०३५ सृगालवानरविमोक्षणवर्णनम्

॥ यज्ञदेव उवाच ॥ ॥
दुर्वासर्षे महाप्राज्ञ परापरविचक्षण ॥
दुर्विनीताभिधः कोऽयं योऽसौ गुर्वङ्गनामगात् ॥ १ ॥
कस्य पुत्रो धनुष्कोटौ स्नानेन स कथं द्विजः ॥
तत्क्षणान्मुमुचे पापाद्गुरुस्त्रीगमसम्भवात् ॥
एतन्मे श्रद्धधानस्य विस्तराद्वक्तुमर्हसि ॥ २ ॥
॥ दुर्वासा उवाच ॥ ॥
पाण्ड्यदेशे पुरा कश्चिद्ब्राह्मणोभूद्बहुश्रुतः ॥ ३ ॥
इध्मवाहाभिधो नाम्ना तस्य भार्या रुचिंस्तथा ॥
बभूव तस्य तनयो दुर्विनीताभिधो द्विजः ॥ ४ ॥
बाल्ये वयसि पुत्रस्य ममार जनकोऽस्य ३ ॥
दुर्विनीतः पितुस्तस्य स कृत्वा चौर्ध्वदैहिकम्॥ ५ ॥
कञ्चित्कालं गृहेऽवात्सीन्मात्रा विधवया सह ॥
ततो दुर्भिक्षमभवद्वादशाब्दमवर्षणात् ॥ ६ ॥
ततो देशान्तरमगान्मात्रा साकं द्विजोत्तम ॥
गोकर्णं स समासाद्य सुभिक्षं धान्यसञ्चयैः ॥ ७ ॥
उवास सुचिरं कालं मात्रा विधवया सह ॥
ततो बहुतिथे काले दुर्विनीतो गते सति ॥ ८ ॥
पूर्वदुष्कर्मपाकेन मूढबुद्धिरहो बत ॥
अनङ्गशरविद्धाङ्गो रागाद्विकृतमानसः ॥९॥
मामेति वादिनीमम्बां बलादाकृष्य पातकी ॥
बुभुजे काममोहात्मा मैथुनेन द्विजोत्तम ॥ 3.1.35.१० ॥
स खिन्नो दुर्विनीतोऽयं रेतःसेकादनन्तरम् ॥
मनसा चिन्तयन्पापं रुरोदभृशदुःखितः ॥ ११ ॥
अहोतिपापकृदहं महापातकिनां वरः ॥
अगमं जननीं यस्मात्कामबाणवशानुगः ॥ १२ ॥
इति सञ्चित्य मनसा स तत्र मुनिसन्निधौ ॥
जुगुप्तमानश्चात्मानं तान्मुनीनिदमब्रवीत्॥ १३ ॥
गुरुस्त्रीगमपापस्य प्रायश्चित्तं ममद्विजाः ॥
वदध्वं शास्त्रतत्त्वज्ञाः कृपया मयि केवलम् ॥ १४ ॥
मरणान्निष्कृतिः स्याच्चेन्मरिष्यामि न संशयः ॥
भवद्भिरुच्यते यत्तु प्रायश्चित्तं ममाधुना ॥ १५ ॥
करिष्ये तद्द्विजाः सत्यं मरणं वान्यदैव वा ॥
तच्छ्रुत्वा वचनं तस्य केचित्तत्रमुनीश्वराः ॥ १६ ॥
अनेन साकं वार्ता तु दोषायेति विनिश्चिताः ॥
मौनित्वं भेजिरे केचिन्मुनयः केचिदा भृशम् ॥ १७ ॥
दुष्टात्मा मातृगामी त्वं महापातकिनां वरः ॥
गच्छगच्छेतिबहुशो वाचमूचुर्द्विजोत्तमाः ॥ १८ ॥
तान्निवार्य कृपाशीलः सर्वज्ञः करुणानिधिः ॥
कृष्णद्वैपायनस्तत्र दुर्विनीतमभाषत ॥ १९ ॥
गच्छाशु रामसेतौ त्वं धनुष्कोटौ सहाम्बया ॥
मकरस्थे रवौ माघे मासमेकं निरन्तरम्॥ 3.1.35.२० ॥
जितेन्द्रियो जितक्रोधः परद्रोहविवर्जितः ॥
एकमासं निराहारः कुरु स्नानं सहाम्बया ॥ २१ ॥
पूतो भविष्यस्यद्धा गुरुस्त्री गमदोषतः ॥
यत्पातकं न नश्येत सेतुस्नानेन तन्नहि ॥ २२ ॥
श्रुतिस्मृतिपुराणेषु धनुष्कोटिप्रशंसनम् ॥
बहुधा भण्यते पञ्चमहापातकनाशनम् ॥ ॥ २३ ॥
तस्मात्त्वं त्वरया गच्छ धनुष्कोटिं सहाम्बया ॥
प्रमाणं कुरु मद्वाक्यं वेदवाक्यमिव द्विज ॥ २४ ॥
श्रीरामधनुषः कोटौ स्नातस्य द्विज पुत्रक ॥
महापातककोट्योपि नैव लक्ष्या इतीव हि ॥ २५ ॥
प्रायश्चित्तान्तरं प्रोक्तं मन्वादिस्मृतिभिः स्मृतौ ॥
तद्गच्छत्वं धनुष्कोटिं महापातक नाशिनीम् ॥ २६ ॥
इतीरितोऽथ व्यासेन दुर्विनीतोद्विजोत्तमाः ॥
मात्रा साकं धनुष्कोटिं नत्वा व्यासं च निर्ययौ ॥ २७ ॥
मकरस्थे रवौ माघे मासमात्रं निरन्तरम् ॥
मात्रा सह निराहारो जितक्रोधो जितेन्द्रियः ॥ २८ ॥
श्रीरामधनुषः कोटौ सस्नौ सङ्कल्पपूर्वकम् ॥
रामनाथं नमस्कुर्वं स्त्रिकालं भक्तिपूर्वकम् ॥ २९ ॥
मासान्ते पारणां कृत्वा मात्रा सह विशुद्धधीः ॥
व्यासान्तिकं पुनः प्रायात्तस्मै वृत्तं निवेदितुम् ॥ 3.1.35.३० ॥
स प्रणम्य पुनर्व्यासं दुर्विनीतोऽब्रवीद्वचः ॥ ३१ ॥
॥ दुर्विनीत उवाच ॥ ॥
भगवन्करुणासिन्धो द्वैपायन महत्तम ॥
भवतः कृपया रामधनुष्कोटौ सहाम्बया ॥
माघमासे निराहारो मासमात्रमतन्द्रितः ॥ ३२ ॥
अहं त्वकरवं स्नानं नमस्कुर्वन्महेश्वरम् ॥
इतः परं मया व्यास भगवन्भक्तवत्सल ॥ ३३ ॥
यत्कर्त्तव्यं मुने तत्त्वं ममोपदिश तत्त्वतः ॥
इति तस्य वचः श्रुत्वा दुर्विनीतस्य वै मुनिः ॥
बभाषे दुर्विनीतं तं व्यासो नारायणांशकः ॥ ३४ ॥
॥ व्यास उवाच ॥ ॥
दुर्विनीत गतं तेऽद्य पातकं मातृसङ्गजम् ॥ ३५ ॥
मातुश्च पातकं नष्टं त्वत्सङ्गतिनिमि त्तजम् ॥
सन्देहो नात्र कर्तव्यः सत्यमुक्तं मया तव ॥ ३६ ॥
बान्धवाः स्वजनाः सर्वे तथान्ये ब्राह्मणाश्च ये ॥
सर्वे त्वां सङ्ग्रहीष्यन्ति दुर्विनीतां बया सह ॥ ३७ ॥
मत्प्रसादाद्धनुष्कोटौ विशुद्धस्त्वं निमज्जनात् ॥
दारसङ्ग्रहणं कृत्वा गार्हस्थ्यं धर्ममाचर ॥ ३८ ॥
त्यज त्वं प्राणिहिंसां च धर्मं भज सनातनम् ॥
सेवस्व सज्जनान्नित्यं भक्तियुक्तेन चेतसा ॥ ३९ ॥
सन्ध्योपासनमुख्यानि नित्यकर्माणि न त्यज ॥
निगृहीष्वेन्द्रियग्राममर्चयस्व हरं हरिम् ॥ 3.1.35.४० ॥
परापवादं मा ब्रूया मासूयां भज कर्हिचित् ॥
अन्यस्याभ्युदयं दृष्ट्वा सन्तापं कृणु मा वृथा ॥ ४१ ॥
मातृवत्परदा रांश्च त्वन्नित्यमवलोकय ॥
अधीतवेदानखिलान्माविस्मर कदाचन ॥ ४२ ॥
अतिथीन्मावमन्यस्व श्राद्धं पितृदिने कुरु ॥
पैशून्यं मा वदस्व त्वं स्वप्नेऽप्यन्स्य कर्हिचित् ॥ ४३ ॥
इतिहासपुराणानि धर्मशास्त्राणि सन्ततम् ॥
अवलोकय वेदान्तं वेदाङ्गानि तथा पुनः ॥ ४४ ॥
हरिशङ्करना मानि मुक्तलज्जोऽनुकीर्त्तय ॥
जाबालोपनिषन्मन्त्रैस्त्रिपुण्ड्रोद्धूलनं कुरु ॥ ४५ ॥
रुद्राक्षान्धारय सदा शौचाचारपरो भव ॥
तुलस्या बिल्वपत्रैश्च नारायणहरावुभौ ॥ ४६ ॥
एकं कालं द्विकालं वा त्रिकालं चार्चयस्य भोः ॥
तुलसीदलसम्मिश्रं सिक्तं पादोदकेन च ॥ ४७ ॥
नैवेद्यान्नं सदा भुङ्क्ष्व शम्भुनारायणाग्रतः ॥
कुरु त्वं वैश्वदेवाख्यं बलिमन्नविशुद्धये ॥ ४८ ॥
यतीश्वरान्ब्रह्मनिष्ठान्तर्पयान्नैर्गृहागतान् ॥
वृद्धानन्याननाथांश्च रोगिणो ब्रह्मचारिणः ॥ ४९ ॥
कुरु त्वं मातृशुश्रूषामौपासनपरो भव ॥
पञ्चाक्षरं महामन्त्रं प्रणवेन समन्वितम् ॥ 3.1.35.५० ॥
तथैवाष्टाक्षरं मन्त्रमन्यमन्त्रानपि द्विज ॥
जप त्वं प्रयतो भूत्वा ध्यायन्मन्त्राधिदेवताः ॥ ५१ ॥
एवमन्यांस्तथा धर्मान्स्मृत्युक्तान्त्सर्वदा कुरु ॥
एवं कृतव्रतस्ते स्याद्देहान्ते मुक्तिरप्यलम् ॥ ५२ ॥
इत्युक्तो व्यासमुनिना दुर्विनीतः प्रणम्य तम् ॥
तदुक्तमखिलं कृत्वा देहान्ते मुक्तिमाप्तवान् ॥ ५३ ॥
तन्मातापि मृता काले धनुष्कोटिनिमज्जनात ॥
अवाप परमां मुक्तिमपुनर्भवदायिनीम् ॥ ५४ ॥
॥ दुर्वासा उवाच ॥ ॥
एवं ते दुर्विनीतस्य तन्मातुश्च विमोक्षणम् ॥
धनुष्कोट्यभिषेकेण यज्ञदेव मयेरितम् ॥ ५५ ॥
पुत्रमेनं त्वमप्याशु ब्रह्महत्याविशुद्धये ॥
समादाय व्रज ब्रह्मन्धनुष्कोटिं विमुक्तिदाम् ॥ ५६ ॥
॥ सिन्धुद्वीप उवाच ॥ ॥
इति दुर्वाससा प्रोक्तो यज्ञदेवो निजं सुतम् ॥
समादाय ययौ राम धनुष्कोटिं विमुक्तिदाम् ॥ ५७॥ ॥
गत्वा निवासमकरोत्षण्मासं तत्र स द्विजः ॥
पुत्रेण साकं नियतो हे सृगालप्लवङ्गमौ ॥ ५८ ॥
स सस्नौ च धनुष्कोटौ षण्मासं वै स पुत्रकः ॥
षण्मासान्ते यज्ञदेवं प्राह वागशरीरिणी ॥ ५९ ॥
विमुक्ता यज्ञदेवस्य ब्रह्महत्या सुतस्य ते ॥
स्वर्णस्तेयात्सुरापानात्किरातीसङ्गमात्तथा ॥ 3.1.35.६० ॥
अन्येभ्योपि हि पापेभ्यो विमुक्तोयं सुतस्तव ॥
संशयं मा कुरुष्व त्वं यज्ञदेव द्विजोत्तम ॥ ६१ ॥
इत्युक्त्वा विररामाथ सा तु वाग शरीरिणी ॥
तदाऽशरीरिणीवाक्यं यज्ञदेवः स शुश्रुवान् ॥ ६२ ॥
सन्तुष्टः पुत्रसहितो रामनाथं निषेव्य च ॥
धनुष्कोटिं नमस्कृत्य पुत्रेण सहि तस्तदा ॥ ६३ ॥
स्वदेशं प्रययौ हृष्टः स्वग्रामं स्वगृहं तथा ॥
सपुत्रदारः सुचिरं सुखमास्ते सुनिर्वृतः ॥ ६४ ॥
॥ सिन्धुद्वीप उवाच ॥ ॥
गोमायुवानरावेवं युवयोः कथितं मया ॥
यज्ञदेवसुतस्यास्य सुमतेः परिमोक्षणम् ॥६५॥
पातकेभ्यो महद्भ्यश्च धनुष्कोटौ निमज्जनात् ॥
युवामतो धनुष्कोटिं गच्छतं पापशुद्धये ॥
नान्यथा पापशुद्धिः स्यात्प्रायश्चित्तायुतैरपि ॥६६॥
॥ श्रीसूत उवाच ॥ ॥
सिन्धुद्वीपस्य वचनमिति श्रुत्वा द्विजो त्तमाः॥६७॥
सृगालवानरावाशु विलङ्घितमहापथौ॥
धनुष्कोटिं प्रयासेन गत्वा स्नात्वा च तज्जले॥६८॥
विमुक्तौ सर्वपापेभ्यो विमानवरसंस्थितौ॥
देवैः कुसुमवर्षेण कीर्यमाणौ सुतेजसौ ॥६९॥
हारकेयूरमुकुटकटकादिविभूषितौ ॥
देवस्त्रीधूयमानाभ्यां चामराभ्यां विराजितौ ॥
गत्वा देवपुरीं रम्यामिन्द्र स्यार्द्धासनं गतौ ॥ 3.1.35.७० ॥
॥ श्रीसूत उवाच ॥ ॥
युष्माकमेवं कथितं सृगालस्य कपेरपि ॥ ७१ ॥
पापाद्विमोक्षणं विप्रा धनुष्कोटौ निमजनात् ॥
भक्त्या य इममध्यायं शृणोति पठतेऽपि वा ॥७२॥
स्नानजं फलमाप्नोति धनुष्कोटौ स मानवः ॥
योगिवृन्दैरसुलभां मुक्तिमप्याशु विन्दति ॥७३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरविमोक्षणवर्णनन्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥