०३६ दुराचारसंसर्गदोषशान्तिवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
धनुष्कोटेस्तु माहात्म्यं भूयोऽपि प्रब्रवीम्यहम् ॥
दुराचाराभिधो यत्र स्नात्वा मुक्तो भवद्द्विजाः॥ ॥ १ ॥
॥ मुनय ऊचुः ॥ ॥
दुराचाराभिधः कोऽसौ सूत तत्त्वार्थकोविद ॥
किञ्च पापं कृतं तेन दुराचारेण वै मुने ॥ २ ॥
कथं वा पातका न्मुक्तो धनुष्कोटौ निमज्जनात् ॥
एतच्छुश्रूषमाणानां विस्तराद्वद नो मुने ॥ ३ ॥
॥ श्रीसूत उवाच ॥ ॥
मुनयः श्रूयतां तस्य दुराचारस्य पातकम् ॥
स्नानेन धनुषः कोटौ यथा मुक्तश्च पातकात् ॥ ४ ॥
दुराचाराभिधो विप्रो गौतमीतीरमाश्रितः ॥
कश्चिदस्ति द्विजाः पापी क्रूरकर्मरतः सदा ॥ ५ ॥
ब्रह्मघ्नैश्च सुरापैश्च स्तेयिभिर्गुरुतल्पगैः ॥
तदा संसर्गदुष्टोऽसौ तैः साकं न्यवसद्विजाः ॥६॥
महापातकिसंसर्गं दोषेणास्य द्विजस्य वै ॥
ब्राह्मण्यं सकलं नष्टं निःशेषेण द्विजोत्तमाः ॥ ७ ॥
महापातकिभिः सार्द्धं दिनमेकं तु यो द्विजः ॥
निवसेत्सादरं तस्य तत्क्षणाद्वै द्विजन्मनः ॥ । ८ ॥
ब्राह्मणस्य तुरीयांशो नश्यत्येव न संशयः ॥
द्विदिनं सेवनात्स्पर्शाद्दर्शनाच्छयनात्तथा ॥ ९ ॥
भोजनात्सह पङ्क्तौ च महापातकिभिर्द्विजाः ॥
द्वितीयभागो नश्येत ब्राह्मणस्य न संशयः ॥ 3.1.36.१० ॥
त्रिदिनाच्च तृतीयांशो नश्यत्येव न संशयः ॥
चतुर्दिनाच्चतुर्थांशो विलयं याति हि ध्रुवम् ॥ ११ ॥
अतः परं तु तैः साकं शयनासनभोजनैः ॥
तत्तुल्यपातकी भूयान्महापातकसम्भवात् ॥ १२ ॥
तेन ब्राह्मण्यहीनोऽयं दुराचाराभिधो द्विजाः ॥
ग्रस्तोऽभवद्भीषणेन वेतालेन बलीयसा ॥१३॥
असौ परवशस्तेन वेतालेनातिपीडितः ॥
देशाद्देशं भ्रमन्विप्रा वनाच्चैव वनान्तरम् ॥१४॥
पूर्वपुण्यविपाकेन दैवयोगेन स द्विजः ॥
रामचन्द्रधनुष्कोटिं महापातकनाशनीम् ॥ १५ ॥
अनुद्रुतः पिशाचेन तेनाविष्टो ययौ द्विजाः ॥
न्यमज्जयत्स वेतालो धनुष्कोटिजले त्वमुम् ॥ १६ ॥
धनुष्कोटिजले सोऽयं वेतालेन प्रवेशितः ॥
उदतिष्ठत्क्षणादेव वेतालेन विमोचितः ॥ १७ ॥
उत्थितोऽसौ द्विजो विप्रा धनुष्कोटिजलात्तदा ॥
स्वस्थो व्यचिन्तयत्कोऽयं देशो जलधितीरतः ॥ १८ ॥
कथं मयागतमिह गौतमीतीरवासिना ॥
इति चिन्ताकुलः सोऽयं धनुष्कोटिनिवासिनम् ॥ १९ ॥
दत्तात्रेयं महात्मानं योगिप्रवरमुत्तमम् ॥
समागम्य प्रणम्यासौ दुराचारोऽभ्यभाषत ॥ 3.1.36.२० ॥
न जाने भगवन्देशः कतमोऽयं वदाधुना ॥
गौतमीतीरनिलयो दुराचाराभिधो ह्यहम् ॥ २१ ॥
कृपया ब्रूहि मे ब्रह्मन्मयात्र कथमागतम्॥
इति पृष्टो मुनिस्तेन दुराचारेण सुव्रतः ॥ २२ ॥
ध्यात्वा मुहूर्तमवदद्दुराचारं घृणानिधिः ॥
महापातकिसंसर्गे दुराचार कृते पुरा ॥ २३ ॥
ब्राह्मण्यं नष्टमभवद्वेतालस्त्वां ततोऽग्रहीत् ॥
तेनाविष्टस्त्वमायातो विवशोऽत्र विमूढधीः ॥ २४ ॥
न्यमज्जयत्त्वां वेतालो धनुष्कोटिजलेऽत्र तु ॥
तत्र मज्जनमात्रेण विमुक्तः पातकाद्भवान् ॥ २५ ॥
धनुष्कोटौ तु ये स्नानं पुण्ये कुर्वन्ति मानवाः ॥
तेषां नश्यन्ति वै सत्यं पञ्चपातकसञ्चयाः ॥ २६ ॥
रामचन्द्रधनुष्कोटावत्र मज्जनमात्रतः ॥
महापातकिसंसर्गदोषस्ते विलयं ययौ ॥ २७ ॥
तन्नाशादेव वेतालस्त्वां मुक्त्वा विलयं गतः ॥
त्वामग्रहीद्यो वेतालः पुरायं ब्राह्मणोऽभवत् ॥ २८ ॥
सोऽयं भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पार्वणेन विधानेन पितॄणां नाकरोन्मुदा ॥ २९ ॥
तेन स्वपितृभिः शप्तो वेतालत्वमगादयम् ॥
सोपि चास्य धनुष्कोटेरवलोकनमात्रतः ॥ 3.1.36.३० ॥
वेतालत्वं विहायेह विष्णुलोकम वाप्तवान् ॥
अतो भाद्रपदे मासे कृष्णपक्षे महालयम् ॥ ३१ ॥
उद्दिश्य स्वपितॄन्ये तु न कुर्वन्त्यतिलोभतः ॥
महालोभयुतास्तेऽद्धा वेतालाः स्युर्न संशयः ॥ ३२ ॥
तस्माद्भाद्रपदे मासे कृष्णपक्षे महालयम् ॥
पितॄनुद्दिश्य शक्त्या ये ब्राह्मणान्वेदपारगान् ॥ ३३ ॥
भोजयेयुर्महान्नेन न ते विन्दन्ति दुर्गतिम् ॥
यस्तु भाद्रपदे मासे कृष्णपक्षे महालयम् ॥ ३४ ॥
स्वशक्त्यनुगुणं विप्रमेकं द्वौ त्रीनकिञ्चनः ॥
भोजयेन्नहि दौर्गत्यं भवेदस्य कदाचन ॥ ३५ ॥
अयं भाद्रपदे मासे पितॄणामनुपासनात् ॥
ययौ वेतालतां विप्रो यस्त्वां जग्राह पापिनम् ॥ ३६ ॥
कालो भाद्रपदमासमारभ्य वृश्चिकावधि ॥
महालयस्य कथितो मुनिभिस्तत्त्वदर्शिभिः ॥ ३७ ॥
मासो भाद्रपदः कालस्तत्रापि हि विशिष्यते ॥
कृष्ण पक्षो विशिष्टः स्याद्दुराचारक तत्र वै ॥ ३८ ॥
तस्मिञ्छुभे कृष्णपक्षे प्रथमायां तथा तिथौ ॥
श्राद्धं महालयं कुर्याद्यो नरो भक्तिपूर्वकम्॥ ३९ ॥
तस्य प्रीणाति भगवान्पावकः सर्वपावनः ॥
स वह्निलोकमाप्नोति वह्निना सह मोदते ॥ 3.1.36.४० ॥
तस्मै च ज्वलनो देवः सर्वैश्वर्यं ददात्यपि ॥
प्रथमायां तिथौ मर्त्यो यो न कुर्यान्महालयम्॥ ४१ ॥
वह्निर्गृहं दहेत्तस्य श्रियं क्षेत्रादिकं तथा ॥
वेदज्ञे ब्राह्मणे भुक्ते प्रथमायां महालये ॥ ४२ ॥
दश कल्पसहस्राणि पितरो यान्ति तृप्तताम् ॥
द्वितीयायां तु यो भक्त्या कुर्याच्छ्राद्धं महालयम् ॥ ४३ ॥
तस्य प्रीणाति भगवान्भवानीपतिरीश्वरः ॥
स कैलासमवाप्नोति शिवेन सह मोदते॥ ४४ ॥
विपुलां सम्पदं तस्मै प्रीतो दद्यान्महेश्वरः ॥
द्वितीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥ ४५ ॥
तस्य वै कुपितः शम्भुर्नाशयेद्ब्रह्मवर्चसम् ॥
रौरवं कालसूत्राख्यं नरकं चास्य दास्यति ॥ ४६॥
वेदज्ञे ब्राह्मणे भुक्ते द्वितीयायां महालये ॥
विंशत्कल्प सहस्राणि पितरो यान्ति तृप्तताम्॥ ४७ ॥
अनुग्रहात्पितॄणां च सन्ततिश्चास्य वर्द्धते ॥
तृतीयायां नरो भक्त्या कुर्याच्छ्राद्धं महालयम् ॥ ४८ ॥
तस्य प्रीणाति भगवाल्ँलोकपालो धनाधिपः ॥
महापद्मादिनिधयो वर्तन्ते तस्य वै वशे ॥ ४९ ॥
तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥
तृतीयायां तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥ 3.1.36.५० ॥
धनदो भगवांस्तस्य सम्पदं हरति क्षणात् ॥
दारिद्यं च ददात्यस्मै बहुदुःखसमाकुलम् ॥ ॥ ५१ ॥
तृतीयायां तिथौ मर्त्यो यः करोति महालयम् ॥
तृप्यन्ति पितरस्तस्य त्रिंशत्कल्पसहस्रकम् ॥ ५२ ॥
चतुर्थ्यां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्हेरम्बः पार्वतीसुतः ॥ ५३ ॥
तस्य विघ्नाश्च नश्यन्ति गजवक्त्रप्रसादतः ॥
चतुर्थ्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥ ५४ ॥
विघ्नेशो भगवांस्तस्य सदा विघ्नं करोति हि ॥
चण्डकोलाहलाभिख्ये नरके च पतत्यथ ॥ ५५ ॥
चतुर्थ्यां वै तिथौ मर्त्यो यः करोति महालयम् ॥
पितरः कल्पसाहस्रं चत्वारिंशत्प्रहर्षिताः ॥ ५६ ॥
बहून्पुत्रान्प्रदास्यन्ति श्राद्धकर्तुर्निरन्तरम् ॥
पञ्चम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ॥ ५७ ॥
तस्य लक्ष्मीर्भगवती परित्यजति मन्दिरम् ॥
अलक्ष्मीः कलहाधारा तस्य प्रादुर्भवेद्गृहे ॥ ५८ ॥
पचम्यां तु तिथौ मर्त्यो यः करोति महालयम् ॥
तस्य तृप्यन्ति पितरः पञ्चकल्पसहस्रके ॥ ५९ ॥
सन्ततिं चाप्यविच्छिन्नामस्मै दास्यन्ति तर्पिताः ॥
पार्वती च प्रसन्ना स्यान्महदैश्वर्यदायिनी ॥ 3.1.36.६० ॥
षष्ठ्यां तिथौ नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्य प्रीणाति भगवान्षण्मुखः पार्वती सुतः ॥ ६१ ॥
तस्य पुत्राश्च पौत्राश्च षण्मुखस्य प्रसादतः ॥
ग्रहैर्वालग्रहैश्चैव न बाध्यन्ते कदाचन ॥ ६२ ॥
षष्ठ्यां तिथौ नरो भक्त्या यो न कुर्यान्महालयम् ॥
तस्य स्कन्दो महासेनो विमुखः स्यान्न संशयः ॥ ६३ ॥
गर्भान्निर्गतमात्रैव प्रजा तस्य विनश्यति ॥
पूतनादिग्रहकुलैर्बाध्यते च निरन्तरम् ॥ ६४ ॥
वह्निज्वालाप्रवेशाख्ये नरके च पतत्यधः ॥
षष्ठ्यां तिथौ यः श्रद्धावान्कुर्याच्छ्राद्धं महालयम् ॥ ६५ ॥
षष्टिकल्पसहस्रं तु पितरो यामति तृप्तताम् ॥
पुत्रानपि प्रदास्यन्ति सम्पदं विपुलां तथा ॥ ६६ ॥
सप्तम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
हिरण्यपाणिर्भगवानादित्यस्तस्य तुष्यति ॥ ६७ ॥
अरोगो दृढगात्रः स्याद्भास्करस्य प्रसादतः ॥
हिरण्यपाणिर्भगवान्हिरण्यं पाणिना स्वयम् ॥ ६८ ॥
महालयश्राद्धकर्त्रे ददाति प्रीतमानसः ॥
सप्तम्यां तु तिथौ भक्त्या यो न कुर्यान्महालयम् ॥ ६९ ॥
व्याधिभिः क्षयरोगाद्यै बाध्यते स दिवानिशम् ॥
तीक्ष्णधारास्त्रशय्याख्ये नरके च पतत्यधः ॥ 3.1.36.७० ॥
सप्तम्यां यो नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
सप्ततिं कल्पसाहस्रं प्रीणन्ति पितरोऽस्य वै ॥ ७१ ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
अष्टम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महाल यम् ॥ ७२ ॥
मृत्युञ्जयः कृत्तिवासास्तस्य प्रीणाति शङ्करः ॥
करस्थं तस्य कैवल्यं शङ्करस्य प्रसादतः ॥ ७३ ॥
महालयेन श्राद्धेन तुष्टे साक्षात्त्रि यम्बके ॥
चतुर्दशसु लोकेषु दुर्लभं तस्य किं भवेत् ॥ ७४ ॥
महालयं न कुर्याद्वै योऽष्टम्यां मूढचेतनः ॥
संसारसागरे घोरे सदा मज्जति दुःखितः ॥ ७५ ॥
कदाचिदपि तस्येष्टं नैव सिद्ध्यति भूतले ॥
वैतरिण्याख्यनरके पतत्याचन्द्रतारकम् ॥ ७६ ॥
योऽष्टम्यां श्रद्धया श्राद्धं नरः कुर्यान्महालयम् ॥
अशीतिकल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ॥ ७७ ॥
आशीर्भिर्वर्द्धयन्त्येनं विघ्नश्चास्य व्यपोहति ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥ ७८ ॥
नवम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
दुर्गादेवी भगवती तस्य प्रीणाति शाम्भवी ॥ ७९ ॥
क्षयापस्मारकुष्ठा दीन्क्षुद्रप्रेतपिशाचकान् ॥
नाशयेत्तस्य सन्तुष्टा दुर्गा महिषमर्दिनी ॥3.1.36.८० ॥
नवम्यां तु तिथौ मर्त्यो यो न कुर्यान्महालयम् ॥
अपस्मारेण पीड्येत तथैव ब्रह्मरक्षसा ॥ ८१ ॥
अभिचारार्थकृत्याभिर्वाध्येत च निरन्तरम् ॥
नवम्यां यस्तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम्॥ ८२ ॥
नवतिं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥ ८३ ॥
दशम्यां तु तिथौ मर्त्यः श्राद्धं कुर्यान्महालयम् ॥
तस्यामृतकलश्चन्द्रः षोडशात्मा प्रसीदति ॥ ८४ ॥
औषधीनामधीशेऽस्मिञ्छ्राद्धेनानेन तोषिते ॥
व्रीह्यादीनि तु धान्यानि दद्युरोषधयः सदा॥ ॥ ८५ ॥
यो न कुर्याद्दशम्यां तु महालयमनुत्तमम् ॥
ओषध्यो निष्फलास्तस्य कृषिश्चाप्यस्य निष्फला ॥ ८६ ॥
दशम्यां यस्तिथौ मर्त्यः श्राद्धङ्कुर्यान्महालयम् ॥
शतकल्पसहस्राणि तृप्यन्ति पितरोऽस्य वै ॥ ८७ ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृगणाः सदा ॥
एकादश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥ ८८ ॥
संहर्ता सर्वलोकस्य तस्य रुद्रः प्रसीदति ॥
रुद्रस्य सर्वसंहर्तुः प्रसादेन जगत्पतेः ॥ ८९ ॥
शत्रून्पराजय त्येष श्राद्धकर्ता निरन्तरम् ॥
ब्रह्महत्यायुतं चापि तस्य नश्यति तत्क्षणात् ॥ 3.1.36.९० ॥
अग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ॥
एकादश्यां नरो भक्त्या यो न कुर्यान्महालयम् ॥ ९१ ॥
तस्य वै विमुखो रुद्रो न प्रसीदति कर्हिचित् ॥
सर्वतो वर्धमानाश्च बाधन्ते शत्रवो ह्यमुम् ॥ ९२ ॥
अग्निष्टोमादिका यज्ञाः कृताश्च बहुदक्षिणाः ॥
निष्फला एव तस्य स्युर्भस्मनि न्यस्तहव्यवत् ॥ ९३ ॥
ब्रह्मवातकतुल्यः स्याच्छ्राद्धाकरणदोषतः ॥
एकादश्यां तिथौ यस्तु श्राद्धं कुर्यान्महालयम् ॥ ९४ ॥
द्विशतं कल्पसाहस्रं तृप्यन्ति पितरोऽस्य वै ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृ गणाः सदा ॥ ९५ ॥
द्वादश्यां तु तिथौ मर्त्यः कुर्याच्छ्राद्धं महालयम् ।
तस्य लक्ष्मीपतिः साक्षात्प्रसीदति जनार्दनः ॥ ९६ ॥
प्रसन्ने सति देवेशे देवदेवे जनार्दने ॥
चराचरं जगत्सर्वं प्रीतमेव न संशयः ॥ ९७ ॥
भूमिर्हरिप्रिया चास्य सस्यं संवर्द्धयत्यपि ॥
लक्ष्मीश्च वर्द्धते तस्य मन्दिरे हरिवल्लभा ॥ ९८ ॥
गदा कौमोदकी नाम नारायणकरस्थिता ॥
अपस्मारादिभूतानि नाशयत्येव सर्वदा ॥ ९९ ॥
तीक्ष्णधारं तथा चक्रं शत्रूनस्य दहत्यपि ॥
यातुधानपिशाचादीञ्छङ्खश्चास्य व्यपोहति ॥3.1.36.१००॥
एवं सर्वात्मना पीडां वारयत्यस्य केशवः ॥
महालयं न कुर्याद्यो द्वादश्यां मनुजा धम ॥ १ ॥
तस्य क्षेत्राणि सम्पच्च विनश्यन्ति न संशयः ॥
अपस्मारादिभूतानि शत्रवश्च महाबलाः ॥२॥
यातुधानाश्च बाधन्ते तं वै विष्णुपराङ्मुखम्॥
पात्यते नरके चापि अस्थिभेदननामके॥३॥
द्वादश्यां भक्तियुक्तो यः श्राद्धं कुर्यान्महालयम् ॥
षट्शतं कल्पसाहस्रं प्रीणन्ति पितरोऽस्य वै ॥४॥
सन्ततिं चाप्यविच्छिन्नां पितरोऽस्मै ददत्यपि॥
त्रयोदश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम्॥५॥
प्रसीदत्यस्य भगवान्कन्दर्पो रतिनायकः ॥
स्रग्चन्दनादयो भोगा ललनाश्च मनोरमाः ॥६॥
कामदेवप्रसादेन तस्य सिद्ध्यन्ति सर्वदा॥
आजन्ममरणान्तं च सुखमेव स विन्दते ॥७॥
यो न कुर्यात्त्रयोदश्यां न च श्राद्धं महालयम् ॥
कामदेवोऽस्य विमुखः स्त्रियो भोगांश्च नाशयेत् ॥ ८ ॥
अङ्गारशय्याभ्रमणे नरके पातयत्यमुम् ॥
पितॄनुद्दिश्य यः कुर्यात्त्र योदश्यां महालयम् ॥ ९ ॥
सहस्रकल्पसाहस्रं प्रीणन्ति पितरोऽस्य वै ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितॄगणास्तदा ॥ 3.1.36.११० ॥
चतुर्दश्यां नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥
तस्याभीष्टप्रदानाय जागर्ति भगवाच्छिवः ॥ ११ ॥
उपदिश्य शिवज्ञानं सायुज्यं च ददात्यपि ॥
सुरापानायुतं चापि स्वर्णस्तेयायुतं तथा ॥ १२ ॥
नश्यन्ति तत्क्षणादेव चतुर्दश्यां महालयात् ॥
चण्डालवृषलस्त्रीणां सङ्गदोषोऽपि नश्यति ॥ १३ ॥
अश्वमेधसहस्रस्य पौण्डरीकायुतस्य च ॥
पुष्कला फलसिद्धिः स्याच्चतुर्दश्यां महालयात् ॥ १४ ॥
यो न कुर्याच्चतुर्दश्यां श्राद्धमेतन्महालयम् ॥
स कल्पकोटिसाहस्रं कल्पकोटिशतं तथा ॥ १५ ॥
संसारान्धमहाकूपे पतितः स्यादनिष्कृतिः ॥
अचोरयित्वा कनकमपीत्वापि सुरां तथा ॥ १६ ॥
सुरापानादिभिर्दोषैर्लिप्यते स विमूढधीः ॥
कृता अपि विधानेन यज्ञाः स्युर्निष्फलास्तथा ॥ १७ ॥
चतुर्दश्यां तिथौ यस्तु कुर्याच्छ्राद्धं महालयम् ॥
लक्षकोटिसहस्राणि लक्षकोटिशतानिच ॥१८॥
कल्पानि पितरस्तस्य तृप्यन्त्येव न संशयः ॥
नरकस्थाश्च पितरः स्वर्गं यान्ति प्रहर्षिताः ॥ १९ ॥
सन्ततिं चाप्यविच्छिन्नां दद्युः पितृगणास्तदा ॥
अमायां तु नरो भक्त्या श्राद्धं कुर्यान्महालयम् ॥ 3.1.36.१२० ॥
पितॄणां तस्य तृप्तिः स्याद नन्ता नात्र संशयः ॥
सुधामास्वाद्य या तृप्तिर्देवानान्दिवि वै भवेत् ॥ २१ ॥
अनन्ता तादृशी तृप्तिरमावास्यां महालयात् ॥
अमावास्या महापुण्या पितृदेवनमस्कृता ॥ २२ ॥
शान्ता ह्येषा तु परमा शिवस्य च महाप्रिया ॥
तस्यां महालये श्राद्धे भोजयेद्वेदवित्तमान् ॥ २३ ॥
तेन तृप्तिः पितॄणां स्यादनन्ता तुष्यते शिवः ॥
ब्रह्महत्यादयः पञ्च पातका नाशमाप्नुयुः ॥ २४ ॥
कृताश्च स्युर्विधानेन सर्वे यज्ञाः सदक्षिणाः ॥
अनुष्ठिताः स्युर्विधिवत्सर्वे धर्माः सनातनाः ॥ २५ ॥
अमावास्यादिने येन कृतं श्राद्धं महालयम् ॥
प्रत्यग्ब्रह्मैकतां ज्ञात्वा सायुज्यं यात्यसंशयम्॥ ॥ २६ ॥
यो न कुर्यादमावास्यां महालयमचेतनः ॥
ब्रह्मलोकगताश्चास्य पितरो यान्ति नारकम् ॥ २७ ॥
सन्ततिश्चास्य मूढस्य विच्छि द्येतैव तत्क्षणात् ॥
स एव हि महानर्थो यदमायां तिथौ नरैः ॥ २८ ॥
महालयार्थो विप्रेन्द्रा विधिवन्नैव भोजिताः ॥
मासि भाद्रपदे प्राप्ते नृत्यन्ति पितृदेवताः ॥ २९ ॥
अस्मानुद्दिश्य मत्पुत्रा भोजयेयुर्द्विजोत्तमान् ॥
तेन नो नरकक्लेशो न भविष्यति दारुणः ॥ 3.1.36.१३० ॥
वासश्च स्वर्गलोके स्याद्यावदाचन्द्रतारकम् ॥
मासि भाद्रपदे प्राप्ते पितॄणां तृदिदायिनी ॥ ३१ ॥
एकैकं भोजयेद्विप्रं प्रत्यहं भक्तिपूर्वकम् ॥
पितृमातृकुलोद्भूताः पितरस्तृप्तिमाप्नुयुः ॥ ३२ ॥
कृष्णपक्षे विशेषेण ब्राह्मणान्भोजयेत्सुधीः ॥
घृतसूपादिसस्यैश्च तैलाभ्यङ्गपुरःसरम् ॥ ३३ ॥
सुधां पास्यन्ति पितरस्तस्याकल्पं प्रहर्षिताः ॥
सप्तमीं कृष्णपक्षस्य प्रारभ्य प्रत्यहं नराः ॥ ३४ ॥
विप्रान्यावदमावास्या त्रींस्त्रीनभ्यर्च्य भोजयेत् ॥
आरभ्य द्वादशीं विप्रांस्त्रीनवश्यं तु भोजयेत् ॥ ३५ ॥
अन्यथैश्वर्यहानिः स्यान्महादारिद्र्यभाग्भवेत् ॥
वित्तलोभं परित्यज्य विप्रान्सूपघृतादि भिः ॥ ३६ ॥
पयसा पायसान्नेन दध्नापूपादिभिस्तथा ॥
पेयैर्लेह्यैश्च चोष्यैश्च भक्ष्यैश्च विविधैरपि ॥ ३७ ॥
भोजयेद्वेदविन्मुख्यांस्तृप्तिस्तेषां यथा भवेत् ॥
तेन ब्रह्मा हरिः शम्भुस्तृप्ताः स्युर्नात्र संशयः॥३८॥
अग्निष्वात्तादिपितरस्तथैवेन्द्रादिदेवताः ॥
बहुनात्र किमुक्तेन तुष्टं तेन जगत्त्रयम् ॥३९॥
पार्वणेन विधानेन कुर्याच्छ्राद्धे महालयम्॥
नरो महालयश्राद्धे पितृवंश्यान्पितॄनिव ॥3.1.36.१४०॥
मातृवंश्यानपि पितॄन्भोजयेच्छ्रेयसे मुदा ॥
दक्षिणां च यथाशक्ति दद्याद्वित्तानुसारतः ॥ ४१ ॥
तस्मिन्महालये श्राद्धे वित्तशाठ्यं न कारयेत् ॥
दक्षिणा खलु यज्ञानां कथितेयं पुरोगवा ॥ ४२॥
अनः पुरोगवैर्हीनं करिष्यति यथाध्वनि ॥
अदक्षिणं तथा सोयं पितृयज्ञोऽपि रिष्यति॥४३॥
तस्माद्यज्ञेषु दातव्या दक्षिणाल्पा हि जानता॥
विधवाभिरपि स्त्रीभिरपुत्राभिर्महालयः ॥ ४४ ॥
भर्त्तॄनुद्दिश्य कर्तव्यो भूरिभोजनकर्मणा ॥
अन्यथा धर्महानिः स्यान्नरकं च महद्भवेत् ॥ ४५ ॥
मासि भाद्रपदे प्राप्ते यो न कुर्यान्महालयम् ॥
तत्कुलं नाशमाप्नोति ब्रह्महत्यां च विन्दति ॥ ४६ ॥
महालयं प्रकुर्वन्ति श्रद्धावन्तः पितॄन्प्रति ॥
न तेषां सन्ततिच्छेदो भवेत्सम्पदभङ्गुरा ॥ ४७ ॥
आलयं ह्यास्पदं प्रोक्तं महः कल्याणमुच्यते ॥
कल्याणानामास्पदत्वान्महालयमुदीर्यते ॥ ४८ ॥
तस्मान्महालयं मर्त्यः कुर्यात्कल्याणसिद्धये ॥
अमङ्गलं भवेत्तस्य न कुर्याच्चेन्महालयम् ॥ ४९ ॥
नकुर्याद्यद्यपि श्राद्धं मातापित्रोर्मृतेऽहनि ॥
कुर्यान्महालयश्राद्धमस्मरन्नेव बुद्धिमान् ॥3.1.36.१५०॥
कर्तुं महालयश्राद्धं यदि शक्तिर्न विद्यते ॥
याचित्वापि नरः कुर्यात्पितृणां तन्महालयम् ॥५१॥
ब्राह्मणेभ्यो विशिष्टे भ्यो याचेत धनधान्यकम् ॥
पतितेभ्यो न गृह्णीयाद्धनधान्यं कदाचन ॥५२॥
ब्राह्मणेभ्यो न लभ्येत यदि धान्यधनादिकम् ॥
याचेत क्षत्रियश्रेष्ठा न्महालयचिकीर्षया ॥ ५३ ॥
दातारश्चेन्न भूपाला वैश्येभ्योऽपि च याचयेत् ॥
वैश्या अपि हि दातारो यदि लोके न सन्ति वै ॥ ५४ ॥
दद्याद्भाद्रपदे मासे गोग्रासं पितृतृप्तये ॥
अथ वा रोदनं कुर्याद्बहिर्निर्गत्य कानने ॥ ५५ ॥
पाणिभ्यामुदरं स्वीयमाहत्याश्रूणि वर्तयन् ॥
तेष्वरण्यप्रदेशेषु उच्चैरेवं वदेन्नरः ॥ ५६ ॥
शृण्वन्तु पितरः सर्वे मत्कुलीना वचो मम ॥
अहं दरिद्रः कृपणो निर्ल्लज्जः क्रूरकर्मकृत् ॥ ५७ ॥
प्राप्तो भाद्रपदो मासः पितृणां प्रीतिवर्द्धनः ॥
कर्त्तुं महालयश्राद्धं न च मे शक्तिरस्ति वै ॥ ५८ ॥
भ्रमित्वापि महीं कृत्स्नां न मे किञ्चन लभ्यते ॥
अतो महालयश्राद्धं न युष्माकं करोम्यहम् ॥ ५९ ॥
क्षमध्वं मम तद्यूयं भवन्तो हि दयापराः ॥
दरिद्रो रोदनं कुर्यादेवं काननभूमिषु ॥ 3.1.36.१६० ॥
तस्य रोदनमाकर्ण्य पितरस्तत्कुलोद्भवाः ॥
हृष्टास्तृप्तिं प्रयान्त्येव सुधां पीत्वैव निर्जराः ॥ ६१ ॥
महालयार्थे विप्रौघे भुक्ते तृप्तिर्यथा भवेत् ॥
गोग्रासारण्यरुदितैः पितृ तृप्तिस्तथा भवेत्॥ ६२ ॥
मासि भाद्रपदे विघ्नो यदि स्यात्सूतकादिना ॥
यातेषु सूतकाहःसु कुर्यादावृश्चिकावधि ॥ ६३ ॥
बुधो महालय स्यार्थे ब्राह्मणान्वृणुयान्नव ॥
पित्रर्थमेकं वृणुयात्पितामहकृते तथा ॥ ६४ ॥
प्रपितामहमुद्दिश्य तथैकं वृणुयाद्द्विजः ॥
तथा मातामहार्थं तु एकं वै वृणुयाद्द्विजम् ॥ ६५ ॥
मातुःपितामहार्थं च वृणुयाद्द्विजमेककम् ॥
वृणुयादेकमुद्दिश्य मातुश्च प्रपितामहम् ॥ ६६ ॥
तथैव विश्वेदेवार्थे वृणुयाद्द्वौद्वि जोत्तमौ ॥
विष्ण्वर्थं ब्राह्मणं त्वेकं वृणुयाद्वेदवित्तमम् ॥६७॥
एवं महालयश्राद्धे ब्राह्मणान्वृणुयान्नव ॥
अथवा पितृवर्गार्थं वरयेद्विप्रमेककम् ॥ ६८ ॥
मातामहादीन्वोद्दिश्य वरयेद्विप्रमेककम् ॥
विश्वेदेवार्थमेकं च विष्ण्वर्थं च तथापरम् ॥ ६९ ॥
एवं वै वरयेद्विप्राश्चतुरस्तु महालये ॥
ब्राह्मणान्वेदसम्पन्नान्सुशीलान्वरयेत्सुधीः ॥ 3.1.36.१७० ॥
दुःशीलान्वरयेद्यस्तु स वै श्राद्धस्य घातकः ॥
मासि भाद्रपदे प्राप्ते कृष्णपक्षे विशेषतः ॥ ७१ ॥
कुर्या न्महालयश्राद्धं यो नरः श्रद्धया सह ॥
स स्नातः सर्वतीर्थेषु दुराचार महामते ॥ ७२ ॥
अग्निष्टोमादयो यज्ञाः शतमप्यमुना कृताः ॥
तुलापुरुषमुख्यानि दानान्यपि कृतानि वै ॥ ७३ ॥
चान्द्रायणादिकृच्छ्राणि कृतान्येव न संशयः ॥
चतुर्णां साङ्गवेदानां पारायणफलं लभेत् ॥ ॥ ७४ ॥
गायत्र्यादिमहामन्त्रजपपुण्यं लभेत्तथा ॥
इतिहासपुराणानां पारायणफलं लभेत् ॥ ७५ ॥
महालयसमं पुण्यं वृत्तं नास्ति महीतले ॥
ब्रह्मविष्णुमहेशानलोकप्राप्तिर्महालयात् ॥ ७६ ॥
महालयादिकं श्राद्धं नित्यं काम्यमपीष्यते ॥
तस्मादकरणे तस्य प्रत्यवायो महान्भवेत् ॥ ७७ ॥
करणादिष्टसिद्धिश्च भविष्यति न संशयः ॥
महालयस्य करणाद्भूतवेतालकादयः ॥ ७८ ॥
अपस्मारग्रहाश्चापि शाकिनीडाकिनीगणाः ॥
यातुधानाः पिशाचाश्च वेतालाश्च भयानकाः ॥ ७९ ॥
नश्यन्ति तत्क्षणादेव भूतान्यन्यानि वै तथा ॥
महालयस्यकरणाद्विपुलां श्रियमश्नुते ॥ 3.1.36.१८० ॥
पुरा दशरथो राजा वसिष्ठस्योपदेशतः ॥
मासि भाद्रपदे प्राप्ते कृत्वा श्राद्धं महालयम् ॥ ८१ ॥
रामादींश्च तुरः पुत्रान्प्राप्तवांल्लोकसम्मतान् ॥
विश्वातिशायिनीं लक्ष्मीं प्रपेदे कीर्तिमुत्तमाम् ॥ ८२ ॥
महालयस्य करणाद्ययाती राजसत्तमः ॥
यदुमुख्यान्महापुत्रान्प्रपेदे वंशवर्द्धनान् ॥ ८३ ॥
अनन्यदुर्लभं स्वर्गं प्रपेदे श्राद्धपुण्यतः ॥
दुष्यन्तो भरतं लेभे महालयविधानतः ॥ ८४ ॥
महालय विधानेन दमयन्तीपतिर्नलः ॥
कृच्छ्रं महत्तरं तीर्त्वा पुनर्लेभे महीमिमाम् ॥ ८५ ॥
निजग्राह कलिं घोरं पुष्करं चाप्यरातिनम् ॥
इन्द्रसेनाभिधानं च पुत्रं लेभेऽतिधार्मिकम् ॥ ८६ ॥
हरिश्चन्द्रो महाराजो महालयविधानतः ॥
विश्वामित्रकृताद्दुःखान्मुक्तः सत्यवतां वरः ॥ ८७ ॥
लेभे चन्द्रवतीं भार्यां लोहिताश्वं सुतं पुनः ॥
महालयविधानेन कृतवीर्यसुतो बली ॥ ८८ ॥
अष्टादशानां द्वीपानामाधिपत्यमवाप्तवान् ॥
रामोऽपि दण्डकारण्ये महालयविधानतः ॥ ८९ ॥
हत्वा तु रावणं सङ्ख्ये सीतां पुनरवाप्तवान् ॥
महालयस्य करणाद्धर्मपुत्रो युधिष्ठिरः ॥ 3.1.36.१९० ॥
दुःखसागरमुत्तीर्य धार्तराष्ट्राञ्जघान च ॥
महालयस्यकरणाद्वसिष्ठो मुनिसत्तमः ॥ ९१ ॥
अत्रिर्भृगुश्च कुत्सश्च गौतमश्चाङ्गिरास्तथा ॥
कश्यपश्च भरद्वाजो विश्वा मित्रश्च कुम्भजः ॥ ९२ ॥
पराशरो मृकण्डश्च ये चान्ये मुनिसत्तमाः ॥
विधाय विधिवच्छ्राद्धं महालयमनुत्तमम् ॥ ९३ ॥
अणिमाद्यष्टसिद्धीनां व्रतानां तपसां तथा ॥
निवासभूता सञ्जातास्तथा विश्वातिशायिनः ॥ ९४ ॥
जीवन्मुक्ताश्च ते सर्वे ह्यभवन्मुनिसत्तमाः ॥
अतो महालयश्राद्धं कर्तव्यं भूतिमिच्छता ॥ ९५ ॥
अतोऽद्यापि दुराचार न कुर्याद्यो महालयम् ॥
भूतवेतालकादिभ्यो भूयात्तस्य महद्भयम् ॥ ९६ ॥
महालयस्या करणाद्वेतालत्वमवाप्नुयात् ॥
त्वयाविष्टमिदं भूतं विप्रः सन्पूर्वजन्मनि ॥ ९७ ॥
नाम्ना वेदनिधिः पुण्यो भरद्वाजस्य चात्मनः ॥
कुशस्थल्यभिधाने च वसन्ग्रामे महामनाः ॥ ९८ ॥
न चकार विधानेन श्राद्धमेतन्महालयम् ॥
ततोयं पितृणां शापाद्वेतालत्वमवाप्तवान् ॥ ९९ ॥
तस्माद्भाद्र पदे मासे दुराचार पितॄन्प्रति ॥
ब्राह्मणान्भोजयान्नेन षड्रसेन सभक्तिकम् ॥ 3.1.36.२०० ॥
दारिद्र्यं तेन ते न स्यात्सुखीचैव भवान्भवेत् ॥
महापातकि संसर्गं मा कुरु त्वमितः परम् ॥ १ ॥
त्वयानुभूतं यद्दुःखं वेतालग्रहणोद्भवम् ॥
गच्छ त्वमनुजानामि स्वदेशं प्रति मा चिरम् ॥ २ ॥
इतीरितः स मुनिना दत्तात्रेयेण योगिना ॥
तं प्रणम्य ययौ देशं कृतार्थेनान्तरात्मना ॥ ३ ॥
गत्वा च स्वगृहं विप्रो दुराचारो द्विजोत्तमाः ॥
विमुक्तवेताल भयो गतपातककञ्चुकः ॥ ४ ॥
दत्तात्रेयेरितेनासौ मार्गेण प्रीतमानसः ॥
त्यक्तपातकिसंसर्गः स्वाश्रमाचारतत्परः ॥ ५ ॥
रामचन्द्रधनुष्कोटितीर्थ मज्जनगौरवात् ॥
देहान्ते परमां मुक्तिं दुराचारो ययौ तदा ॥ ६ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं पुण्यं दुराचरविमोक्षणम् ॥
सेयं पुण्या धनुष्कोटिर्महापातकनाशिनी ॥ ७ ॥
यत्र हि स्नानमात्रेण दुराचारो विमोचितः ॥
अथवा धनुषः कोटेरियत्ता किं हि वै भवेत् ॥ ८ ॥
या निष्कृतिविहीनानि पापान्यपि विनाशयेत् ॥
प्रायश्चित्तविहीनानि यानि पापानि सन्ति वै ॥ ९ ॥
तान्यप्यत्र विनश्यन्ति धनुष्कोटौ निमज्जनात् ॥
शूद्रेण पूजितं लिङ्गं विष्णुं वा यो नमेद्द्विजः ॥ 3.1.36.२१० ॥
प्रायश्चित्तं न तस्योक्तं स्मृतिभिः परमर्षिभिः ॥
नश्येत्तस्यापि तत्पापं धनुष्कोटिनिमज्ज नात् ॥ ११ ॥
विप्रनिन्दाकृतां नृणां प्रायश्चित्तं न विद्यते ॥
विश्वासघातकानां च कृतघ्नानां न निष्कृतिः ॥ १२ ॥
भ्रातृभार्यारतानां च प्रायश्चित्तं न विद्यते ॥
शूद्रान्ने नियतानां च श्रुतिनिन्दारतात्मनाम् ॥ १३ ॥
कन्याविक्रयिणां विप्रा हयविक्रयिणां तथा ॥
देवविक्रयिणां वेदविक्रये निर तात्मनाम्॥१४॥
धर्मविकयिणां पुंसां व्रतविक्रयिणां तथा ॥
तीर्थविक्रयिणां पुंसां प्रायश्चित्तं न विद्यते ॥१५॥
तेषां पापानि नश्यन्ति धनुष्कोटौ निम ज्जनात् ॥
मातृद्रोहपितृद्रोहयतिद्रोहरतात्मनाम् ॥१६॥
गुरुनिन्दापराणां च शिवनिन्दारतात्मनाम् ॥
विष्णुनिन्दापराणां च यतिनिन्दारतात्मनाम् ॥ ॥ १७ ॥
सत्कथादूषकाणां च प्रायश्चित्तं न विद्यते ॥
तेषां चात्र धनुष्कोटौ स्नानाच्छुद्धिर्भविष्यति ॥ १८ ॥
एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥ २१९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां दुराचारसंसर्गदोषशान्तिवर्णनन्नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥