर्पस्तव सखे मा कृथास्त्वं मदं वृथा ॥ १३ ॥
सोऽवदत्कुपितः शृङ्गी दित्सुश्शापं नृपाय वै ॥
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ॥ १४ ॥
स सप्तरात्रान्म्रियतां सन्दष्टस्तक्षकाहिना ॥
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥ १५ ॥
शमीकाख्यः पिता तस्य श्रुत्वा शप्तं सुतेन तम् ॥
नृपं प्रोवाच तनयं शृङ्गिणं मुनिपुङ्गवः ॥ १६ ॥
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ॥
अराजके वयं लोके स्थास्यामः कथमञ्जसा ॥ १७ ॥
क्रोधेन पातकमभून्न त्वया प्राप्यते सुखम् ॥
यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥ १८ ॥
इह लोके परत्रासावत्यन्तं सुखमेधते ॥
क्षमायुक्ता हि पुरुषा लभन्ते श्रेय उत्तमम् ॥ १९ ॥
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ॥
भो गौ मुख गत्वा त्वं वद भूपं परीक्षितम् ॥ 3.1.41.२० ॥
इमं शापं मत्सुतोक्तं तक्षकाहिविदंशनम् ॥
पुनरायाहि शीघ्रं त्वं मत्समीपे महामते ॥ २१ ॥
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ॥
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥ २२ ॥
दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ॥
शमीकस्य सुतः शृङ्गी शशाप त्वां रुषान्वितः ॥ २३ ॥
एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ॥
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥ २४ ॥
एवं शशाप त्वां राजञ्छृङ्गी तस्य मुनेः सुतः ॥
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदन्तिकम् ॥ २५ ॥
इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ॥
गते गौरमुखे पश्चाद्राजा शोकपरायणः ॥ २६ ॥
अभ्रंलिहमथोत्तुङ्गमेकस्तम्भं सुविस्तृतम् ॥
मध्येगङ्गं व्यतनुत मण्डपं नृपपुङ्गवः ॥ २७ ॥
महागारुडमन्त्रज्ञैरौषधज्ञैश्चिकित्सकैः ॥
तक्षकस्य विषं हन्तुं यत्नं कुर्वन्समाहितः ॥ २८ ॥
अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ॥
आस्ते तस्मिन्नृपस्तुङ्गे मण्डपे विष्णुभक्तिमान् ॥ २९ ॥
तस्मिन्नवसरे विप्रः काश्यपो मान्त्रिकोत्तमः ॥
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ॥ 3.1.41.३० ॥
सप्तमेऽहनि विप्रेन्द्रो दरिद्रो धनकामुकः ॥
अत्रान्तरे तक्षकोऽपि विप्ररूपी समाययौ ॥ ३१ ॥
मध्येमार्गं विलोक्याथ कश्यपं प्रत्यभाषत ॥
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ॥ ३२ ॥
इति पृष्टस्तदावादीत्काश्यपस्तक्षकं द्विजाः ॥
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥ ३३ ॥
दक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ॥
इत्युक्तवन्तं तं विप्रं तक्षकः पुनरब्रवीत् ॥ ३४ ॥
तक्षकोहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ॥
न शक्यो ऽब्दशतेनापि महामन्त्रायुतैरपि ॥ ३५ ॥
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ॥
अनेकयोजनोच्छ्रायमिमं वटतरुं त्वहम् ॥ ३६ ॥
दशाम्युज्जीवयैनं त्वं समर्थोऽस्ति ततो भवान् ॥
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ॥ ३७ ॥
अभवद्भस्मसात्सोऽपि वृक्षोऽत्यन्तं समूर्च्छितः ॥
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ॥ ३८ ॥
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ॥
तं नरं न विजिज्ञाते तौ च काश्यपतक्षकौ ॥ ॥ ३९ ॥
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ॥
तन्मन्त्रशक्तिं पश्यन्तु सर्वे विप्रा हि नोऽधुना ॥ 3.1.41.४० ॥
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ॥
अजीवयन्मन्त्रशक्त्या काश्यपो मान्त्रिकोत्तमः ॥ ४१ ॥
नरोऽपि तेन वृक्षेण साकमुज्जीवितोऽभवत् ॥
अथाब्रवीत्तक्षकस्तं काश्यपं मन्त्रकोविदम् ॥ ४२ ॥
यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ॥
यत्ते राजा धनं दद्यात्ततोपि द्विगुणं धनम् ॥ ॥ ४३ ॥
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ॥
इत्युक्त्वानर्घ्यरत्नानि तस्मै दत्त्वा स तक्षकः ॥ ४४ ॥
न्यवर्तयत्काश्यपं तं ब्राह्मणं मन्त्रको विदम् ॥
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥ ४५ ॥
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ॥
सोऽब्रवीत्तक्षकः सर्वान्सर्पानाहूय तत्क्षणे ॥ ४६ ॥
यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ॥
उपहारफलान्याशु प्रयच्छत परीक्षिते ॥ ४७ ॥
तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ॥
तक्षकोपि तदा तत्र कस्मिंश्चिद्बदरीफले ॥ ४८ ॥
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥
अथ राजा प्रदत्तानि सर्पैर्ब्राह्मणरूपकैः ॥ ४९ ॥
परीक्षिन्मन्त्रवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥
कौतूहलेन जग्राह स्थूलमेकं फलं करे ॥ 3.1.41.५० ॥
अस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ॥
मिथ्या ऋषिवचो मा भूदिति तत्रत्यमानवाः ॥ ५१ ॥
अन्योयमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तथा ॥
एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ॥ ५२ ॥
फले रक्तकृमिः सर्वे राज्ञा चापि परीक्षिता ॥
अयं किं मां दशेदद्य कृमिरित्युक्तवा न्नृपः ॥ ५३ ॥
निदधे तत्फलं कर्णे सकृमि द्विजसत्तमाः ॥
तक्षकोऽस्मिन्स्थितः पूर्वं कृमिरूपी फले तदा ॥ ५४ ॥
निर्गत्य तत्फलादाशु नृपदे हमवेष्टयत् ॥
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ॥ ५५ ॥
अनन्तरं नृपो विप्रास्तक्षकस्य विषाग्निना ॥
दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा ॥ ५६ ॥
कृत्वोर्ध्वदैहिकं तस्य नृपस्य सपुरोहिताः ॥
मन्त्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ॥ ५७ ॥
राजानमभ्यषिञ्चन्वै गजद्रक्ष णवाञ्छया ॥
तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ॥ ५८ ॥
यो ब्राह्मणो मुनिश्रेष्ठाः स सर्वैर्निन्दितो जनैः ॥
बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ॥ ५९ ॥
अवस्थानं न लेभेऽसौ ग्रामे वाप्याश्रमेऽपि वा ॥
यान्यान्देशानसौ यातस्तत्रतत्रमहाजनैः ॥ 3.1.41.६० ॥
तत्तद्देशान्निरस्तः स शाकल्यं शरणं ययौ ॥
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ॥
इदं विज्ञापयामास शाकल्याय महात्मने ॥ ६१ ॥
॥ काश्यप उवाच ॥ ॥
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ॥ ६२ ॥
मुनयो ब्राह्मणाश्चान्ये मां निन्दन्ति सुहृज्जनाः ॥
नास्याहं कारणं जाने किं मां निन्दन्ति मानवाः ॥ ६३ ॥
ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥
स्तेयं संसर्गदोषो वा मया नाचरितः क्वचित् ॥ ६४ ॥
अन्यान्यपि हि पापानि न कृतानि मया मुने ॥
तथापि निन्दन्ति जना वृथा मां बान्धवादयः ॥ ६५ ॥
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ॥
उक्तोऽथ काश्यपेनैवं शाकल्याख्यो महामुनिः ॥
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥ ६६ ॥
॥ शाकल्य उवाच ॥ ॥
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ॥ ६७ ॥
अयासीदर्धमार्गे तु तक्षकेण निवारितः ॥
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ॥ ६८ ॥
यो न रक्षति लोभेन तमाहुर्ब्रह्मघातकम् ॥
क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ॥ ६९ ॥
यो न रक्षति विप्रेन्द्र विषरोगातुरं नरम् ॥
ब्रह्महा स सुरापी च स्तेयी च गुरुतल्पगः ॥ 3.1.41.७० ॥
संसर्गदोषदुष्टश्च नापि तस्य हि निष्कृतिः ॥
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ॥ ७१ ॥
कृतघ्न स्यापि शास्त्रेषु प्रायश्चित्तं हि विद्यते ॥
विषरोगातुरं यस्तु समर्थोपि न रक्षति ॥ ७२ ॥
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥
न तेन सह पङ्क्तौ च भुञ्जीत सुकृती जनः ॥ ७३ ॥
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥
तत्सम्भाषणमात्रेण महापातकभाग्भवेत् ॥ ७४ ॥
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ॥
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ॥ ७५ ॥
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ॥
अरक्षित्वा नृपं तं त्वं वचसा तक्षकस्य यत् ॥ ७६ ॥
निवृत्तस्तेन विप्रेन्द्रैर्बान्धवैरपि दूष्यसे ॥
स परीक्षिन्महाराजो यद्यपि क्ष णजीवितः ॥ ७७ ॥
तथापि यावन्मरणं बुधैः कार्यं चिकित्सनम् ॥
यावत्कण्ठगताः प्राणा मुमूर्षोर्मानवस्य हि ॥ ७८ ॥
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ॥
इति प्राहुः पुरा श्लोकं भिषग्वैद्याब्धिपारगाः ॥ ७९ ॥
अतश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥
अर्धमार्गे निवृत्तस्त्वं तेन तं हतवानसि ॥
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥ 3.1.41.८० ॥
॥ काश्यप उवाच ॥ ॥
ममैतद्दोषशान्त्यर्थमुपायं वद सुव्रत ॥ ८१ ॥
येन मां प्रतिगृह्णीयुर्बान्धवाः ससुहृज्जनाः ॥ ८२ ॥
कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ॥
काश्यपेनैवमुक्तस्तु शाकल्योपि मुनीश्वरः ॥
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥ ८३ ॥
॥ शाकल्य उवाच ॥ ॥
अस्य पापस्य शात्यर्थमुपायं प्रवदामि ते ॥ ८४ ॥
तत्कर्त्तव्यं त्वया शीघ्रं विलम्बं मा कृथा द्विज ॥
दक्षिणाम्बुनिधौ सेतौ गन्धमादनपर्वते ॥ ८५ ॥
अस्ति तीर्थद्वयं विप्रा गायत्री च सरस्वती ॥
तत्र त्वं स्नानमात्रेण शुद्धो भूयाश्च तत्क्षणे ॥ ८६ ॥
गायत्र्या च सरस्वत्या जलवात स्पृशो नरः ॥
विधूय सर्वपापानि स्वर्गं यास्यन्ति निर्मलाः ॥ ८७ ॥
तद्याहि शीघ्र विप्र त्वं गायत्रीं च सरस्वतीम् ॥
इत्युक्तः काश्यपस्तेन शाकल्येन द्विजोत्तमाः ॥ ८८ ॥
नत्वा मुनिं च शाकल्यं तमापृच्छ्य मुनीश्वरम् ॥
तेन चैवाभ्यनुज्ञातः प्रययौ गन्धमादनम् ॥ ८९ ॥
तत्र गत्वा च गायत्रीसरस्वत्यौ च काश्यपः ॥
नत्वा तीर्थद्वयं भक्त्या दण्डपाणिं च भैरवम् ॥ 3.1.41.९० ॥
सङ्कल्पपूर्वं तत्तीर्थे सस्नौ नियमसंयुतः ॥
तीर्थद्वये स्नानमात्रान्मुक्तपापोऽथ काश्यपः ॥ ९१ ॥
तीर्थद्वयस्य तीरेऽसौ किञ्चित्कालं तु तस्थिवान् ॥
तस्मिन्काले च गायत्रीसरस्वत्यौ मुनीश्वराः ॥ ॥ ९२ ॥
प्रादुर्बभूवतुर्मूर्ते सर्वाभरणभूषिते ॥
देव्यौ ते स नमस्कृत्य काश्यपो भक्तिपूर्वकम् ॥ ९३ ॥
के युवां रूपसम्पन्ने सर्वालङ्कारसंयुते ॥
इति पप्रच्छ दृष्ट्वा ते काश्यपो हृष्टमानसः ॥
तेन पृष्टे च गायत्रीसरस्वत्यौ तमूचतुः ॥ ९४ ॥
॥ गायत्रीसरस्वत्यावूचतुः ॥ ॥
काश्यपावां हि गायत्रीसरस्वत्यौ विधिप्रिये ॥ ९५ ॥
एतत्तीर्थस्वरूपेण नित्यं वर्तावहे त्वतः ॥
अत्र तीर्थद्वये स्नानादावां तुष्टे तवाधुना ॥ ९६ ॥
वरं मत्तो वृणीष्व त्वं यदिष्टं काश्यप द्विज ॥
स्नान्ति तीर्थद्वये येऽत्र दास्यावस्तदभीप्सितम् ॥ ९७ ॥
श्रुत्वा वचस्तद्गायत्रीसरस्वत्योः स काश्यपः ॥
तुष्टाव वाग्भिरग्र्याभिस्ते देव्यौ वेधसः प्रिये ॥ ९८ ॥
॥ काश्यप उवाच ॥ ॥
चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ॥
विद्यास्वरूपे गायत्री सरस्वत्यौ शुभे उभे ॥ ९९ ॥
सृष्टिस्थित्यन्तकारिण्यौ जगतो वेदमातरौ ॥
हव्यकव्यस्वरूपे च चन्द्रादित्यविलोचने ॥ 3.1.41.१०० ॥
सर्वदेवाधिपे वाणी गायत्र्यौ सततं भजे ॥
गिरिजा कमला चापि युवामेव जगद्धिते ॥ १ ॥
युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ॥
युष्मन्निमेषात्सततं जगतां प्रलयो भवेत् ॥ २ ॥
उन्मेषात्सृष्टिरभवद्भोगायत्रि सरस्वति ॥
युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै ॥ ३ ॥
मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ॥
स्वीकुर्वन्तु मुनिश्रेष्ठा ब्राह्मणा बान्धवास्तथा ॥ ४ ॥
इतः परं पापकृत्ये मा मे बुद्धिः प्रवर्तताम् ॥
धर्मे प्रवर्ततां नित्यमयमेव वरो मम ॥ ५ ॥
दीयतां भो महादेव्यौ नान्यमिच्छाम्यहं वरम् ॥
इति ते प्रार्थिते तेन काश्यपेन द्विजोत्तमाः ॥ ६ ॥
सरस्वती च गायत्री द्वे देव्यौ ब्रह्मणः प्रिये ॥
काश्यपं प्रोचतुः प्रीते जनन्यौ जगतां सदा ॥ ७ ॥
काश्यपैतद्वरं सर्वं प्रार्थितं यत्त्वयाऽधुना ॥
अनुग्रहादावयोस्तदचिरेण तवास्तु हि ॥ ८ ॥
इत्युक्त्वा तं तु गायत्रीसरस्वत्यौ क्षणेन वै ॥
तिरोधानं गते विप्रास्तस्मिंस्तीर्थद्वये तदा ॥ ९ ॥
काश्यपोऽपि कृतार्थः सन्स्व देशं प्रति निर्ययौ ॥
बान्धवा ब्राह्मणाः सर्वे काश्यपं गतकिल्बिषम् ॥ 3.1.41.११० ॥
प्रत्यगृह्णंश्च गायत्रीसरस्वत्योर्निमज्जनात् ॥
एवं वः कथितं विप्रा काश्यपस्य विमोक्षणम्॥ ११ ॥
पातकेभ्यो हि गायत्रीसरस्त्योर्निमजनात् ॥
पठते त्विममध्यायं शृणुते वा समाहितः ॥ १२ ॥
यो गायत्र्यां सरस्वत्यां स स्नातफलमश्नुते ॥ ११३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां काश्यपपापशान्तिवर्णनन्नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥