०२७ मातुलवधदोषशान्तिवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
यमुनायां च गङ्गायां गयायां च नरो मुदा ॥
स्नानं विधाय विधिवत्कोटितीर्थं ततो व्रजेत् ॥ १ ॥
कोटितीर्थं महापुण्यं सर्वलोकेषु विश्रुतम् ॥
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥ २ ॥
दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ॥
महाविघ्नप्रशमनं महाशान्तिकरं नृणाम् ॥ ३ ॥
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ॥
लीलया धनुषः कोट्या स्वयं रामेण निर्मितम् ॥ ४ ॥
पुरा दाशरथी रामो निहत्य युधि रावणम् ॥
ब्रह्महत्याविमोक्षाय गन्धमादनपर्वते ॥ ५ ॥
प्रातिष्ठिपल्लिङ्गमेकं लोकानुग्रहकाम्यया ॥
लिङ्गस्यास्याभिषेकाय शुद्धं वारि गवेषयन् ॥ ६ ॥
नाविन्दत जलं तत्र पार्श्वे दशरथात्मजः ॥
लिङ्गाभिषेकयोग्यं च जलं किमिति चिन्तयन् ॥ ७ ॥
नवेन वारिणा लिङ्गं स्नापनीयं मयेति सः ॥
निश्चित्य मनसा तत्र धनुष्कोट्या रघूद्वहः ॥ ८ ॥
बिभेद धरणीं शीघ्रं मनसा जाह्नवीं स्मरन् ॥
रामकार्मुककोटिः सा तदा प्राप रसातलम् ॥ ९ ॥
तत उद्धारयामास तद्धनुर्धन्विनां वरः ॥
धनुष्युद्ध्रियमाणे तु राघवेण महीतलात् ॥ 3.1.27.१० ॥
काकुत्स्थेन स्मृता गङ्गा निर्ययौ विवरात्ततः ॥
वारिणा तेन तल्लिङ्गमभ्यषिञ्चद्रघूद्वहः ॥ ११ ॥
रामकार्मु ककोट्यैव यतस्तन्निर्मितं पुरा ॥
अतः कोटिरिति ख्यातं तत्तीर्थं भुवनत्रये ॥ १२ ॥
यानि यानीह तीर्थानि सन्ति वै गन्धमादने ॥
प्रथमं तेषु तीर्थेषु स्नात्वा विगतकल्मषः ॥ १३ ॥
शेषपापविमोक्षाय स्नायात्कोटौ नरस्ततः ॥
तीर्थान्तरेषु स्नानेन यः पापौघो न नश्यति ॥ १४ ॥
अनेकजन्मकोटीभिरर्जितो ह्यस्थिसंस्थितः ॥
विनश्यति स सर्वोऽपि कोटिस्नानान्न संशयः ॥ १५ ॥
यदि हि प्रथमं स्नायादत्र कोटौ नरो द्विजाः ॥
तस्य मुक्तस्य तीर्थानि व्यर्थान्येवापराणि हि ॥ १६ ॥
॥ ऋषय ऊचुः ॥ ॥
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य मुनीश्वर ॥
अस्माकं संशयं कञ्चिच्छिन्धि पौराणिकोत्तम ॥ १७ ॥
कोटौ स्नातस्य मर्त्यस्य यदि तीर्थान्तरं वृथा ॥
किमर्थं धर्मतीर्थादि तीर्थेषु स्नान्ति मानवाः ॥१८॥
तीर्थानि तानि सर्वाणि समतिक्रम्य मानवाः॥
अत्रैव कोटौ किं स्नानं न कुर्वन्ति हि तद्वद ॥ १९ ॥
॥ श्रीसूत उवाच ॥ ॥
अहो रहस्यं युष्माभिः पृष्टमेतन्मुनीश्वराः ॥
नारदाय पुरा शम्भुः पृच्छते यत्किलाब्रवीत् ॥ 3.1.27.२० ॥
तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ॥
गच्छन्यदृच्छया वापि तीर्थयात्रापरोऽपि वा ॥ २१ ॥
मार्गमध्ये द्विजश्रेष्ठास्तीर्थं देवालयं तथा ॥
दृष्ट्वा श्रुत्वापि वा मोहान्न सेवेत नराधमः ॥ २२ ॥
निष्कृतिस्तस्य नास्तीति प्राब्रुवन्परमर्षयः ॥
सेतुं गच्छंस्ततोऽन्येषु न स्नायाद्यदि मानवः ॥ २३ ॥
तीर्थातिक्रमदोषैः स बहिष्कार्योऽत्यवद्द्विजैः ॥
अतः स्नातव्यमेवैषु चक्रतीर्थादिषु द्विजाः ॥ २४ ॥
स्नात्वा चैतेषु तीर्थेषु शेषपापविमुक्तये ॥
प्रयतैर्मनुजैरत्र स्नातव्यं कोटितीर्थके ॥ २५ ॥
कोटौ चाभि षवं कृत्वा न तिष्ठेद्गन्धमादने ॥
निवर्तेत्तत्क्षणादेव निष्पापो गन्धमादनात् ॥ २६ ॥
रामोऽपि हि पुरा कोटितीर्थसम्भूतवारिणा ॥
रामनाथेऽभिषिक्ते तु स्वयं स्नात्वा च तत्र वै ॥ २७ ॥
ब्रह्महत्याविमुक्तः संस्तत्क्षणादेव सानुजः ॥
आरूढपुष्पकोऽयोध्यां प्रययौ कपिभिर्वृतः ॥ २८ ॥
अतः कोटौ नरः स्नात्वा पापशेषविमोचितः ॥
निवर्तेत्तत्क्षणादेव रामो दाशरथिर्यथा ॥ २९ ॥
एतद्धि तीर्थप्रवरं सर्वलोकेषु विश्रुतम् ॥
रामनाथाभिषेकाय निर्मितं राघवेण यत् ॥ 3.1.27.३० ॥
स्वयं भगवती यत्र सन्निधत्ते च जाह्नवी ॥
तारकब्रह्मणा यत्र रामेण स्नातमादरात् ॥ ३१ ॥
तस्य वै कोटितीर्थस्य महिमा केन कथ्यताम् ॥
यत्र स्नात्वा पुरा कृष्णो लोकसङ्ग्रहणेच्छया ॥ ३२ ॥
मातुलस्य तु कंसस्य वधदोषाद्विमोचितः ॥
तस्य वै कोटितीर्थस्य महिमा केन कथ्यते ॥ ३३ ॥
॥ ऋषय ऊचुः ॥ ॥
किमर्थमवधीत्कंसं मातुलं यदुनन्दनः ॥
यद्दोषशान्तये सूत सस्नौ कोटौ महा मनाः ॥ ३४ ॥
॥ श्रीसूत उवाच ॥ ॥
वसुदेव इति ख्यातः शूरपुत्रो यदोः कुले ॥
आसीत्स देवकसुतां देवकीमिति विश्रुताम् ॥ ३५ ॥
उद्वाह्य रथमारूढः स्वपुरं प्रस्थितः पुरा ॥
अथ सूतो बभूवाथ कंसो ह्यानकदुन्दुभेः ॥ ३६ ॥
अशरीरा तदा वाणी कंसं सारथिमब्रवीत् ॥
भगिनीं च तथा भामं वाहयन्तं रथोत्तमे ॥ ३७ ॥
यामिमां वाहयस्यत्र रथेन त्वमरिन्दम ॥
अस्यास्त्वामष्टमो गर्भो वधिष्यति न संशयः ॥ ३८ ॥
इत्याकर्ण्य वचो दिव्यं कंसः खङ्गं प्रगृह्य च ॥
स्वसारं हन्तुमुद्योगं चकार द्विजपुङ्गवाः ॥ ३९ ॥
ततः प्रोवाच तं कंसं वसुदेवः स सान्त्वयन् ॥ ॥
॥ वसुदेव उवाच ॥ ॥
अस्यां प्रसूतान्दास्यामि तुभ्यं कम्स सुतानहम् ॥ 3.1.27.४० ॥
एनां स्वसारं मा हिंसीर्नास्यास्ते भीतिरस्ति हि ॥
श्रुत्वा तद्वचनं कंसो निवृत्तस्तद्वधात्तदा ॥ ४१ ॥
देवकीवसुदेवाभ्यां सहितः स्वपुरं ययौ ॥
पादावसक्तनिगडौ देवकीवसुदेवकौ ॥ ४२ ॥
स्थापयामास दुष्टात्मा कंसः कारागृहे तदा ॥
ततः कालेन महता वसुदेवाद्धि देवकी ॥ ४३ ॥
षट्पुत्राञ्जनयामास क्रमेण मुनिपुङ्गवाः ॥
जातांस्तान्वसुदेवेन दत्तान्कंसोऽपि सोऽवधीत् ॥ ४४ ॥
हतेषु षटसु पुत्रेषु देवक्युदरजन्मसु ॥
कंसेन क्रूरमतिना निष्कृपेण द्विजोत्तमाः ॥ ४५ ॥
शेषोऽभूत्सप्तमो गर्भो देवक्या जठरे तदा ॥
मायादेवी ततो गर्भं तं वै विष्णुप्रचोदिता ॥ ४६ ॥
नन्दगोपगृहस्थायां रोहिण्यां समवेशयत् ॥
देवक्याः सप्तमो गर्भः पतितो जठरादिति ॥ ४७ ॥
लोके प्रसिद्धिरभवन्महती विष्णुलीलया ॥
देवकीजठरे पश्चाद्विष्णुर्गर्भत्वमाप्तवान् ॥ ४८ ॥
ततो दशसु मासेषु गतेषु हरिरव्ययः ॥
देवकीजठराज्जज्ञे कृष्ण इत्यभिविश्रुतः ॥ ४९ ॥
शङ्खचक्रगदाखङ्गविराजितचतुर्भुजः ॥
किरीटी वनमाली च पित्रोः शोकविनाशनः ॥ 3.1.27.५० ॥
तं दृष्ट्वा हरिमीशानं तुष्टावानकदुन्दुभिः ॥ ५१ ॥
॥ वसुदेव उवाच ॥ ॥
विश्वं भवा न्विश्वपतिस्त्वमेव विश्वस्य योनिस्त्वयि विश्वमास्ते ॥
महान्प्रधानश्च विराट स्वराड् च सम्राडसि त्वं भगवन्समस्तम् ॥ ५२ ॥
एवं जगत्कारणभूतधाम्ने नारायणायामितविक्रमाय ॥
श्रीशार्ङ्गचक्रासिगदाधराय नमोनमः कृत्रिममानुषाय ॥ ५३ ॥
स्तुवन्तमेवं शौरिं तं वसुदेवं हरिस्तदा ॥
अवोचत्प्रीणयंस्तं च देवकीं च द्विजोत्तमाः ॥ ५४ ॥
॥ हरिरुवाच ॥ ॥
अहं कंसं वधिष्यामि मा भीर्वां पितराविति ॥
नन्दगोपस्य गृहिणी यशोदाऽजनयत्सुताम् ॥
मम मायां पूर्वदिने सर्वलोकविमोहिनीम् ॥ ५५ ॥
मां तस्याः शयने न्यस्य यशोदायाः सुता तु ताम्॥
आदाय देवकीशय्यां प्रापयस्व यदूत्तम ॥ ५६ ॥
एवमुक्तः स कृष्णेन तथैव ह्यकरोद्द्विजाः ॥
रुरोद माया तनया देवकीशयनेस्थिता ॥ ५७ ॥
अथ बालध्वनिं श्रुत्वा कंसः सङ्कुलमानसः ॥
सूतिकागृहमागम्य तामादाय च दारिकाम्॥५८॥
शिलायां पोथयामास निर्दयो निरपत्रपः ॥
अथ तद्धस्तमाच्छिद्य सायुधाष्टमहाभुजा ॥
महादेव्यब्रवीत्कंसं समाहूयातिकोपना ॥ ५९ ॥
॥ मायोवाच ॥ ॥
अरे रे कम्स पापात्मन्दुर्बुद्धे मूढचेतन ॥ 3.1.27.६० ॥
यत्र कुत्रापि शत्रुस्ते वर्तते प्राणहारकः ॥
मार्गयस्वात्मनो मृत्युं तं शत्रुं कम्स मा चिरम् ॥ ६१ ॥
इतीरयित्वा सा देवी दिव्यस्थानान्यवाप्य च ॥
लब्धपूजा मनुष्येभ्यो बभूवाभीष्टदायिनी ॥ ६२ ॥
श्रुत्वा स देवीवचनं कंसो ऽपि भृशमाकुलः ॥
बालग्रहान्पूतनादीन्स्वान्तकं बाधितुं रिपुम् ॥ ६३ ॥
प्रेषयामास देशेषु शिशूनन्यांश्च बाधितुम्॥
ते च बालग्रहाः सर्वे प्रययु र्नन्दगोकुलम् ॥ ६४ ॥
हताश्च कृष्णेन तदा प्रययुर्यमसादनम् ॥
ततः कतिपयाहस्सु गतेषु द्विजपुङ्गवाः ॥ ६५ ॥
रामकृष्णौ व्यवर्द्धेतां गोकुले बालकौ तदा ॥
अनेकबालक्रीडाभिश्चिक्रीडतुररिन्दमौ ॥ ६६ ॥
कञ्चित्कालं वत्सपालौ वेणुनादमकुर्वताम् ॥
कञ्चित्कालं च गोपालौ गुञ्जातापि च्छभूषितौ ॥ ६७ ॥
रेमाते बहुकालं तौ गोकुले रामकेशवौ ॥
कंसः कदाचिदक्रूरं गोकुले रामकेशवौ ॥ ६८ ॥
प्रेषयामास विप्रेन्द्राः समानयितुमं जसा ॥
आनयामास चाक्रूरो रामकृष्णौ स गोकुलात् ॥ ६९ ॥
मथुरां कंसनिर्देशात्स्वर्णतोरणराजिताम् ॥3.1.27.७०॥
ततः समानीय स रामकेशवौ ययौ पुरीं गान्दिनिजस्तदग्रे ॥
दृष्ट्वा च कंसं विनिवेद्य कार्यं तस्मै स्वगेहं प्रविवेश पश्चात् ॥७१॥
अथापराह्णे वसुदेवपुत्रावन्येद्युरिष्टैः सह गोपपुत्रैः ॥
उपेयतुः सालनिखातयुक्तां सङ्गोपुराट्टां मधुरापुरीं तौ ॥ ७२ ॥
स्तोत्राणि शृण्वन्पुरयौवतानां कृष्णस्तु रामेण सहैव गत्वा ॥
धनुर्निवेशं सह सैव तत्र ददर्श चापं च महदृढज्यम् ॥ ७३ ॥
विद्राव्य सर्वानपि चापपालान्धनुः समादाय स लीलयाऽऽशु ॥
मौर्व्यां नियोक्तुं नमयाञ्चकार तदं तरे भग्नमभूद्विधैव ॥ ७४ ॥
कोदण्डभङ्गोत्थितशब्दमाशु श्रुत्वाभियातान्बलिनो निहन्तुम् ॥
निजघ्नतुस्तौ प्रतिगृह्य खण्डौ चापस्य पालान्बलिनौ द्विजेन्द्रा ॥ ७५ ॥
ततः कुवलयापीडं गजं द्वारि स्थितं क्षणात् ॥
निहत्य रामकृष्णौ तौ महाबलपराक्रमौ ॥ ७६ ॥
तस्य दन्तौ समुत्पाट्य दधानौ करयोर्द्वयोः ॥
अंसे निधाय तौ दन्तौ रङ्गं प्रययतुः क्षणात् ॥ ७७ ॥
निहत्य मल्लं चाणूरं मुष्टिकं तोशलं तथा ॥
अन्यांश्च मल्लप्रवरान्निन्यतुर्यमसा दनम् ॥७८॥
समारुरुहतुस्तूर्णं तुङ्गं मञ्चं च तौ तदा ॥
तत्र तुङ्गे समासीनमासने कंसमेत्य तौ ॥
तस्थतुस्तं तृणीकृत्य सिंहौ क्षुद्रमृगं यथा ॥७९॥
ततः कंसं समाकृष्य कृष्णो मञ्चोपरि स्थितम् ॥
पादौ गृहीत्वा वेगेन भ्रामयामास चाम्बरे ॥ 3.1.27.८० ॥
ततस्तं पोथयामास स भूमौ गत जीवितम् ॥
कंसभ्रातॄन्बलोऽप्यष्टौ निजघ्ने मुष्टिना द्विजाः ॥ ८१ ॥
एवं निहत्य तं कंसं कृष्णः परबलार्दनः ॥
पितरौ मोचयामास निगडादति दुःखितौ ॥ ८२ ॥
सर्वानास्थापयामास बलेन सह माधवः ॥
श्रीकृष्णेन हतं कंसं श्रुत्वा प्रापुः पुरीं तदा ॥ ८३ ॥
बान्धवा मथुरायां ये पूर्वं कंसे न बाधिताः ॥
उग्रसेनं तथा राज्ये स्थापयामास केशवः ॥ ८४ ॥
असहिष्णुर्द्विजाः पित्रोरेवं कंसकृतागसम् ॥
जघान मातुलं कंसं देवब्राह्मणकण्ट कम् ॥ ८५ ॥
ततः कदाचिकृष्णोऽयमात्मानं द्रष्टुमागतान् ॥
नारदादीन्मुनीन्सर्वानिदं पप्रच्छ सत्तमः ॥ ८६ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
मयाऽयं मातुलो विप्रा हतः कंसोऽतिपापकृत् ॥
मातुलस्य वधे दोषः प्रोच्यते शास्त्रवित्तमैः॥ ८७ ॥
प्रायश्चित्तमतो ब्रूत तद्दोषविनिवृत्तये ॥
अवोचन्नारदस्तत्र कृष्णमद्भुतविक्रमम् ॥
वाचा मधुरया विप्रा भक्तिप्रणयपूर्वकम् ॥ ८८ ॥
॥ नारद उवाच ॥ ॥
नित्यशुद्धश्च मुक्तश्च भद्रश्चैव भवा न्सदा ॥ ८९ ॥
सच्चिदानन्दरूपश्च परमात्मा सनातनः ॥
पुण्यं पापं च ते नास्ति कृष्ण यादवनन्दन ॥ 3.1.27.९० ॥
तथापि लोकशिक्षार्थं भवता गरु डध्वज ॥
प्रायश्चित्तं तु कर्तव्यं विधिनानेन माधव ॥ ९१ ॥
लोकसङ्ग्रहणं तावत्कर्तव्यं भवताधुना ॥
रामसेतौ महापुण्ये गन्धमादनपर्वते ॥ ९२ ॥
रामेण स्थापितं लिङ्गं रामनाथाभिधं पुरा ॥
तस्याभिषेकतोयार्थं धनुष्कोट्या रघूद्वहः ॥ ९३ ॥
गां भित्त्वोत्पादयामास तीर्थं कोटीति विश्रुतम् ॥
तव पूर्वावतारेण रामेणाक्लिष्टकर्मणा ॥ ९४ ॥
ब्रह्महत्याविशुद्ध्यर्थं निर्मितं स्वयमेव यत् ॥
तत्र स्नानं कुरुष्व त्वं धर्म्ये पापविनाशने ॥ ९५ ॥
तेन ते मातुलवधाद्दोषः शीघ्रं विनङ्क्ष्यति ॥
कोटितीर्थे हरेः स्नानं ब्रह्महत्यादिशोधकम् ॥ ९६ ॥
स्वर्गमोक्षप्रदं पुंसामायुरारोग्यवर्धनम् ॥
इति श्रुत्वा मुनेर्वाक्यं नारदस्य स माधवः ॥ ९७ ॥
विसृज्य तानृषीन्सर्वांस्तस्मिन्नेव क्षणे द्विजाः ॥
रामसेतौ ययौ तूर्णं स्वदोषपरि शुद्धये ॥ ९८ ॥
दिनैः कतिपयैर्गत्वा कोटितीर्थं यदूद्वहः ॥
स्नात्वा सङ्कल्पपूर्वं च दत्त्वा दानान्यनेकशः ॥ ९९ ॥
स मातुलवधोत्पन्नदोषेभ्यो मुमु चे क्षणात् ॥
निषेव्य रामनाथं च स्वपुरं मथुरां ययौ ॥ 3.1.27.१०० ॥
॥ श्रीसूत उवाच ॥ ॥
एवं प्रभावं पुण्यं च कोटितीर्थं मुनीश्वराः ॥
ब्रह्महत्यादिभिः पापैः सद्यो मुच्येत मानवः ॥
नानेन सदृशं तीर्थमन्यदस्ति महीतले ॥ १ ॥
अत्र स्नानात्त्रयो देवा ब्रह्मविष्णुशिवा द्विजाः ॥
प्रीताः स्युरन्ये देवाश्च नात्र कार्या विचारणा ॥ २ ॥
एवं वः कथितं चित्रं कोटितीर्थस्य वैभवम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥ ३ ॥
श्रुत्वेमं पुण्यमध्यायं पठित्वा च मुनीश्वराः ॥
ब्रह्महत्यादिभिः सत्यं मुच्यते पातकैर्नरः ॥ १०४ ॥
इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कोटितीर्थप्रशंसायां कृष्णस्य मातुलवधदोषशान्तिवर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥