श्रीसूत उवाच ॥ ॥
अथातः सम्प्रवक्ष्यामि कपितीर्थस्य वैभवम् ॥
तत्तीर्थं सकलैः पूर्वं गन्धमादनपर्वते ॥ १ ॥
सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः ॥
रावणादिषु रक्षःसु हतेषु तदनन्तरम् ॥ २ ॥
तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा ॥
तीर्थाय च वरं प्रादुः कपयः कामरूपिणः ॥ ॥ ३॥
अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः ॥
ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः ॥ ४ ॥
अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् ॥
अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवन्ति हि ॥ ५ ॥
अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् ॥
कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन् ॥ ६ ॥
व्रजेच्छतपदं विप्राः स यायात्परमं पदम् ॥
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥ ७ ॥
एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः ॥
रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे ॥ ८ ॥
स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम्॥
कपिभिः प्रार्थितो विप्रा रामचन्द्रोऽतिहर्षितः ॥ ९॥
तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् ॥
अत्र तीर्थे निमग्नानां गङ्गास्नानफलं लभेत् ॥ 3.1.39.१० ॥
प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा ॥
अग्निष्टोमादियागानां फलं भूयादनुत्तमम् ॥ ११ ॥
गायत्र्यादिमहामन्त्रजपपुण्यं तथा भवेत् ॥
गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम् ॥ १२ ॥
चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत् ॥ १३ ॥
कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः ॥
एवं रामेण दत्ते तु वरे तत्र कुतूहलात् ॥१४॥
षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा ॥
वरुणोग्निस्तथा वायुः कुबेरश्चन्द्रमा अपि ॥१५॥
आदित्यो निर्ऋतिश्चैव साध्याश्च वसवस्तथा ॥
अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा ॥ १६ ॥
अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः ॥
कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे ॥ १७ ॥
योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥
रामदत्तवरं तीर्थं श्लाघन्ते बहुधा तदा ॥ १८॥
सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि ॥
कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम् ॥ १९ ॥
कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति॥
इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा ॥ 3.1.39.२० ॥
तस्मादवश्यं गन्तव्यं कपितीर्थं मुमुक्षुभिः ॥
रम्भा कौशिकशापेन शिलाभूता पुरा द्विजाः ॥ २१॥
तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ ॥
अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥ २२ ॥
॥ मुनय ऊचुः ॥ ॥
रम्भां किमर्थमशपत्कौशिकः सूतनन्दन ॥
कथं गता शिलाभूता कपितीर्थं सुराङ्गना ॥
एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम ॥ २३ ॥
॥ श्रीसूत उवाच ॥ ॥
विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये ॥ २४ ॥
स कदाचिन्महाराजः सेनापरिवृतो बली ॥
मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी ॥ ॥ २५ ॥
अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ ॥
आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना ॥ २६ ॥
तथास्त्वित्यब्रवीत्सोयं दण्डवत्प्रणतो नृपः ॥
कामधेनुप्रभावेन विश्वामित्राय भूभुजे ॥ २७ ॥
आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनन्दनः ॥
कामधेनुप्रभावं वै ज्ञात्वा कुशिकनन्दनः ॥ ॥ २८ ॥
वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् ॥
प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात् ॥ २९ ॥
कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः ॥
महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च ॥ 3.1.39.३० ॥
वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसञ्चयान् ॥
सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः ॥ ३१ ॥
तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनन्दनः ॥
एकेन ब्रह्मदण्डेन निजघ्न स्वतपोबलात् ॥ ३२ ॥
ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः ॥
ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ ॥ ३३ ॥
पूर्वासु पश्चिमान्तासु त्रिषु दिक्षु तपोऽचरत् ॥
प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः ॥ ३४ ॥
उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले
कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि ॥ ३५ ॥
दिव्यं वर्षसहस्रं तु निराहारो जितेन्द्रियः ॥
निरालोको जितश्वासो जितक्रोधः सुनिश्चलः ॥ ३६ ॥
ग्रीष्मे पञ्चाग्निमध्यस्थः शिशिरे वारिषु स्थितः ॥
वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः ॥ ३७ ॥
ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः ॥
उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः ॥
जम्भारिणा च सहिता रम्भां प्रोचुरिदं वचः ॥ ३९ ॥
॥ देवा ऊचुः ॥ ॥
रम्भे त्वं हिमवच्छैले कौशिकीतीरगं मुनिम् ॥ ३९ ॥
विश्वामित्रं तपस्यन्तं विलोभय विचेष्टितैः ॥
यथा तत्तपसो विघ्नो भविष्यति तथा कुरु ॥ 3.1.39.४० ॥
एवमुक्ता तदा रम्भा देवैरिन्द्रपुरोगमैः ॥
प्रत्युवाच सुरान्सर्वान्प्राञ्जलिः प्रणता तदा ॥ ४१ ॥
॥ रम्भोवाच ॥ ॥
अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः ॥
स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः ॥ ४२ ॥
त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् ॥
इत्युक्तो रम्भया तत्र जम्भारिस्ताम भाषत ॥ ४३ ॥
॥ इन्द्र उवाच ॥ ॥
रम्भे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् ॥
अहमप्यागमिष्यामि त्वत्सहायः समन्मथः ॥ ४४ ॥
कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति ॥
अतिसुन्दररूपा त्वं प्रलोभय महामुनिम् ॥ ४५ ॥
इतीन्द्रकथिता रम्भा विश्वामित्राश्रमं ययौ ॥
तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता ॥ ४६ ॥
सा मुनिं लोभयामास मनोहरविचेष्टितः ॥
पिकोपि तस्मिन्समये चुकूजानन्दयन्मनः ॥ ४७ ॥
श्रुत्वा पिकस्वरं रम्भां दृष्ट्वा च मुनिपुङ्गवः ॥
संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् ॥
शशाप रम्भां क्रोधेन विश्वामित्रस्तपोधनः ॥ ४८ ॥ ॥
॥ विश्वामित्र उवाच ॥ ॥
यस्मात्कोपयसे रम्भे मां त्वं कोपजयैषिणम् ॥ ४९ ॥
शिला भवात्र तस्मात्त्वं रम्भे वर्षशतायुतम् ॥
तदन्तरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि ॥ 3.1.39.५० ॥
विश्वामित्रस्य शापेन तदन्ते सा शिलाऽभवत् ॥
बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः ॥ ५१ ॥
विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः ॥
लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः ॥ ५२ ॥
बहुकालं शिलाभूता रम्भाप्यासीत्तदाश्रमे ॥
तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य सम्मतः ॥ ५३ ॥
श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः ॥
चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ ॥५४॥
अङ्गारकेति विख्याता राक्षसी काचिदागता ॥
तस्याश्रममतिक्रूरा मेघस्वनमहास्वना ॥ ५५ ॥
मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा ॥
उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम् ॥ ५६ ॥
अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् ॥
शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम् ॥ ५७ ॥
राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता ॥
वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा ॥ ५८ ॥
दक्षिणाम्बुनिधेस्तीरं धावति स्म भयार्दिता ॥
धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता ॥ ५९ ॥
पपातोपरि राक्षस्या मज्जन्त्याः कपितीर्थके ॥
मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि ॥ ॥ 3.1.39.६० ॥
विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् ॥
शिलारूपं परित्यज्य रम्भारूपमुपेयुषी ॥ ६१ ॥
देवैः कुसुमधाराभिरभिवृष्टा मनोरमा ॥
दिव्यं विमानमारूढा दिव्याम्बरविराजिता ॥ ६२ ॥
हारकेयूरकटकनासाभरणभूषिता ॥
उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता ॥६३॥
कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः ॥
निषेव्य रामनाथं च शङ्करं शशिभूषणम् ॥ ६४ ॥
आखण्डलपुरीं रम्यां प्रययावमरावतीम् ॥
राक्षसी सापि शापेन कुम्भजस्य महौजसः ॥ ६५ ॥
घृताची देववेश्या हि राक्षसीरूपमागता ॥
साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ ॥ ६६ ॥
एवं रम्भाघृताच्यौ ते कपितीर्थे निमज्जनात् ॥
अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः ॥ ६७ ॥
राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते ॥
तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके ॥ ६८ ॥
यः शृणोतीममध्यायं पठते वापि मानवः ॥
प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम् ॥ ६९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कपितीर्थप्रशंसायां रम्भाघृताचीशापविमोक्षणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥