श्रीसूत उवाच ॥ ॥
भूयोऽपिसम्प्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ॥
युष्माकमादरेणाहं नैमिषारण्यवा सिनः ॥१॥
नन्दोनाम महाराजः सोमवंशसमुद्भवः ॥
धर्मेण पालयामास सागरान्तां धरामिमाम् ॥२॥
तस्य पुत्रः समभवद्धर्मगुप्त इति श्रुतः ॥
राज्य रक्षाधुरं नन्दो निजपुत्रे निधाय सः ॥३॥
जितेन्द्रियो जिताहारः प्रविवेश तपोवनम् ॥
ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥४॥
मेदिनीं पालया मास धर्मज्ञो नीतितत्परः ॥
ईजे बहुविधैर्यज्ञैर्देवानिन्द्रपुरोगमान् ॥ ५ ॥
ब्राह्मणेभ्यो ददौ वित्तं क्षेत्राणि च बहूनि सः ॥
सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ॥ ६ ॥
बभूवुर्नाभवन्पीडास्तस्मिंश्चोरादिसम्भवाः ॥
कदाचिद्धर्मगुप्तोऽयमारूढस्तुरगोत्तमम् ॥ ७ ॥
वनं विवेश विप्रेन्द्रा मृगयारसकौ तुकी ॥
तमालतालहिन्तालकुरवाकुलदिङ्मुखे ॥ ८ ॥
विचचार वने तस्मिन्सिंहव्याघ्रभयानके ॥
मत्तालिकुलसन्नादसम्मूर्छितदिगन्तरे ॥ ९ ॥
पद्म कल्हारकुमुदनीलोत्पलवनाकुलैः ॥
तटाकैरपि सम्पूर्णे तपस्विजनमण्डिते ॥3.1.32.१०॥
तस्मिन्वने सञ्चरतो धर्मगुप्तस्य भूपतेः ॥
अभूद्विभावरी विप्रास्त मसावृतदिङ्मुखा ॥ ११ ॥
राजापि पश्चिमां सन्ध्यामुपास्य नियमान्वितः ॥
जजाप तत्र च वने गायत्रीं वेदमातरम् ॥ १२ ॥
सिंहव्याघ्रादिभीत्या स्मिन्वृक्षमेकं समास्थिते ॥
राजपुत्रे तदाभ्यागादृक्षः सिंहभयार्दितः ॥ १३ ॥
अन्वधावतं तं ऋक्षमैकः सिंहो वनेचरः ॥
अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ॥ १४ ॥
आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥
वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥ १५ ॥
उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥
मा भीतिं कुरु राजेन्द्र वत्स्यावो रजनीमिह ॥ १६ ॥
महासत्त्वो महाकायो महादंष्ट्रासमाकुलः ॥
वृक्षमूलं समायातः सिंहो यमतिभीषणः ॥ १७ ॥
रात्र्यर्धं भज निद्रा त्वं रक्ष्यमाणो मयादितः ॥
ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ॥ १८ ॥
इति तद्वाक्यमादाय सुप्ते नन्दसुते हरिः ॥
प्रोवाच ऋक्षं सुप्तोऽयं नृपश्च त्यज्यतामिति ॥ १९ ॥
तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः॥
भवान्धर्मं न जानीषे मृगराज वनेचर ॥ 3.1.32.२० ॥
विश्वासघातिनां लोके महाकष्टा भवन्ति हि ॥
न हि मित्रद्रुहां पापं नश्येयज्ञायुतैरपि ॥ २१ ॥
ब्रह्महत्यादिपापानां कथञ्चिन्निष्कृतिर्भवेत् ॥
विश्वस्तघातिनां पापं न नश्येज्जन्मकोटिभिः ॥ २२ ॥
नाहं मेरुं महाभारं मन्ये पञ्चास्य भूतले ॥
महाभारमिमं मन्ये लोके विश्वासघातकम् ॥ २३ ॥
एवमुक्तेऽथ ऋक्षेण सिंहस्तूष्णीमभूत्तदा ॥
धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ॥२४॥
ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥
एवमुक्तेऽथ सिंहेन राजा सुप्तमशङ्कितः ॥२५॥
स्वाङ्कन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥
पात्यमानस्ततो राज्ञा नखालम्बितपादपः ॥२६॥
ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥
स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत॥२७॥
कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥
ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ॥ २८ ॥
यस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥
मच्छापात्त्वमतः शीघ्रमुन्मत्तश्चर भूपते ॥ २९ ॥
इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥
नृसिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥3.1.32.३॥।
हिमवद्गिरिमासाद्य कदाचित्त्वं वधूसखः ॥
अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ॥ ॥ ३१ ॥
गौतमोप्युटजाद्दैवात्समिदाहरणाय वै ॥
निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ॥ ३२ ॥
यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥
अतः सिंहत्वमद्यैव भविता ते न संशयः ॥ ३३ ॥
इति गौतमशापेन सिंहत्वमगमत्पुरा ॥
कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ॥ ॥ ३४ ॥
कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥
अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ॥ ३५ ॥
एतत्सर्वमहं ध्याना ज्जानामीह मृगाधिप ॥
इत्युक्ते ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ॥ ३६ ॥
यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥
ध्यानकाष्ठमसावाह प्राञ्जलिः प्रणतो मुनिम् ॥ ३७ ॥
अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥
गौतमः शापकाले मे शापान्तमपि चोक्तवान् ॥ ३८ ॥
ध्यानकाष्ठे न संवाद ऋक्षरूपेण ते यदा ॥
तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ॥ ३९ ॥
इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुङ्गवः ॥
अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ॥ 3.1.32.४० ॥
ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥
इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ॥ ४१ ॥
विमानवरमा रुह्य प्रययावलकापुरीम् ॥
तस्मिन्गते तु यक्षेशे ध्यानकाष्ठो महामुनिः ॥ ४२ ॥
अव्याहतेष्टगमनो यथेष्ठः प्रययौ महीम् ॥
ध्यानकाष्ठे गते तस्मि न्कामरूपधरे मुनौ ॥ ४३ ॥
धर्मगुप्तौ मुनेः शापादुन्मत्तः प्रययौ पुरीम् ॥
उन्मत्तरूपं तं दृष्ट्वा मन्त्रिणस्तु नृपोत्तमम् ॥ ४४ ॥
पितुः सकाशमा निन्यू रेवातीरे मनोरमे ॥
तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य ते ॥ ४५ ॥
ज्ञात्वा तु पुत्रवृत्तान्तं नन्दस्तस्य पिता तदा ॥
पुत्रमादाय तरसा जैमिनेरन्तिकं ययौ ॥
तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ॥ ४६ ॥
भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ॥ ४७ ॥
अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ॥
इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुङ्गवः ॥ ४८ ॥
ध्यात्वा तु सुचिरं कालं नृपं नन्दमथाब्रवीत् ॥
ध्यानकाष्ठस्य शापेन ह्युन्म त्तस्ते सुतोऽभवत् ॥ ४९ ॥
तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ॥
दक्षिणाम्बुनिधौ सेतौ पुण्ये पापविनाशने ॥ 3.1.32.५० ॥
धनुष्कोटिरिति ख्यातं तीर्थमस्ति महत्तरम् ॥
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ ५१ ॥
श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥
नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महीपते ॥ ५२ ॥
उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥
इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुङ्गवम् ॥ ५३ ॥
नन्दः पुत्रं समादाय धनुष्कोटिं ययौ तदा ॥
तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥ ५४ ॥
स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥
स्वयं सस्नौ स नन्दोपि धनुष्कोटौ सभक्तिकम् ॥ ५५ ॥
उषित्वा दिनमेकं तु सपुत्रस्तु पिता तदा ॥
सेवित्वा रामनाथं च साम्बमूर्तिं घृणानिधिम् ॥ ५६ ॥
पुत्रमापृच्छय नन्दस्तं प्रययौ तपसे वनम् ॥
गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ॥ ५७ ॥
प्रददौ रामनाथाय बहुवित्तानि भक्तितः ॥
ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ॥ ५८ ॥
प्रययौ मन्त्रिभिः सार्धं स्वां पुरीं तदनन्तरम् ॥
धर्मेण पालयामास राज्यं निहतकण्टकम् ॥५९॥
पितृपैतामहं विप्रा धर्मगुप्तोऽतिधार्मिकः ॥
उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ॥ 3.1.32.६० ॥
ग्रस्ता भवन्ति विप्रेन्द्रास्तेऽपि चात्र निमज्जनात् ॥
धनुष्कोटौ विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ॥ ६१ ॥
परित्यज्य धनुष्कोटिं तीर्थमन्यद्व्रजेत्तु यः ॥
सिद्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ॥ ॥ ६२ ॥
धनुष्कोटिर्धनुष्कोटिर्धनुष्कोटिरिति द्विजाः ॥
त्रिः पठन्तो नरा ये तु यत्र क्वापि जलाशये ॥ ६३ ॥
स्नान्ति सर्वे नरास्ते वै यास्यन्ति ब्रह्मणः पदम् ॥
एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ॥ ६४ ॥
यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥
स्वर्णस्तेयादयश्चान्ये नश्येयुः पापसञ्चयाः ॥ ६५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां धर्मगुप्तोन्मा दविमोक्षणवर्णनन्नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥