०२९ कथनम्

॥ श्रीसूत उवाच ॥ ॥
स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे ॥
सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः ॥ १ ॥
सर्वतीर्थं महापुण्यं महापातकनाशनम् ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ २ ॥
शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् ॥
तावत्सर्वाणि पापानि देहे तिष्ठन्ति सुव्रताः ॥ ३ ॥
न यावत्सर्वतीर्थेस्मिन्निमज्जेत्पापपूरुषः ।१
स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यान्तं द्विजा नरम्॥ ४ ॥
वेपन्ते सर्वपापानि नाशोऽस्माकं भवेदिति ॥
गर्भवासादिदुःखानि तावद्याति नरो भुवि ॥ ५ ॥
न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुङ्गवाः॥
अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः ॥ ६ ॥
गायत्र्यादिमहामन्त्रजपैर्नियमपूर्वकम् ॥
चतुर्णामपि वेदानामावृत्त्या शतसङ्ख्यया ॥ ७ ॥
शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् ॥
एकादश्यादितिथिषु तथैवानशनेन च॥
यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात् ॥ ८ ॥
॥ ऋषय ऊचुः ॥ ॥
सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता ॥
ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने ॥ ९ ॥
॥ श्रीसूत उवाच ॥ ॥
पुरा सुचरितोनाम मुनिर्नियमसंयुतः ॥ ॥ 3.1.29.१० ॥
भृगुवंशसमुद्भूतो जात्यन्धो जरयातुरः ॥
अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः ॥ ११ ॥
सर्वेषामेव तीर्थानां स्नातुकामो महामु निः ॥
दक्षिणाम्बुनिधौ पुण्यं गन्धमादनपर्वतम् ॥ १२ ॥
गत्वा शङ्करमुद्दिश्य तपस्तेपे सुदुष्करम् ॥
त्रिकालमर्चयञ्छम्भुमुपवासी जितेन्द्रियः ॥१३॥
तथा त्रिषवणस्नानात्तथैवातिथिपूजकः ॥
शिशिरे जलमध्यस्थो ग्रीष्मे पञ्चाग्निमध्यगः ॥ १४ ॥
वर्षास्वासारसहन अब्भक्षो वायुभोजनः ॥
उद्धूलनं त्रिपुण्ड्रं च भस्मना धारयन्सदा ॥ १५ ॥
जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः ॥
एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः ॥ १६ ॥
तपसा तस्य सन्तुष्टः शङ्करश्चन्द्रशेखरः ॥
प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै ॥ १७ ॥
समारुह्य महोक्षाणं भूतवृन्दनिषेवितः ॥
गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः ॥ १८ ॥
स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा ॥
भस्मपाण्डुरसर्वाङ्गो जटामण्डलमण्डितः ॥ १९ ॥
अनन्ता दिमहानागविभूषणविभूषितः ॥
प्रादुर्भूतस्ततः शम्भुः प्रादात्तस्य विलोचने ॥ 3.1.29.२० ॥
आत्मावलोकनार्थाय शङ्करो गिरिजापतिः ॥
ततः सुचरितो विप्राः शम्भुना दत्तदृग्द्वयः ॥
आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः ॥ २१ ॥
॥ सुचरित उवाच ॥ ॥
जय देव महेशान जय शङ्कर धूर्जटे ॥ २२ ॥
जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमान्तक ॥
जयोमेश महादेव कामान्तक जयामल ॥ २३ ॥
जय संसारवैद्य त्वं भूतपाल शिवाव्य य ॥
त्रियम्बक नमस्तुभ्यं भक्तरक्षणदीक्षित ॥ २४ ॥
व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह ॥
नीलकण्ठ नमस्तुभ्यं जय संसारमोचक॥२५॥
महेश्वर नमस्तुभ्यं परमानन्दविग्रह ॥
गङ्गाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय ॥ २६ ॥
नमस्तुभ्यं भगवते वासुदेवाय शम्भवे ॥
शर्वायोग्राय गर्भाय कैलासपतये नमः ॥ २७ ॥
रक्ष मां करुणासिन्धो कृपादष्ट्यवलोकनात् ॥
मम वृत्तमनालोच्य त्राहि मां कृपया हर॥२८॥
श्रीसूत उवाच॥
इति स्तुतो महादेवस्तमेनमिदमभ्यधात् ॥
मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः ॥ २९ ॥
॥ महादेव उवाच ॥ ॥
मुने सुचरिताद्य त्वं वरं वरय काङ्क्षितम् ॥
वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे ॥
इतीरितो मुनिः प्राह महादेवं दयानिधिम् ॥ 3.1.29.३० ॥ ॥
॥ सुचरित उवाच ॥ ॥
भगवंस्त्वं प्रसन्नो मे यदि स्याश्चन्द्रशेखर ॥ ३१ ॥
तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकाङ्क्षितम् ॥
जरापलितदेहोहं कुत्रचिद्गन्तुमक्षमः ॥ ३२ ॥
सर्वतीर्थेषु च स्नातुमाकाङ्क्षा मम विद्यते ॥
तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् ॥
फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम्॥ ३३ ॥
॥ महादेव उवाच ॥ ॥
अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः ॥ ३४ ॥
रामस्य सेतुना पूते नगेऽस्मिन्गन्धमादने ॥
इत्युक्त्वा स महादेवः पर्वते गन्धमादने ॥ ३५ ॥
तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः ॥
ततस्सुचरितं प्राह शङ्करः करुणानिधिः ॥ ३६ ॥
मुने सुचरितेदं तु महापातकनाशनम् ॥
सान्निध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम् ॥ ३७ ॥
मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् ॥
मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम् ॥ ३८ ॥
अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये ॥
महापातकसङ्घानां दावानलसमद्युतौ ॥ ॥ ३९ ॥
काममोहभयक्रोधलोभरोगादिनाशने ॥
विना वेदान्तविज्ञानं सद्योनिर्वाणकारणे ॥ 3.1.29.४० ॥
जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे ॥
कुम्भीपाकादिसकलनरकाग्निविनाशने ॥ ४१ ॥
इतीरितः सुचरितः शम्भुना मदनारिणा ॥
सस्नौ विप्राः सर्वतीर्थे महादेवस्य सन्निधौ ॥ ४२ ॥
स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः ॥
जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः ॥ ४३ ॥
दृष्ट्वा स्वदेहसौन्दर्यं ततः सुचरितो मुनिः ॥
श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः ॥ ४४ ॥
महादेवः सुचरितं बभाषे तदनन्तरम् ॥
अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज ॥ ॥ ४५ ॥
स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् ॥
देशान्तरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम ॥ ४६ ॥
अस्य तीर्थस्य माहात्म्यान्मामन्ते प्राप्स्यसि ध्रुवम्॥
अन्येऽपि येऽत्र स्नास्यन्ति तेऽपि मां प्राप्नुयुर्द्विज ॥ ४७ ॥
इत्युक्त्वा भगवानीशस्तत्रैवान्तरधीयत ॥
तस्मिन्नन्तर्हिते रुद्रे ततः सुचरितो मुनिः ॥ ४८ ॥
अनेककालं निवसन्सर्वतीर्थस्य तीरतः ॥
स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः ॥ ४९ ॥
देहान्ते शङ्करं प्राप सर्वबन्धविमोचितः ॥
सायुज्यं चापि सम्प्राप सर्वतीर्थस्य वैभवात् ॥ 3.1.29.५० ॥
एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् ॥
एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः ॥ ५१ ॥

Comments on Koti/Dhanushkoti

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सर्वतीर्थप्रशंसायां सर्वतीर्थस्वरूप कथनन्नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥ ।