॥ श्रीसूत उवाच ॥ ॥
अग्नितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥
स्नानं कृत्वा विशुद्धात्मा चक्रतीर्थं ततो व्रजेत् ॥ १ ॥
यंयं कामं समुद्दिश्य चक्रतीर्थे द्विजोत्तमाः ॥
स्नानं समाचरेन्मर्त्यस्तन्तं कामं समश्नुते ॥ २ ॥
पुराहिर्बुध्न्यनामा तु महर्षिः संशित व्रतः ॥
सुदर्शनमुपास्तास्मिंस्तपस्वी गन्धमादने ॥ ३ ॥
तपस्यन्तं मुनिं तत्र राक्षसा घोररूपिणः ॥
अबाधन्त सदा विप्रास्तपोविघ्नैकतत्पराः ॥ ॥ ४ ॥
सुदर्शनं तदागत्य भक्तरक्षणवाञ्छया ॥
यातुधानान्बाधमानान्न्यवधीर्लीलया पुरा ॥ ५ ॥
तदाप्रभृति तच्चक्रं भक्तप्रार्थनया द्विजाः ॥
अहिर्बुध्न्यकृते तीर्थे सन्निधानं सदाऽकरोत् ॥ ६ ॥
तदाप्रभृति तत्तीर्थं चक्रतीर्थमितीर्यते ॥
सुदर्शनप्रसादेन तत्र तीर्थे निमज्जनात् ॥ ७ ॥
रक्षःपिशाचा दिकृता पीडा नास्त्येव कर्हिचित् ॥
स्नात्वास्मिन्पावने तीर्थे छिन्नपाणिः पुरा रविः ॥
स हिरण्यमयौ पाणी लब्धवांस्तीर्थवैभवात् ॥ ८ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
छिन्नपाणिः कथमभूदादित्यः सूतनन्दन ॥
यथा च लब्धवान्पाणी सौवर्णौ तद्वदस्व नः ॥ ९ ॥
॥ श्रीसूत उवाच ॥
इन्द्रादयः सुराः पूर्वं सन्ततं दैत्यपीडिताः ॥ 3.1.23.१० ॥
किं कुर्म इति सञ्चित्य सम्भूय सममन्त्रयन् ॥
बृहस्पतिं पुरस्कृत्य मन्त्रयित्वा चिरं सुराः ॥ ११ ॥
तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥
ते ब्रह्माणं समासाद्य दृष्ट्वा स्तुत्वा च भक्तितः ॥ १२ ॥
ततो व्यजिज्ञपस्तस्मै स्वेषामागमकारणम् ॥ ॥
॥ सुरा ऊचुः ॥ ॥
भगवन्भारतीनाथ दैत्या ह्यस्मान्बलोत्कटाः ॥ १३ ॥
बाधन्ते सततं देव तत्र ब्रूहि प्रतिक्रियाम् ॥
इत्युक्तः स सुरैर्ब्रह्मा तानाह कृपया वचः ॥ १४ ॥
॥ ब्रह्मोवाच ॥ ॥
मा भैष्ट यूयं विबुधास्तत्रोपायं ब्रवीम्यहम् ॥
माहेश्वरं महायज्ञमसुराणां विनाशनम् ॥ ॥ १५ ॥
प्रारभध्वं सुरा यूयं मुनिभिस्तत्त्वदर्शिभिः ॥
अयं च दैवतैः सर्वैर्विधिलोभं विना कृतः ॥ १६ ॥
माहेश्वरो महायज्ञः क्रियतां गन्धमादने ॥
यदि ह्यन्यत्र तं यज्ञं कुर्युस्तद्विबुधर्षभाः ॥ १७ ॥
यज्ञविघ्नं तदा कुर्युर्दुरात्मानः सुरद्विषः ॥
क्रियते यद्ययं यज्ञो गन्धमादनपर्वते ॥ १८ ॥
सुदर्शनप्रसादेन नैव विघ्नो भवेत्तदा ॥
अहिर्बुध्न्याभिधानस्य महर्षेर्गन्धमादने ॥ १९ ॥
अनुग्रहाय तत्तीर्थे सन्निधत्ते सुदर्शनम् ॥
अतः कुरुध्वं भो यूयं तं यज्ञं गन्धमादने ॥ 3.1.23.२० ॥
नातिदूरे चक्रतीर्थादसुराणां विनाशकम् ॥
ततस्ते ब्रह्मवचसा सहसा गन्धमादनम्॥ २१ ॥
बृहस्पतिं पुरस्कृत्य जग्मुर्यज्ञचिकीर्षया॥
ते प्रणम्य महात्मानमहिर्बुध्न्यं मुनीश्वरम् ॥२२॥
अकल्पयन्यज्ञवाटन्नातिदूरे तदाश्रमात् ॥
यज्ञकर्मसु निष्णातैः सहितास्ते तपोधनैः ॥ २३ ॥
इष्टिमारेभिरे देवा असुराणां विनाशिनीम् ॥
तस्मिन्कर्मणि होतासीत्स्वयमेव बृहस्पतिः ॥ २४ ॥
बभूव मैत्रावरुणो जयन्तः पाकशासनिः ॥
अच्छावाको बभूवात्र वसूनामष्टमो वसुः ॥ २५ ॥
ग्रावस्तुदभवत्तत्र शक्तिपुत्रः पराशरः ॥
अष्टावक्रो महातेजा अध्वर्युधुरमूढवान्॥ ॥ २६ ॥
तत्र प्रतिप्रस्थाताभूद्विश्वामित्रो महामुनिः ॥
नेष्टा बभूव वरुण उन्नेता च धनेश्वरः ॥ २७ ॥
ब्रह्मा बभूव सविता यज्ञस्यार्धधुरं वहन् ॥
बभूव ब्राह्मणाच्छंसी वसिष्ठो ब्रह्मणोत्तमः ॥ २८ ॥
आग्नीध्रोऽभूच्छुनःशेपः पोता जातश्च पावकः ॥
उद्गाता वायुरभवत्प्रस्तोता च परेतराट् ॥ ॥ २९ ॥
प्रतिहर्ता तु तत्रासीदगस्त्यः कुम्भसम्भवः ॥
सुब्रह्मण्यो मधुच्छन्दा विश्वामित्रात्मजो महान्॥ 3.1.23.३० ॥
यजमानः स्वयमभूद्देवराजः पुरन्दरः॥
उपद्रष्टा बभूवात्र व्यासपुत्रः शुको मुनिः ॥ ३१ ॥
ततस्ते ऋत्विजः सर्वे देवराजं पुरन्दरम् ॥
विधिवद्दीक्षयाञ्चक्रुस्तत्र माहेश्वरे क्रतौ ॥३२॥
प्रावर्तत महायज्ञ एवं वै गन्धमादने ॥
सुदर्शनप्रभावेन दुःसहेनातिपीडिताः ॥ ३३ ॥
नाविन्दन्नसुरास्तत्र रन्ध्रं यज्ञे प्रवर्तिते ॥
एवन्निरन्तरायोऽसौ प्रावर्तत महा क्रतुः ॥ ३४ ॥
भक्षयंश्च हरिस्तत्र जज्वाल हुतवाहनः ॥
विधिवत्कर्मजालानि कृत्वाध्वर्युरसम्भ्रमात् ॥ ३५ ॥
मन्त्रपूतं पुरोडाशं जुहवामास पावके ॥
हुतशेषं पुरोडाशं विभज्याध्वर्युरादरात् ॥ ३६ ॥
ऋत्विग्भ्यो होतृमुख्येभ्यः प्रददौ पापनाशनम् ॥
सवित्रे ब्रह्मणे चैकमत्युग्रतरतेजसम् ॥ ॥ ३७ ॥
ददौ तत्र पुरोडाशभागं प्राशित्रनामकम् ॥
प्रतिजग्राह पाणिभ्यां प्राशित्रं सविता तदा ॥ ३८ ॥
सवित्रा स्पृष्टमात्रं सत्तत्प्राशित्रं दुरासदम् ॥
तस्य पाणी प्रचिच्छेद पश्यतां सर्वऋत्विजाम् ॥ ३९ ॥
ततः सञ्छिन्नपाणिः स प्राशित्रेणोग्रतेजसा ॥
किमेतदिति सन्त्रस्तो विषण्णवदनोऽभवत् ॥ 3.1.23.४० ॥
सविता ऋत्विजः सर्वान्समाहूयेदमब्रवीत् ॥
सवितोवाच ॥
पुरोडाशस्य भागोऽयं मम प्राशित्रनामकः ॥ ४१ ॥
दत्तश्चिच्छेद मत्पाणी मिषत्स्वेव भवत्स्वपि ॥
अतो भवन्तः सम्भूय सर्व एव हि ऋत्विजः ॥ ४२ ॥
कल्पयन्तामिमौ पाणी नोचेद्यज्ञं निहन्म्यमुम् ॥
सवितुर्वाक्यमाकर्ण्य ते सर्वे समचिन्तयन् ॥ ४३ ॥
तत्र मध्ये मुनीन्द्राणां देवानां चैव सर्वशः ॥
अष्टावक्रो महातेजा ऋत्विजस्तानभाषत ॥ ४४ ॥
॥ अष्टावक्र उवाच ॥ ॥
शृणुध्वमृत्विजः सर्वे मम वाक्यं समाहिताः ॥
मयि जीवति विप्रेन्द्रा विरिञ्चानां शतं गतम् ॥ ४५ ॥
जायन्ते च म्रियन्ते च चतुराननकोटयः ॥
पश्यन्नेव च तान्सर्वानहं प्राणानधारयम् ॥ ४६ ॥
तत्र लोकेश्वराभिख्ये वर्तमाने प्रजापतौ ॥
विप्रो हरिहरोनाम निवसञ्छयामलापुरे ॥ ४७ ॥
व्याधेनारण्यवासेन केल्यर्थं लक्ष्यवेधिना ॥
छिन्नपादोऽभवद्बाणैर्लक्ष्य मध्यं समागतः ॥ ४८ ॥
स गन्धमादनं प्राप्य मुनिभिः प्रेरितस्तदा ॥
स्नात्वा च मुनितीर्थेऽस्मिन्प्राप्तवांश्चरणौ पुरा ॥ ४९ ॥
तदा पुण्यमिदं तीर्थं मुनितीर्थमितीरितम् ॥
इदानीं चक्रतीर्थाख्यं चक्रनाम त्वविन्दत ॥ 3.1.23.५० ॥
तदत्र क्रियतां स्नानं प्राशित्रच्छिन्नपाणिना ॥
मुनितीर्थे सवित्रापि युष्माकं यदि रोचते ॥ ५१ ॥
ऋत्विजः कथितास्त्वेवमष्टावक्रमहर्षिणा ॥
सवितारमभाषन्त सर्व एव प्रहर्षिताः ॥ ५२ ॥
सवितः स्नाहि तीर्थेऽ स्मिंस्तव पाणी भविष्यतः ॥
अष्टावक्रो यथा प्राह तथा कुरु समाहितः ॥ ५३ ॥
ततः स सविता गत्वा चक्रतीर्थं महत्तरम् ॥
सस्नौ पाण्योरवाप्त्यर्थमिष्टदायिनि तत्र सः ॥ ५४ ॥
उत्तिष्ठन्नेव स तदा तत्र स्नात्वा सभक्तिकम् ॥
युक्तो हिरण्मयाभ्यां तु पाणिभ्यां समदृश्यत ॥ ५५ ॥
हिरण्यपाणिं तं दृष्ट्वा जहृषुः सर्वऋत्विजः ॥
ततः समाप्य तं यज्ञं दैत्यसङ्घान्विजित्य च ॥ ५६ ॥
इन्द्रादयः सुराः सर्वे सुखिताः स्वर्गमाययुः ॥
तस्मादेतत्समागत्य तीर्थं सर्वैश्च मानवैः ॥ ५७ ॥
सेवनीयं प्रयत्नेन स्वस्वाभीष्टस्य सिद्धये ॥
अन्धैश्च कुणिभिर्मूकैर्बधिरैः कुब्जकैरपि ॥ ५८ ॥।
खञ्जैः पङ्गुभिरप्येतदङ्गहीनैस्तथापरैः ॥
सञ्छिन्नपाणिचरणैः सञ्छिन्नान्याङ्गसञ्चयैः ॥ ५९ ॥
मनुष्यैश्च तथान्यैश्च विकलाङ्गस्य पूर्तये ॥
सेवनीयमिदं तीर्थं सर्वाभीष्टप्रदायकम् ॥ 3.1.23.६० ॥
एवं वः कथितं विप्राश्चक्रतीर्थस्य वैभवम् ॥
यत्र स्नात्वा पुरा छिन्नौ पाणी प्राप प्रभाकरः ॥ ६१ ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
अङ्गानि विकलान्यस्य पूर्णानि स्युर्न संशयः ॥ ६२ ॥
मोक्षकामस्य मर्त्यस्य मुक्तिः स्यान्नात्र संशयः ॥ ६३ ॥।
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनन्नाम त्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ छ ॥