॥ श्रीसूत उवाच ॥ ॥
चक्रतीर्थे नरः स्नात्वा शिवतीर्थं ततो व्रजेत् ॥
यत्र हि स्नानमात्रेण महापातककोटयः ॥ १ ॥
तत्संसर्गाश्च नश्यन्ति तत्क्षणादेव तापसाः ॥
अत्र स्नात्वा ब्रह्महत्यां मुमुचे कालभैरवः ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
कालभैरवरुद्रस्य ब्रह्महत्या महामुने ॥
किमर्थमभवत्सूत तन्नो वक्तुमिहार्हसि ॥ ३ ॥
॥ श्रीसूत उवाच ॥ ॥
वक्ष्यामि मुनयः सर्वे पुरावृत्तं विमुक्तिदम् ॥
यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ४ ॥
प्रजापतेश्च विष्णोश्च बभूव कलहः पुरा ॥
किञ्चित्कारणमुद्दिश्य समस्तजनसन्निधौ ॥ ५ ॥
अहमेव जगत्कर्ता नान्यः कर्तास्ति कश्चन ॥
अहं सर्वप्रपञ्चानां निग्रहानुग्रहप्रदः ॥ ६ ॥
मत्तो नास्त्यधिकः कश्चिन्मत्समो वा सुरेष्वपि ॥
एवं स मनुते ब्रह्मा देवानां सन्निधौ पुरा ॥ ७ ॥
तदा नारायणः प्राह प्रहसन्द्विजपुङ्गवाः ॥
किमर्थमेवं ब्रूषे त्वमहङ्कारेण साम्प्रतम् ॥ ८ ॥
वाक्यमेवंविधं भूयो वक्तुं नार्हसि वै विधे ॥
अहमेव जगत्कर्ता यज्ञो नारायणो विभुः ॥ ९ ॥
मां विनास्य प्रपञ्चस्य जीवनं दुर्लभं भवेत् ॥
मत्प्रसादाज्जगत्सृष्टं त्वया स्थावरजङ्गमम् ॥ 3.1.24.१० ॥
विवादं कुर्वतोरेवं ब्रह्मविष्ण्वोर्जयैषिणोः ॥
देवानां पुरतस्तत्र वेदाश्चत्वार आगताः ॥
प्रोचुर्वाक्यमिदं तथ्यं परमार्थप्रकाशकम् ॥११॥
॥ वेदा ऊचुः ॥ ॥
त्वं विष्णो न जगत्कर्ता न त्वं ब्रह्मन्प्रजापते ॥ १२ ॥
किं त्वीश्वरो जगत्कर्ता परात्परतरो विभुः ॥
तन्मायाशक्तिसङ्क्लृप्तमिदं स्थावरजङ्गमम् ॥ १३ ॥
सर्वदेवाभिवन्द्यो हि साम्बः सत्यादिलक्षणः ॥
स्रष्टा च पालको हर्ता स एव जगतां प्रभुः ॥१४॥
एवं समीरितं वेदैः श्रुत्वा वाक्यं शुभाक्षरम्॥
ब्रह्मा विष्णुस्तदा तत्र प्रोचतुर्द्विजपुङ्गवाः॥१५॥
॥ब्रह्मविष्णू ऊचतुः॥ ॥
पार्वत्यालिङ्गितः शम्भुर्मूर्तिमान्प्रमथाधिपः॥
कथं भवेत्परं ब्रह्म सर्वसङ्गविवर्जितम्॥१६॥
ताभ्यामितीरिते तत्र प्रणवः प्राह तौ तदा ॥
अरूपो रूपमादाय महता ध्वनिना द्विजाः ॥१७॥ ॥
॥ प्रणव उवाच ॥ ॥
असौ शम्भुर्महादेवः पार्वत्या स्वातिरिक्तया ॥
सङ्क्रीडते कदाचिन्नो किं तु स्वात्मस्वरूपया ॥ १८ ॥
असौ शम्भुरनीशानः स्वप्रकाशो निरञ्जनः ॥
विश्वाधिको महादेवो विश्वाधिक इति श्रुतः ॥ १९ ॥
सर्वात्मा सर्वकर्तासौ स्वतन्त्रः सर्वभावनः ॥
ब्रह्मन्नयं सृष्टिकाले त्वां नियुङ्क्ते रजोगुणैः ॥ 3.1.24.२० ॥
सत्त्वेन रक्षणे शम्भुस्त्वां प्रेषयति केशव ॥
तमसा कालरुद्राख्यं सम्प्रेरयति संहृतौ ॥ २१ ॥
अतः स्वतन्त्रता विष्णो युवयोर्न कदाचन ॥
नापि प्रजापतेरस्ति किं तु शम्भोः स्वतन्त्रता ॥ २२ ॥
ब्रह्मन्विष्णो युवाभ्यां तु किमर्थं न महेश्वरः ॥
ज्ञायते सर्वलोकानां कर्ता विश्वाधिकस्तथा ॥ २३ ॥
सापि शक्तिरुमा देवी न पृथक्छङ्करात्सदा ॥
शम्भोरानन्दभूता सा देवी नागन्तुकी स्मृता ॥ ॥ २४ ॥
अतो विश्वाधिको रुद्रः स्वतन्त्रो निर्विकल्पकः ॥
सर्वदेवैरयं वन्द्यो युवाभ्यामपि शङ्करः ॥ २५ ॥
कर्ता नास्यास्ति रुद्रस्य नाधिकोऽस्माच्च विद्यते ॥
न तत्समोऽपि लोकेषु विद्यते शतशस्तथा ॥ २६ ॥
अतो मोहं न कुरुतं ब्रह्मविष्णो युवां वृथा ॥
इत्युक्तं प्रणवेनाथ श्रुत्वा ब्रह्मा च केशवः ॥ २७ ॥
मायया मोहितौ शम्भोर्नैवाज्ञानममुञ्चताम् ॥
एतस्मिन्नन्तरे ब्रह्मा प्रददर्श महाद्भुतम् ॥ २८ ॥
व्याप्नुवद्गगनं सर्वमनन्तादित्य सन्निभम् ॥
तेजोमण्डलमाकाशमध्यगं विश्वतोमुखम् ॥ २९ ॥
तन्निरूपयितुं ब्रह्मा ससर्जोर्ध्वगतं मुखम् ॥
तपोबलविसृष्टेन पञ्चमेन मुखेन सः ॥ ॥ 3.1.24.३० ॥
निरूपयामास विभुस्तत्तेजोमण्डलं मुहुः ॥
तत्प्रजज्वाल कोपेन मुखं तेजोविलोकनात्॥३१॥
अनन्तादित्यसङ्काशं ज्वलत्तत्पञ्चमं शिरः ॥
दिधक्षुः प्रलये लोकान्वडवाग्निरिवाबभौ ॥ ३२ ॥
व्यदृश्यत च तत्तेजः पुरुषो नीललोहितः ॥
दृष्ट्वा स्रष्टा तदा ब्रह्मा बभाषे परमेश्वरम् ॥ ३३ ॥
वेदाहं त्वां महादेव ललाटान्मे पुरा भवान् ॥
विनिर्गतोऽसि शम्भो त्वं रुद्रनामा ममात्मजः ॥ ३४ ॥
इति गर्वेण संयुक्तं वचः श्रुत्वा महेश्वरः ॥
कालभैरवनामानं पुरुषं प्राहिणोत्तदा ॥ ३५ ॥
अयुद्ध्यत चिरं कालं ब्रह्मणा कालभैरवः ॥
महादेवांशसम्भूतः शूलटङ्कगदाधरः ॥ ॥ ३६ ॥
युद्ध्वा तु सुचिरं कालं ब्रह्मणा कालभैरवः ॥
वदनं ब्रह्मणः शुभ्रं व्यलोकयत पञ्चमम् ॥ ३७ ॥
विलोक्योर्ध्वगतं वक्त्रं पञ्चमं भारतीपतेः ॥
गर्वेण महता युक्तं प्रजज्वालातिकोपितः ॥ ३८ ॥
ततस्तत्पञ्चमं वक्त्रं भैरवः प्राच्छिनद्रुषा ॥
ततो ममार ब्रह्माऽसौ कालभैरवहिंसितः ॥ ॥ ३९ ॥
ईश्वरस्य प्रसादेन प्रपेदे जीवितं पुनः ॥
ततो विलोकयामास शङ्करं शशिभूषणम् ॥ 3.1.24.४० ॥
वासुक्याद्यष्टभोगीन्द्रविभूषणविभूषितम् ॥
दृष्ट्वा वेधा महादेवं पार्वत्या सह शङ्करम् ॥ ४१ ॥
लेभे माहेश्वरं ज्ञानं महादेवप्रसादतः ॥
ततस्तुष्टाव गिरिशं वरेण्यं वरदं शिवम् ॥ ४२ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
मह्यं प्रसीद गिरिश शशाङ्ककृतशेखर ॥
यन्मयापकृतं शम्भो तत्क्षमस्व दयानिधे ॥ ४३ ॥
क्षमस्व मम गर्वं त्वं शङ्करेति पुनःपुनः ॥
नमश्चकार सोमं तं सोमार्धकृतशेखरम् ॥ ४४ ॥
अथ देवः प्रसन्नोऽस्मै ब्रह्मणे स्वांशजाय तु ॥
मा भैरित्यब्रवीच्छम्भुर्भैरवं चाभ्यभाषत ॥ ४५ ॥
॥ ईश्वर उवाच ॥ ॥
एष सर्वस्य जगतः पूज्यो ब्रह्मा सनातनः ॥
हतस्यास्य विरिञ्चस्य धारय त्वं शिरोऽधुना ॥ ४६ ॥
ब्रह्महत्याविशुद्ध्यर्थं लोकसङ्ग्रहकाम्यया ॥
भिक्षामट कपालेन भैरव त्वं ममाज्ञया ॥ ४७ ॥
उक्त्वैवं शङ्करो विप्रास्तत्रैवान्तरधीयत ॥
नीलकण्ठो महादेवो गिरिजार्द्धतनुस्ततः ॥ ४८ ॥
भैरवं ग्राहयामास वदनं वेधसो द्विजाः ॥
चरस्व पापशुद्ध्यर्थं लोकसङ्ग्रहणाय वै ॥ ४९ ॥
कपालधारी हस्तेन भिक्षां गृह्णातु भैरवः ॥
इतीरयित्वा गिरिशः कन्यां काञ्चिद्भयङ्करीम् ॥ 3.1.24.५० ॥
ब्रह्महत्याभिधां क्रूरां वडवानलसन्निभाम् ॥
तां प्रेरयित्वा गिरिशो भैरवं पुनरब्रवीत् ॥ ५१ ॥
॥ ईश्वर उवाच ॥ ॥
भैरवैतद्व्रतं त्वब्दं ब्रह्महत्याविशुद्धये ॥
चर त्वं सर्वतीर्थेषु स्नाहि शुद्ध्यर्थमात्मनः ॥५२॥
ततो वाराणसीं गच्छ ब्रह्महत्याप्रशान्तये ॥
वाराणसीप्रवेशेन ब्रह्महत्या तवाधमा ॥५३॥
पादशेषा विनष्टा स्याच्चतुर्थांशो न नश्यति ॥
तस्य नाशं प्रवक्ष्यामि तव भैरव तच्छुणु ॥५४॥
दक्षिणाम्भोनिधेस्तीरे गन्धमादनपर्वते ॥
सर्वप्राण्युपकाराय कृतं तीर्थं मया शुभम् ॥५५॥
शिवसञ्ज्ञं महापुण्यं तत्र याहि त्वमादरात्॥
तत्प्रवेशनमात्रेण ब्रह्महत्या तवाशुभा ॥ ५६ ॥
शिवतीर्थस्य माहात्म्यान्निःशेषं नश्यति ध्रुवम् ॥
उक्त्वैवं भैरवं रुद्रः कैलासं प्रययौ क्षणात् ॥ ५७ ॥
ततः कपालपाणिस्तु भैरवः शिवचोदितः ॥
देवदानवयक्षादिलोकेषु विचचार सः ॥५८॥
तं यान्तमनुयाति स्म ब्रह्महत्यातिभीषणा ॥
भैरवः सर्वतीर्थानि पुण्यान्यायतनानि च ॥ ५९ ॥
चरित्वा लीलया देवस्ततो वाराणसीं ययौ ॥
वाराणसीं प्रविष्टे तु भैरवे शङ्करांशजे ॥ 3.1.24.६० ॥
चतुर्थांशं विना नष्टा ब्रह्महत्यातिकुत्सिता ॥
चतुर्थांशेन दुद्राव भैरवं शङ्करांशजम् ॥६१॥
ततः स भैरवो देवः शूलपाणिः कपालधृक् ॥
शिवाज्ञया ययौ पश्चाद्गन्धमादनपर्वतम् ॥ ६२ ॥
शिवतीर्थं ततो गत्वा भैरवः स्नातवान्द्विजाः ॥
स्नानमात्रेण तत्रास्य शिवतीर्थे महत्तरे ॥ ६३ ॥
निःशेषं विलयं याता ब्रह्महत्यातिभीषणा ॥
अस्मिन्नवसरे शम्भुः प्रादुरासीत्तदग्रतः ॥
प्रादुर्भूतो महादेवो भैरवं वाक्यमब्रवीत् ॥६४॥
॥ ॥ ईश्वर उवाच ॥ ॥
निःशेषं ब्रह्महत्या ते शिवतीर्थे निमज्जनात् ॥ ६५ ॥
नष्टा भैरव नास्त्यत्र सन्देहस्तव सुव्रत ॥
इदं कपालं काश्यां त्वं स्थापयस्व क्वचित्स्थले ॥ ६६ ॥
इत्युक्त्वा भगवाञ्छम्भुस्तत्रैवान्तरधीयत ॥
भैरवोऽपि तदा विप्रा ब्रह्महत्याविमोचितः ॥ ६७ ॥
शिवतीर्थस्य माहात्म्याद्ययौ वाराणसीं पुरीम् ॥
कपालं स्थापयामास प्रदेशे कुत्रचिद्द्विजाः ॥
कपालतीर्थमित्याख्यामलभत्तत्स्थलं तदा ॥ ६८ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं प्रभावं तत्पुण्यं शिवतीर्थं विमुक्तिदम् ॥ ६९ ॥
महादुःखप्रशमनं महापातकनाशनम् ॥
नरकक्लेशशमनं स्वर्गदं मोक्षदं तथा ॥ ॥ 3.1.24.७० ॥
शिवतीर्थस्य माहात्म्यं मया प्रोक्तं विमुक्तिदम् ॥
इदं पठन्सदा मर्त्यो दुःखग्रामाद्विमुच्यते ॥ ७१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शिवतीर्थप्रशंसायां भैरवब्रह्महत्याविमोक्षणवर्णनन्नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ ॥ छ ॥ ॥