०४० गायत्रीसरस्वतीसन्निधानकथनम्

। श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि मुनयो लोकपावनम् ॥
गायत्र्या च सरस्वत्या माहात्म्यं मुक्तिदं नृणाम् ॥ १ ॥
शृण्वतां पठतां चैव महापातकनाशनम् ॥
महापुण्यप्रदं पुंसा नरकक्लेशनाशनम् ॥ २ ॥
गायत्र्यां च सरस्वत्यां ये स्नान्ति मनुजा मुदा ॥
न तेषां गर्भवासः स्यात्किं तु मुक्तिर्भवेद्ध्रुवम् ॥ ३ ॥
सरस्वत्याश्च गायत्र्या गन्धमादनपर्वते ॥
ब्रह्मपत्न्योः सन्निधानात्तन्नाम्ना कथिते इमे ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
गायत्र्याश्च सरस्वत्या गन्धमादनपर्वते ॥
किमर्थं सन्निधानं वै सूताभूत्तद्वदस्व नः ॥ ५ ॥ ॥
॥ सूत उवाच ॥ ॥
प्रजापतिः पुरा विप्राः स्वां वै दुहितरं मुदा ॥
वाङ्नाम्नीं कामुको भूत्वा स्पृहयामास मोहनः ॥ ६ ॥
अथ प्रजापतेः पुत्री स्वस्मिन्वै तस्य कामिताम्॥
विलोक्य लज्जिता भूत्वा रोहिद्रूप दधार सा ॥ ७ ॥
ब्रह्मापि हरिणो भूत्वा तया रन्तुमनास्तदा ॥
गच्छतीमनुयातिस्म हरिणीरूपधारिणीम् ॥ ८ ॥
तं दृष्ट्वा देवताः सर्वाः पुत्रीगमनसादरम् ॥
करोत्यकार्यं ब्रह्मायं पुत्रीगमनलक्षणम् ॥ ९ ॥
इति निन्दन्ति तं विप्राः स्रष्टारं जगतां पतिम् ॥
निषिद्धकृत्यनिरतं तं दृष्ट्वा परमेष्ठिनम्॥ 3.1.40.१० ॥
हरः पिनाकमादाय व्याधरूपधरः प्रभुः ॥
आकर्णपूर्ण कृष्टेन पिनाकधनुषा शरम् ॥ ११ ॥
संयोज्य वेधसं तेन विव्याध निशितेन सः ॥
त्रिपुरान्तक बाणेन विद्धोऽसौ न्यपतद्भुवि ॥ १२ ॥
तस्य देहादथोत्थाय महज्ज्योतिर्महाप्रभम् ॥
आकाशे मृगशीर्षाख्यं नक्षत्रमभवत्तदा ॥ १३ ॥
आर्द्रानक्षत्ररूपी सन्हरोऽप्यनुजगाम तम् ॥
पीडयन्मृगशीर्षाख्यं नक्षत्रं ब्रह्मरूपिणम् ॥ १४ ॥
अधुनापि मृगव्याधरूपेण त्रिपुरान्तकः ॥
अम्बरे दृश्यते स्पष्टं मृगशीर्षान्तिके द्विजाः ॥ १५ ॥
एवं विनिहते तस्मिञ्च्छम्भुना परमेष्ठिनि ॥
अनन्तरं तु गायत्रीसरस्वत्यौ शुचार्पिते ॥ १६ ॥
भर्तृहीने मुनिश्रेष्ठा भर्तृजीवनकाङ्क्षया ॥
किं करिष्यावहे ह्यावामित्यन्योयं विचार्य तु ॥ १७ ॥
स्वपतिप्राणसिद्ध्यर्थं गायत्री च सरस्वती ॥
सर्वोत्कृष्टं शिवस्थानं गन्धमादनपर्वतम् ॥ १८ ॥
सर्वाभीष्टप्रदं पुंसां तपः कर्तुं समुद्यते ॥
जग्मतुर्नियमोपेतं तपः कर्तुं शिवं प्रति ॥ १९ ॥
स्नानार्थमात्मनो विप्रा गायत्री च सरस्वती ॥
तीर्थद्वयं स्वनाम्ना वै चक्रतुः पापनाशनम् ॥ 3.1.40.२० ॥
तत्र त्रिषवणस्नानं प्रत्यहं चक्रतुर्मुदा ॥
बहुकालमनाहारे कामक्रोधादिवर्जिते ॥ २१ ॥
अत्युग्रनियमो पेते शिवध्यानपरायणे ॥
पञ्चाक्षरमहामन्त्रजपैकनियते शुभे ॥ २२ ॥
स्वपतेर्जीवनार्थं वै गायत्री च सरस्वती ॥
महादेवं समुद्दिश्य तप एवं प्रचक्रतुः ॥ २३ ॥
तयोरथ तपस्तुष्टो महादेवो महेश्वरः ॥
सन्निधत्ते महामूर्तिस्तपसां फलदित्सया ॥ २४ ॥
ततः सन्निहितं शम्भुं पार्वतीरमणं शिवम् ॥
गणेशकार्त्तिकेयाभ्यां पार्श्वयोः परिसेवितम ॥ २५ ॥
दृष्ट्वा सन्तुष्टचित्ते ते गायत्री च सरस्वती ॥
स्तोत्रैस्तुष्टुवतुः स्तुत्यं महादेवं घृणा निधिम् ॥ २६ ॥ ॥
गायत्रीसरस्वत्यावूचतुः ॥ ॥
नमो दुर्वारसंसारध्वान्तध्वंसैकहेतवे ॥
ज्वलज्ज्वालावलीभीमकालकूटविषादिने ॥ २७ ॥
जगन्मोहन पञ्चास्त्रदेहनाथैकहेतवे ॥
जगदन्तकरक्रूर यमान्तक नमोऽस्तु ते ॥ २८ ॥
गङ्गातरङ्गसम्पृक्तजटामण्डलधारिणे ॥
नमस्तेस्तु विरूपाक्ष बाल शीतांशुधारिणे ॥ २९ ॥
पिनाकभीमटङ्कारत्रासितत्रिपुरौकसे ॥
नमस्ते विविधाकारजगत्स्रष्टृशिरश्छिदे ॥ 3.1.40.३० ॥
शान्तामलकृपादृष्टिसंरक्षितमृ कण्डुज ॥
नमस्ते गिरिजानाथ रक्षावां शरणागते ॥ ३१ ॥
महादेव जगन्नाथ त्रिपुरान्तक शङ्कर ॥
वामदेव महादेव रक्षावां शरणागते ॥ ३२ ॥।
इति ताभ्यां स्तुतः शम्भुर्देवदेवो महेश्वरः ॥
अब्रवीत्प्रीतिसंयुक्तो गायत्रीं च सरस्वतीम् ॥ ३३ ॥
॥ महादेव उवाच ॥ ॥
भोः सरस्वति गायत्रि प्रीतोऽस्मि युवयोरहम् ॥
वरं वरयतं मत्तो यद्वा मनसि वर्तते ॥ ३४ ॥
इत्युक्ते ते तु गायत्रीसरस्वत्यौ हरेण वै ॥
अब्रूतां पार्वतीकान्तं महादेवं घृणानिधिम् ॥ ३५ ॥
॥ गायत्रीसरस्वत्यावूचतुः ॥ ॥
भगन्नावयोर्देव भर्त्तारं चतुराननम् ॥
सप्राणं कुरु सर्वेश कृपया करुणाकर ॥ ३६ ॥
त्वमावयोः पिता देव तवाप्यावां सुते उभे ॥
रक्षावां पतिदानेन तस्मात्त्वं त्रिपुरान्तक ॥ ३७ ॥
स एवं प्रार्थितः शम्भुस्ताभ्यां ब्राह्मणपुङ्गवाः ॥
एवमस्त्विति सम्प्रोच्य गायत्रीं च सरस्वतीम् ॥ ३८ ॥
तदेव वेधसः कायं शिरसा योक्तुमुत्सुकः ॥
तत्रैव वेधसः कायं शिरोभिः सहसुव्रताः ॥ ३९ ॥
भूतैरानाययामास नन्दिभृङ्गिमुखैस्तदा ॥
शिरांसि तान्यनेकानि कायेन सह शङ्करः ॥ 3.1.40.४० ॥
क्षणात्सन्धारयामास वाणीगायत्रिसन्निधौ ॥
सन्धितोऽथ हरेणासौ चतुर्वक्त्रो जगत्पतिः ॥ ४१ ॥
उत्तस्थौ तत्क्षणादेव सुप्तोत्थित इव द्विजाः ॥
ततः प्रजापतिर्दृष्ट्वा शङ्करं शशिभूषणम् ॥
तुष्टाव वाग्भिरग्र्याभिर्भार्याभ्यां च समन्वितः ॥ ४२ ॥
॥ ब्रह्मोवाच ॥ ॥
नमस्ते देवदेवेश करुणाकर शङ्कर ॥ ४३ ॥
पाहि मां करुणासिन्धो निषिद्धाचरणात्प्रभो ॥
मम त्वत्कृपया शम्भो निषिद्धाचरणे क्वचित् ॥ ४४ ॥
मा प्रवृत्तिर्भवेद्भूयो रक्ष मां त्वं तथा सदा ॥
तथैवास्त्विति सम्प्राह ब्रह्माणं गिरिजापतिः ॥ ४५ ॥
इतः परं प्रमादं त्वं मा कुरुष्व विधे पुनः ॥
उत्पथं प्रतिपन्नानां पुंसां शास्तास्मि सर्वदा ॥ ४६ ॥
एवमुक्त्वा चतुर्वक्त्रं महादेवो द्विजोत्तमाः ॥
सरस्वतीं च गायत्रीं प्रोवाच प्रीणयन्गिरा ॥ ४७ ॥ ॥
॥ महादेव उवाच ॥ ॥
युवयोर्मत्प्रसादेन हे गायत्रि सरस्वति ॥
अयं भर्ता समायातः सप्राणश्चतुराननः ॥ ४८ ॥
सहानेन ब्रह्मलोकं यातं मा भूद्विलम्बता ॥
युवयोः सन्निधानेन सदा कुण्डद्वयेऽत्र वै ॥ ४९ ॥
भविष्यति नृणां मुक्तिः स्नानात्सायुज्यरूपिणी ॥
युष्मन्नाम्ना च गायत्रीसर स्वत्याविति द्वयम् ॥ 3.1.40.५० ॥
इदं तीर्थं सर्वलोके ख्यातिं यास्यति शाश्वतीम् ॥
सर्वेषामपि तीर्थानामिदं तीर्थद्वयं सदा ॥ ५१ ॥
शुद्धिप्रदं तथा भूयान्महापातकनाशनम् ॥
महाशान्तिकरं पुंसां सर्वाभीष्टप्रदायकम् ॥ ५२ ॥
मम प्रसादजननं विष्णुप्रीतिकरं तथा ॥
एतत्तीर्थद्वयसमं न भूतं न भविष्यति ॥ ५३ ॥
अत्र स्नानाद्धि सर्वेषां सर्वाभीष्टं भविष्यति ॥
इदं कुण्डद्वयं लोके भवतीभ्यां कृतं महत् ॥ ५४ ॥
युष्मन्नाम्ना प्रसिद्धं च भविष्यति विमुक्तिदम् ॥
गायत्र्युपास्तिरहिता वेदाभ्यासविवर्जिताः ॥ ५५ ॥
औपासनविहीनाश्च पञ्चयज्ञविवर्जिताः ॥
युष्मत्कुण्डद्वये स्नानात्तत्त त्फलमवाप्नुयुः ॥ ५६ ॥
अन्ये च ये पातकिनो नित्यानुष्ठानवर्जिताः ॥
स्नात्वा कुण्डद्वये तत्र शुद्धाः स्युर्द्विजसत्तमाः ॥ ५७॥
सरस्वतीं च गाय त्रीमेवमुक्त्वा महेश्वरः ॥
क्षणादन्तरधात्तत्र सर्वेषामेव पश्यताम् ॥ ५८ ॥
पतिं लब्ध्वाऽथ गायत्रीसरस्वत्यौ मुदान्विते ॥
तेन साकं ब्रह्मलोकं जग्म तुर्द्विजसत्तमाः ॥ ५९ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्रा गन्धमादनपर्वते ॥
सन्निधानं सरस्वत्या गायत्र्याश्च सहेतुकम् ॥ 3.1.40.६० ॥
यः शृणोतीममध्यायं पठते वा सभक्तिकम् ॥
एतत्तीर्थद्वयस्नानफलमाप्नोत्यसंशयः ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहि तायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां गन्धमादने गायत्रीसरस्वतीसन्निधानकथनं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥ ॥