॥ श्रीसूत उवाच ॥ ॥
विधायाभिषवं मर्त्याः शङ्खतीर्थे द्विजोत्तमाः ॥
यमुनां चैव गङ्गां च गयां चापि क्रमाद्व्रजेत् ॥ १ ॥
यमुनाख्यं महातीर्थं गङ्गातीर्थमनुत्तमम् ॥
गयातीर्थं च मर्त्यानां महापातकनाशनम् ॥ २ ॥
एतत्तीर्थत्रयं पुण्यं सर्वलोकेषु विश्रुतम् ॥
सर्वविघ्नप्रशमनं सर्वरोगनिबर्हणम् ॥ ३ ॥
एतद्धि तीर्थत्रितयं सकलाज्ञाननाशनम् ॥
अविद्यायां विनष्टायां तथा ज्ञानप्रदं नृणाम् ॥ ४ ॥
जानश्रुतिर्महाराज एषु तीर्थेषु वै पुरा ॥
स्नात्वा रैक्वाद्द्विजश्रेष्ठात्प्राप्तवाञ्ज्ञानमुत्तमम्॥ ५ ॥
॥ ऋषय ऊचुः ॥ ॥
सूत सर्वार्थतत्त्वज्ञ व्यासशिष्य महामते ॥
यमुना चैव गङ्गा च गया चैवेति विश्रुतम् ॥ ६ ॥
एतत्तीर्थत्रयं कस्मादागतं गन्धमादने ॥
जानश्रुतेश्च राजर्षेः स्नानात्तीर्थत्रयेऽपि च ॥
ज्ञानावाप्तिः कथं रैक्वादस्माकं सूत तद्वद ॥ ७ ॥
॥ श्रीसूत उवाच ॥ ॥
रैक्वनामा महर्षिस्तु पुरा वै गन्धमादने ॥ ८ ॥
तपस्सुदुश्चरं कुर्वन्न्यवसत्तपसां निधिः ॥
दीर्घकालं तपः कुर्वन्स वै रैक्वो महामुनिः ॥ ९ ॥
तपोबलेन महता दीर्घमायुरवाप्तवान् ॥
जन्मना पङ्गुरेवासीद्रैक्वनामा महामुनिः ॥ 3.1.26.१० ॥
पङ्गुत्वादसमर्थोऽभूद्गन्तुं तीर्थान्यसौ मुनिः ॥
सन्ति यानि तु तीर्थानि गन्धमादनपर्वते ॥ ११ ॥
तानि गच्छति सामीप्याच्छकटेनैव सञ्चरन् ॥
स यद्रैक्वो मुनिवरो युग्वेन सह वर्तते ॥ १२ ॥
तपस्वी वैदिकैर्लोके सयुग्वैत्यभिधीयते ॥
युग्वेति शकटं प्रोक्तं स तेन सह वर्तते ॥ १३ ॥
स खल्वेवं मुनिश्रेष्ठः सयुग्वानाम वै मुनिः ॥
पूर्णज्ञानस्तपस्तेपे गन्धमादनपर्वते ॥१४॥
ग्रीष्मे पञ्चाग्निमध्यस्थः सोऽतप्यत महत्तपः ॥
वर्षायां कण्ठदघ्नेषु जलेषु समवर्तत ॥ १५ ॥
तपसा शोषिते गात्रे पामा तस्य व्यजायत ॥
कण्डूयत स पामानं दिवारात्रं मुनीश्वरः ॥ १६॥
कण्डूयमान एवायं पामानं न तपोऽत्यजत् ॥
अजायत मनस्त्वेवं तस्य सयुग्वनो मुनेः ॥ १७ ॥
यमुनायां च गङ्गायां गयायां चाधुनैव हि ॥
अस्मिंस्तीर्थे त्रये पुण्ये स्नातव्यं हि मया त्विति ॥ १८ ॥
एवं विचिन्त्य स मुनिरन्यां चिन्तामथाकरोत् ॥
अहं हि जन्मना पङ्गुरतः स्नानं हि दुर्लभम् ॥ १९ ॥
अतिदूरं मया गन्तुं शकटेन न शक्यते ॥
किं करोम्यधुनेत्येवं स वितर्क्य महामतिः ॥ 3.1.26.२० ॥
तीर्थत्रयेषु स्नानार्थं कर्तव्यं निश्चिकाय वै ॥
अप्रसह्यमनाधृष्यं विद्यते मे तपोबलम् ॥ २१ ॥
तेनैवावाहयिष्यामि तद्धि तीर्थत्रयं त्विह ॥
इति निश्चित्य मनसा प्राङ्मुखो नियतेन्द्रियः ॥ २२ ॥
त्रिराचम्य च सयुग्वान्दध्यौ क्षणमतन्द्रितः ॥
तस्य मन्त्रप्रभावेन यमुना सा महानदी ॥ २३ ॥
गङ्गा च जह्नुतनया गया सा पापनाशिनी ॥
भूमिं निर्भिद्य तिस्रोपि पातालात्सहसोत्थिताः ॥ २४ ॥
मानुषं रूपमास्थाय सयुग्वानमुपेत्य च ॥
ऊचुः परमसंहृष्टा हर्षयन्त्यश्च तं मुनिम् ॥ २५ ॥
सयुग्वन्रैक्व भद्रं ते ध्यानादस्मादुपारम ॥
त्वन्मत्रेण समाकृष्टा वयमत्र समागताः ॥ २६ ॥
कि कर्तव्यं तवास्माभिस्तद्वदस्व मुनीश्वर ॥
इति तासां वचः श्रुत्वा सयुग्वान्हि महामुनिः ॥ २७ ॥
ध्यानादुपारमत्तूर्णं ताश्चापश्यत्पुरः स्थिताः ॥
स ताः सम्पूज्य विधिवद्रैक्वो वाचमभाषत ॥ २८ ॥
यमुने देवि हे गङ्गे हे गये पापनाशिनि ॥
सन्निधानं कुरुध्वं मे गन्धमादनपर्वते ॥ २९ ॥
यत्र भूमिं विनिर्भिद्य भवत्य इह निर्गताः ॥
तानि पुण्यानि तीर्थानि भवेयुर्वोऽभिधानतः ॥ 3.1.26.३० ॥
सहसान्तरधीयन्त तथास्त्वित्येव तत्र ताः ॥
तदाप्रभृति तीर्थानि तानि त्रीण्यपि भूतले ॥ ३१ ॥
तेनतेनाभिधानेन गीयन्ते सर्वदा जनैः ॥
यत्र भूमिं विनिर्भिद्य यमुना निर्गता तदा ॥ ३२ ॥
यमुनातीर्थमिति वै तज्जनैरभिधीयते ॥
यतो वै पृथिवीरन्ध्राज्जाह्नवी सहसोत्थिता ॥ ३३ ॥
गङ्गातीर्थमिति ख्यातं तल्लोके पापनाशनम् ॥
गया हि मानुषं रूपं यत आस्थाय निर्ययौ ॥ ३४ ॥
तदेव भूमिविवरं गयातीर्थं प्रचक्षते ॥
एवमेतन्महापुण्यं तीर्थत्रयमनुत्तमम् ॥ ३५ ॥
रैक्वमन्त्रप्रभावेण पृथिव्याः सहसोत्थितम् ॥
अत्र तीर्थत्रये स्नानं ये कुर्वन्ति नरोत्तमाः ॥ ३६ ॥
तेषामज्ञाननाशः स्याज्ज्ञानमप्युदयं लभेत् ॥
स्वमन्त्रेण समाकृष्टे तत्र तीर्थत्रये मुनिः ॥ ३७ ॥
स्नानं समाचरन्नित्यं स कालानत्यवाहयत् ॥
एतस्मिन्नेव काले तु राजा जानश्रुतिर्महान् ॥ ३८ ॥
पुत्रसञ्ज्ञस्य राजर्षेः पौत्रो धर्मैकतत्परः ॥
देयमन्नादि स तदा ह्यर्थिभ्यः श्रद्धयैव यत् ॥ ३९ ॥
तस्मादेनं नजालोके श्रद्धादेयं प्रचक्षते ॥
यतो बहुतरं वाक्यमन्नाद्यस्य महीपतेः ॥3.1.26.४० ॥
अर्थिनां क्षुधितानां तु तृप्त्यर्थं वर्तते गृहे ॥
अतोयमर्थिभिः सर्वैर्बहुवाक्य इतीर्यते ॥४१॥
स वै पौत्रायणो राजा जानश्रुतसुतो बली ॥
प्रियातिथिर्बभूवासौ बहुदायी तथाऽभवत् ॥ ४२ ॥
नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ॥
चतुष्पथेषु सर्वेषु महामार्गेषु सर्वशः ॥ ४३ ॥
बह्वन्नपान संयुक्तं सूपशाकादिसंयुतम् ॥
आतिथ्यं कल्पयामास तृप्तयेऽर्थिजनस्य वै ॥४४॥
अन्नपानादिकं सर्वमुपयुड्ध्वमिहार्थिनः ॥
इत्यसौ घोषयामास तत्र तत्र जनास्पदे ॥४५॥
तस्य प्रियातिथेरेव नृपस्य बहुदायिनः ॥
अर्थिभ्यो दानशौण्डस्य गुणाः सर्वत्र विश्रुताः ॥४६॥
अथ पौत्रायणस्यास्य गुण ग्रामेण वर्ततः ॥
देवर्षयो महाभागास्तस्यानुग्रहकाङ्क्षिणः ॥ ४७ ॥
हंसरूपं समास्थाय निदाघसमये निशि ॥
रमणीयां विधायाशु श्रेणीमाकाशमागतः ॥ ४९ ॥
सौधवातायनस्थस्य तस्योपरि महीपतेः ॥
उड्डीयोड्डीय वेगेन तरसा जग्मुरुच्चकैः ॥ ४९ ॥
तरसा पततां तेषां हंसानां पृष्ठतो व्रजन् ॥
एको हंसस्तु सम्बोध्य हंसमग्रेसरं तदा ॥ 3.1.26.५० ॥
सोपहासमिदं वाक्यं प्राह शृण्वति राजनि ॥
भोभो भल्लाक्ष भल्लाक्ष पुरो गच्छन्मरालक ॥ ५१ ॥
सौधमध्ये पुरस्ताद्वै जानश्रुतसुतो नृपः ॥
वर्तते पूजनीयोऽयं न पश्यसि किमन्धवत् ॥ ५२ ॥
यस्य तेजो दुराधर्षमाब्रह्म भवनादिदम् ॥
अनन्तादित्यसङ्काशं ज्वलते पुरतो भृशम् ॥ ५३ ॥
तमतिक्रम्य राजर्षिं मा गास्त्वमुपरि द्रुतम् ॥
यदि गच्छसि तत्तेजस्साम्प्रतं त्वां प्रधक्ष्यति ॥ ५४ ॥
इत्युक्तवन्तं तं हंसमग्रतः प्रत्यभाषत ॥
अहो भवानभिज्ञोऽसि श्लाघनीयोऽसि सूरिभिः ॥ ५५ ॥
अश्लाघनीयं कितवं यत्त्वमेनं प्रशंससे ॥
प्रशंससे किमर्थं त्वमल्पं सन्तमिमं जनम् ॥ ५६ ॥
भस्रावत्पशुवच्चैव केवलं श्वासधारिणम् ॥
न ह्ययं वेत्ति धर्माणां रहस्यं पृथिवी पतिः ॥ ५७ ॥
तत्त्वज्ञानी यथा रैक्वः सयुग्वान्ब्राह्मणोत्तमः ॥
रैक्वस्य हि महज्ज्योतीरहस्यं दैवतैरपि ॥ ५८ ॥
न ह्यस्य प्राणमात्रस्य तेजस्तादृशमस्ति वै ॥
रैक्वस्य पुण्यराशीनामियत्ता नैव विद्यते ॥ ५९ ॥
गण्यते पांसवो भूमेर्गण्यन्ते दिवि तारकाः ॥
रैक्वपुण्यमहामेरुसमूहो नैव गण्यते ॥ ॥ 3.1.26.६० ॥
किं च तिष्ठन्त्विमे धर्मा नश्वरास्तस्य वै मुनेः ॥
ब्रह्मज्ञानमबाध्यं यत्तेन स श्लाघ्यते मुनिः ॥ ६१ ॥
जानश्रुतेस्तु तादृक्षो धर्म एव न विद्यते ॥
दुर्लभं यत्तु योगीन्द्रैः कुतस्तज्ज्ञानवैभवम् ॥ ०६२ ॥
परित्यज्य दुरात्मानं तद्वराकमिमं जनम् ॥
स एव रैक्वः सयुग्वाञ्छ्लाघ्यतां भवता मुनिः ॥ ६३ ॥
जन्मना पङ्गुरपि यः स्वस्य स्नानचिकीर्षया ॥
गङ्गां च यमुनां चापि गयामपि मुनीश्वरः ॥ ६४ ॥
आह्वयामास मन्त्रेण निजाश्रमसमीपतः ॥
तस्य ब्रह्मविदो रैक्वमहर्षेर्धर्मसञ्चये ॥ ६५ ॥
अन्तर्भवन्ति धर्मौघास्त्रैलोक्योदरवर्तिनाम् ॥
रैक्वस्य धर्मकक्षा तु न हि त्रैलोक्यवर्तिनाम् ॥ ६६ ॥
प्राणिनां धर्मकक्षायामन्तर्भवति कर्हिचित ॥
एवमग्रेसरे हंसे कथित्वोपरते सति ॥ ६७ ॥
हंसरूपा मुनीन्द्रास्ते ब्रह्मलोकं ययुः पुनः ॥
अथ पौत्रायणो राजा जानश्रुतिररिन्दमः ॥ ६८ ॥
रैक्वं चोत्कर्षकाष्ठायां निशम्य परमावधिम् ॥
विषण्णोऽभवदत्यर्थं वराकोऽक्षजितो यथा ॥ ६९ ॥
चिन्तयामास स नृपः पौनःपुन्येन निःश्वसन् ॥
हम्स उत्कर्षयन्रैक्वं निकृष्टं मामिहाब्रवीत् ॥ 3.1.26.७० ॥
अहो रैक्वस्य माहात्म्यं यं प्रशंसन्ति पक्षिणः ॥
तत्परित्यज्य संसारं सर्वं राज्यमिहाधुना ॥ ७१ ॥
सयुग्वानं महात्मानं तमेव शरणं व्रजे ॥
कृपानिधिः स वै रैक्वः शरणं मामु पागतम् ॥ ७२ ॥
प्रतिगृह्यात्मविज्ञानं मह्यं समुपदेक्ष्यति ॥
इत्यसौ चिन्तयन्नेव कथङ्कथमपि द्विजाः ॥ ७३ ॥
जाग्रन्नेवायमुद्वेलां रात्रिं तामत्यवाह यत् ॥
निशावसाने सम्प्राप्ते बन्दिवृन्दप्रवर्तितम् ॥ ७४ ॥
अशृणोन्मङ्गलरवं तूर्यघोषसमन्वितम् ॥
तदाकर्ण्य महाराजस्तदा तल्पस्थ एव सन् ॥ ७५ ॥
सारथिं शीघ्रमाहूय बभाषे सादरं वचः ॥
सारथे सत्वरं गत्वा रथमारुह्य वेगवत् ॥ ७६ ॥
आश्रमेषु महर्षीणां पुण्येषु विपिनेषु च ॥
विविक्तेषु प्रदेशेषु सतामावासभूमिषु ॥ ७७ ॥
तीर्थानां च नदीनां च कूलेषु पुलिनेषु च ॥
अन्येषु च प्रदेशेषु यत्र सन्ति मुनीश्वराः ॥ ॥ ७८ ॥
तेषु सर्वेषु योगीन्द्रं पङ्गुं शकटसंस्थितम् ॥
रैक्वाभिधानं सर्वेषां धर्माणामेकसंश्रयम् ॥ ७९ ॥
ब्रह्मज्ञानैकनिलयं सयुग्वानं गवेषय ॥
अन्विष्य तूर्णं मत्प्रीत्यै पुनरागच्छ सारथे ॥ 3.1.26.८० ॥
स तथेति विनिर्गत्य वेगवद्रथसंस्थितः ॥
सर्वत्रान्वेषयामास रैक्वं ब्रह्मविदं मुनिम् ॥ ८१ ॥
गुहासु पर्वतानां च मुनीनामाश्रमेषु च ॥
सञ्चचार महीं कृत्स्नां तत्र तत्र गवेषयन् ॥ ८२ ॥
अन्विष्य विविधान्देशान्सारथिस्त्वरया सह ॥
क्रमान्महर्षिसम्बाधं गन्धमादनमन्वगात् ॥ ८३ ॥
मार्गमाणः स तत्रापि तं ददर्श मुनीश्वरम् ॥
कण्डूयमानं पामानं शकटीयस्थलस्थि तम् ॥ ८४ ॥
अद्वैतनिष्कलं ब्रह्म चिन्तयन्तं निरन्तरम् ॥
तं दृष्ट्वा सारथिस्तत्र सयुग्वानं महामुनिम् ॥ ८५ ॥
रैक्वोऽयमिति सञ्चिन्त्य तमासाद्य प्रणम्य च ॥
विनयान्मुनिमप्राक्षीदुपविश्य तदन्तिके ॥ ८६ ॥
सयुग्वान्रैक्वनामा च ब्रह्मन्किं वै भवानिति ॥
तस्य वाक्यं समाकर्ण्य स मुनिः प्रत्यभाषत ॥ ८७ ॥
अहमेव सयुग्वान्वै रैक्वनामेति वै तदा ॥
इत्याकर्ण्य मुने र्वाक्यमिङ्गितैर्बहुभिस्तथा ॥ ८८ ॥
कुटुम्बभरणार्थाय धनेच्छामवगम्य च ॥
सर्वं न्यवेदयद्राज्ञे निवृत्तो गन्धमादनात् ॥ ८९ ॥
जानश्रुतिर्निशम्याथ सारथेर्वाक्यमादरात् ॥
षट्शतानि गवां चापि निष्कभारं धनस्य च ॥ 3.1.26.९० ॥
रथं चाश्वतरीयुक्तं समादाय त्वरान्वितः ॥
पौत्रायणः स राजर्षिस्तं रैक्वं प्रतिचक्रमे ॥ ९१ ॥
गत्वा च वचनं प्राह तं रैक्वं स महीपतिः ॥
भगवन्रैक्व सयुग्वन्मद्दत्तं प्रतिगृह्यताम् ॥ ९२ ॥
षट्शतानि गवां चापि निष्कभारं धनस्य च ॥
रथं चाश्वतरीयुक्तं प्रतिगृह्णीष्व मामकम् ॥ ९३ ॥
गृहीत्वा सवमेतत्तु भो ब्रह्मन्ननुशाधि माम् ॥
अद्वैतब्रह्मविज्ञानं मह्यं समुपदिश्यताम् ॥ ९४ ॥
इति तस्य वचः श्रुत्वा सस्पृहं च संसभ्रम् ॥
रैक्वः प्रत्याह सयुग्वाञ्जानश्रुतिमरिन्दमम् ॥ ॥ ९५ ॥
॥ रैक्व उवाच ॥ ॥
एता गावस्तवैवास्तु निष्कभारस्तथा रथः ॥
किमल्पेन ममानेन बहुकल्पेषु जीवतः ॥ ९६ ॥
न मे कुटुम्ब निर्वाहे पर्याप्तमिदमञ्जसा ॥
एवं शतगुणं चापि यदि दत्तं त्वया मम ॥ ९७ ॥
नालं तदपि राजेन्द्र कुटुम्बभरणाय वै ॥
इति रैक्ववचः श्रुत्वा जानश्रुतिरभाषत ॥ ९८ ॥
॥ जानश्रुतिरुवाच ॥ ॥
त्वयोपदिश्यमानस्य ब्रह्मज्ञानस्य वै मुने ॥
न हि मूल्यमिदं ब्रह्मन्गोधनं रथ एव च ॥ ॥ ९९ ॥
प्रतिगृह्णीष्व वा मा वा ममैतत्तु गवादिकम् ॥
निष्कलाद्वैतविज्ञानं ब्रह्मन्नुपदिशस्व मे ॥
तदाकर्ण्य वचस्तस्य सयुग्वान्वाक्य मब्रवीत् ॥ 3.1.26.१०० ॥
॥ रैक्व उवाच ॥ ॥
निर्वेदो यस्य संसारे तथा वै पुण्यपापयोः ॥ १०१ ॥
प्रारब्धयोर्विनाशश्च स वै ज्ञानोपदेशभाक् ॥
तव यद्यपि संसारे निर्वेदः समजायत ॥ २ ॥
तथापि पुण्यपापानां न हि नाशो व्याजयत ॥
पुण्यपापौघसङ्घाश्च पुनर्जन्मनि हेतवः ॥ ३ ॥
न हि भोगं विना तेषां नाशो भवति भूपते ॥
तन्नाशोपायमद्याहं तथापि प्रब्रवीमि ते ॥ ४ ॥
यतो मां शरणं प्राप्तस्तच्छृणुष्व समाहितः ॥
अत्र तीर्थत्रयं पुण्यं वर्ततेऽभीष्टदायकम् ॥ ५ ॥
मुमुक्षूणां हि सर्वेषां सर्वप्रारब्धनाशनम् ॥
एतद्धि यमुनातीर्थं गङ्गातीर्थं तथैव च ॥ ६ ॥
गयातीर्थमिदं चापि तदेषु स्नाहि मा चिरम् ॥
सर्वप्रारब्धनाशः स्यात्तदा नैवात्र संशयः ॥ ७ ॥
ततस्ते शुद्धचित्तस्य ज्ञानं चैव दिशाम्यहम् ॥
इत्युक्ते रैक्वमुनिना हर्षसम्फुल्ललोचनः ॥ ८ ॥
ससम्भ्रममुपागम्य सस्नौ तीर्थत्रयेऽपि सः ॥
तत्तीर्थस्नानमात्रेण शुद्धचित्तोऽभवन्नृपः ॥ ९ ॥
उपातिष्ठत राजासौ सयुग्वानं गुरुं पुनः ॥
सयुग्वा स च रैक्वोऽपि मुनीन्द्रैरपि दुर्लभम् ॥ 3.1.26.११० ॥
तज्जानश्रुतये ज्ञानं कृपया समुपादिशत् ॥
तेनोपदिष्टमात्रे तु विज्ञाने ब्रह्मरूपिणि ॥ ११ ॥
अबाधितानुभववानभवद्राजसत्तमः ॥
ब्रह्मरूपं गतस्यास्य प्रसादाद्रैक्वयोगिनः ॥ १२ ॥
घटकुड्यकुसूलात्मा न प्रपञ्चस्समस्फुरत् ॥
निर्भिद्य सहसा मायामभूद्ब्रह्मैव केवलम् ॥ १३ ॥
इत्थं तीर्थत्रये स्नानाज्जानश्रुतिरहो नृपः ॥
दुर्लभं योगिवृन्दैश्च ब्रह्मभूयत्वमाप्तवान् ॥ १४ ॥
एवं वः कथितं विप्रास्तत्तीर्थत्रयवैभवम् ॥
यस्त्विमं पठतेऽध्यायं तीर्थत्रितयवैभवम् ॥ १५ ॥
निर्भिद्याज्ञानतिमिरं ब्रह्मभूयाय कल्पते ॥ ११६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यमुनागङ्गागयातीर्थप्रशंसायां जानश्रुति ज्ञानावाप्तिवर्णनन्नाम षड्विंशोऽध्यायः ॥ २६ ॥ ॥ ॥