॥ श्रीसूत उवाच ॥ ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
यावद्रामधनुष्कोटिचक्रतीर्थमुखानि वः ॥ १ ॥
चतुर्विंशतितीर्थानि कथितानि मयाधुना ॥
इतोऽन्यदद्भुतं यूयं किं भूयः श्रोतुमिच्छथ ॥ २ ॥
॥ मुनय ऊचुः ॥ ॥
क्षीरकुण्डस्य माहात्म्यं श्रोतुमिच्छामहे मुने ॥
यत्समीपे त्वया चक्रतीर्थमित्युदितं पुरा ॥ ३ ॥
क्षीरकुण्डं च तत्कुत्र कीदृशं तस्य वैभवम् ॥
क्षीरकुण्डमिति ख्यातिः कथं वास्य समागता ॥ ४ ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ॥
॥ श्रीसूत उवाच ॥ ॥
ब्रवीमि मुनयः सर्वे शृणुध्वं सुसमाहिताः ॥ ५ ॥
देवीपुरान्महापुण्यात्प्रतीच्यां दिश्यदूरतः ॥
फुल्लग्राममिति ख्यातं स्थानमस्ति महत्तरम् ॥ ६ ॥
यत आरभ्य रामेण सेतुबन्धो महार्णवे ॥
तद्धि पुण्यतमं क्षेत्रं फुल्लग्रामाभिधं पुरम् ॥ ७ ॥
क्षीरकुण्डं तु तत्रैव महापातकनाशनम् ॥
दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाच्चापि मोक्षदम् ॥ ८ ॥
तस्य तीर्थस्य पुण्यस्य क्षीरकुण्डमिति प्रथाम् ॥
भवतां सादरं वक्ष्ये शृणुध्वं श्रद्धया सह ॥ ९ ॥
पुरा हि मुद्गलोनाम मुनिर्वेदोक्तमार्गकृत् ॥
दक्षिणाम्बुनिधेस्तीरे फुल्लग्रामेतिपावने ॥ 3.1.37.१० ॥
नारायणप्रीतिकरम करोद्यज्ञमुत्तमम् ॥
तस्य विष्णुः प्रसन्नात्मा यागेन परितोषितः ॥ ११ ॥
प्रादुर्बभूव पुरतो यज्ञवाटे द्विजोत्तमाः ॥
तं दृष्ट्वा मुद्गलो विष्णुं लक्ष्मीशोभितविग्रहम् ॥ १२ ॥
कालमेघतनुं कान्त्या पीताम्बरविराजितम् ॥
विनतानन्दनारूढं कौस्तुभालङ्कृतोरसम् ॥ १३ ॥
शङ्खचक्रगदापद्मराजद्बाहुचतु ष्टयम् ॥
भक्त्या परवशो दृष्ट्वा पुलकाङ्कुरमण्डितः ॥
मुद्गलः परितुष्टाव शब्दैः श्रोत्रसुखावहैः ॥ १४ ॥
॥ मुद्गल उवाच ॥ ॥
प्रथमं जगतः स्रष्ट्रे पालकाय ततः परम् ॥ १५ ॥
संहर्त्रे च ततः पश्चान्नमो नारायणाय ते ॥
नमः शफररूपाय कमठाय चिदात्मने ॥ १६ ॥
नमो वराहवपुषे नमः पञ्चास्यरूपिणे ॥
वामनाय नमस्तुभ्यं जमदग्निसुताय ते ॥ १७ ॥
राघवाय नमस्तुभ्यं बलभद्राय ते नमः ॥
कृष्णाय कल्कये तुभ्यं नमो विज्ञानरूपिणे ॥ १८ ॥
रक्ष मां करुणासिन्धो नारायण जगत्पते ॥
निर्लज्जं कृपणं क्रूरं पिशुनं दाम्भिकं कृशम् ॥ १९ ॥
परदारपरद्रव्यपरक्षेत्रैकलो लुपम् ॥
असूयाविष्टमनसं मां रक्ष कृपया हरे ॥ 3.1.37.२० ॥
इति स्तुतो हरिः साक्षान्मुद्गलेन द्विजोत्तमाः ॥
तमाह मुद्गलमुनिं मेघगम्भीरया गिरा ॥ २१
॥ श्रीहरिरुवाच ॥ ॥
प्रीतोऽस्म्यनेन स्तोत्रेण मुद्गल क्रतुना च ते ॥
प्रत्यक्षेण हविर्भोक्तुमहं ते क्रतुमागतः ॥ २२ ॥
इत्युक्तो हरिणा तत्र मुद्गलस्तुष्टमानसः ॥
उवाचाधोक्षजं विप्रो भक्त्या परमया युतः ॥ २३ ॥
॥ मुद्गल उवाच ॥ ॥
कृतार्थोऽस्मि हृषीकेश पत्नी मे धन्यतां ययौ ॥
अद्य मे सफलं जन्म ह्यद्य मे सफलं तपः ॥ २४ ॥
अदय मे सफलो वंशो ह्यद्य मे सफलाः सुताः ॥
आश्रमः सफलोऽद्यैव सर्वं सफलमद्य मे ॥ २५ ॥
यद्भवान्यज्ञवाटं मे हविर्भोक्तुमिहागतः ॥
योगिनो योगनिरता हृदये मृगयन्ति यम् ॥ २६ ॥
तमद्य साक्षात्त्वां पश्ये सफ लोऽयं मम क्रतुः ॥
इतीरयित्वा तं विष्णुमर्चयित्वाऽऽसनादिभिः ॥२७॥
चन्दनैः कुसुमैरन्यैर्दत्त्वा चार्घ्यं स विष्णवे ॥
प्रददौ विष्णवे प्रीत्या पुरो डाशादिकं हविः ॥ २८ ॥
स्वयमेव समादाय पाणिना लोकभावनः ॥
हविस्तद्बुभुजे विष्णुर्मुद्गलेन समर्पितम् ॥ २९ ॥
तस्मिन्हविषि भुक्ते तु विष्णुना प्रभविष्णुना ॥
साग्नयस्त्रिदशाः सर्वे तृप्ताः समभवन्द्विजाः ॥3.1.37.३०॥
ऋत्विजो यजमानश्च तत्रत्या ब्राह्मणास्तथा ॥
यत्किञ्चित्प्राणिलोकेऽ स्मिंश्चरं वा यदि वाऽचरम् ॥३१॥
सर्वमेव जगत्तृप्तं भुक्ते हविषि विष्णुना ॥
ततो हरिः प्रसन्नात्मा मुद्गलं प्रत्यभाषत ॥३२॥
प्रीतोऽहं वरदोऽस्म्येष वरं वरय सुव्रत ॥
इत्युक्ते केशवेनाथ महर्षिस्तमभाषत ॥ ३३ ॥
॥ मुद्गल उवाच ॥ ॥
यत्त्वया मे हविर्भुक्तं यागे प्रत्यक्षरूपिणा ॥
अनेनैव कृतार्थोऽस्मि किमस्मादधिकं वरम् ॥ ३४ ॥
तथापि भगवन्विष्णो त्वयि मे निश्चला सदा ॥
भक्तिर्निष्कपटा भूयादिदं मे प्रथमं वरम् ॥ ३५ ॥
माधवाहं प्रतिदिनं सायम्प्रातरिहाग्नये ॥
त्वद्रूपाय तव प्रीत्यै सुरभेः पयसा हरे ॥ ३६ ॥
होतुमिच्छामि वरद तन्मे देहि वरान्तरम् ॥
पयसा नित्यहोमो हि द्विकालं श्रुतिचोदितः ॥ ३७ ॥
न मे सुरभयः सन्ति तापसस्याधनस्य च ॥
इत्युक्ते मुद्गलेनाथ देवो नारायणो हरिः ॥ ३८ ॥
आहूय विश्वकर्माणं त्वष्टारममृताशिनम् ॥
एकं सरः कारयित्वा शिल्पिना तेन शोभनम् ॥ ३९ ॥
स्फटिकादि शिलाभेदैस्तेनासौ विश्वकर्मणा ॥
समीचकार च पुनस्तत्प्राकाराद्यलङ्कृतम् ॥
तत आहूय भगवान्सुरभिं वाक्यमब्रवीत् ॥ 3.1.37.४०
॥ श्रीहरिरुवाच ॥
मुद्गलो मम भक्तोऽयं सुरभे प्रत्यहं मुदा ॥ ४१ ॥
मत्प्रीत्यर्थं पयोहोमं कर्तुमिच्छति साम्प्रतम् ॥
मत्प्रीत्यर्थमितो देवि त्वमतो मत्प्रचोदिता ॥ ॥ ४२ ॥
सायम्प्रातरिहागत्य प्रत्यहं सुरभे शुभे ॥
पयसा त्वत्प्रसूतेन सर एतत्प्रपूरय ॥ ४३ ॥
तेनासौ पयसा नित्यं सायम्प्रातश्च होष्यति ॥
ओमित्युक्त्वाथ सुरभिरेवं नारयणेरिता ॥ ४४ ॥
अथ नारायणो देवो मुद्गलं प्रत्यभाषत ॥
सुरभेः पयसा नित्यमस्मिन्सरसि तिष्ठता ॥ ॥ ४५ ॥
सायम्प्रातः प्रतिदिनं मत्प्रीत्यर्थमिहाग्नये ॥
जुहुधि त्वं महाभाग तेन प्रीणाम्यहं तव ॥ ४६ ॥
मत्प्रीत्या तेऽखिला सिद्धिर्भविष्यति च मुद्गल ॥
इदं क्षीरसरोनाम तीर्थं ख्यातं भविष्यति ॥ ४७ ॥
अस्मिन्क्षीरसरस्तीर्थे स्नातानां पञ्चपातकम् ॥
अन्यान्यपि च पापानि नाशं यास्यन्ति तत्क्षणात् ॥ ४८ ॥
मुद्गल त्वं च मां याहि देहान्ते मुक्तबन्धनः ॥
इत्युक्त्वा भगवान्विष्णुस्तं समालिङ्ग्य मुद्गलम् ॥ ४९ ॥
नमस्कृतश्च तेनायं तत्रैवान्तरधीयत ॥
मुद्गलोऽपि गते विष्णावनेकशतवत्सरम् ॥ 3.1.37.५० ॥
सुरभेः पयसा जुह्वन्नग्नये हरितुष्टये ॥
उवास प्रयतो नित्यं फुल्ल ग्रामे विमुक्तिदे ॥
देहान्ते मुक्तिमगमद्विष्णुसायुज्यरूपिणीम् ॥ ५१ ॥
॥ श्रीसूत उवाच ॥
एवमेतद्द्विजवरा युष्माकं कथितं मया ॥ ५२ ॥
यथा क्षीरसरो नाम तीर्थस्यास्य पुराऽभवत् ॥
इदं क्षीरसरः पुण्यं सर्वलोकेषु विश्रुतम् ॥ ५३ ॥
काश्यपस्य मुनेः पत्नी कद्रूर्यत्र द्विजोत्तमाः ॥
स्नात्वा स्वभर्तृवाक्येन नोदिता नियमान्विता ॥ ५४ ॥
छलेन मुमुचे सद्यः सपत्नीजयदोषतः ॥
अतोऽत्र तीर्थे ये स्नान्ति मानवाः शुदमानसाः ॥ ५५ ॥
तेषां विमुक्तबन्धानां मुक्तानां पुण्यकर्मिणाम् ॥
किं यागैः किमु वा वेदैः किं वा तीर्थनिषेवणैः ॥ ५६ ॥
जपैर्वा नियमैर्वापि क्षीर कुण्डविलोकिनाम् ॥
क्षीरकुण्डस्य वातेन स्पृष्टदेहो नरो द्विजाः ॥ ५७ ॥
ब्रह्मलोकमनुप्राप्य तत्रैव परिमुच्यते ॥
निमग्नाः क्षीरकुण्डेऽस्मिन्नवमत्यापि भास्करिम् ॥५८॥
तस्य मूर्द्धनि तिष्ठेयुर्ज्वलतः पावकोपमाः ॥
मग्नानां क्षीरकुण्डेस्मिञ्छीता वैतरणी नदी। ॥५९॥
सर्वाणि नरकाण्यद्धा व्यर्थानि च भवन्ति हि ॥
कामधेनुसमे तस्मिन्क्षीरकुण्डे स्थितेप्यहो ॥ 3.1.37.६० ॥
योन्यत्र भ्रमते स्नातुं स नरो विप्रसत्तमाः ॥
गोक्षीरे विद्यमानेऽपि ह्यर्कक्षीराय गच्छति ॥ ६१ ॥
स्नातानां क्षीरकुण्डेऽस्मिन्नालभ्यं किञ्चिदस्ति हि ॥
करप्राप्तैव मुक्तिः स्यात्किमन्यैर्बहुभाषणैः ॥ ६२ ॥
ब्रवीमि भुजमुद्धत्य सत्यंसत्यं ब्रवीमि वः ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स क्षीरकुण्डस्नानस्य लभते फलमुत्तमम् ॥ ६३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुण्डप्रशंसायां क्षीरकुण्डस्वरूपकथनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥