०२८ पुरूरवःशापविमोक्षणवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
कोटितीर्थं महापुण्यं सेवित्वा केवलं नरः ॥
स्नातुं जितेन्द्रियस्तीर्थं ततः साध्यामृतं व्रजेत् ॥ १ ॥
साध्यामृतं महातीर्थ महापुण्यफलप्रदम् ॥
महादुःखप्रशमनं गन्धमादनपर्वते ॥ २ ॥
अस्ति पापहरं पुंसां सर्वाभीष्टप्रदायकम् ॥
यत्र स्नात्वा नरो भक्त्या सर्वान्कामानवाप्नुयात् ॥ ३ ॥
तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥
गतिं तां न लभेन्मर्त्यो यां साध्यामृतमज्जनात् ॥ ४ ॥
स्पृष्टानि येषामङ्गानि साध्यामृतजलैः शुभैः ॥
तेषां देहगतं पापं तत्क्षणादेव नश्यति ॥ ५ ॥
साध्यामृतजले यस्तु साघमर्षणकृन्नरः ॥
स विधूयेह पापानि विष्णुलोके महीयते ॥ ६ ॥
पूर्वे वयसि पापानि कृत्वा कर्माणि यो नरः ॥
पश्चात्साध्यामृतं सेवेत्पश्चात्तापसमन्वितः ॥ ७ ॥
अन्ते वयसि मुक्तः स्यात्स नरो नात्र संशयः ॥
साध्यामृते नरः स्नात्वा देहबन्धाद्विमुच्यते ॥ ८ ॥
साध्यामृतजले स्नाता मनुष्याः पापक र्मिणः ॥
अनेकक्लेशघोराणि नरकाणि न यान्ति हि ॥ ९ ॥
साध्यामृतजले स्नानात्पुंसां या स्याद्गतिर्द्विजाः ॥
न सा गतिर्भवेद्यज्ञैर्न वेदैः पुण्यकर्मभिः ॥ 3.1.28.१० ॥
यावदस्थि मनुष्याणां साध्यामृतजले स्थितम् ॥
तावद्वर्षाणि तिष्ठन्ति शिवलोके सुपूजिताः ॥ ११ ॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥
तथा साध्यामृतस्नायी भित्त्वा पापानि राजते ॥ १२ ॥
वाञ्छिताल्ँलभते कामानत्र स्नातो नरः सदा ॥
यत्र स्नात्वा महापुण्ये पुरा राजा पुरूरवाः ॥
विप्रयोगं सहोर्वश्या जहौ तुम्बुरुशापजम् ॥ १३ ॥
॥ ऋषय ऊचुः ॥ ॥
कथं सूत महाभाग सहोर्वश्यामरस्त्रिया ॥ १४ ॥
प्रथमं लब्धवान्योगं मर्त्यो राजा पुरूरवाः ॥
विप्रयोगं सहोर्वश्या जहौ तुम्बुरुशापजम् ॥ १५ ॥
हेतुना केन राजानं शशाप तुम्बुरुर्मुनिः ॥
एतत्सर्वं समाचक्ष्व विस्तरान्मुनिपुङ्गव ॥ १६ ॥
॥ सूत उवाच ॥ ॥
आसीत्पुरूरवानाम शक्रतुल्यपराक्रमः ॥
राजराजसमो राजा पुरा ह्यमरपूजितः ॥ १७ ॥
धर्मतः पालयामास मेदिनीं स नृपोत्तमः ॥
ईजे च बहुभिर्यज्ञैर्ददौ दानानि सर्वदा ॥ १८ ॥
प्रशासति महीं सर्वां राज्ञि तस्मिन्महामतौ ॥
मित्रावरुणशापेन भुवं प्रापोर्वशी द्विजाः ॥ १९ ॥
सा चचारोर्वशी तत्र राज्ञस्तस्य पुरान्तिके ॥
कोकिलालापमधुरवीणयोपवने जगौ ॥ 3.1.28.२० ॥
स राजोपवने रन्तुं कदाचिद्धृतकौतुकः ॥
आरूढतुरगः प्रायाल्ललनाशतसंवृतः ॥ २१ ॥
तादृशीमुर्वशीं तत्र करसम्मितमध्यमाम् ॥
उवाच चैनां राजासौ भार्या मम भवेति वै ॥ २२ ॥
सापि कामातुरा तत्र राजानं प्रत्यभाषत ॥
भवत्वेवं नरश्रेष्ठ समयं यदि मे भवान् ॥ २३ ॥
करिष्यति तवाभ्याशे वत्स्यामि धृतकौतुका ॥
करिष्ये समयं सुभ्रु तवाहमिति सोऽब्रवीत् ॥ २४ ॥
अथोर्वशी बभाषे तं पुरूरवसमुत्सुका ॥
पुत्रभूतं मम यदि रक्षस्युरणकद्वयम् ॥ २५ ॥
न नग्नो दृश्यसे राजन्कदापि यदि वै तथा ॥
नोच्छिष्टं मम दद्याश्चेत्तदा वत्स्ये तवान्तिके ॥ २६ ॥
घृतमात्राशना चाहं भविष्यामि नृपोत्तम ॥
एवमस्त्विति राजोक्तां तां निनाय निजं गृहम् ॥ २७ ॥
अलकायां स भूपालस्तथा चैत्ररथे वने ॥
रेमे सरस्वतीतीरे पद्मखण्डमनोरमे ॥ २८ ॥
एकषष्टिं स वर्षाणि रममाणस्तयानयत् ॥
तेनोर्वशी प्रतिदिनं वर्धमानानुरागिणी ॥ २९ ॥
स्पृहां न देवलोकेऽपि चकार तनुमध्यमा ॥
नाभवद्रमणीयोऽसौ देवलोकस्तया विना ॥ 3.1.28.३० ॥
अतस्तामानयिष्यामि देवलोकमिति द्विजाः ॥
विश्वावसुर्विचार्यैवं भूर्लोकमगमत्क्षणात् ॥ ३१ ॥
उर्वश्याः समयं राज्ञा विश्वावसुरयं सह ॥
विदित्वा सह गन्धर्वैः समवेतो निशान्तरे ॥ ३२ ॥
उर्वश्याः शयनाभ्याशाज्जग्राहोरणकं जवात् ॥
आकाशे नीयमानस्य तस्य श्रुत्वोर्वशी पतिम् ॥३३॥
अब्रवीन्मत्सुतः केन गृह्यते त्यज्यतामयम् ॥
अनाथा शरणं यामि कं नरं गतचेतना॥३४॥
पुरूरवाः समाकर्ण्य वाक्यं तस्या निशान्तरे ॥
मां न नग्नं निरीक्षेत देवीति न ययौ तदा ॥ ३५ ॥
अथान्यमप्युरणकं गन्धर्वाः प्रतिगृह्य ते ॥
ययुस्तस्योरणस्यापि शब्दं शुश्राव चोर्वशी ॥ ३६ ॥
अनाथाया मम सुतो गृह्यते तस्करैरिति ॥
चुक्रोश देवी परुषं कं यामि शरणं नरम् ॥ ३७ ॥
अमर्षवशमापन्नः श्रुत्वा तद्वचनं नृपः ॥
तिमिरेणावृतं सर्वमिति मत्त्वा स खङ्गधृक् ॥ ३८ ॥
दुष्टदुष्ट कुतो यासीत्यभ्यधावद्वचो वदन् ॥
तावत्सौदामिनी दीप्ता गन्ध र्वैर्जनिता भृशम् ॥ ३९ ॥
तत्प्रभामण्डलैर्देवी राजानं विगताम्बरम् ॥
दृष्ट्वा निवृत्तसमया तत्क्षणादेव निर्ययौ ॥ 3.1.28.४० ॥
त्यक्त्वा ह्युरणकौ तत्र गन्धर्वा अपि निर्ययुः ॥
राजा मेषौ समादाय हृष्टः स्वशयनान्तिकम् ॥ ४१ ॥
आगतो नोर्वशीं तत्र ददर्शायतलोचनाम् ॥
तां चापश्यन्विवस्त्रश्च बभ्रामोन्मत्तवद्भुवि ॥ ४२ ॥
कुरुक्षेत्रं गतो राजा तटाके पद्मसङ्कुले ॥
चतुर्भिरप्सरस्त्रीभिः क्रीडमाना ददर्श ताम्॥ ४३ ॥
हे जाये तिष्ठ मनसा घोरेति व्याहरन्मुहुः ॥
एवं बहुप्रकारं वै स सूक्तं प्रालपन्नृपः ॥ ४४ ॥
अब्रवीदुर्वशी तं च क्रीडती साप्सरोगणैः ॥
महाराजालमेतेन चेष्टितेन तवानघ ॥ ४५ ॥
त्वत्तो गर्भिण्यहं पूर्वमब्दान्ते भवतात्र वै ॥
आगन्तव्यं कुमारस्ते भविष्यत्यतिधार्मिकः ॥ ४६ ॥
एकां विभावरीं राजंस्त्वया वत्स्यामि वै तदा ॥
इत्युक्तो नृपतिर्हृष्टः स्वपुरीं प्राविशद्द्विजाः ॥ ४७॥
तासामप्सरसां सा तु कथयामास तं नृपम् ॥
अयं स पुरुषश्रेष्ठो येनाहं कामरूपिणा ॥ ४८ ॥
एतावन्तं महाकालमनुरागवशातुरा ॥
उषितास्मि सहानेन सख्यो नृपतिना चिरम् ॥ ४९ ॥
एवमुक्तास्ततः सख्यस्तामूचुः साधुसाध्विति ॥
अनेन साकमास्यामः सर्वकालं वयं सखि ॥ 3.1.28.५० ॥
इत्यूचुरुर्वशीं तत्र सखीमप्सरसस्तदा ॥
अब्देऽथ पूर्णे राजापि तटाकान्ति कमाययौ ॥ ५१ ॥
आगतं नृपतिं दृष्ट्वा पुरूरवसमुर्वशी ॥
कुमारमायुषं तस्मै ददौ सम्प्रीतमानसा ॥ ५२ ॥
तेन साकं निशामेकामुषिता सानु रागिणी ॥
पञ्चपुत्रप्रदं गर्भं तस्मादापाशु सोर्वशी ॥ ५३ ॥
उवाच चैनं राजानमुर्वशी परमाङ्गना ॥
वरं दास्यन्ति गन्धर्वा मत्प्रीत्या तव भूपते ॥ ५४ ॥
भवतां प्रार्थ्यतां तेभ्यो वरो राजर्षिसत्तम ॥
इत्युक्तः स तया राजा प्राह गन्धर्वसत्तमान् ॥ ५५ ॥
अहं सम्पूर्णकोशश्च विजिताराति मण्डलः ॥
सलोकतां विनोर्वश्याः प्राप्तव्यं नान्यदस्ति मे ॥ ५६ ॥
अतस्तया सहोर्वश्या कालं नेतुमहं वृणे ॥
एवमुक्ते नृपेणाथ गन्धर्वास्तुष्ट मानसाः ॥
अग्निस्थालीं प्रदायास्मै प्रोचुश्चैनं नृपं तदा ॥ ५७ ॥
॥ गन्धर्वा ऊचुः ॥ ॥
अग्निं वेदानुसारी त्वं त्रिधा कृत्वा नृपोत्तम ॥ ५८ ॥
इष्ट्वा यज्ञेन चोर्वश्याः सालोक्यं याहि भूपते ॥
इतीरितस्तैरादाय स्थालीमग्नेर्ययौ नृपः ॥ ५९ ॥
अहो बतातिमूढोहमिति मध्ये वनं नृपः ॥
उर्वशी न मया लब्धा वह्निस्थाल्या तु किं फलम् ॥ 3.1.28.६० ॥
निधायैव वने स्थालीं स्वपुरं प्रययौ नृपः ॥
अर्धरात्रे व्यतीतेऽसौ विनिद्रोऽचिन्तयत्स्वयम् ॥ ६१ ॥
उर्वशीलोकसिद्ध्यर्थं मम गन्धर्वपुङ्गवैः ॥
अग्निस्थाली सम्प्रदत्ता सा च त्यक्ता मया वने ॥ ६२॥
आहरिष्ये पुनः स्थालीमित्युत्थाय ययौ वनम् ॥
नाग्निस्थालीं ददर्शासौ वने तत्र पुरूरवाः ॥ ६३ ॥
शमीगर्भमथाश्वत्थमग्निस्थाने विलोक्य सः ॥
व्यचिन्तयन्मया स्थाली निक्षिप्तात्र वने पुरा ॥ ६४ ॥
सा चाश्वत्थः शमीगर्भः समभूदधुना त्विह ॥
तस्मादेनं समादाय वह्निरूपमहं पुरम्॥ ॥ ६५ ॥
गत्वा कृत्वारणीं सम्यक्तदुत्पन्नाग्निमादरात् ॥
उपास्यामीति निश्चित्य स्वपुरं गतवान्नृपः ॥ ६६ ॥
रमणीयारणीं चक्रे स्वाङ्गुलैः प्रमिता मसौ ॥
निर्माणसमये राजा गायत्रीमजपद्द्विजाः ॥ ६७ ॥
गायत्र्याः पठ्यमानाया यानि सन्त्यक्षराणि हि ॥
तावदङ्गुलिमर्यादामकरोदरणीं नृपः ॥ ६८ ॥
तत्र निर्मथनादग्नित्रयमुत्पाद्य भूपतिः ॥
उर्वशीलोकसम्प्राप्तिफलमुद्दिश्य काङ्क्षितम् ॥ ६९ ॥
वेदानुसारी नृपतिर्जुहावाग्नित्रयं मुदा ॥
तेनैव चाग्निविधिना बहून्यज्ञानथातनोत्॥3.1.28.७०॥।
तेन गन्धर्वलोकांश्च सम्प्राप्य जगतीपतिः॥
सहोर्वश्या चिरं रेमे देवलोके द्विजोत्तमाः॥७१॥
अथ सर्वामरोपेतः कदाचिद्बलवृत्रहा॥
नृत्यं सुराङ्गनानां वै व्यलोकयत संसदि॥७२॥
पुरूरवा नृपोप्यायात्तदा देवेन्द्रसंसदम् ॥
द्रष्टुं सुराङ्गनानृत्यं मनोहारि दिवौकसाम् ॥ ७३ ॥
एकैकशस्ताः शक्रस्य ननृतुः पुरतोंऽगनाः ॥
अथोर्वशी समागत्य ननर्त पुरतो हरेः ॥ ७४ ॥
नृत्ताभिनयसामर्थ्यगर्वयुक्ता तदोर्वशी ॥
तं पुरूरवसं दृष्ट्वा जहासातिमनोहरा ॥ ७५ ॥
जहास तत्र राजापि तां विलोक्य तदोर्वशीम् ॥
हाससङ्कुपितस्तत्र नाट्याचार्योऽथ तुम्बुरुः ॥
शशाप तावुभौ कोपादुर्वशीं च नृपोत्तमम् ॥ ७६ ॥ ॥
॥ तुम्बुरुरुवाच ॥ ॥
अनेकदेवसम्पूर्णसभायामत्र यत्कृतम् ॥ ७७ ॥
युवाभ्यां हसितं नृत्तमध्ये निष्कारणं वृथा ॥
तस्माज्झटिति राजेन्द्र वियोगो युवयोः क्षणात् ॥ ७८ ॥
भूयादिति शशापैनं सर्वदैवतसन्निधौ ॥
अथ शप्तो नृपस्तत्र नाट्याचार्येण दुःखितः ॥ ७९ ॥
जगाम शरणं तत्र पाहिपाहीति वज्रिणम् ॥
उवाच दीनया वाचा पुरुहूतं पुरूरवाः ॥ 3.1.28.८० ॥
उर्वश्या सह सालोक्यसिद्ध्यर्थमहमिष्टवान् ॥
अतस्तस्मा वियोगो मेऽसह्यः स्यात्पाकशासन ॥ ८१ ॥
इत्युक्तवन्तं तं प्राह सहस्राक्षः शचीपतिः ॥
शापमोक्षं प्रवक्ष्यामि मा भैषीस्त्वं नृपोत्तम ॥ ८२ ॥
दक्षिणाम्भोनिधौ पुण्ये गन्धमादनपर्वते ॥
साध्यामृतमिति ख्यातं तीर्थमस्ति महत्तरम् ॥ ८३ ॥
सेवितं सर्वदेवैश्च सिद्धचारणकिन्नरैः ॥
सनकादि महायोगिमुनिवृन्दनिषेवितम् ॥ ८४ ॥
भुक्तिमुक्तिप्रदं पुंसां सर्वशापविमोक्षदम् ॥
अस्ति तीर्थं भवांस्तत्र गच्छस्व त्वरया नृप ॥ ८५ ॥
सर्वेषाममृतं स्नानादत्र साध्यं यतस्ततः ॥
साध्यामृतमिति ख्यातं सर्वलोकेषु विश्रुतम् ॥ ८६ ॥
तत्र स्नानात्तवोर्वश्याः पुनर्योगो भविष्यति ॥
मम लोके निवासश्च भविष्यति न संशयः ॥ ८७ ॥
इति प्रतिसमादिष्टो नृपः सम्प्रीतमानसः ॥
साध्यामृतं महातीर्थं समुद्दिश्य ययौ क्षणात् ॥ ८८ ॥
सस्नौ साध्यामृते तत्र महापातकनाशने ॥
तत्र स्नानान्नृपो विप्राः सद्यः शापेन मोचितः ॥ ८९ ॥
स्नानानन्तरमेवासावुर्वश्या सह सङ्गतः ॥
तया सह विमानस्थः प्रययावमरावतीम् ॥ 3.1.28.९० ॥
रेमे पुनस्तया सार्धं देववद्देवमन्दिरे ॥
एवम्प्रभावं तत्तीर्थं साध्यामृतमनुत्तमम् ॥ ९१ ॥
पुरूरवा सहोर्वश्या यत्र स्नानेन सङ्गतः ॥
अतोऽत्र तीर्थे यः स्नायान्महापातकनाशने ॥ ९२॥
वाञ्छिताल्ँलभते कामान्यास्यति स्वर्गमुत्तमम् ॥
निष्कामः स्नाति चेद्वि प्रा मोक्षमाप्नोति मानवः ॥९३॥
इमं पवित्रं पापघ्नमध्यायं पठते तु यः॥
शृणुयाद्वा मनुष्योऽसौ वैकुण्ठे लभते स्थितिम् ॥९४॥
एवं वः कथितं विप्रा वैभवं पापनाशनम् ॥
साध्यामृतस्य तीर्थस्य विस्तराच्छ्रद्धया मया ॥ ९५ ॥
यत्पुरा सनकादिभ्यः प्रोक्तवांश्चतुराननः ॥ ९६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये साध्यामृततीर्थप्रशंसायां पुरूरवःशापविमोक्षणवर्णनन्नामाष्टाविंशो अध्यायः ॥ २८ ॥