॥ श्रीसूत उवाच ॥ ॥
तारकब्रह्मणस्तस्य तीर्थे स्नात्वा द्विजोत्तमाः ॥
लक्ष्मणस्य ततस्तीर्थमभिगच्छेत्समाहितः ॥ १ ॥
श्रीलक्ष्मणस्य तीर्थे तु स्नात्वा पापैर्विमोचिताः ॥
मुक्तिं प्रयान्ति विमलामपुनर्भवलक्षणाम्॥२॥
स्नानाल्लक्ष्मणतीर्थे तु दारिद्र्यं नश्यतेखिलम् ॥
आयुष्मान्गुणवान्विद्वान्पुत्रश्चैवास्य जायते ॥ ३ ॥
कूले लक्ष्मणतीर्थस्य तन्मन्त्रं जपते तु यः ॥
स सर्वशास्त्रवेत्ता स्याच्चतुर्वेदविदप्यसौ ॥ ४ ॥
तस्य कूले महल्लिङ्गं स्थापयामास लक्ष्मणः ॥
तत्र तीर्थे तु यः स्नात्वा सेवते लक्ष्मणेश्वरम् ॥ ५॥
इह दारिद्र्यरोगाभ्यां संसाराच्च विमुच्यते ॥
स्नात्वा लक्ष्मणतीर्थे तु सेवित्वा लक्ष्मणेश्वरम् ॥
बलभद्रः पुरा विप्रा मुमुचे ब्रह्महत्यया ॥ ६ ॥ ॥
॥ ऋषय ऊचुः ॥ ॥
ब्रह्महत्या कथमभूद्रौहिणेयस्य सूतज ॥
कथं चात्र विनष्टा सा तन्नो ब्रूहि महामुने ॥ ७ ॥
॥ श्रीसूत उवाच ॥ ॥
शेषावतारो भगवान्बलभद्रः पुरा द्विजाः ॥ ८ ॥
कुरूणां पाण्डवानां च युद्धोद्योगं विलोक्य तु ॥
बन्धूनां स वधं सोढुमसमर्थो हलायुधः ॥ ९ ॥
विचारमेवमकरोद्बलभद्रो महामतिः ॥
यद्यहं कुरुराजस्य करिष्यामि सहायताम् ॥ 3.1.19.१० ॥
कोपः स्यात्पाण्डुपुत्राणां मय्यवार्यः सुदारुणः ॥
उपकारं करिष्यामि पाण्डवानामहं यदि ॥ ११ ॥
दुर्योधनस्य कोपः स्यादिति बुद्ध्वा हलायुधः ॥
तीर्थयात्राच्छलेनासौ मध्यस्थः प्रययौ तदा ॥ १२ ॥
प्रभासमभिगम्याथ स्नात्वा सङ्कल्पपूर्वकम्॥
देवानृषीन्पितृगणांस्तर्पयामास वारिणा ॥ १३ ॥
सरस्वतीं ततः प्रायात्प्रतीच्यभिमुखां हली ॥
पृथूदकं बिन्दुसरो मुक्तिदं ब्रह्मतीर्थकम्॥ १४ ॥
गङ्गां च यमुनां सिन्धुं शतद्रूं च सुदर्शनम् ॥
सम्प्राप्य बलभद्रोऽयं स्नात्वा तीर्थेषु धर्मतः ॥ १५ ॥
प्रपेदे नैमिषारण्यं मुनीन्द्रैरभिसेवितम् ॥
आगतं तं विलोक्याथ नैमिषीयास्तपस्विनः ॥ १६ ॥
दीर्घसत्रे स्थिताः सम्यङ्नियता धर्मतत्पराः ॥
अभ्युद्गम्य यदुश्रेष्ठं प्रणम्योत्थाय चासनात् ॥ १७ ॥
अपूजयन्विष्टराद्यैः कन्दमूलफलैस्तदा ॥
आसनं परिगृह्यायं पूजितः सपुरःसरः ॥ १८ ॥
उच्चासने स्थितं सूतमनमन्तमनुत्थितम् ॥
अकृताञ्जलिमासीनं व्यासशिष्यं विलोक्य सः ॥ १९ ॥
विप्रांश्चानमतो दृष्ट्वा विलोक्यात्मानमागतम् ॥
चुक्रोध रोहिणीसूनुः सूतं पौराणिकोत्तमम्॥ 3.1.19.२० ॥
मध्ये मुनीनां सूतोऽयं कस्मान्निन्द्योऽनुलोमजः ॥
उच्चासने समध्यास्ते न युक्तमिदमञ्जसा ॥ ॥ २१ ॥
अवमत्य भृशं चास्मान्धर्मसंरक्षकानयम् ॥
आस्तेऽनुत्थाय निर्भीतिर्न च प्रणमते तथा ॥ २२ ॥
पठित्वायं पुराणानि द्वैपायनसकाशतः ॥
सेतिहासानि सर्वाणि धर्मशास्त्राण्यनेकशः ॥ २३ ॥
न मां दृष्ट्वा प्रणमते नैव त्यजति चासनम् ॥
द्वैपायनस्य महतः शिष्याः पैलादयो द्विजाः ॥ २४ ॥
एवंविधमधर्मं ते नैव कुर्युर्यथा त्वयम् ॥
तस्मादेनं वधिष्यामि दुरात्मानमचेतनम् ॥ २५ ॥
दुष्टानां निग्रहार्थं हि भूर्लोकमहमागमम् ॥
मया हतो हि दुष्टात्मा शुद्धिमेष्यत्यसंशयम् ॥ २६ ॥
इत्युक्त्वा भगवान्रामो मुसली प्रबलो हली ॥
पाणिस्थेन कुशाग्रेण तच्छिरः प्राच्छिनद्रुषा ॥ २७ ॥
तत्रत्या मुनयः सर्वे हा कष्टमिति चुक्रुशुः ॥
अवादिषुस्तदा रामं मुनयो ब्रह्मवादिनः ॥ २८ ॥
रामाधर्मः कृतः कष्टस्त्वया सङ्कर्षण प्रभो ॥
अस्य सूतस्य चास्माभिर्दत्तं ब्रह्मासनं महत् ॥ २९ ॥
अक्षयं चायुरस्माभिरस्य दत्तं हलायुध ॥
भवताऽऽजानतैवाद्य कृतो ब्रह्मवधो महान् ॥ 3.1.19.३० ॥
योगेश्वरस्य भवतो नास्ति कश्चिन्नियामकः ॥
अस्यास्तु ब्रह्महत्याया यत्कर्त्तव्यं विचार्य तत् ॥ ३१ ॥
प्रायश्चित्तं भवानेव लोकसङ्ग्रहणाय तु ॥
कुरुष्व भगवन्राम नान्येन प्रेरितः कुरु ॥
इत्युक्तो भगवान्रामस्तानुवाच मुनीन्प्रति ॥ ३२ ॥
॥ राम उवाच ॥ ॥
प्रायश्चित्तं चरिष्याभि पापशोधकमास्तिकाः ॥ ३३ ॥
लोकसङ्ग्रहणार्थाय नान्यकामनयाऽधुना ॥
यादृशो नियमोऽस्माभिः कर्तव्यः पापशान्तये ॥ ३४ ॥
तादृशं नियमं त्वद्य भवतः प्रब्रुवन्तु नः ॥
भवद्भिरस्य सूतस्य यदायुर्दत्तमक्षयम् ॥
इन्द्रियाणि च सत्त्वं च करिष्ये योगमायया ॥३५ ॥
॥ मुनय ऊचुः ॥ ॥
पराक्रमस्य तेस्त्रस्य मृत्योर्नश्च यथा प्रभो ॥
स्यात्सत्यवचनं राम तद्भवान्कर्तुमर्हति ॥ ३६ ॥ ॥
॥ राम उवाच ॥ ॥
आत्मा वै पुत्ररूपेण भवतीति श्रुतिस्सदा ॥३७ ॥
उद्घोषयति विप्रेन्द्रास्तस्मादस्य शरीरतः ॥
पुत्रो भवतु दीर्घायुः सत्त्वेन्द्रिय बलोर्जितः ॥ ३९ ॥
कथयिष्यति युष्माकं पुराणादीनि सोऽन्वहम् ॥
सम्भविष्यति सर्वज्ञो योगमायाबलान्मम ॥ ३९ ॥
इत्युक्त्वा रौहिणेयस्तान्पुनः प्रश्रितमब्रवीत् ॥
मनोभिलषितं किं वा युष्माकं करवाण्यहम् ॥ 3.1.19.४० ॥
तद्ब्रूत मुनयो यूयं करिष्यामि न संशयः ॥
अज्ञानान्मत्कृतस्यास्य पापस्यापि निवर्तकम् ॥
प्रायश्चित्तं भवन्तो मे प्रब्रूत मुनिसत्तमाः ॥ ४१ ॥
॥ मुनय ऊचुः ॥ ॥
इल्वलस्यात्मजः कश्चिद्दानवो बल्वलाभिधः ॥ ४२ ॥
स दूषयति नो यागं रामेहागत्य पर्वणि ॥
दुष्टं तं दानवं पापं जहि लोकैककण्टकम् ॥४३ ॥
अनेन पूजा ह्यस्माकं कृता स्याद्भवताधुना ॥
अस्थिविण्मूत्ररक्तानि सुरामांसानि च क्रतौ ॥ ४४ ॥
सदाभिवर्षतेऽस्माकमत्रागत्य स दानवः ॥
अस्मिन्भारतभूभागे यानि तीर्थानि सन्ति हि ॥ ४५ ॥
तेषु स्नाह्यब्दमेकं त्वं सर्वेषु सुसमाहितः ॥
तेन ते पापशान्तिः स्यान्नात्र कार्या विचारणा ॥ ४६ ॥
॥ श्रीसूत उवाच ॥ ॥
पर्वकाले तु विप्रेन्द्राः समावृत्ते मुनिक्रतौ ॥
महाभीमो रजोवर्षो झञ्झावातश्च भीषणः ॥ ४७ ॥
प्रादुर्बभूव विप्रेन्द्राः पूयरक्तैश्च वर्षणम् ॥
ततो विष्ठामया वृष्टिर्बल्वलेन कृताप्यभूत् ॥ ४९ ॥
असुरं यज्ञशालायां शूलपाणिमथ क्षणात् ॥
अपश्यद्बलभद्रोऽसौ महाबलपराक्रमम् ॥ ४९ ॥
तमालोक्य महादेहं दग्धाद्रिप्रतिमं तदा ॥
प्रतप्तताम्रसङ्काशश्मश्रुदंष्ट्रोत्कटाननम् ॥ 3.1.19.५० ॥
चिन्तयामास मुसलं रामः परविदारणम्॥
सीरं च दानवहरं गदां दैत्यविदारिणीम् ॥ ५१ ॥
यान्यायुधानि तं रामं चिन्तितान्युपतस्थिरे ॥
सीराग्रेण तमाकृष्य बल्वलं खेचरं तदा ॥ ५२ ॥
मुसलेन निजघ्ने स कुपितो मूर्ध्नि वेगतः ॥
पपात भुवि सङ्क्षुण्णललाटो रक्तमुद्वमन् ॥ ५३ ॥
बल्वलो दीनकथनो गिरिर्वज्रहतो यथा ॥
स्तुत्वाथ मुनयो रामं प्रोच्चार्य विमलाशिषः ॥ ९४ ॥
अभ्यषिञ्चञ्च्छुभैस्तोयैर्वृत्रशत्रुं यथा सुराः ॥
मालां ददुर्वैजयन्तीं श्रीमदम्बुज शोभिताम् ॥ ५५ ॥
माधवाय शुभे वस्त्रे भूषणानि शुभानि च ॥
धारयंस्तानि सर्वाणि रौहिणेयो महाबलः ॥५६॥
पुष्पितानोकहोपेतः कैलास इव पर्वतः ॥
अनुज्ञातोऽथ मुनिभिः सर्वतीर्थेषु स द्विजाः ॥ ५७ ॥
एकमब्दं चरन्सस्नौ नियमाचारसंयुतः ॥
ततः संवत्सरे पूर्णे कालिन्दीभेदनो बलः ॥ ५८ ॥
समाप्ततीर्थयात्रः सन्पुरीं गन्तुं प्रचक्रमे ॥
ततस्तमोमयीं छायां पृष्ठतोनुगतां कृशाम् ॥ ५९ ॥
अपश्यद्बलदेवोयं महानादविराविणीम् ॥
अथ वार्ता स शुश्राव समुद्भूतां तदाम्बरे ॥ 3.1.19.६० ॥
रामराम महाबाहो रौहिणेय सितप्रभ ॥
तीर्थाभिगमनेनाद्य चरितेन त्वयाऽनघ ॥ ॥ ६१ ॥
न नष्टा ब्रह्महत्या ते निःशेषं रोहिणीसुत ॥
इति वार्तां समाकर्ण्य चिन्तयामास वै बलः ॥ ६२ ॥
प्रायश्चित्तं मया चीर्णमेकाब्दं तीर्थ सेवया ॥
तथापि ब्रह्महत्या सा न नष्टेति श्रुतं वचः ॥ ६३ ॥
किं कुर्म इति सञ्चिन्त्य नैमिषारण्यमभ्यगात् ॥
तत्र गत्वा मुनीनां तन्न्यवेदयदरिन्दमः ॥ ६४ ॥
यच्छ्रुतं गगने वाक्यं या च दृष्टा तमोमयी ॥
न्यवेदयत तत्सर्वं मुनीनां रोहिणीसुतः ॥
तच्छ्रुत्वा मुनयः सर्वे रामं वाक्यमथाब्रुवन् ॥ ६५ ॥
॥ मुनय ऊचुः ॥ ॥
यदि राम न नष्टा ते ब्रह्महत्या तु कृत्स्नशः ॥ ६६ ॥
तर्हि गच्छ महाभाग गन्धमादनपर्वतम् ॥
महादुःख प्रशमनं महारोगविनाशनम् ॥ ६७ ॥
रामसेतौ महापुण्ये गन्धमादनपर्वते ॥
अस्ति लक्ष्मणतीर्थाख्यं सरः पापविनाशनम् ॥ ६८ ॥
स्नानं कुरुष्व तत्र त्वं तल्लिङ्गं च नमस्कुरु ॥
निःशेषं तेन नष्टा स्याद्ब्रह्महत्या न संशयः ॥ ६९ ॥
॥ श्रीसूत उवाच ॥ ॥
एवमुक्तस्तदा रामो गन्धमादनपर्वतम् ॥
गत्वा लक्ष्मणतीर्थं च प्राप्तवान्मुनिपुङ्गवाः ॥ 3.1.19.७० ॥
स्नात्वा सङ्कल्पपूर्वं तु तत्र तीर्थे हलायुधः ॥
ब्राह्मणेभ्यो ददौ वित्तं धान्यं गाश्च वसुन्धराम् ॥ ७१ ॥
तस्मिन्नवसरे तत्र राममाहाशरीरवाक् ॥
निःशेषं राम नष्टा ते ब्रह्महत्याधुना त्विह ॥ ७२ ॥
सन्देहो नात्र कर्तव्यः सुखं याहि पुरीं निजाम् ॥
तच्छ्रुत्वा बलभद्रोऽथ तत्तीर्थं प्रशशम्स ह ॥ ७३ ॥
ततस्तत्रत्यतीर्थेषु स्नात्वा सर्वेषु माधवः ॥
धनुष्कोटौ तथा स्नात्वा रामनाथं निषेव्य च ॥
द्वारकां स्वपुरीं प्रायान्नष्टपातकसञ्चयः ॥ ७४ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वः कथितं विप्राः श्रीलक्ष्मणसरोऽमलम् ॥ ७५ ॥
पुण्यं पवित्रं पापघ्नं ब्रह्महत्यादिशोधकम् ॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥ ७६ ॥
स याति मुक्तिं विप्रेन्द्राः पुनरावृत्तिवर्जिताम् ॥ ७७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मणतीर्थप्रशंसायां बलभद्रब्रह्महत्याविमोक्षणनामैकोनविंशोऽध्यायः ॥ १९ ॥