॥ श्रीसूत उवाच ॥ ॥
लक्ष्मणस्य महातीर्थे ब्रह्महत्याविनाशने ॥
स्नात्वा स्वचित्तशुद्ध्यर्थं जटातीर्थं ततो व्रजेत् ॥ १ ॥
जन्ममृत्युजराक्रान्तसंसारातुरचेतसाम् ॥
अज्ञाननाशकं नास्ति जटातीर्थादृते द्विजाः ॥ २ ॥
लोके मुमुक्षवः केचिच्चित्तशुद्धिमभीप्सवः ॥
वाचा पठन्ति वेदान्तांस्तूष्णीन्नानुभवन्ति ते ॥ ३ ॥
पूर्वपक्षमहाग्राहे सिद्धान्तझषसङ्कुले ॥
वेदान्ताब्धाविहाज्ञानं मुह्यन्ति पतिता द्विजाः ॥ ४ ॥
प्रथमं चित्तशुद्ध्यर्थं वेदान्तान्सम्पठन्ति ये ॥
विवदन्ते पठित्वा ते कलहं च वितन्वते ॥ ५ ॥
चित्तशुद्धिर्न वेदान्ताद्बहुव्यामोहकारणात् ॥
ततो वयं न वेदान्तान्मुनीन्द्रा बहु मन्महे ॥ ६ ॥
चित्तशुद्धिं यदीच्छध्वं लघूपायेन तापसाः ॥
उद्घोषयामि सर्वेषां जटातीर्थं निषेवत ॥ ७ ॥
पुरा सर्वोपकारार्थं तीर्थमज्ञाननाशनम् ॥
एतद्विनिर्मितं साक्षाच्छम्भुना गन्धमादने ॥ ८ ॥
निहते रावणे विप्रा जटां रामस्तु धार्मिकः ॥
क्षालयामास यत्तोये तज्जटातीर्थमुच्यते ॥ ९ ॥
वर्षाणां षष्टिसाहस्रं जाह्नवीजलमज्जनम् ॥
गोदावर्यां सकृत्स्नानं सिंहस्थे च बृहस्पतौ ॥ 3.1.20.१० ॥
तावत्सहस्रस्नानानि सिंहं देवगुरौ गते ॥
गोमत्यां लभ्यते वर्षैस्तज्जटातीर्थदर्शनात् ॥ ११ ॥
जटातीर्थे मनुष्याणां स्नातानां द्विजपुङ्गवाः ॥
अन्तःकरणशुद्धिः स्यात्ततोऽज्ञानं विनश्यति ॥ १२ ॥
अज्ञाननाशे ज्ञानं स्यात्ततो मुक्तिमवाप्स्यसि ॥
अखण्डसच्चिदानन्दसम्पूर्णः स्यात्ततः परम् ॥ १३ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ॥
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥ १४ ॥
पुरा मुनिवरं कृष्णं भावि तात्मानमच्युतम् ॥
पारम्पर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥
प्रणम्य शिरसा व्यासं शुकः पप्रच्छ वै द्विजाः ॥ १५ ॥
॥ श्रीशुक उवाच ॥ ॥
भगवंस्तात सर्वज्ञ ब्रूहि गुह्यमनुत्तमम् ॥ १६ ॥
अन्तःकरणशुद्धिः स्यात्तथाज्ञानविनाशनम् ॥
ज्ञानोदयश्च येन स्यादन्ते मुक्तिश्च शाश्वती ॥ १७ ॥
तमुपायं वदस्वाद्य स्नेहान्मम महामुने ॥
वेदान्ताश्चेतिहासाश्च पुराणादीनि कृत्स्नशः ॥ १८ ॥
अधीतानि मया त्वत्तः शोधयन्ति न मानसम् ॥
अतो मे चित्तशुद्धिः स्याद्यथा तात तथा वद ॥ १९ ॥
इति पृष्टस्तदा व्यासः शुकेन मुनिसत्तमाः ॥
रहस्यं कथयामास येनाविद्या विन श्यति ॥ 3.1.20.२० ॥
॥ व्यास उवाच ॥ ॥
शुक वक्ष्यामि ते गुह्यमविद्याग्रन्थिभेदनम् ॥
बुद्धिशुद्धिप्रदं पुंसां जन्मादिभयनाशनम् ॥ २१ ॥
रामसेतौ महापुण्यं गन्धमादनपर्वते ॥
विद्यते पापसंहारि जटातीर्थमिति श्रुतम् ॥ २२ ॥
जटां स्वां शोधयामास यत्र रामो हरिः स्वयम् ॥
रामो दाशरथिः श्रीमांस्तीर्थाय च वरं ददौ ॥ २३ ॥
स्नाति येऽत्र समागत्य जटातीर्थेऽतिपावने ॥
अन्तःकरणशुद्धिश्च तेषां भूयादिति स्म सः ॥ २४ ॥
विना यज्ञं विना ज्ञानं विना जाप्यमुपोषणम् ॥
स्नानमात्राज्जटातीर्थे बुद्धिशुद्धिर्भवेन्नृणाम् ॥ २५ ॥
सर्वदानसमं पुण्यं स्नानादत्र भविष्यति ॥
दुर्गाण्यनेन तरति पुण्यलोकान्समश्नुते ॥ २६ ॥
महत्त्वमश्नुते स्नानाज्जटातीर्थे शुभोदके ॥
जटातीर्थं विना नान्यदन्तःकरण शुद्धये ॥ २७ ॥
विद्यते नियमो वापि जपो वा नान्यदेवता ॥
धन्यं यशस्यमायुष्यं सर्वलोकेषु विश्रुतम् ॥ २८ ॥
पवित्राणां पवित्रं च जटातीर्थं शुकाधुना ॥
सर्वपापप्रशमनं मङ्गलानां च मङ्गलम् ॥ २९ ॥
भृगुर्वै वारुणिः पूर्वं वरुणं पितरं शुक ॥
बुद्धिशुद्धिप्रदोपायमपृच्छत्पावनं शुभम् ॥
प्रोवाच वरुणस्तस्मै बुद्धिशुद्धिप्रदं शुभम् ॥ 3.1.20.३० ॥
॥ वरुण उवाच ॥ ॥
रामसेतौ भृगो पुण्ये गन्धमादनपर्वते ॥ ३१ ॥
Esoteric aspect of Jata
Temple details at Jataa Teertha
स्नानमात्राज्जटा तीर्थे बुद्धिशुद्धिर्भवेद्ध्रुवम् ॥
स पितुर्वचनात्सद्यो भृगुर्वै वरुणात्मजः ॥ ३२ ॥
गत्वा स्नात्वा जटातीर्थे बुद्धिशुद्धिमवाप्तवान् ॥
विनष्टाज्ञानसन्तानस्तया शुद्ध्या तदा भृगुः ॥ ३३ ॥
उत्पन्नाद्वैतविज्ञानः स्वपितुर्वरुणादयम् ॥
अखण्डसच्चिदानन्दपूर्णाकारोऽभवच्छुक ॥ ३४ ॥
शङ्करांशोऽपि दुर्वासा जटातीर्थेऽभिषेकतः ॥
मनःशुद्धिमवाप्याशु ब्रह्मानन्दमयोऽभवत् ॥ ३५ ॥
दत्तात्रेयोऽपि विष्ण्वंशस्तीर्थेऽस्मिन्नभिषेचनात् ॥
शुद्धान्तःकरणो भूत्वा ब्रह्माकारोऽभवच्छुक ॥ ३६ ॥
इच्छेदज्ञाननाशं यः स स्नायात्तु जटाभिधे ॥
तीर्थे शुद्धतमे पुण्ये सर्वपापविनाशने ॥ ३७ ॥
जटातीर्थमतस्त्वं च शुक गच्छ महामते ॥
मनःशुद्धिप्रदं तस्मिन्स्नानं च कुरु पुण्यदे ॥ ३८ ॥
पित्रैवमुक्तो व्यासेन शुकः पुत्रस्तदा द्विजाः ॥
रामसेतुं महापुण्यं गन्धमादनपर्वतम् ॥ ३९ ॥
अगमत्स्नातुकामः सञ्जटातीर्थे विशुद्धिदे ॥
स्नात्वा सङ्कल्पपृर्वं च जटातीर्थे शुको मुनिः ॥ 3.1.20.४० ॥
मनःशुद्धिमनुप्राप्य तेन चाज्ञाननाशने ॥
स्वस्वरूपं समापन्नः परमानन्दरूपकम् ॥ ४१ ॥
ये चाप्यन्ये मनःशुद्धिकामाः सन्ति द्विजोत्तमाः ॥
जटातीर्थे तु ते सर्वे स्नातुं भक्तिपुरःसरम ॥ ४२ ॥
अहो जना जटातीर्थे कामधेनुसमे शुभे ॥
विद्यमानेऽपि किं तुच्छे रमन्तेन्यत्र मोहिताः ॥ ४३ ॥
भुक्तिकामो लभेद्भुक्तिं मुक्तिकामस्तु तां लभेत् ॥
स्नानमात्राज्जटातीर्थे सत्यमुक्तं मया द्विजाः ॥ ४४ ॥
वेदानुवच नात्पुण्याद्यज्ञाद्दानात्तपोव्रतात्॥
उपवासाज्जपाद्योगान्मनःशुद्धिर्नृणां भवेत् ॥ ४५ ॥
विनाप्येतानि विप्रेन्द्रा जटातीर्थेऽतिपावने ॥
स्नानमात्रान्मनःशुद्धिर्ब्राह्मणानां ध्रुवं भवेत् ॥ ४६ ॥
जटातीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥
शङ्करो वेत्ति तत्तीर्थं हरिर्वेत्ति विधिस्तथा ॥ ४७ ॥
जटातीर्थसमन्तीर्थं न भूतं न भविष्यति॥
जटातीर्थस्य तीरे यः क्षेत्रपिण्डं समाचरेत्॥४८॥
गयाश्राद्धसमम्पुण्यन्तस्य स्यान्नात्र संशयः॥
जटातीर्थे नरः स्नात्वा न पापेन विलिप्यते॥
दारिद्र्यं न समाप्नोति नेयाच्च नरकार्णवम्॥४९॥
श्रीसूत उवाच॥
एवं वः कथितं विप्रा जटातीर्थस्य वैभवम् ॥ 3.1.20.५० ॥
यत्र व्याससुतो योगी स्नात्वा पापविमोचने ॥
अवाप्तवान्मनःशुद्धिमद्वैतज्ञानसाधनाम् ॥ ५१ ॥
यस्त्विमं पठतेऽध्यायं शृणुते वा समाहितः ॥
स विधूयेह पापानि लभते वैष्णवं पदम् ॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये जटातीर्थप्रशंसायां शुकचित्तशुद्धिवर्णनन्नाम विंशोऽध्यायः ॥ २० ॥