॥ ऋषय ऊचुः ॥ ॥
अश्वत्थामा कथं सूत सुप्तमारणमाचरत्॥
कथं च मुक्तस्तत्पापाद्धनुष्कोटौ निमज्जनात् ॥ १ ॥
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥
तृप्तिर्न जायतेऽ स्माकं त्वद्वचोमृतपायिनाम् ॥ २ ॥
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥
वक्तुं प्रचक्रमे तत्र व्यासं नत्वा गुरुं मुदा ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
राज्यार्थं कलहे जाते पाण्डवानां पुरा द्विजाः ॥
धार्तराष्ट्रैर्महायुद्धे महदक्षौहिणीयुते ॥ ४ ॥
युद्धं दशदिनं कृत्वा भीष्मे शान्तनवे हते ॥
द्रोणे पञ्चदिनं कृत्वा कर्णे च द्विदिनं तथा ॥ ५ ॥
तथैवैकदिनं युद्ध्वा शल्ये च निधनं गते ॥
अष्टादशदिने तत्र रणे दुर्योधने द्विजाः ॥ ॥ ६ ॥
भग्नोरौ भीमगदया पतिते राजसत्तमे ॥
सर्वे नृपतयो विप्रा निवेशाय कृतत्वराः ॥ ७ ॥
ये जीवितास्तु राजानस्ते ययुर्हृष्टमानसाः ॥
धृष्टद्युम्नशिखण्डयाद्याः सृञ्जयाः सर्व एव हि ॥ ८ ॥
अन्ये चापि महीपाला जग्मुः स्वशिबिराण्यथ ॥
अथ पार्था महावीरा कृष्णसात्यकिसंयुताः ॥ ९ ॥
दुर्योधनस्य शिबिरं प्राविशन्निर्जनं द्विजाः ॥
वृद्धैरमात्यैस्तत्रस्थैः षण्ढैः स्त्रीरक्षकैस्तथा ॥ 3.1.31.१० ॥
कृताञ्जलिपुटैः प्रह्वैः काषायमलिनाम्बरैः ॥
प्रणम्यमानास्ते पार्थाः कुरुराजस्य वेश्मनि ॥ ११ ॥
तत्रत्यद्रव्यजातानि समादाय महा बलाः ॥
सुयोधनस्य शिबिरे न्यवसन्त सुखेन ते ॥ १२ ॥
अथ तानब्रवीत्पार्थाञ्छ्रीकृष्णः प्रीणयन्निव ॥
मङ्गलार्थाय चास्माभिर्वस्तव्यं शिबिराद्बहिः ॥ १३ ॥
इत्युक्ता वासुदेवेन तथेत्युक्त्वाथ पाण्डवाः ॥
कृष्णसात्यकिसंयुक्ताः प्रययुः शिबिराद्बहिः ॥ १४ ॥
वासुदेवेन सहिता मङ्गलार्थं हि पाण्डवाः ॥
ओघवत्याः समासाद्य तीरं नद्या नरोत्तमाः ॥ १५ ॥
ऊषुस्तां रजनीं तत्र हतशत्रुगणाः सुखम् ॥
कृतवर्मा कृपो द्रौणिस्तथा दुर्योधनान्तिकम्॥ १६ ॥
आदित्यास्तमयात्पूर्वमपराह्णे समाययुः ॥
सुयोधनं तदा दृष्ट्वा रणपांसुषु रूषितम् ॥ १७ ॥
भग्नोरुदण्डं गदया भीमसेन स्य भीमया ॥
रुधिरासिक्तसर्वाङ्गं चेष्टमानं महीतले ॥ १८ ॥
अशोचन्त तदा तत्र द्रोणपुत्रादयस्त्रयः ॥
शुशोच सोऽपि तान्दृष्ट्वा रणे दुर्योधनो नृपः ॥ १९ ॥
दृष्ट्वा तथा तु राजानं बाष्पव्याकुललोचनम् ॥
अश्वत्थामा तदा कोपाज्ज्वलन्निव महानलः ॥ 3.1.31.२० ॥
पाणौ पाणिं विनिष्पिष्य क्रोध विस्फारितेक्षणः ॥
अश्रुविक्लवया वाचा दुर्योधनमभाषत ॥ २१ ॥
पिता मे पातितः क्षुद्रैश्छलेनैव रणाजिरे ॥
न तथा तेन शोचामि यथा निष्पातिते त्वयि ॥ २२ ॥
शृणु वाक्यं ममाद्य त्वं यथार्थं वदतो नृप ॥
सुकृतेन शपे चाहं सुयोधन महामते ॥ २३ ॥
अद्य रात्रौ हनिष्यामि पाण्डवा न्सह सृञ्जयैः ॥
पश्यतो वासुदेवस्य त्वमनुज्ञां प्रयच्छ मे ॥ २४ ॥
तस्य तद्वचनं श्रुत्वा द्रौणिं राजा तदाऽब्रवीत् ॥
तथास्त्विति पुनः प्राह कृपं राजा द्विजोत्तमाः ॥ २५ ॥
आचार्यैनं द्रोणपुत्रं कलशोत्थेन वारिणा ॥
सैनापत्येऽभिषिञ्चस्वेत्यथ सोपि तथाऽकरोत् ॥ २६ ॥
सोभिषिक्तस्तदा द्रौणिः परिष्वज्य नृपोत्तमम् ॥
कृतवर्मकृपाभ्यां च सहितस्त्वरितं ययौ ॥ २७ ॥
ततस्ते तु त्रयो वीराः प्रयाता दक्षिणोन्मुखाः ॥
आदित्यास्तमयात्पूर्वं शिबिरान्तिकमासत ॥ २८ ॥
पार्थानां भीषणं शब्दं श्रुत्वा तत्र जयैषिणः ॥
पाण्डवानुद्रुता भीतास्तदा द्रौण्यादयस्त्रयः ॥ २९ ॥
प्राङ्मुखा दुद्रुवुर्भीत्या कियद्दूरं श्रमातुराः ॥
मुहुर्तं ते ततो गत्वा क्रोधामर्षवशानुगाः ॥ 3.1.31.३० ॥
दुर्योधनवधार्तास्ते क्षणं तत्रावतस्थिरे ॥
ततोऽपश्यन्नरण्यं वै नानातरुलतावृतम् ॥ ३१ ॥
अनेकमृगसम्बाधं क्रूरपक्षिगणाकुलम् ॥
समृद्धजलसम्पूर्णतटाकपरिशोभितम् ॥ ३२ ॥
पद्मेन्दीवरकह्लारसरसी शतसङ्कुलम् ॥
तत्र पीत्वा जलं ते तु पाययित्वा हयांस्तथा ॥ ३३ ॥
अनेकशाखासम्बाधन्यग्रोधं ददृशुस्ततः ॥
सम्प्राप्य तु महावृक्षं न्यग्रोधं ते त्रयस्तदा ॥ ३४ ॥
अवतीर्य रथेभ्यश्च मोचयित्वा तुरङ्गमान् ॥
उपस्पृश्य जलं तत्र सायंसन्ध्यामुपासत ॥ ३५ ॥
अथ चास्तगिरिं भानुः प्रपेदे च गतप्रभः ॥
ततश्च रजनी घोरा समभूत्तिमिराकुला ॥ ३६ ॥
रात्रिचराणि सत्त्वानि सञ्चरन्ति ततस्ततः ॥
दिवाचराणि सत्त्वानि निद्रावशमुपा ययुः ॥ ३७ ॥
कृतवर्मा कृपो द्रौणिः प्रदोषसमये हि ते ॥
न्यग्रोधस्योपविविशुरन्तिके शोककर्शिताः ॥ ३८ ॥
कृपभोजौ तदा निद्रां भेजातेऽतिप याक्रमौ ॥
सुखोचितास्त्वदुःखार्हा निषेदुर्धरणीतले ॥ ३९ ॥
द्रोणपुत्रस्तु कोपेन कलुषीकृतमानसः ॥
ययौ न निद्रां विप्रेन्द्रा निश्वसन्नुरगो यथा ॥ 3.1.31.४० ॥
ततोऽवलोकयाञ्चक्रे तदरण्यं भयानकम् ॥
न्यग्रोधं च ततोऽपश्यद्बहुवायससङ्कुलम् ॥ ४१ ॥
तत्र वायसवृन्दानि निशायां वासमाय युः ॥
सुखं भिन्नासु शाखासु सुषुपुस्ते पृथक्पृथक् ॥ ४२ ॥
काकेषु तेषु सुप्तेषु विश्वस्तेषु समन्ततः ॥
ततोऽपश्यत्समायान्तं भासं द्रौणिर्भयङ्करम् ॥ ॥ ४३ ॥
कूरशब्दं क्रूरकायं बभ्रुपिङ्गकलेवरम् ॥
स भासोऽथ भृशं शब्दं कृत्वालीयत शाखिनि ॥ ४४ ॥
उत्प्लुत्य तस्य शाखायां न्यग्रोधस्य विहङ्गमः ॥
सुप्तान्काकान्निजघ्नेऽसावनेकान्वायसान्तकः ॥ ४५ ॥
काकानामभिनत्पक्षान्स केषाञ्चिद्विहङ्गमः ॥
इतरेषां च चरणाञ्छिरांसि चरणा युधः ॥ ४६ ॥
विचकर्त क्षणेनासावुलूको वलवान्द्विजाः ॥
स भिन्नदेहावयवैः काकानां बहुभिस्तदा ॥ ४७ ॥
समन्तादावृतं सर्वं न्यग्रोधपरि मण्डलम् ॥
वायसांस्तान्निहत्यासावुलूको मुमुदे तदा ॥ ४८ ॥
द्रौणिर्दृष्ट्वा तु तत्कर्म भासेनैवं कृतं निशि ॥
करिष्याम्यहमप्येवं शत्रूणां निधनं निशि ॥ ४९ ॥
इत्यचिन्तयदेकः सन्नुपदेशमिमं स्मरन् ॥
जेतुं न शक्याः पार्था हि ऋजुमार्गेण युद्ध्यता ॥ 3.1.31.५० ॥
मया तच्छद्मना तेऽथ हन्तव्या जितकाशिनः ॥
सुयोधनसकाशे च प्रतिज्ञातो मया वधः ॥ ५१ ॥
ऋजुमार्गेण युद्धे मे प्राणनाशो भविष्यति ॥
छलेन युध्यमानस्य जयश्चास्य रिपुक्षयः ॥ ५२ ॥
यच्च निन्द्यं भवेत्कार्यं लोके सर्वजनैरपि ॥
कार्यमेव हि तत्कर्म क्षत्रधर्मानुवर्तिना ॥ ५३ ॥
पार्थैरपि छलेनैव कृतं कर्म सुयोधने ॥
अस्मिन्नर्थे पुराविद्भिः प्रोक्ताः श्लोका भवन्ति हि ॥ ५४ ॥
परिश्रान्ते विदीर्णे च भुञ्जाने च रिपोर्बले ॥
प्रस्थाने च प्रवेशे च प्रहर्तव्यं न संशयः ॥ ५५ ॥
निद्रार्तमर्धरात्रे च तथा त्यक्तायुधं रणे ॥
भिन्नयोधं बलं सर्वं प्रहर्तव्यमरातिभिः ॥ ५६ ॥
एवं स नियमं कृत्वा सुप्तमारणकर्मणि ॥
प्राबोधयद्भोजकृपौ सुप्तौ रात्रौ स साहसी ॥
द्रौणिर्ध्यात्वा मुहूर्तं तु तावुभावभ्यभाषत ॥ ५७ ॥ ॥
॥ अश्वत्थामोवाच ॥ ॥
मृतः सुयोधनो राजा महाबलपराक्रमः ॥ ५८ ॥
शुद्धकर्मा हतः पार्थैर्बहुभिः क्षुद्रकर्मभिः ॥
भीमेनातिनृशंसेन शिरो राज्ञः पदा हतम् ॥ ५९ ॥
ततोऽद्य रात्रौ पार्थानां समेत्य पटमण्डपम् ॥
सुखसुप्तान्हनिष्यामः शस्त्रैर्नानाविधैर्वयम् ॥
कृपः प्रोवाच तत्रैन मिति श्रुत्वा द्विजोत्तमाः ॥ 3.1.31.६० ॥
॥ कृप उवाच ॥ ॥
सुप्तानां मारणं लोके न धर्मो न च पूज्यते ॥ ६१ ॥
तथैव त्यक्तशस्त्राणां सन्त्यक्तरथवाजि नाम् ॥
शृणु मे वचनं वत्स मुच्यतां साहसं त्वया ॥ ६२ ॥
वयं तु धृतराष्टं च गान्धारीं च पतिव्रताम् ॥
पृच्छामो विदुरं चापि तदुक्तं करवा महे ॥
इत्युक्तः स तदा द्रौणिः कृपं प्रोवाच वै पुनः ॥ ६३ ॥
॥अश्वत्थामोवाच ॥ ॥
पाण्डवैश्च पुरा यन्मे छलाद्युद्धे पिता हतः ॥ ६४ ॥
तन्मे सर्वाणि मर्माणि निकृन्तति हि मातुल ॥
द्रोणहन्ताहमित्येतद्धृष्टद्युमस्य यद्वचः ॥ ६५ ॥
कथं जनसमक्षे तद्वचनं संशृणोम्यहम् ॥
तैरेव पाण्डवैः पूर्वं धर्मसेतुर्निराकृतः ॥ ६६ ॥
समक्षमेव युष्माकं सर्वेषामेव भूभृताम् ॥
त्यक्तायुधो मम पिता धृष्टद्युम्नेन पातितः ॥ ६७ ॥
तथा शान्तनवो भीष्मस्त्यक्तचापो निरायुधः ॥
शिखण्डिनं पुरोधाय निहतः सव्यसाचिना ॥ ६८ ॥
एवमन्येऽपि भूपालाश्छलेनैव हतास्तु तैः ॥
तथैवाहं करिष्यामि सुप्तानां मारणं निशि ॥ ६९ ॥
एवमुक्त्वा तदा द्रौणिः संयुक्ततुरगं रथम्॥
प्रायादभिमुखः शत्रून्समारुह्य क्रुधा ज्वलन् ॥ 3.1.31.७०॥
तं यान्तम न्वगातां तौ कृतवर्मकृपावुभौ ॥
ययुश्च शिबिरे तेषां सम्प्रसुप्तजनं तदा ॥ ७१ ॥
शिबिरद्वारमासाद्य द्रोणपुत्रो व्यतिष्ठत ॥
रात्रौ तत्र समाराध्य महादेवं घृणानिधिम् ॥ ७२ ॥
अवाप विमलं खङ्गं महादेवाद्वरप्रदात् ॥
ततो द्रौणिरवस्थाप्य कृतवर्मकृपावुभौ ॥ ७३ ॥
द्वारदेशे महावीरः शिबि रान्तः प्रविष्टवान् ॥
प्रविष्टे शिबिरे द्रौणौ कृतवर्मकृपावुभौ॥ ७४ ॥
द्वारदेशे व्यतिष्ठेतां यत्तौ परमधन्विनौ ॥
अथ द्रौणिः सुसङ्क्रुद्धस्तेजसा प्रज्वलन्निव ॥ ७५ ॥
खङ्गं विमलमादाय व्यचरच्छिबिरे निशि ॥
ततस्तु धृष्टद्युम्नस्य शिबिरं मन्दमाययौ ॥ ७६ ॥
धृष्टद्युम्नादयस्तत्र महायुद्धेन कर्शिताः ॥
सुषुपुर्निशि विश्वस्ताः स्वस्वसैन्यसमावृताः ॥ ७७ ॥
धृष्टद्युम्नस्य शिबिरं प्रविश्य द्रौणिरस्त्रवित् ॥
तं सुप्तं शयने शुभ्रे ददर्शारान्महाबलम् ॥ ७८ ॥
पादेनाघातयद्रोषात्स्वपन्तं द्रोणनन्दनः ॥
स बुद्धश्चरणाघातादुत्थाय शयनादथ ॥ ७९ ॥
व्यलोकयत्तदा वीरो द्रोणपुत्रं पुरः स्थितम् ॥
तमुत्पतन्तं शयनाद्द्रोणाचार्यसुतो बली ॥ 3.1.31.८० ॥
केशेष्वाकृष्य बाहुभ्यां निष्पिपेष धरातले ॥
धृष्टद्युम्नस्तदा तेन निष्पिष्टः स भया तुरः ॥ ८१ ॥
निद्रान्धः पादघातातो न शशाक विचेष्टितुम् ॥
द्रौणिस्त्वाक्रम्य तस्योरः कण्ठं बद्ध्वा धनुर्गुणैः ॥ ८२ ॥
नदन्तं विस्फुरन्तं तं पशुमारममारयत् ॥
तस्य सैन्यानि सर्वाणि न्यवधीच्च तथैव सः ॥ ८३ ॥
युधामन्युं महावीर्यममुत्तमौजसमेव च ॥
तथैव द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥ ८४ ॥
शिखण्डिप्रमुखानन्यान्खङ्गेनामारयद्बहून् ॥
तद्भयाद्द्वारनिर्यातान्सर्वानेव च सैनिकान् ॥ ८५ ॥
प्रापयामासतुर्मृत्युं कृतवर्मकृपा वुभौ ॥
एवं निहतसैन्यं तच्छिबिरं तैर्महाबलैः ॥ ८६ ॥
तत्क्षणे शून्यमभवत्त्रिजगत्प्रलये यथा ॥
एवं हत्वा ततः सर्वान्द्रोणपुत्रादयस्त्रयः ॥८७॥
निरगुः शिबिरात्तस्मात्पार्थभीता भयातुराः ॥
सर्वे पृथक्पृथग्देशान्दुद्रुवुः शीघ्रगामिनः ॥ ८८ ॥
अथ द्रौणिर्ययौ विप्रा रेवातीरं मनोरमम् ॥
तत्र ह्यनेकसाहस्रा ऋषयो वेदवादिनः ॥ ८९ ॥
कथयन्तः कथाः पुण्यास्तपश्चक्रुरनुत्तमम् ॥
तत्रायं प्रययौ द्रौणिर्ऋषीणामाश्रमेष्वथ ॥ 3.1.31.९० ॥
प्रविष्टमात्रे तस्मिंस्तु मुनयो ब्रह्मवादिनः ॥
द्रौणेर्दुश्चरितं ज्ञात्वा प्राहुर्योगबलेन तम् ॥ ९१ ॥
सुप्तमा रणकृत्पापी द्रौणे त्वं ब्राह्मणाधमः ॥
त्वद्दर्शनेन ह्यस्माकं पातित्यं भवति ध्रुवम् ॥ ९२ ॥
त्वत्सम्भाषणमात्रेण ब्रह्महत्यायुतं भ वेत् ॥
अतोऽस्मदाश्रमेभ्यस्त्वं निर्गच्छ पुरुषाधम ॥ ९३ ॥
इत्यब्रुवंस्तदा द्रौणिं तत्रत्या मुनयो द्विजाः ॥
इतीरितस्ततो द्रौणिर्मुनिभिर्ब्रह्म वादिभिः ॥ ९४ ॥
लज्जितो निलात्तस्मादाश्रमान्मुनिसेवितात् ॥
एवं काश्यादितीर्थेषु पुण्येषु प्रययौ च सः ॥ ९५ ॥
तत्रतत्र द्विजैः सर्वै र्निन्दितोऽसौ महात्मभिः ॥
व्यासं शरणमापेदे प्रायश्चित्तचिकीर्षया ॥ ९६ ॥
ततो बदरिकारण्ये समासीनं महामुनिम् ॥
द्वैपायनं समागम्य प्रणनाम सभक्तिकम् ॥ ९७ ॥
ततो व्यासोऽब्रवीदेनं द्रोणाचार्यसुतं मुनिः ॥
त्वमस्मदाश्रमादद्रौणे निर्याहि त्वरया त्विति ॥ ९८ ॥
सुप्तमारण दोषेण महापातकवान्भवान् ॥
अतो मे भवतालापान्महत्पापं भविष्यति ॥
इत्युक्तः स तदा द्रौणिः प्रोवाचेदं वचो मुनिः ॥ ९९ ॥
॥ अश्वत्थामोवाच ॥ ॥
भगवन्निन्दितः सर्वैस्त्वामस्मि शरणं गतः ॥ 3.1.31.१०० ॥
ब्रवीषि चेत्त्वमप्येवं कोऽन्यो मे शरणं भवेत् ॥
कृपां कुरु मयि ब्रह्मन्साधवो दीनवत्सलाः ॥ १ ॥
सुप्तमारणदोषस्य शान्त्यर्थं भगवन्मम ॥
प्रायश्चित्तं विधेहि त्वं सर्वज्ञोऽसि भवान्यतः ॥
इत्युक्तो द्रौणिना व्यासश्चिरं ध्यात्वा तमब्रवीत् ॥ २ ॥
॥ व्यास उवाच ॥ ॥
एतत्पापस्य शान्त्यर्थं प्रायश्चित्तं स्मृतौ न हि ॥ ३ ॥
तथाप्युपायं वक्ष्यामि तवैतद्दोष शान्तये ॥
दक्षिणाम्बुनिधौ पुण्ये रामसेतौ विमुक्तिदे ॥ ४ ॥
धनुष्कोटिरितिख्यातं तीर्थमस्ति महत्तरम् ॥
अस्ति पुण्यतमं द्रौणे महापात कनाशनम् ॥ ५ ॥
स्वर्गमोक्षप्रदं पुंसां ब्रह्महत्यादिशोधकम् ॥
सर्वमङ्गलमाङ्गल्यं सर्वाभीष्टप्रदायकम् ॥ ६ ॥
पवित्राणां पवित्रं च तीर्थानां च तथोत्तमम् ॥
दुःस्वप्ननाशनं पुण्यं नरकक्लेशनाशनम् ॥ ७ ॥
अकालमृत्युशमनं पुंसां विजयवर्द्धनम् ॥
दारिद्र्यनाशनं पुंसामायुर्वर्धनकार णम् ॥ ८ ॥
चित्तशुद्धिप्रदं नृणां शान्तिदान्त्यादिकारणम् ॥
तत्र गत्वा धनुष्कोटौ रामसेतौ विमुक्तिदे ॥ ९ ॥
स्नानं कुरुष्व द्रौणे त्वं मासमात्रं निरं तरम् ॥
सुप्तमारणदोषात्त्वं सद्यः पूतो भविष्यसि ॥ 3.1.31.११० ॥
कुरुष्व वचनं शीघ्रं मम त्वं द्रोणनन्दन ॥
एवमुक्तस्तदा द्रौणिर्व्यासेन परमर्षिणा ॥ ११ ॥
रामसेतुं समासाद्य धनुष्कोटिं पवित्रदाम् ॥
सस्नौ सङ्कल्पपूर्वं तु मासमेकं निरन्तरम् ॥ १२ ॥
त्रिसन्ध्यं रामनाथं च सिषेवे स दिने दिने ॥
ततस्त्रिंशद्दिने तोयस्नानाद्द्रोणात्मजस्तदा ॥ १३ ॥
जजाप च धनुष्कोट्यां मन्त्रं पञ्चाक्षरं तदा ॥
अकार्षीदुपवासं च द्रोणपुत्रस्तु तद्दिने ॥ १४ ॥
अकरोज्जागरं रात्रौ रामनाथस्य सन्निधौ ॥
अपरेद्युर्धनुष्कोटौ स्नात्वा सङ्कल्पपूर्वकम् ॥ १५ ॥
सिषेवे रामनाथं च स्तुत्वा भक्तिपुरःसरम् ॥
ननर्त पुरतः शम्भोरानन्दाश्रुपरिप्लुतः ॥ १६ ॥
ततः प्रसन्नो भगवान्प्रादुरासीत्तदग्रतः ॥
दृष्ट्वा तत्र महादेवं तुष्टाव परमेश्वरम् ॥ ॥ १७ ॥
॥ द्रौणिरुवाच ॥ ॥
नमस्ते देवदेवेश करुणाकर शङ्कर ॥
आपदम्बुधिमग्नानां पोतायितपदाम्बुज ॥ १८ ॥
महादेव कृपामूर्ते धूर्जटे नीललोहित ॥
उमाकान्त विरूपाक्ष चन्द्रशेखर ते नमः ॥ १९ ॥
मृत्युञ्जय त्रिनेत्र त्वं पाहि मां कृपया दृशा ॥
पार्वतीपतये तुभ्यं त्रिपुरघ्नाय शम्भवे ॥3.1.31.१२॥।
पिनाकपाणये तुभ्यं त्र्यम्बकाय नमोनमः ॥
अनन्तादिमहानागहारभूषणभूषित ॥ २१ ॥
शूलपाणे नमस्तुभ्यं गङ्गाधर मृडाव्यय ॥
रक्ष मां कृपया देव पापसङ्घातपञ्जरात् ॥
इति स्तुतो महादेवो द्रौणिं प्रोवाच हर्षितः ॥ २२ ॥
॥ महादेव उवाच ॥ ॥
सुप्तमारणदोषस्ते धनुष्कोटौ निमज्जनात् ॥ २३ ॥
अश्वत्थामन्विनष्टोऽभूद्वरं वरय सुव्रत ॥
मयि प्रसन्ने लोकेषु किमलभ्यं भवेन्नृणाम् ॥ २४ ॥
अतोऽभीष्टं वृणीष्व त्वं मत्तो द्रोणात्मजाधुना ॥
इत्युक्तः शम्भुना द्रौणिः प्राह तं परमेश्वरम् ॥ २५ ॥
तवाद्य दर्शनेनाहं कृतार्थोस्मि महेश्वरम् ॥
त्वद्दर्शनमपुण्यानामलभ्यं जन्मकोटिभिः ॥ २६ ॥
अतो युष्मत्पदाम्भोजे निश्चला भक्तिरस्तु मे ॥
इममेव वरं देहि मह्यं शम्भो नमोऽस्तु ते ॥२७॥
उक्त्वा तथास्त्विति द्रौणिं देवदेवो महेश्वरः ॥
पश्यतो द्रोणपुत्रस्य तत्रैवान्तरधीयत ॥२८॥
अश्वत्थामापि विप्रेन्द्रा धूतपापो विनिर्मलः ॥
रामचन्द्रधनुष्कोटौ स्नानमात्रेण तत्क्षणे ॥२९॥
धूतपापमिमं द्रौणिं सर्वे चापि महर्षयः ॥
शुद्धं प्रत्यग्रहीषुस्ते तदाप्रभृति निर्मलम् ॥3.1.31.१३॥।
एवं वः कथितं विप्रा द्रौणिपापविमोक्षणम् ॥
रामचन्द्रधनुष्कोटिस्नानवैभवमात्रतः ॥३१॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते ॥ १३२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहरूयां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायामश्वत्थामसुप्तमारणदो षशान्तिवर्णनन्नामैकत्रिंशोऽध्यायः ॥३१॥