॥ ऋषय ऊचुः ॥ ॥
सूत कद्रुः कथं मुक्ता क्षीरकुण्डनिमज्जनात् ॥
छलं कथं कृतवती सपत्न्यां पापनिश्चया ॥ १ ॥
कस्य पुत्री च सा कद्रूः सपत्नीसा च कस्य वै ॥
किमर्थमजयत्कद्रूः स्वसपत्नीं छलेन तु ॥
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपानिधे ॥ २ ॥
॥ श्रीसूत उवाच ॥ ॥
शृणुध्वं मुनयः सर्वे इतिहासं महाफलम् ॥
पुरा कृतयुगे विप्राः प्रजापतिसुते उभे ॥ ३ ॥
कद्रूश्च विनता चेति भगिन्यौ सम्बभूवतुः ॥
भार्ये ते कश्यपस्यास्तां कद्रूश्च विनता तथा ॥ ४ ॥
विनता सुषुवे पुत्रावरुणं गरुडं तथा ॥
भर्त्तुः सकाशात्कद्रूश्च लेभे सर्पान्बहून्सुतान् ॥ ॥ ५ ॥
अनन्तवासुकिमुखान्विषदर्पसमन्वितान् ॥
एकदा तु भगिन्यौ ते कद्रूश्च विनता तथा ॥ ६ ॥
अपश्यतां समायान्तमुच्चैःश्रवसमं तिकात् ॥
विलोक्य कद्रूस्तुरगं विनतामिदमब्रवीत् ॥ ७ ॥
श्वेतोऽश्ववालो नीलो वा विनते ब्रूहि तत्त्वतः॥
इत्युक्त्वा विनता विप्राः कद्रूं तामिदमब्र वीत् ॥
तुरङ्गः श्वेतवालो मे प्रतिभाति सुमध्यमे ॥
किं वा त्वं मन्यसे कद्रूरिति तां विनताऽब्रवीत् ॥ ९ ॥
पृष्ट्वैवं विनतां कद्रूर्बभाषे स्वमतं च सा ॥
कृष्णवालमहं मन्ये हयमेनमनिन्दिते ॥ 3.1.38.१० ॥
ततः पराजये कृत्वा दासीभावं पणं मिथः ॥
व्यतिष्ठेतां महाभागे सपत्न्यौ ते द्विजोत्तमाः ॥ ॥ ११ ॥
ततः कद्रूर्निजसुतान्वासुकिप्रमुखानहीन् ॥
तस्या नाहं यथा दासी तथा कुरुत पुत्रकाः ॥ १२ ॥
तस्याभीप्सितसिद्ध्यर्थमित्यवोचद्भृशा तुरा ॥
युष्माभिरुच्चैःश्रवसो बालः प्रच्छाद्यतामिति ॥ १३ ॥
नाङ्गीचक्रुर्मतं तस्या नागाः कद्रू रुषा तदा॥
अशपत्कुपिता पुत्राञ्ज्वलन्ती रोषमूर्च्छि ता ॥ १४ ॥
पारीक्षितस्य सर्वेऽद्धा यूयं सत्रे मरिष्यथ ॥
इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा ॥ १५ ॥
प्रणम्य पादयोः कद्रूं दीनो वचनम ब्रवीत् ॥
अहमुच्चैःश्रवोवालं विधास्याम्यञ्जनप्रभम् ॥ १६ ॥
मा भीरम्ब त्वया कार्येत्यवादीच्छापविक्लवः ॥
श्वेतमुच्चैःश्रवोवालं ततः कर्कोटको रगः ॥ १७ ॥
छादयित्वा स्वभोगेन व्यतनोदञ्जनद्युतिम् ॥
अथ ते विनताकद्र्वौ दास्ये कृतपणे उभे ॥ १८ ॥
देवराजहयं द्रष्टुं संरम्भादभ्यगच्छ ताम् ॥
शशाङ्कशङ्खमाणिक्यमुक्तैरावतकारणम् ॥ १९ ॥
युगान्तकालशयनं योगनिद्राकृतो हरेः ॥
अतीत्य कद्रूविनते समुद्रं सरितां पतिम् ॥ 3.1.38.२० ॥
ददृशतुर्हयं गत्वा देवराजस्य वाहनम् ॥
कृष्णवालं हयं दृष्ट्वा विनता दुःखिताऽभवत् ॥ २१ ॥
दुःखितां विनतां कद्रूर्दासीकृत्ये न्ययुङ्क्त सा ॥
एतस्मिन्नन्तरे तार्क्ष्योऽप्यण्डमुद्भिद्य वह्निवत् ॥ २२ ॥
प्रादुर्बभूव विप्रेन्द्रा गिरिमात्रशरीरवान् ॥
दृष्ट्वा तद्देहमाहात्म्यमभूत्त्रस्तं जगत्त्रयम् ॥२३॥
ततस्तं तुष्टुवुर्देवा गरुडं पक्षिणां वरम् ॥
दृष्ट्वा तद्देहमाहात्म्यं त्रस्तं स्याद्भुवनत्रयम् ॥ २४ ॥
इत्यालोच्योपसंहृत्य देहमत्यन्तभीषणम् ॥
अरुणं पृष्ठमारोप्य मातुरन्तिकमभ्यगात् ॥ २५ ॥
अथाह विनतां कद्रूः प्रणतामतिविह्वलाम् ॥
चेटि नागालयं गन्तुमुद्योगो मम वर्तते ॥ २६ ॥
त्वत्पुत्रो गरुडोतो मां मत्पुत्रांश्च वहत्विति ॥
ततश्च विनता पुत्रं गरुडं प्रत्यभाषत ॥ २७ ॥
अहं कद्रूमिमां वक्ष्ये त्वं सर्पान्वह तत्सुतान् ॥
तथेति गरुडो मातुः प्रत्यगृह्णद्वचो द्विजाः ॥ २८ ॥
अवहद्विनता कद्रूं सर्वांस्तान्गरुडोऽवहत् ॥
रविसामीप्यगाः सर्पास्तत्करैराहतास्तदा ॥ २९ ॥
अस्तौषीद्वज्रिणं कद्रूः सुतानां तापशान्तये ॥
सर्वतापं जलासारैर्देवराजोऽप्यशामयत ॥ 3.1.38.३० ॥
नीयमानास्तदा सर्पा गरुडेन बलीयसा ॥
गत्वा तं देशमचिरादवदन्विनतासुतम् ॥ ३१ ॥
वयं द्वीपान्तरं गन्तुं सर्वे द्रष्टुं कृतत्वराः ॥
वह त्वमस्मान्गरुड चेटीसुत ततः क्षणात् ॥ ३२ ॥
ततो मातर मप्राक्षीद्विनतां गरुडो द्विजाः ॥
अहं कस्माद्वहामीमांस्त्वं चेमां वहसे सदा ॥ ३३ ॥
चेटीपुत्रेति मामेते कि भणन्ति सरीसृपाः ॥
सर्वमेतद्वद त्वं मे मातस्तत्त्वेन पृच्छतः ॥ ३४ ॥
पृष्टैवं जननी तेन गरुडं प्राब्रवीत्सुतम् ॥
भगिन्या क्रूरया पुत्र च्छलेनाहं पराजिता ॥ ३५ ॥
तस्या दासी भवाम्यद्य चेटीपुत्रस्ततो भवान् ॥
अतस्त्वं वहसे सर्पान्वहाम्येनामहं सदा ॥ ३६ ॥
इत्यादि सर्ववृत्तान्तमादितोऽस्मै न्यवेदयत् ॥
अथ तां गरुडोऽवा दीन्मातरं विनतासुतः ॥ ३७ ॥
अस्माद्दास्याद्विमोक्षार्थं किं कार्यं ते मयाधुना ॥
इति पृष्टा सुतेनाथ विनता तमभाषत ॥ ३८ ॥
सर्पान्पृच्छस्व गरुड मम मातृविमोक्षणे ॥
युष्माकं मातुः किं कार्यं मयेति वदताधुना ॥ ३९ ॥
इति मात्रा समुदितो गरुडः पन्नगान्प्रति ॥
गत्वाऽपृच्छद्विज श्रेष्ठास्तेऽप्येनमवदंस्तदा ॥ 3.1.38.४० ॥
यदा हरिष्यसे शीघ्रं सुधां त्वममरालयात् ॥
दास्यान्मुक्ता भवेन्माता वैनतेय तवाद्य हि ॥ ४१ ॥
ततो मातरमागम्य गरुडः प्रणतोऽब्रवीत् ॥
सुधामम्ब ममानेतुं गच्छतो भक्ष्यमर्पय ॥ ४२ ॥
इतीरिता सुतं प्राह माता तं विनता सुतम् ॥
समुद्रमध्ये वर्तन्ते शबराः कतिचित्सुत ॥ ४३ ॥
तान्भक्षयित्वा शबरानमृतं त्वमिहानय ॥
तत्र कश्चिद्द्विजः कामी शवरीसङ्गकौतुकी ॥ ४४ ॥
त्यज तं ब्राह्मणं कण्ठं दहन्तं ब्रह्मतेजसा ॥
पक्षादीनि तवाङ्गानि पान्तु देवा मरुन्मुखाः ॥ ४५ ॥
इति स्वमातुराशीर्भिर्गरुडो वर्धितो ययौ ॥
शबरालयमभ्येत्य तस्य भक्षय तो मुखम् ॥ ४६ ॥
आवृतं प्राविशन्व्याधा वयांसीव दरीं गिरेः ॥
अथ स ब्राह्मणोऽप्यागात्तत्कण्ठं मुनिपुङ्गवाः ॥ ४७ ॥
कण्ठं दहन्तं विप्रं तमुवाच विनतासुतः ॥
विप्र पापोऽप्यवध्यो हि निर्याहि त्वमतो बहिः ॥ ४८ ॥
एवमुक्तस्तदा विप्रो गरुडं प्रत्यभाषत ॥
किराती मम भार्यापि निर्गन्तव्या मया सह ॥ ४९ ॥
एवमस्त्विति तं विप्रमुवाच पतगेश्वरः ॥
ततः स गरुडो विप्रमुज्जगार सभार्यकम् ॥ 3.1.38.५० ॥
विप्रोऽप्यभीप्सितान्देशान्निषाद्या सह निर्ययौ ॥
शबरान्भक्षयित्वाऽथ गरुडः पक्षिणां वरः ॥ ५१ ॥
आत्मनः पितरं वेगात्कश्यपं समुपेयिवान् ॥
कुत्र यासीति तत्पृष्टो गरुडस्तम भाषत ॥ ५२ ॥
मातुर्दास्यविमोक्षाय सुधामाहर्तुमागमम् ॥
बहून्किराताञ्जग्ध्वापि तृप्तिर्मम न जायते ॥ ५३ ॥
अपर्यन्तक्षुधा ब्रह्मन्बाधते मामह र्निशम् ॥
तन्निवृत्तिप्रदं भक्ष्यं ममार्पय तपोधन ॥ ५४ ॥
येनाहं शक्नुयां तात सुधामाहर्तुमोजसा ॥
इतीरितः सुतं प्राह कश्यपो विनतोद्भवम् ॥ ॥ ५५ ॥
॥कश्यप उवाच ॥ ॥
मुनिर्विभावसुर्नाम्ना पुरासीत्तस्य सानुजः ॥
सुप्रतीक इति भ्राता तावुभौ वंशवैरिणौ ॥ ५६ ॥
अन्योन्यं शेपतुर्विप्रा महाक्रोधसमाकुलौ ॥
गजोऽभवत्सुप्रतीकः कूर्मोऽभूच्च विभावसुः ॥ ५७ ॥
एवं वित्तविवादात्तौ शेपतुर्भ्रातरौ मिथः ॥
गजः षड्यो जनोच्छ्रायो द्विगुणायामसंयुतः ॥ ५८ ॥
कूर्मस्त्रियोजनोच्छ्रयो दशयोजनविस्तृतः ॥
बद्धवैरावुभावेतौ सरस्यस्मिन्विहङ्गम ॥ ५९ ॥
पूर्ववैरमनुस्मृत्य युध्येते जेतुमिच्छया ॥
उभौ तौ भक्षयित्वा त्वं सुधामाहर तृप्तिमान् ॥ 3.1.38.६० ॥
एवं पित्रेरितः पक्षी गत्वा तद्गजकच्छपौ ॥
समुद्धत्य महाकायौ महाबलपराक्रमौ ॥ ६१ ॥
वहन्नखाभ्यां सन्तीर्थं विळम्बाभिधमभ्यगात् ॥
तत्रागतं समालोक्य पक्षिराजं द्विजोसमाः ॥ ६२ ॥
तत्तीरजो महावृक्षो रोहिणाख्यो महोच्छ्रयः ॥
वैनतेयमिदं प्राह महाबलपराक्रमम् ॥ ६३ ॥
एनामारुह मच्छाखां शतयोजनमायताम् ॥
स्थित्वात्र गजकूर्मौ त्वं भक्षयस्व खगोत्तम ॥६४ ॥
इत्युक्तस्तरुणा पक्षी स तत्रास्ते मनोजवः ॥
तद्भारात्सा तरोः शाखा भग्नाऽभूद्द्विजसत्तमाः ॥ ६५ ॥
वालखिल्यमुनींस्तस्मिल्लँबमानानधोमुखान् ॥
दृष्ट्वा तत्पातशङ्कावाँस्तां शाखां गरुडोऽग्रहीत् ॥ ६६ ॥
गजकूर्मो च तां शाखां गृहीत्वा यान्तमं बरे ॥
पिता तस्याब्रवीत्तत्र गरुडं विनतासुतम् ॥ ६७ ॥
त्यजेमां निर्जने शैले शाखां तं विनतोद्भव ॥
इत्युक्तः स तथा गत्वा शाखां निष्पुरुषे नगे ॥ ६८ ॥
विन्यस्याभक्षयत्पक्षी तौ तदा गजकच्छपौ ॥
अथोत्पातः समभवत्तस्मिन्नवसरे दिवि ॥ ६९ ॥
दृष्ट्वोत्पातं बलारातिः पप्रच्छ स्वपुरोहितम् ॥
उत्पातकारणं जीव किमत्रेति पुनःपुनः ॥
बृहस्पतिस्तदा शक्रं प्रोवाच द्विजसत्तमाः ॥ 3.1.38.७० ॥
॥ बृहस्पतिरुवाच ॥ ॥
काश्यपो हि मुनिः पूर्वमयजत्क्रतुना हरे ॥७१॥
सर्वान्नृषीन्सुरान्सिद्धान्यक्षान्गन्धर्वकिन्नरान् ॥
यज्ञसम्भारसिद्ध्यर्थं प्रेषयामास स द्विजाः॥ ७२ ॥
वालखिल्यान्ससम्भारान्ह्रस्वानङ्गुष्ठमात्रकान् ॥
मज्जतो गोष्पदजले दृष्ट्वा हसितवान्भवान् ॥ ७३ ॥
भवतावमताः क्रुद्धा वालखिल्यास्तदा हरे ॥
जुहुवुर्यज्ञवह्नौ ते क्रोधेन ज्वलिताननाः ॥ ७४ ॥
देवेन्द्रभयदः शत्रुः कश्यपस्य सुतोऽस्त्विति ॥
तस्य पुत्रोऽद्य गरुडः सुधाहरणकौतुकी ॥ ७५ ॥
समागच्छति तद्धेतुरयमुत्पात आगतः ॥
इत्युक्तः सोऽब्रवीदिन्द्रो देवानग्निपुरोगमान् ॥ ७६ ॥
सुधामाहर्तुमायाति पक्षी सा रक्ष्यतामिति ॥
इतीन्द्रप्रेरिता देवा ररक्षुः सायुधाः सुधाम् ॥ ७७ ॥
पक्षिराजस्तदाभ्यागाद्देवानायुधधारिणः ॥
महाबलं ते गरुडं दृष्ट्वाऽकम्पन्त वै सुराः ॥ ७८ ॥
गरुडस्य सुराणां च ततो युद्धमभून्महत् ॥
अखण्डि पक्षितुण्डेन भौवनोऽमृतपालकः ॥ ७९ ॥
तदा निजघ्नुगर्रुडं देवाः शस्त्रैरनेकशः ॥
अतीव गरुडो देवैर्बाधितः शस्त्रपाणिभिः ॥ 3.1.38.८० ॥
पक्षाभ्यामाक्षिपद्दूरे देवानग्निपुरोगमान् ॥
तत्पक्षविक्षिता देवास्तदा परमकोपनाः ॥ ८१ ॥
नाराचान्भिन्दि पालांश्च नानाशस्त्राणि चाक्षिपन् ॥
ततस्तु गरुडो वेगाद्देवदृष्टिविलोपिनीम् ॥ ८२ ॥
धूलिमुत्थापयामास पक्षाभ्यां विनतासुतः ॥ वायुना
शमयामासुस्तान्पांसूंस्त्रिदशोत्तमाः ॥ ८३ ॥
रुद्रान्वसूंस्तथादित्यान्मरुतोऽन्यान्सुरांस्तथा ॥
गरुडः पक्षतुण्डाभ्यां व्यथितानकरोद्द्विजाः ॥ ८४ ॥
पलायितेषु देवेषु सोऽद्राक्षीज्ज्वलनं पुरः ॥
ज्वलन्तं परितस्त्वग्निं शमापयितुमुद्ययौ॥ ८५ ॥
स सहस्रमुखो भूत्वा तैः पिबञ्छतशो नदीः ॥
तमग्निं नाशयामास तैः पयोभिस्त्वरान्वितः ॥ ८६ ॥
सितधारं भ्रमच्चक्रं सुधारक्षकमन्तिके ॥
दृष्ट्वा तदरिरन्ध्रेण सङ्क्षिप्ताङ्गोतराविशत् ॥ ८७ ॥
ततो ददर्श द्वौ सर्पो व्यक्तास्यौ भीषणाकृती.॥
याभ्यां दृष्टोपि भस्म स्यात्तौ सर्पौ गरुडस्तदा ॥ ८८ ॥
आच्छिद्य पक्षतुण्डाभ्यां गृहीत्वाऽमृतमुद्ययौ ॥
यन्त्रमुत्पाट्य चोद्यन्तं गरुडं प्राह माधवः ॥ ८९ ॥
तव तुष्टोऽस्मि पक्षीश वरं वरय सुव्रत ॥
अथ पक्षी तमाह स्म कमलानायकं हरिम् ॥ ॥ 3.1.38.९० ॥
तवोपरि स्थितिर्मे स्यान्मा भूतां च जरामृती ॥
तथास्त्विति हरिः प्राह वरं मद्व्रियतामिति ॥ ९१ ॥
इत्युक्तस्तं हरिः प्राह मम त्वं वाहनं भव ॥
स्यन्दनोपरि केतुश्च मम त्वं विनतासुत ॥ ९२ ॥
तथास्त्विति खगोप्याह कमलापतिमच्युतम् ॥
हृतामृतं खगं श्रुत्वा तत आखण्डलो जवात् ॥ ९३ ॥
अभिद्रुत्याशु कुलिशं पक्षे चिक्षेप पक्षिणः ॥
ततो विहस्य गरुडः पाकशासनमब्रवीत् ॥ ९४ ॥
कुलिशस्य निपातान्मे न हरे कापि वेदना ॥
सफलो वज्रपातस्ते भूयाच्च सुरनायक ॥ ९५ ॥
इतीरयन्पत्रमेकं व्यसृजत्पक्षतस्तदा ॥
शोभनं पर्णमस्येति सुपर्ण इति सोभ वत् ॥ ९६ ॥
तस्मिन्सुपर्णे हेमाभे सर्वे विस्मयमाययुः ॥
ततस्तु गरुडः शक्रमब्रवीद्द्विजपुङ्गवाः ॥ ९७ ॥
भवता साकमखिलं जगदेतच्चराचरम् ॥
देवेन्द्र सततं वोढुममोघा शक्तिरस्ति मे ॥ ९८ ॥
नाखण्डलसहस्रं मे रणे लभ्यं हरे भवेत् ॥
इति ब्रुवाणं गरुडमब्रवीत्पाकशासनः ॥९९॥
किं तेऽमृतेन कार्यं स्याद्दीयताममृतं मम ॥
इमां सुधां भवान्दद्याद्येभ्यो हि विनतोद्भव ॥ 3.1.38.१०० ॥
तेऽधुनाऽमृतपानेन जरामरणवर्जिताः ॥
अस्मद्भ्योऽधिकवीर्याः स्युर्बाधेरंस्त्रिदशांस्तथा ॥ १ ॥
इति ब्रुवन्तं देवेन्द्रं गरुडोऽप्यब्रवीद्द्विजाः ॥
यत्रैतत्स्थापयिष्यामि तत्रागत्य भवानिदम् ॥ ॥ २ ॥
गृह्णातु झटितीत्युक्तो गरुडं प्राह वृत्रहा ॥
प्रीतोऽहं तव दास्यामि वरं वृणु महामते ॥ ३ ॥
इत्युक्तवन्तं गरुडः पाकशासनमब्रवीत् ॥
दास्ये छलप्रयोक्तारो मम मातुः सरीसृपाः ॥ ४ ॥
भक्ष्या भवन्तु नित्यं मे पाकशासन वृत्रहन् ॥
इति तेनेरितः शकस्तथास्त्वित्यवदच्च तम् ॥ ५ ॥
अथायं गरुडो विप्रा धारयन्नमृतं ययौ ॥
यान्तं तमनुयाति स्म गरुडं पाकशासनः ॥ ६ ॥
वेगेन स द्विजश्रेष्ठाः सुधाहरणकौतुकी ॥
मातुरभ्याशमागत्य सर्पान्प्राह स पक्षिराट् ॥ ७ ॥
कुशेषु न्यस्यते सर्पास्सुधैवमधुना मया ॥
स्नात्वा तद्भुङ्ध्वममृतं शुचयः सुसमाहिताः ॥ ८ ॥
मोक्षोऽपि मम मातुः स्याद्दासीभावाद्धि पन्नगाः ॥
तथास्त्वित्यवदन्सर्पा गरुडं विनतासुतम् ॥९॥
मुक्ता तदैव विनता दासीभावाद्द्विजोत्तमाः ॥
सर्पास्तेऽमृतभक्षार्थं स्नातुं सर्वे ययुस्तदा ॥3.1.38.११०॥
तस्मिन्नवसरे शक्रस्तामादाय सुधां ययौ ॥
स्नात्वागत्य भुजङ्गास्ते तत्रादृष्ट्वा तदा सुधाम् ॥ ११ ॥
जिह्वाभिर्लिलिहुर्द र्भानेषु न्यस्ता सुधेति हि ॥
तदाप्रभृति सर्पाणां जिह्वा दर्भाग्रपाटिताः ॥१२॥
द्विधाभवन्मुनिश्रेष्ठा द्विजिह्वास्तेन ते स्मृताः॥
सुधासंयोगतो दर्भाः प्रय युश्च पवित्रताम् ॥१३॥
मोचयित्वा च गरुडो दासीभावात्स्वमातरम् ॥
शशापकुपितः कद्रूं छद्मना जितमातरम् ॥१४॥
कद्रूस्त्वं जननीं यन्मे छलेन जितवत्यसि ॥
भर्तुस्त्वं परिचर्यायामतो नार्हा भविष्यसि ॥१५॥
शप्त्वैवं गरुडः कद्रूं प्रययौ स यथेच्छया ॥
कद्रूश्च विनता चोभे ययतुर्भर्तुरन्तिकम् ॥ १६ ॥
कश्यपो विमुखस्तत्र कद्रूं कोपादथाब्रवीत् ॥
यस्माच्छलेन विनतां कद्रूर्निर्जितवत्यसि ॥ १७ ॥
अतो मत्परिचर्यायां न योग्यासि दुरात्मिके ॥
स्त्रियं वा पुरुषं वापि नारी वा पुरुषोऽपि वा ॥ १८ ॥
छलाद्विजयते योऽसौ स महापातकी भवेत् ॥
छलाद्विजयिना सार्धं सम्भाष्य ब्रह्महा भवेत् ॥ १९ ॥
स्तेयी सुरापी विज्ञेयो गुरुदाररतश्च सः ॥
संसर्गदोषदुष्टश्च मुनिभिः परिकीर्त्यते ॥ 3.1.38.१२० ॥
त्वया सम्भाषणाद्दोषो मम स्यान्नरकप्रदः ॥
तस्मात्प्रयाहि कद्रूस्त्वं मत्समीपाद्धि दारुणे ॥ २१ ॥
छलजेत्रा सपङ्क्तौ यो भुञ्जीत मनुजो भुवि ॥
तेन सम्भाषणात्सद्यः पतेद्धि नरकार्णवे ॥ २२ ॥
विलोक्य च्छलजेतारं तस्य पापस्य शान्तये ॥
आदित्यं वा जलं वापि पावकं वा विलोकयेत् ॥ २३ ॥
छलजेता यत्र तिष्ठेदाश्रमेऽपि गृहेऽपिवा ॥
वस्तव्यं न हि तत्रान्यैर्वसन्नरकमश्नुते ॥ २४ ॥
अतो निर्याहि निर्याहि मम त्वं दृष्टिमार्गतः ॥
स्वाश्रमात्सरलामेनां विनतां जितवत्यसि ॥ २५ ॥
इति धिक्कृत्य सहसा कद्रूं तां कश्यपस्तदा ॥
विनतां स्वच्छशीलां तां स्वीचकार महामतिः ॥२६ ॥
कद्रूरित्थं सपरुषं कथिता कश्यपेन सा ॥
रुदन्ती भृशदुःखार्ता पादयोस्तस्य चापतत् ॥ २७ ॥
पतितां पादयोर्दृष्ट्वा कश्यपो मुनिपुङ्गवः ॥
न जग्राहैव कद्रूं तां स्मरन्पापं तया कृतम् ॥ २८ ॥
ततः प्रणम्य विनता कश्यपं वाक्यमब्रवीत् ॥
भगवन्भगिनीमेनां स्वीकुरुष्व कृपानिधे ॥ २९ ॥
अज्ञानान्मुग्धया पापं कद्र्वा यदधुना कृतम्॥
क्षन्तुमर्हसि तत्सर्वं दयाशीला हि साधवः ॥ 3.1.38.१३० ॥
जनन्या गरुडस्यैव कथितः कश्यपो मुनिः ॥
उवाच विनते नैनां विना पापस्य निष्कृतिम् ॥ ३१ ॥
ग्रहीष्यामि दुराचारां त्रिस्त्वां शपथयाम्यहम् ॥
कश्यपस्य वचः श्रुत्वा विनता पुनरब्रवीत् ॥ ३२ ॥
भगिन्या मम पापस्य ब्रह्मंस्त्वं ब्रूहि निष्कृतिम् ॥
येनेयं परिचर्यायां तव योग्या भविष्यति ॥ ३३ ॥
तयैवमुदितो विप्रा मारीचः कश्यपस्तदा ॥
ध्यात्वा मुहूर्तं मनसा पश्चादिदमभाषत ॥ ३४ ॥
दक्षिणाम्बुनिधेस्तीरे फुल्लग्रामे विमुक्तिदे ॥
अस्ति क्षीरसरोनाम तीर्थं पापविनाशनम् ॥ ६५ ॥
तत्तीर्थस्नानमात्रेण दोषश्चास्या विनश्यति ॥
प्रायश्चित्तायुतेनापि तत्तीर्थे मज्जनं विना ॥ ३६ ॥
न नश्यत्येष दोषो ऽस्यास्तदेषा यातु तत्सरः ॥
भर्त्रैवमुदिते कद्रूस्तं प्रणम्य द्विजोत्तमम् ॥ ३७ ॥
तत्क्षणात्प्रययौ क्षीरं सरः पुत्रसहायिनी ॥
सा कद्रूः पुत्र सहिता गत्वा कतिपयैर्दिनैः ॥ ३८ ॥
प्राप्य क्षीरसरः पुण्यं प्रयता विजितेन्द्रिया ॥
सस्नौ नियमपूर्वं च सङ्कल्प्य क्षीरकुण्डके ॥ ३९ ॥
उपोष्य त्रिदिनं सस्नौ तस्मिन्क्षीरसरोजले ॥
चतुर्थे दिवसे तस्यां कुर्वत्यां स्नानमादरात् ॥
अदेहा व्योमगावाणी समुत्तस्थौ द्विजोत्तमाः ॥ 3.1.38.१४० ॥
अशरीरिण्युवाच ॥ ॥
कद्रूस्त्वं मज्जनादत्र च्छलजेतृत्वदोषतः ॥ ४१ ॥
विमुक्ता भर्तृशुश्रूषायोग्या चासि न संशयः ॥
शापोपि गरुडोक्तस्ते लयं यातोऽत्र मज्जनात् ॥ ४२ ॥
गच्छ भर्तृसकाशं त्वं सोऽपि त्वां स्वीकरिष्यति ॥
इत्युक्त्वा विररामाथ व्योमवागशरीरिणी ॥ ४३ ॥
तस्यै वाचे नमस्कृत्य कद्रूः सा प्रीतमानसा ॥
तीर्थं प्रदक्षिणीकृत्य नत्वा पुत्रसमन्विता ॥ ४४ ॥
प्रययौ भर्तुरभ्याशं तच्छुश्रूषणकौतुकात् ॥
आगतातां समालोक्य स्नातां क्षीरसरोजले ॥ ४५ ॥
ज्ञात्वा विधूतपापां च कश्यपः स समाधिना ॥
अङ्गीचकार पत्नीं तामात्मशुश्रूषणोचि ताम् ॥ ४६ ॥
एवं वः कथितं विप्राः कद्रूपापविमोक्षणम् ॥
मज्जनान्मुक्तिदं पुंसां पुण्ये क्षीरसरोजले ॥ ४७ ॥
यः शृणोतीममध्यायं पठते वापि मानवः ॥
स क्षीरकुण्डस्नानस्य लभते फलमुत्तमम्॥ ४८ ॥
अश्वमेधादियज्ञानां समग्रं फलमश्नुते ॥
गङ्गादिसर्वतीर्थेषु स स्नातो भवति ध्रुवम्॥ ॥ ४९ ॥
यः पठेदिममध्यायं क्षीरकुण्डप्रशंसनम् ॥
गोसहस्रप्रदातॄणां प्राप्नोत्यविकलं फलम् ॥ 3.1.38.१५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुण्डप्रशसायां कद्रूकृतच्छलदोषशान्तिकथावर्णनं-नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥