०३४ विमोक्षोपायकथनम्

॥ श्रीसूत उवाच ॥ ॥
इतिहासं पुनर्वक्ष्ये धनुष्कोटिप्रशंसनम् ॥
सृगालस्य च संवादं वानरस्य च सत्तमाः॥ ॥१॥
सृगालवानरौ पूर्वमास्तां जातिस्मरावुभौ॥
पुरापि मानुषे भावे सखायौ तौ बभूवतुः॥२॥
अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥
सख्यं समीयतुरुभौ सृगालो वानरो द्विजाः ॥ ३ ॥
कदाचिद्रुद्रभूमिष्ठं सृगालं वानरोऽब्रवीत् ॥
श्मशानमध्ये सम्प्रेक्ष्य पूर्वजातिमनुस्मरन् ॥ ४ ॥
॥ वानर उवाच ॥ ॥
सृगाल पातकं पूर्वं किमकार्षीः सुदारुणम् ॥
यस्त्वं श्मशाने मृतकान्पूतिगन्धांश्च कुत्सितान् ॥
अत्सीत्युक्तोऽथ कपिना सृगालस्तमभाषत ॥ ५ ॥
॥ सृगाल उवाच ॥ ॥
अहं पूर्वभवे ह्यासं ब्राह्मणो वेदपारगः ॥ ६ ॥
वेदशर्माभिधो विद्वान्सर्वकर्मकलापवित् ॥
ब्राह्मणाय प्रतिश्रुत्य न मया तत्र जन्मनि ॥ ७ ॥
कपे धनं तदा दत्तं सृगालोऽहं ततोऽभवम्॥
तस्मादेवंविधं भक्ष्यं भक्षयाम्यतिकुत्सितम् ॥ ८ ॥
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥
कपे सृगालयोनिं ते प्राप्नुवन्त्यतिकुत्सिताम् ॥ ९ ॥
यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ॥
सर्वाशास्तस्य नष्टाः स्युः षण्ढस्येव प्रजोद्भवः ॥ 3.1.34.१० ॥
प्रतिश्रुत्याप्रदाने तु ब्राह्मणाय प्लवङ्गम ॥
दशजन्मार्जितं पुण्यं तत्क्षणादेव नश्यति ॥ ११ ॥
प्रतिश्रुत्याप्रदानेन यत्पापमुपजायते ॥
नाश्वमेधशतेनापितत्पापं परिशुध्यति ॥ १२ ॥
न जानेहमिदं पापं कदा नष्टं भवेदिति ॥
तस्मात्प्रतिश्रुतं द्रव्यं दातव्यं विदुषा सदा ॥ १३ ॥
प्रतिश्रुत्याप्रदानेन सृगालो भवति ध्रुवम् ॥
तस्मात्प्राज्ञेन विदुषा दातव्यं हि प्रतिश्रुतम् ॥ १४ ॥
इत्युक्त्वा स सृगालस्तं वानरं पुनरब्रवीत् ॥
भवता किं कृतं पापं येन वानरतामगात् ॥ १५ ॥
अनागसो वनचरान्पक्षिणो हिंसि वानर ॥
तत्पातकं वदस्वाद्य वानरत्वप्रदं मम ॥
इत्युक्तः स सृगालेन सृगालं वानरोऽब्रवीत् ॥ १६ ॥
॥ वानर उवाच ॥ ॥
पुरा जन्मन्यहं विप्रो वेदनाथ इति स्मृतः ॥ ॥ १७ ॥
विश्वनाथो मम पिता ममाम्बा कमलालया ॥
सृगाल सख्यमभवदावयोः प्राग्भवेऽपि हि ॥ १९ ॥
त्वं न जानासि तत्सर्वं वेद्म्यहं पुण्य गौरवात् ॥
तपसाराध्य गिरिशं तत्प्रसादात्पुरा मम ॥ १९ ॥
अतीतभाविविज्ञानमस्ति जन्मान्तरेऽपि च ॥
गोमायो तद्भवे शाकं ब्राह्मणस्य हृतं मया ॥ 3.1.34.२० ॥
तत्पापाद्वानरो जातो नरकानुभवादनु ॥
नाहर्तव्यं विप्रधनं हरणान्नरकं भवेत् ॥ २१ ॥
अनन्तरं वानरत्वं भविष्यति न संशयः ॥
तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा ॥ २२ ॥
ब्रह्मस्वहरणात्पापमधिकं नैव विद्यते ॥
पीतवन्तं विषं हन्ति ब्रह्मस्वं सकुलं दहेत् ॥ २३ ॥
ब्रह्मस्वहरणात्पापी कुम्भीपाकेषु पच्यते ॥
पश्चान्नरकशेषेण वानरीं योनिमश्नुते ॥ २४ ॥
विप्रद्रव्यं न हर्तव्यं क्षन्तव्यं तेष्वतः सदा ॥
बाला दरिद्राः कृपणा वेदशास्त्रादिवर्जिताः ॥ २५ ॥
ब्राह्मणा नावमन्तव्याः क्रुद्धाश्चेदनलोपमाः ॥
अतीतानागतं ज्ञानं सृगालाखिलमस्ति मे ॥ २६ ॥
ज्ञानमस्ति न मे त्वेकमेतत्पापविशोधनम्॥
जातिस्मरोऽपि हि भवान्भाविकार्यं न बुध्यते ॥२७ ॥
अतीतेष्वपि किञ्चिज्ज्ञः प्रतिबन्धवशाद्भवान् ॥
अतो भवान्न जानीते भाव्यतीतं तथाखिलम् ॥ २८ ॥
कियत्कालं सृगालातो भुक्ता व्यसनमीदृशम् ॥
आवयोरस्य पापस्य को वा मोचयिता भवेत् ॥ ॥ २९ ॥
एवं प्रब्रुवतोस्तत्र प्लवङ्गमसृगालयोः॥
यदृच्छया दैवयोगात्पूर्वपुण्यवशाद्द्विजाः ॥3.1.34.३०॥
आययौ स महातेजाः सिन्धुद्वीपाह्वयो मुनिः॥
भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ ३१॥
रुद्राक्षमालाभरणः शिवनामानि कीर्तयन् ॥
सृगालवानरौ दृष्ट्वा सिन्धुद्वीपाभिधं मुनिम् ॥
प्रणम्य मुदि तौ भूत्वा पप्रच्छतुरिदं तदा ॥ ३२ ॥
॥ सृगालवानरावूचतुः ॥ ॥
भगवन्सर्वधर्मज्ञ सिन्धुद्वीप महामुने ॥ ३३ ॥
आवां रक्ष कृपादृष्ट्या विलोकय मुहुर्मुदा ॥
कपित्वं च सृगालत्वमावयोर्येन नश्यति ॥ ३४ ॥
तमुपायं वदस्वाद्य त्वं हि पुण्यवतां वरः ॥
अनाथान्कृपणानज्ञान्बालान्रोगातुराञ्जनान् ॥ ३५ ॥
रक्षन्ति साधवो नित्यं कृपया निरपेक्षकाः ॥
ताभ्यामितीरितः प्राज्ञः सिन्धुद्वीपो महामुनिः ॥
प्राह तौ कपिगोमायू ध्यात्वा तु मनसा चिरम् ॥ ३६ ॥
॥ सिन्धुद्वीप उवाच ॥ ॥
जानाम्यहं युवां सम्यग्घे सृगालप्लवङ्गमौ ॥ ३७ ॥
सृगाल प्राग्भवे त्वं वै वेदशर्माभिधो द्विजः ॥
ब्राह्मणाय प्रतिश्रुत्य धान्यानामाढकं त्वया ॥ ३८ ॥
न दत्तं तेन पापेन सार्गालीं योनिमाप्तवान् ॥
त्वं च वानर पूर्वस्मिन्वेदनाथाभिधो द्विजः ॥ ३९ ॥
ब्राह्मणस्य गृहाच्छाकं हृतं चौर्यात्त्वया तत ॥
प्राप्तोसि वानरीं योनिं सर्वपक्षिभयङ्करीम् ॥ 3.1.34.४० ॥
युवयोः पापशान्त्यर्थमुपायं प्रवदाम्यहम् ॥
दक्षिणाम्बुनिधौ रामधनुष्कोटौ युवामरम् ॥ ४१ ॥
गत्वात्र कुरुतं स्नानं तेन पापाद्विमोक्ष्यथः ॥
पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥
पीतवान्त्स धनुष्कोटौ स्नात्वा पापाद्विमोचितः ॥ ४२ ॥
॥ सृगाल वानरावूचतुः ॥ ॥
सुमतिः कस्य पुत्रोऽसौ कथं च स सुरां पपौ ॥ ४३ ॥
कथं किरात्यां सक्तोऽभूत्सिन्धुद्वीप महामते ॥
आवयोर्विस्तरादेतद्वद त्वं कृपायाधुना ॥ ४४ ॥
॥ सिन्धुद्वीप उवाच ॥ ॥
महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥
यज्ञदेव इति ख्यातो वेदवेदाङ्गपारगः ॥ ४५ ॥
दयालुरातिथेयश्च शिवनारायणार्चकः ॥
सुमतिर्नाम पुत्रोऽभूद्यज्ञदेवस्य तस्य वै ॥ ४६ ॥
पितरौ स परित्यज्य भार्यामपि पतिव्रताम् ॥
प्रययावुत्कले देशे विटगोष्ठीपरायणः ॥ ४७ ॥
काचित्किराती तद्देशे वसन्ती युवमोहिनी ॥
यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ॥ ४८ ॥
तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥
सुमतिं सा न जग्राह किराती निर्धनं द्विजम् ॥ ४९ ॥
तया त्यक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥ 3.1.34.५० ॥
दत्त्वा तया चिरं रेमे तद्ग्रहे बुभुजे च सः ॥
एकेन चषकेणासौ तया सह सुरां पपौ ॥ ५१ ॥
एवं स बहुकालं वै रममाणस्तया सह ॥
पितरौ निजपत्नीं च नास्मरद्विषयातुरः ॥ ५२ ॥
स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥
द्रव्यं हर्तुं किरातास्ते लाटानां विषयं ययुः ॥५३॥
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक्॥
ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ॥ ५४ ॥
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसी ॥
समादाय बहु द्रव्यं किरातीभवनं ययौ ॥ ५५ ॥
तं यान्तमनुयाति स्म ब्रह्महत्या भयङ्करी ॥
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥ ५६ ॥
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥
अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ॥ ५७ ॥
एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ॥
स्वं ग्रामं प्रययौ भीत्या हे सृगालप्लवङ्गमौ ॥ ५८ ॥
अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ॥
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥ ५९ ॥
पितरं रक्ष रक्षेति सुमतिः शरणं ययौ ॥
मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥
तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ॥ 3.1.34.६० ॥ ।
। ब्रह्महत्योवाच ॥ ॥
मैनं त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ॥ ६१ ॥
असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥
मातृद्रोही पितृद्रोही भार्यात्यागी च पापकृत् ॥ ६२ ॥
किरातीसङ्गदुष्टश्च नैनं मुञ्चाम्यहं द्विज ॥
गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ॥ ६३ ॥
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥
भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ॥ ॥ ६४ ॥
इमं त्यजसि चेत्पुत्रं युष्मान्मोक्ष्यामि साम्प्रतम् ॥
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥
इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥ ६५ ॥
॥ यज्ञदेव उवाच ॥ ॥
बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥
ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ॥ ६६ ॥
॥ ब्रह्महत्योवाच ॥ ॥
अयं हि पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ॥ ६७ ॥
पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं तस्य दर्शनम्॥
इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ॥ ६८ ॥
तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ॥
रुरोद तात तातेति पितरं प्रब्रुवन्मुहुः ॥ ६९ ॥
रुरुदुर्जनको माता भार्यापि सुमतेस्तदा ॥
एतस्मिन्नन्तरे तत्र दुर्वासाः शङ्करांशजः ॥ 3.1.34.७० ॥
दिष्टवा समाययौ योगी हे सृगालप्लवङ्गमौ ॥
यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्॥
श्रुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥ ७१ ॥
॥ पितोवाच ॥ ॥
दुर्वासस्त्वं महायोगी साक्षाद्वै शङ्करांशजः ॥ ७२ ॥
त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥ ७३ ॥
एनं प्रहर्तुमायाता ब्रह्महत्या विवर्तते ॥
भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ॥ ७४ ॥
घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥ ७९ ॥
अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥
अस्मिन्मृते तु वंशो मे समुच्छिद्येत्समूलतः ॥ ७६ ॥
ततः पितृभ्यः पिण्डानां दातापि न भवेद्ध्रुवम् ॥
अतः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥ ७७ ॥
इत्युक्तः स तदोवाच दुर्वासाः शङ्करांशजः ॥
ध्यात्वा तु सुचिरं कालं यज्ञदेवं द्विजोत्तमम् ॥ ७८ ॥
॥ दुर्वासा उवाच ॥ ॥
य़ज्ञदेव कृतं पापमतिक्रूरं सुतेन ते ॥
नास्य पापस्य शान्तिः स्यात्प्रायश्चित्तायुतैरपि ॥ ७९ ॥
अथापि ते सुतस्याहमस्य पापस्य शान्तये ॥
प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ॥ 3.1.34.८० ॥
श्रीरामधनुषः कोटौ दक्षिणे सलिलार्णवे ॥
स्नाति चेत्तव पुत्रोऽयं पातकान्मोक्ष्यते क्षणात् ॥ ८१ ॥
दुर्विनीताभिधो विप्रो यत्र स्नानाद्द्विजोत्तम ॥
गुरुस्त्रीगम पापेभ्यस्तत्क्षणादेव मोचितः ॥ ८२ ॥
सैषा श्रीधनुषः कोटी राघवस्य स्वयं हरेः ॥
स्नानमात्रेण पापौघं नाशयेत्त्वत्सुतस्य सा ॥ ८३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरसंवादे सुमतिमहापातक विमोक्षोपायकथनन्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥