॥ श्रीसूत उवाच ॥ ॥
लक्ष्मीतीर्थे शुभे पुंसां सर्वैश्वर्यैककारणे ॥
स्नात्वा नरस्ततो गच्छेदग्नितीर्थं द्विजोत्तमाः ॥ १ ॥
अग्नितीर्थं महापुण्यं महापातकनाशनम् ॥
तीर्थानामुत्तमं तीर्थं सर्वाभीष्टैकसाधनम् ॥
तत्र स्नायान्नरो भक्त्या स्वपापपरिशुद्धये ॥ २ ॥
॥ ऋषय ऊचुः ॥ ॥
अग्निर्तार्थमितिख्यातिः कथं तस्य मुनीश्वर ॥ ॥ ३ ॥
कुत्रैदमग्नितीर्थं च कीदृशं तस्य वैभवम् ॥
एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
सम्यक्पृष्टं हि युष्माभिः शृणुध्वं मुनिपुङ्गवाः ॥
पुरा हि राघवो हत्वा रावणं सपरिच्छदम् ॥ ५ ॥
स्थापयित्वा तु लङ्कायां भर्तारं च विभीषणम् ॥
सीतासौमित्रिसंयुक्तो रामो दशरथात्मजः ॥ ६ ॥
सिद्धचारणगन्धवैर्देवैरप्सरसां गणैः ॥
स्तूयमानो मुनिगणैः सत्याशीस्तीर्थकौतुकी ॥ ७ ॥
धारयल्ँलीलया चापं रामोऽसह्यपराक्रमः ॥
आत्मनः शुद्धिमाधातुं जानकीं शोधितु तथा ॥ ८ ॥
इन्द्रादिदेववृन्दैश्च मुनिभिः पितृभिस्तथा ॥
विभीषणेन सहितः सर्वेरपि च वानरैः॥९॥
आययौ सेतुमार्गेण गन्धमादनपर्वतम्॥
लक्ष्मीतीर्थतटे स्थित्वा जानकीशोधनाय सः॥3.1.22.१०॥
अग्निमावाहयामास देवर्षिपितृसन्निधौ॥
अथोत्तस्थौ महाम्भोधेर्लक्ष्मीतीर्थाद्विदूरतः॥११॥
पश्यत्सु सर्वलोकेषु लिहन्नम्भांसि पावकः॥
आताम्रलोचनः पीतवासा धनुर्धरः ॥ १२ ॥
सप्तभिश्चैव जिह्वाभिर्लेलिहानो दिशो दश ॥
दृष्ट्वा रघुपतिं शूरं लीलामानुषरूपिणम् ॥ १३ ॥
जगाद वचनं रम्यं जानकीशुद्धिकारणात् ॥
रामराम महाबाहो राक्षसानां भयावह ॥ १४ ॥
पातिव्रत्येन जानक्या रावणं हतवान्भवान् ॥
सत्यंसत्यं पुनः सत्यं नात्र कार्या विचारणा ॥ १५ ॥
कमलेयं जगन्माता लीलामानुषविग्रहा ॥
देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी ॥ १६ ॥
विष्णोर्देहानुरूपां वै करोत्ये षात्मनस्तनुम् ॥
यदायदा जगत्स्वामिन्देवदेव जनार्द्दन ॥ १७ ॥
अवतारान्करोषि त्वं तदेयं त्वत्सहायिनी ॥
यदा त्वं भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ १८ ॥
अधुना जानकी जाता भवित्री रुक्मिणी ततः ॥
अन्येषु चावतारेषु विष्णोरेषा सहायिनी ॥ १९ ॥
तस्मामद्वचनादेनां प्रति गृह्णीष्व राघव ॥
पावकस्य तु तद्वाक्यं श्रुत्वा देवा महर्षयः ॥ 3.1.22.२० ॥
विद्याधराश्च गन्धर्वा मानवाः पन्नगास्तथा ॥
अन्ये च भूतनिवहा रामं दश रथात्मजम् ॥ २१ ॥
जानकीं मैथिलीं चैव प्रशशंसुः पुनःपुनः ॥
रामोऽग्निवचनात्सीतां प्रतिजग्राह निर्मलाम् ॥ २२ ॥
एवं सीताविशुद्ध्यर्थं रामेणाक्लिष्टकर्मणा ॥
आवाहने कृते वह्निर्लक्ष्मीतीर्थाद्विदूरतः ॥ २३ ॥
यतः प्रदेशादुत्तस्थावम्बुधेर्द्विजसत्तमाः ॥
अग्नितीर्थं विजानीत तं प्रदेशमनुत्तमम् ॥ २४ ॥
ततो विनिर्गमादग्नेरग्नितीर्थमितीर्यते ॥
अत्र स्नात्वा नरो भक्त्या वह्नेस्तीर्थे विमुक्तिदे ॥ २५ ॥
उपोष्य वेदविदुषो ब्राह्मणा नपि भोजयेत् ॥
तेभ्यो वस्त्रं धनं भूमिं दद्यात्कन्यां च भूषिताम् ॥ २६ ॥
सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥
अग्नितीर्थस्य कूलेस्मि न्नन्नदानं विशिष्यते ॥ २७ ॥
अग्नितीर्थसमं तीर्थं न भूतं न भविष्यति ॥
दुष्पण्योपि महापापो यत्र स्नानात्पिशाचताम् ॥ २८ ॥
परित्यज्य महा घोरां दिव्यं रूपमवाप्तवान् ॥
पशुमान्नाम वैश्योऽभूत्पुरा पाटलिपुत्रके ॥ २९ ॥
स वै धर्मपरो नित्यं ब्राह्मणाराधने रतः ॥
कृषिं निरन्तरं कुर्वन्गो रक्षां चैव सर्वदा ॥ 3.1.22.३० ॥
पण्यवीथ्यां च विक्रीणन्काञ्चनादीनि धर्मतः ॥
पशुमन्नामधेयस्य वणिक्छ्रेष्ठस्य तस्य वै ॥ ३१ ॥
बभूव भार्यात्रितयं पतिशुश्रूषणे रतम् ॥
ज्येष्ठा त्रीन्सुषुवे पुत्रान्वैश्यवंशविवर्द्धनान् ॥ ३२ ॥
सुपण्यं पण्यवतं च चारुपण्यं तथैव च ॥
मध्यमा सुषुते पुत्रौ सुकोश बहुकोशकौ ॥ ३३ ॥
तृतीयायां त्रयः पुत्रास्तस्य वैश्यस्य जज्ञिरे ॥
महापण्यो महाकोशो दुष्पण्य इति विश्रुताः ॥ ३४ ॥
एवं पशुमतस्तस्य वैश्यस्य द्विजसत्तमाः ॥
बभूवुरष्टौ तनयास्तासु स्त्रीषु तिसृष्वपि॥ ३५ ॥
ते सुपण्यमुखाः सर्वे पुत्रा ववृधिरे क्रमात ॥
धूलिकेलिं वितन्वन्तः पित रौ तोषयन्ति ते ॥ ३६ ॥
पञ्चहायनतां प्राप्ताः क्रमात्ते वैश्यनन्दनाः ॥
पशुमानपि वैश्येन्द्रः सर्वानपि च तान्सुतान् ॥ ३७ ॥
बाल्यमारभ्य सततं स्वकृत्येषु व्यशिक्षयत्॥
कृषिगोत्राणवाणिज्यकर्मसु क्रमशिक्षिताः ॥३८ ॥
सुपण्यमुख्याः सप्तैव पितृवाक्यमशृण्वत ॥
पशुमान्वक्ति यत्कार्यं तत्क्ष णान्निरवर्तयन्॥३९॥
नैपुण्यं प्रापुरत्यन्तं ते सुवर्णक्रियास्वपि॥
दुष्पण्यस्त्वष्टमः पुत्रो बाल्यमारभ्य सन्ततम्॥3.1.22.४०॥
दुर्मार्गनिरतो भूत्वा नाशृणोत्पितृभा षितम्॥
धूलिकेलिं समारभ्य दुर्मार्गनिरतोऽभवत्॥४१॥
स बाल एव सन्पुत्रो बालानन्यानबाधत॥
दुष्कर्मनिरतं दृष्ट्वा तं पिता पशुमांस्तथा॥४२॥
उपेक्षा मेवकृतवान्बालिशोऽयमितीरयन्॥
अथाष्टावपि वैश्यस्य प्रापुर्यौवनमात्मजाः॥४३॥
ततोऽयमष्टमः पुत्रो दुष्णयो बलिनां वरः ॥
गृहीत्वा पाणियु गलेबालान्नगरवर्तिनः ॥ ४४ ॥
निचिक्षेप स कूपेषु सरित्सु च सरःस्वपि ॥
न कोऽपि तस्य जानाति दुश्चरित्रमिदं जनः ॥ ४५ ॥
यावन्म्रियन्ते ते बालास्तावन्निक्षिप्तवाञ्जले ॥
तेषां मृतानां बालानां पितरो मातरस्तथा ॥४६॥
गवेषयन्ति तान्सर्वान्नगरेषु हि सर्वशः ॥
तान् दृष्ट्वा च मृतान्पुत्रान्के वलं प्रारुदञ्जनाः ॥ ४७ ॥
जलेष्वथ शवान्दृष्ट्वा जनाश्चक्रुर्यथोचितम् ॥
एवं प्रतिदिनं बालान्दुष्पण्यो मारयन्पुरे ॥ ४८ ॥
जनैरप्यपरिज्ञातश्चिरमेवमवर्तत ॥
म्रियमाणेषु बालेषु वैश्यपुत्रस्य कर्मणा ॥ ४९ ॥
प्रजानां वृद्धिराहित्याच्छून्यप्रायमभूत्पुरम् ॥
ततः समेत्य पौरास्तद्वृत्तं राज्ञे न्यवेद यन्॥ 3.1.22.५० ॥
श्रुत्वा नृपस्तद्वचनमाहूय ग्रामपालकान् ॥
कारणं बालमरणे चिन्त्यतामिति सोऽन्वशात् ॥ ५१ ॥
ग्रामपालास्तथेत्युक्त्वा तत्र तत्र व्यवस्थिताः ॥
सम्यग्गवेषयामासुः कारणं बालमारणे ॥ ५२ ॥
ते वै गवेषंयतोऽपि नाविन्दन्बालमारकम् ॥
ते पुनर्नृपमासाद्य भीता वाक्यमथाब्रु वन् ॥ ५३ ॥
गवेषयन्तोऽपि वयं तन्न विन्दामहे नृप ॥
यो बालान्नगरे स्थित्वा सततं मारयत्यपि ॥ ५४ ॥
पुनश्च नागराः सर्वे राजानं प्राप्य दुःखिताः ॥
पुनः प्रजानां मरणमब्रुवन्वाष्पसङ्कुलाः ॥ ५५ ॥
राजा तत्कारणाज्ञानात्तूष्णीमास्ते विचिन्त्य तु ॥
कदाचिद्वैश्यपुत्रोयं पञ्चभिर्बा लकैः सह ॥५६ ॥
तटाकान्तिकमापेदे पङ्कजाहरणच्छलात् ॥
बलाद्गृहीत्वा तान्बालान्दुष्पण्यः क्रोशतस्तदा ॥ ५७ ॥
क्रूरात्मा मज्जयामास कण्ठ दघ्ने सरोजले ॥
मृतान्मत्वा च ताञ्छीघ्रं दुष्पण्यः स्वगृहं ययौ ॥ ५८ ॥
पञ्चानां पितरस्तेषां मार्गयन्तः सुतान्पुरे ॥
तेषु वै मार्गमाणेषु पञ्च तेना तिबालकाः ॥ ५९ ॥
निक्षिप्ता अपि तोयेषु नाम्रियन्त यदृच्छया ॥
ते शनैः कूलमासाद्य पञ्चापि क्लिन्नमौलयः ॥ 3.1.22.६० ॥
अशक्ता नगरं गन्तुं बाल्यात्तत्रैव बभ्रमुः ॥
दूरादुच्चार्यमाणानि स्वनामानि स्वबन्धुभिः ॥ ६१ ॥
श्रुत्वा पञ्चापि ते बालाः प्रतिशब्दमकुर्वत ॥
ततस्तत्पितरः श्रुत्वा तत्रागत्यसरस्तटे ॥ ६२ ॥
पुत्रान्दृष्ट्वा तु सप्राणान्प्रहर्षमतुलं गताः ॥
किमेतदिति पित्राद्यैः पृष्टास्ते बालकास्तदा ॥ ६३ ॥
दुष्पण्यस्याथ दुष्कृत्यं बन्धुभ्यस्ते न्यवेदयन्॥
ततो विदितवृत्तान्ता राजानं प्राप्य नागराः ॥ ६४ ॥
पञ्चभिः कथितं वृत्तं दुष्पण्यस्य न्यवेदयन् ॥
ततो राजा समाहूय पशुमन्तं वणिग्वरम् ॥
पौरेष्वपि च शृण्वत्सु वाक्यमेतदभाषत ॥ ६५ ॥
॥ राजोवाच ॥ ॥
दुष्पण्यनामा पशुमन्बहुप्रजमिदं पुरम् ॥ ६६ ॥
शून्यप्रायं कृतं पश्य त्वत्पुत्रेण दुरात्मना ॥
इदानीं बालिशानेतान्मज्जयामास वै जले ॥ ६७ ॥
यदृच्छया च सप्राणाः पुनरप्या गताः पुरम् ॥
अस्मिन्नित्थं गते कार्ये किं कर्तव्यं वदाधुना ॥ ६८ ॥
अद्य त्वामेव पृच्छामि यतस्त्वं धर्मतत्परः ॥
इत्युक्तः पशुमान्राज्ञा धर्मज्ञो युक्तमब्रवीत् ॥ ६९ ॥
॥ पशुमानुवाच ॥ ॥
पुरं निःशेषितं येन वधमेवायमर्हति ॥
न ह्यत्र विषये किञ्चित्प्रष्टव्यं विद्यते नृप ॥ 3.1.22.७० ॥
न ह्ययं मम पुत्रः स्याच्छत्रुरेवातिपापकृत् ॥
न ह्यस्य निष्कृतिं पश्ये येन निःशेषितं पुरम् ॥ ७१ ॥
वध्यतामेव दुष्टात्मा सत्यमेव ब्रवीम्यहम् ॥
श्रुत्वा पशुमतो वाक्यं नागराः सर्व एव हि ॥ ७२ ॥
वणिग्वरं श्लाघमाना राजानमिदमूचिरे ॥
न वध्यतामयं दुष्टस्तूष्णीं निर्वास्यतां पुरात् ॥ ७३ ॥
ततः स राजा दुष्पण्यं समाहूयेदमब्रवीत् ॥
अस्माद्देशाद्भवाञ्छीघ्रं दुष्टात्मन्गच्छ साम्प्रतम् ॥ ७४ ॥
यदि तिष्ठेस्त्वमत्रैव दण्डयेयं वधेन वै ॥
इति राज्ञा विनिर्भर्त्स्य दूतैर्निर्वासितः पुरात् ॥ ७५ ॥
दुष्पण्यस्त्वथ तं देशं परित्यज्य भयान्वितः ॥
मुनिमण्डलसम्बाधं वनमेव ययौ तदा ॥ ७६ ॥
तत्राप्येकं मुनिसुतं स तोयेषु न्यमज्जयत् ॥
केल्यर्थमागता दृष्ट्वा मुनिपुत्रा मृतं शिशुम् ॥ ७७ ॥
तत्पित्रे कथयामासुरभ्येत्य भृशदुःखिताः ॥
तत उग्रश्रवाः श्रुत्वा तेभ्यः पुत्रं जले मृतम् ॥ ७८ ॥
तपोमहिम्ना दुष्प ण्यचरितं तदमन्यत ॥
उग्रश्रवाः शशापैनं दुष्पण्यं वैश्यनन्दनम् ॥ ७९ ॥
॥ उग्रश्रवा उवाच ॥ ॥
मत्सुतं पयसि क्षिप्य यत्त्वं मारि तवानसि ॥
तवापि मरणं भूयाज्जल एव निमज्जनात् ॥ 3.1.22.८० ॥
मृतश्च सुचिरं कालं पिशाचस्त्वं भविष्यसि ॥
इति शापे श्रुते सद्यो दुष्पण्यः खिन्नमानसः ॥ ८१ ॥
तद्वै वनं परित्यज्य घोरमन्यद्वनं ययौ ॥
सिंहादिक्रूरसत्वाढ्यं तस्मिन्प्राप्ते वनान्तरम् ॥ ८२ ॥
पांसुवर्षं मह्द्वर्षन्वृक्षानामोटय न्मुहुः ॥
वज्रघातसमस्पर्शो ववौ झञ्झानिलो महान् ॥ ८३ ॥
वेगेन गात्रं भिन्दन्ती वृष्टिश्चासीत्सुदुःसहा ॥
तद्दृष्ट्वा स तु दुष्पण्यश्चिन्तयन्भृशदुः खितः ॥ ८४ ॥
मृतं शुष्कं महाकायं गजमेकमपश्यत ॥
महावातं महावर्षं तदा सोढुमशक्नुवन् ॥ ८५ ॥
गजास्यविवरेणैव विवेशोदरगह्वरम् ॥
तस्मिन्प्रविष्टमात्रे तु वृष्टिरासीत्सुभूयसी ॥ ८६ ॥
ततो वर्षजलैः सर्वैः प्रवाहः सुमहानभूत् ॥
स प्रवाहो वने तस्मिन्नदी काचिदजायत ॥ ८७ ॥
अथ तैर्वर्षसलिलैः स गजः पूरितोदरः ॥
प्लवमानो महापूरे नीरन्ध्रः समजायत ॥ ८८ ॥
ततो निर्विवरस्यास्य जलपूर्णोदरस्य च ॥
गजस्य जठरात्सोऽयं निर्गन्तु न शशाक ह ॥ ८९ ॥
ततश्च वृष्टितोयानां प्रवाहो भीमवेगवान् ॥
उदरस्थितदुष्पण्यं समुद्रं प्रापयद्गजम् ॥ 3.1.22.९० ॥
दुष्पण्यः सलिले मग्नः क्षणात्प्राणैर्व्ययुज्यत ॥
मृत एव स दुष्पण्यः पिशाचत्वमवाप्तवान् ॥ ९१ ॥
पीडितः क्षुत्पिपासाभ्यां दुर्गमं वनमाश्रितः ॥
घोरेषु घर्मकालेषु समाक्रोशन्भयानकम् ॥ ९२ ॥
अतिष्ठद्गहनेऽरण्ये दुःखान्यनुभवन्बहु ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥ ९३ ॥
स पिशाचो महादुःखी न्यवसद्घोरकानने ॥
वनाद्वनान्तरं धावन्देशाद्देशाद्देशान्तरं तथा ॥ ९४ ॥
सर्वत्रानुभवन्दुःखमाययौ दण्डकान्क्रमात् ॥
अगस्त्यादाश्रमात्पुण्यान्नातिदूरे स सञ्चरन् ॥ ९५ ॥
नदन्भैरवनादं च वाक्यमुच्चैरभाषत ॥
भोभोस्तपोधनाः सर्वे शृणुध्वं मामकं वचः ॥ ९६ ॥
भवन्तो हि कृपावन्तः सर्वभूतहिते रताः ॥
कृपादृष्ट्यानुगृह्णीत मां दुःखैरतिपीडितम् ॥ ९७ ॥
पुरा दुष्पण्यनामाहं वैश्यः पाटलिपुत्रके ॥
पुत्रः पशु मतश्चापि बहून्बालानमारयम् ॥ ९८ ॥
ततो विवासितो राज्ञा तस्माद्देशाद्वनं गतः ॥
अमारयं जले पुत्रं तत्रोग्रश्रवसो मुनेः ॥ ९९ ॥
स मुनिर्दत्त वाञ्छापं ममापि मरणं जले ॥
पिशाचतां च मे घोरां दत्तवान्दुःखभूयसीम् ॥ 3.1.22.१०० ॥
कल्पकोटिसहस्राणि कल्पकोटिशतान्यपि ॥
पिशाच तानुभूतेयं शून्यकाननभूमिषु ॥ १०१ ॥
नाहं सोढुं समर्थोऽस्मि पिपासां क्षुधमेव च ॥
रक्षध्वं कृपया यूयमतो मां बहुदुःखिनम् ॥ १०२ ॥
यथा मुच्येय पैशाच्यात्तथा कुरुत तापसाः ॥
इति श्रुत्वा पिशाचस्य वचनं ते तपोधनाः ॥
लोपामुद्रासहचरमूचिरे कुम्भसम्भवम् ॥ ॥ ॥
॥ तापसा ऊचुः ॥ ॥
पिशाचस्यास्य भगवन्ब्रूहि निष्कृतिमुत्तमाम् ॥ ४ ॥
एवंविधानां पापानां त्वं समर्थो हि रक्षणे ॥
तेषामगस्त्यः श्रुतवान्कृपया परया युतः ॥
प्रियशिष्यं समाहूय सुतीक्ष्णं वाक्यमब्रवीत् ॥ ५ ॥
॥ अगस्त्य उवाच ॥ ॥
सुतीक्ष्ण गच्छ त्वरितं पर्वतं गन्धमादनम् ॥ ६ ॥
तत्राग्नितीर्थं सुमहद्विद्यते पापनाशनम् ॥
पिशाचमोक्षणार्थाय तत्र स्नाहि महामते ॥ ७ ॥
पिशाचार्थं त्वयि स्नाते तत्र सङ्कल्पपूर्वकम् ॥
पिशाचभावमुन्मुच्य दिव्यतामेष यास्यति ॥ ८ ॥
निष्कृतिं नास्य पश्यामि विना तत्तीर्थसेवनात ॥
अतः सुतीक्ष्णकृपया रक्षस्वैनं पिशाचकम् ॥ ९ ॥
अगस्त्येनैवमुक्तस्तु सुतीक्ष्णो गन्धमादनम् ॥
प्राप्याग्नितीर्थे सङ्कल्प्य पिशाचार्थं कृपानिधिः ॥ 3.1.22.११० ॥
सस्नौ तत्र पिशाचार्थं नियमेन दिनत्रयम् ॥
रामनाथादिकं सेव्य तत्तीर्थं प्रतिगृह्य च ॥ ११ ॥
स्वाश्रमं प्रति गत्वाथ सुतीक्ष्णो विप्रसत्तमः ॥
तत्तीर्थ प्रोक्षणात्सद्यः सवियुज्य पिशाचताम् ॥ १२ ॥
वैभवात्तस्य तीर्थस्य सद्यो दिव्यत्वमाप्तवान् ॥
विमानवरमारूढो दिव्यस्त्रीपरिवारितः ॥ १३ ॥
सुतीक्ष्णं चाप्यगस्त्यं च तथान्यांश्च तपोधनान् ॥
पुनःपुनर्नमस्कृत्य तांश्चामन्त्र्य प्रहर्षितः ॥ १४ ॥
स्वर्गमेवारुहत्तूर्णं देवैरपि स पूजितः ॥
अग्नितीर्थस्य माहात्म्याद्दुष्पण्यो वैश्यनन्दनः ॥ १५ ॥
पैशाच्यं शापजं त्यक्त्वा दिव्यतामित्थमाप्तवान् ॥
एवं वः कथितं विप्रा अग्नितीर्थस्य वैभवम् ॥ १६ ॥
यः पठेदिममध्यायं शृणुयाद्वा सभक्तिकम् ॥
पिशाचमोक्षणाख्यानं मुच्यते सर्वपातकैः ॥ १७ ॥
इह भुक्त्वा महाभोगान्परत्रापि सुखं लभेत् ॥ ११९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्येऽग्नितीर्थप्रशंसायां दुष्पण्यपैशाच्यमोक्षणन्नाम द्वाविंशोऽध्यायः ॥ २२ ॥