०१८ कथनदोषशान्तिवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
कुम्भसम्भवतीर्थेऽस्मिन्विधायाभिषवं नरः ॥
रामकुण्डं ततः पुण्यं गच्छेत्पापविमुक्तये ॥ १ ॥
रघुनाथसरः पुण्यं द्विजाः पापहरं तथा ॥
रघुनाथसरस्तीरे कृतो यज्ञोऽल्पदक्षिणः ॥ २ ॥
सम्पूर्णफलदो भूयात्स्वाध्यायोऽपि जपस्तथा ॥
रघुनाथ सरस्तीरे मुष्टिमात्रमपि द्विजाः ॥ ३ ॥
दत्तं चेद्वेदविदुषे तदनन्तगुणं भवेत् ॥
रामतीर्थं समुद्दिश्य वक्ष्यामि मुनिपुङ्गवाः ॥ ४ ॥
इतिहासं महापुण्यं सर्वपातकनाशनम् ॥
सुतीक्ष्णनामा विप्रेन्द्रो मुनिर्नियतमानसः ॥ ५ ॥
अगस्त्यशिष्यो रामस्य चरणाब्जविचिन्तकः ॥
रामचन्द्रसरस्तीरे तपस्तेपे सुदुष्करम् ॥ ६ ॥
जपन्षडक्षरं मन्त्रं रामचन्द्राधिदैवतम् ॥
नित्यं स पञ्चसाहस्रं मत्रराजमतन्द्रितः ॥७ ॥
जजाप कुर्वन्स्नानं च रघुनाथसरोजले ॥
भिक्षाशी नियताहारो जितक्रोधो जितेन्द्रियः ॥ ८ ॥
एवं सुतीक्ष्णो विप्रेन्द्रा बहुकालमवर्तत ॥
ततः कदाचित्स मुनीरामं ध्याय न्सदा हृदि ॥
तुष्टाव सीतासहितं रामचन्द्रं सभक्तिकम् ॥ ९ ॥
॥ सुतीक्ष्ण उवाच ॥ ॥
नमस्ते जानकीनाथ नमस्ते हनुमत्प्रिय ॥ 3.1.18.१० ॥
नमस्ते कौशिकमुनेर्यागरक्षणदीक्षित ॥
नमस्ते कौसलेयाय विश्वामित्रप्रियाय च ॥ ११ ॥
नमस्ते हरकोदण्डभञ्जकामरसेवित ॥
मारीचान्तक राजेन्द्र ताटकाप्राणनाशन ॥ १२ ॥
कबन्धारे हरे तुभ्यं नमो दशरथात्मज ॥
जामदग्न्यजिते तुभ्यं खरविध्वंसिने नमः ॥ १३ ॥
नमः सुग्रीवनाथाय नमो वालिहराय ते ॥
विभीषणभयक्लेशहारिणे मलहारिणे ॥ १४ ॥
अहल्यादुःखसंहर्त्रे नमस्ते भरताग्रज ॥
अम्भोधिगर्वसंहर्त्रे तस्मिन्सेतु कृते नमः ॥ १५ ॥
तारकब्रह्मणे तुभ्यं लक्ष्मणाग्रज ते नमः ॥
रक्षःसंहारिणे तुभ्यं नमो रावणमर्द्दिने ॥ १६ ॥
कोदण्डधारिणे तुभ्यं सर्व रक्षाविधायिने ॥
इति स्तुवन्मुनिः सोऽयं सुतीक्ष्णो राममन्वहम् ॥ १७ ॥
निनाय कालमनिशं रामचन्द्रनिषण्णधीः ॥
एवमभ्यसतस्तस्य राम मन्त्रं षडक्षरम्॥ १८ ॥
स्तुवतो रामचन्द्रं च स्तोत्रेणानेन सुव्रताः ॥
तीर्थे च रघुनाथस्य कुर्वतः स्नानमन्वहम् ॥ १९ ॥
अभवन्निश्चला भक्ती रामचन्द्रेतिनिर्मला ॥
अभूदद्वैतविज्ञानं प्रत्यगात्मैकलक्षणम् ॥ 3.1.18.२० ॥
अनधीतत्रयीज्ञानं तथैवाश्रुतवेदनम् ॥
परकायप्रवेशे च सामर्थ्यमभवद्द्विजाः ॥२१ ॥
आकाशगमने शक्तिः कलावैदग्ध्यमेव च ॥
अश्रुतानां च शास्त्राणामभिज्ञानं विना गुरुम् ॥ २२ ॥
गमनं सर्वलोकेषु प्रति घातविवर्जितम् ॥
अतीन्द्रियार्थद्रष्टृत्वं देवैः सम्भाषणं तथा ॥ २३ ॥
पिपीलिकादिजन्तूनां वार्ताज्ञानमपि द्विजाः ॥
ब्रह्मविष्णुमहादेवलोकेषु गमनं तथा॥२४ ॥
चतुर्दशसु लोकेषु स्वाधीनगमनं तथा ॥
एतान्यन्यानि सर्वाणि योगिलभ्यानि सत्तमाः ॥ २५ ॥
सुतीक्ष्णस्याभवन्विप्रा रामा तीर्थनिषेवणात् ॥
एवम्प्रभावं तत्तीर्थं महापातकनाशनम् ॥ २६ ॥
महासिद्धिकरं पुण्यमपमृत्युविनाशनम् ॥
भुक्तिमुक्तिप्रदं पुंसां नरकक्लेशना शनम् ॥ २७ ॥
रामभक्तिप्रदं नित्यं संसारोच्छेदकारणम् ॥
अस्य तीरे महल्लिङ्गं स्थापयित्वा रघूद्वहः ॥
पूजयामास तल्लिङ्गं लोकानुग्रहका म्यया ॥ २८ ॥
रामतीर्थे महापुण्ये स्नात्वा तल्लिङ्गदर्शनात् ॥
नराणां मुक्तिरेव स्यात्किमुतान्या विभूतयः ॥ २९ ॥
तत्र स्नात्वा शिवं दृष्ट्वा धर्म पुत्रः पुरा द्विजाः ॥
अनृतोक्तिसमुद्भूतदोषान्मुक्तोऽभवत्क्षणात् ॥ 3.1.18.३० ॥ ॥
ऋषय ऊचुः ॥ ॥ असत्यमुदितं कस्माद्धर्मपुत्रेण सूतज ॥
यद्दोषशान्तये सस्नौ रामतीथेऽतिपावने ॥ ३१ ॥
॥ श्रीसूत उवाच ॥ ॥
युष्माकमृषयो वक्ष्ये यथोक्तमनृतं रणे ॥
छलेन धर्मपुत्रेण यन्नष्टं रामतीर्थके ॥ ३२ ॥
अन्योन्यं पाण्डवा विप्रा धर्मपुत्रादयः पुरा ॥
धृतराष्ट्रस्य पुत्राश्च दुर्नोधनमुखास्तदा ॥ ३३ ॥
महद्वै वैरमासाद्य राज्यार्थं विप्रसत्तमाः ॥
महत्या सेनया सार्द्धं कुरुक्षेत्रे समेत्य च ॥ ३४ ॥
अयुध्यन्समरे वीराः समरेष्वनिवर्तिनः ॥
युद्धं कृत्वा दशदिनं गाङ्गेयः पतितो भुवि ॥ ३५ ॥
ततः पञ्चदिनं भूयो धृष्टद्युम्नेन वीर्यवान् ॥
आचार्यो युयुधे द्रोणो महाबलपराक्रमः ॥ ३६ ॥
अनेकास्त्राणि शस्त्राणि द्रोणाचर्यो महाबली ॥
विसृजन्पाण्डवानीकं पीडयामास वीर्यवान् ॥ ३७ ॥
अथ दिव्यास्त्रविच्छूरो धृष्टद्युम्नो महाबलः ॥
अभिनद्बाणवर्षेण द्रोणसेनामनेकधा ॥ ३८ ॥
धृष्टद्युम्नं तदा द्रोणः शरवर्षैरवाकिरत् ॥
पार्थसेना तथा द्रोणबाणवर्षातिपीडिता ॥ ३९ ॥
दशदिक्षु भयाक्रान्ता विद्रुता द्विजसत्तमाः ॥
ततोऽर्जुनो रणे द्रोणं युयुधे रथिनां वरः ॥ 3.1.18.४० ॥
रणप्रवीणयोस्तत्र विजयद्रोणयो रणे ॥
द्रष्टुं समागतैर्देवैरभूद्व्योमनिरं तरम् ॥ ४१ ॥
द्रोणफाल्गुनयोर्विप्रा नास्ति युद्धोपमा भुवि ॥
सामर्षयोस्तदाचार्यशिष्ययोरभवद्रणः ॥ ४२ ॥
द्रोणफाल्गुनयोर्युद्धं द्रोणफाल्गुन योरिव ॥
बहु मेनेऽथ मनसा द्रोणोऽर्जुनपराक्रमम् ॥ ४३ ॥
ततो द्रोणो महावीर्यं प्रियशिष्यं स फाल्गुनम् ॥
विहाय पाञ्चालबलं समयुध्यत वीर्यवान् ॥ ४४ ॥
सविंशतिसहस्राणि दश तत्रायुतानि च ॥
द्रोणाचार्योऽवधीद्राज्ञां युद्धे सगजवाजिनाम् ॥ ४५ ॥
धृष्टद्युम्नोऽथ कुपितो द्रोण मभ्यहनच्छरैः ॥
द्रोणश्च पट्टिशं गृह्य धृष्टद्युम्नमताडयत् ॥ ४६ ॥
शरैर्विव्याध तं युद्धे तीक्ष्णैरग्निशिखोपमैः ॥
परङ्मुखोऽभवत्तत्र धृष्ट द्युम्नः शराहतः ॥ ४७ ॥
ततो विरथमागत्य धृष्टद्युम्नं वृकोदरः ॥
स्वं स्यन्दनं समारोप्य द्रोणाचार्यमथाब्रवीत् ॥ ४८ ॥
स्वकर्मभिरसन्तुष्टाः शिक्षितास्त्रा द्विजाधमाः ॥
न युद्ध्येरन्यदि क्रूरा न नश्येरन्नृपा रणे ॥ ४९ ॥
अहिंसा हि परो धर्मो ब्राह्मणानां सदा स्मृतः ॥
हिंसया दारपुत्रादीन्रक्षन्ते व्याधजातयः ॥ 3.1.18.५० ॥
हिंसीस्त्वमेकपुत्रार्थे युद्धे स्थित्वा बहून्नृपान् ॥
स चापि ते सुतो ब्रह्मन्हतः शेते रणाजिरे ॥ ५१ ॥
तथापि लज्जा ते नास्ति शोकोऽपीह न जायते ॥
वचनं त्विति भीमस्य सत्यं श्रुत्वा युधिष्ठिरात् ॥ ५२ ॥
निजायुधं स तत्याज पपात स्यन्दनो परि ॥
योगवित्प्रायमातस्थे द्रोणाचार्यस्तदा द्विजाः ॥ ५३ ॥
तदन्तरं परिज्ञाय द्रोणाचार्यस्य पार्श्वतः ॥
खङ्गपाणिः शिरच्छेत्तुमभ्यधावद्रणा जिरे ॥ ५४ ॥
वार्यमाणोऽपि पार्थाद्यैस्तच्छिरश्छेत्तुमुद्ययौ ॥
योगवित्त्वाद्द्रोणमूर्ध्नो ज्योतिरूर्ध्वं दिवं ययौ ॥ ५५ ॥
दृष्टं कृष्णार्जुनकृपधर्मपुत्रादि भिर्मृधे ॥
द्रोणस्यास्य गतप्राणाच्छरीरादच्छिनच्छिरः ॥ ५६ ॥
भारद्वाजे हते युद्धे कौरवाः प्राद्रवन्भयात् ॥
जहृषुः पाण्डवा विप्रा धृष्टद्युम्नादय स्तदा ॥ ५७ ॥
सेनां तां विद्रुतां दृष्ट्वा द्रौणिरूचे सुयोधनम् ॥
एतद्द्रवति कि सैन्यं त्यक्तप्रहरणं नृप ॥ ५८ ॥
तदा दुर्योधनो राजा स्वयं वक्तु मशक्नुवन् ॥
युद्धे द्रोणवधं वक्तुं कृपाचार्यमचोदयत् ॥
द्रौणयेऽथ कृपाचार्यो वधमूचे गुरोस्तदा ॥ ५९ ॥
॥ कृप उवाच ॥ ॥
अश्वत्थामंस्तव पिता ब्रह्मास्त्रेण मृधे रिपून् ॥
हत्वा निनाय सदनं यमस्य शतशो बली ॥ 3.1.18.६० ॥
दुराधर्षतमं दृष्ट्वा तद्वीर्यं केशवस्तदा ॥
पाण्डवान्प्राह विप्रेन्द्र वाक्यं वाक्यविशारदः ॥ ६१ ॥
॥ केशव उवाच ॥ ॥
द्रोणं जेतुमुपायोऽस्ति पाण्डवा युधि दुर्जयम् ॥ ६२ ॥
अश्वत्थात्मा तव सुतो हतो द्रोण मृधेऽधुना ॥
सत्यवादी वदेदेवं यदि प्रामाणिको जनः ॥ ६३ ॥
द्रोणो निवर्तेत रणात्तदा त्यक्त्वायुधं क्षणात् ॥
अत एनां मृषावार्तां धर्मराजोऽधुना वदेत्॥ ६४ ॥
नान्यथा शक्यते जेतुं द्रोणो युद्धविशारदः ॥
धर्माज्जेतुमशक्यं चेद्धर्मं त्यक्त्वाऽप्यरिं जयेत् ॥ ६५ ॥
इति केशववाक्यं तच्छ्रुत्वा भीमः पृथासतः ॥
पितरं ते समभ्येत्य मिथ्यावाक्यमभाषत ॥ ६६ ॥
अश्वत्थामा हतो द्रोण युद्धेऽत्र पतितोऽधुना ॥
द्रोणाचार्योपि तद्वाक्यममन्यत यथार्थतः ॥ ६७ ॥
अविश्वस्य पुनः सोऽथ धर्मजं प्राप्य चाब्रवीत् ॥
धर्मात्मज मृधे सूनुरश्वत्थामा ममाधुना ॥ ६८ ॥
हतः किं त्वं वदस्वाद्य सत्यवादी भवान्मतः ॥
धर्मपुत्रोऽसत्यभीरुरासीच्चारिजयोत्सुकः ॥ ६९ ॥
किं कर्तव्यं मयाद्येति दोलालोलमना अभूत् ॥
स दृष्ट्वा भीमनिहतमश्वत्थामाभिधं गजम् ॥3.1.18.७०॥
अश्वत्थामा हतो युद्धे भीमेनाद्य रणे महान् ॥
इत्थं द्रोणं बभाषेऽसौ धर्मपुत्रश्छलोक्तितः ॥ ७१ ॥
तच्छ्रुत्वा त्वत्पिता शस्त्रं त्यक्त्वा युद्धान्न्यवर्त्तत ॥
अथ धर्मसुतः प्राह परं वारण इत्यपि ॥ ७२ ॥
त्यक्तं शस्त्रं न गृह्णीयां युद्धे पुनरिति स्म सः ॥
प्रतिजज्ञे तव पिता वत्स द्रोणो बली पुनः ॥ ७३ ॥
अतः शस्त्रं न जग्राह प्रतिज्ञाभङ्गकातरः ॥
धृष्टद्युम्नं तदा दृष्ट्वा पिता ते मृत्युमात्मनः ॥ ७४ ॥
मत्वा प्रायोपवेशेन रथोपस्थे स योगवित् ॥
अशयिष्ट समाधिस्थः प्राणानायम्य वाग्यतः ॥ ७५ ॥
ततो निर्भिद्य मूर्धानं तत्प्राणा निर्ययुः क्षणात् ॥
तदा मृतस्य द्रोणस्य वत्स खङ्गेन तच्छिरः ॥ ७६ ॥
केशागृहीत्वा हस्तेन धृष्टद्युम्नोऽच्छिनद्युधि ॥
मावधीरिति पार्थाद्याः प्रोचुः सर्वे च सैनिकाः ॥
सर्वैर्निवार्यमाणोपि त्वत्तातं पार्श्वतोऽवधीत् ॥ ७७ ॥
॥ श्रीसूत उवाच ॥ ॥
पितरं निहतं श्रुत्वा रुदन्द्रौणिश्चिरं द्विजाः ॥ ॥ ७८ ॥
कोपेन महता तत्र ज्वलन्वाक्यमथाब्रवीत ॥
अनृतं प्रोच्य पितरं न्यस्तशस्त्रं चकार यः ॥ ७९ ॥
पितरं मेऽद्य तं पार्थमप्यन्या थ पाण्डवान् ॥
गृहीत्वा केशपाशं यस्त्यक्तशस्त्रशिरोऽहनत् ॥ 3.1.18.८० ॥
छद्मना पार्षतं तं च हनिष्याम्यचिरादहम् ॥
कृष्णेन सह पश्यन्तु पाण्डवा मत्पराक्रमम् ॥ ८१ ॥
इति द्रौणिर्द्विजास्तत्र प्रतिजज्ञे भयङ्करम् ॥
ततोस्तं गत आदित्ये राजानः सर्व एव ते ॥ ८२ ॥
उभये निहते द्रोणे प्राविशन्पटमण्डपम् ॥
अष्टादशदिनैरेवं निवृत्तमभवद्रणम् ॥ ८३ ॥
शल्यं कर्णं तथान्यांश्च दुर्योधनमुखांस्ततः ॥
धार्तराष्ट्रान्निहत्याजौ धर्मराजो युधिष्ठिरः ॥ ८४ ॥
स्वीयानां च परेषां च मृतानां साम्परायिकम् ॥
अकरोद्विधिवद्विप्राः सार्धं धौम्या दिभिर्द्विजैः ॥ ८५ ॥
वन्दित्वा धृतराष्ट्रं च सर्वे सम्भूय पाण्डवाः ॥
धृतराष्ट्राभ्यनुज्ञाता हतशिष्टजनैर्वृताः ॥ ८६ ॥
सम्प्राप्य हास्तिनपुरं प्राविशंस्ते स्वमन्दिरम्॥
ततः कतिपयाहःसु गतेषु किल नागराः ॥ ८७ ॥
धौम्यादिमुनिभिः सार्धं धर्मजस्य महात्मनः ॥
राज्या भिषेचनं कर्तुं प्रारभन्त मुनीश्वराः ॥ ॥
राज्याभिषेचने तस्य प्रवृत्ते धर्मजस्य तु ॥
अशरीरा ततो वाणी बभाषे धर्मनन्दनम् ॥ ८९ ॥
धर्म पुत्र महाभाग रिपूणामपि वत्सल ॥
राज्याभिषेकं मा कार्षीर्नार्हस्त्वं राज्यपालने ॥ 3.1.18.९० ॥
यतस्त्वं छद्मनाचार्यमुक्त्वा सत्यं द्विजोत्तमम् ॥
न्यस्त शस्त्रं रणे राजन्नघातयदलज्जकः ॥ ९१ ॥
अतस्ते पापबाहुल्यं विद्यते धर्मनन्दन ॥
प्रायश्चित्तमकृत्वास्य राज्यपालनकर्मणि ॥ ९२ ॥
नार्हता विद्यते यस्मात्प्रायश्चित्तमतश्चर ॥
इत्युक्त्वा विररामाथ सा तु वागशरीरिणी ॥ ९३ ॥
ततो धर्मसुतो राजा तद्वाक्यं भृशकातरः ॥
मूढोऽहं साहसी क्रूरः पिशुनो लोभमोहितः ॥ ९४ ॥
तुच्छराज्याभिलाषेण कृतवान्पापमीदृशम्॥
एतत्पापविशुद्ध्यर्थं किं करिष्यामि का गतिः ॥ ९५ ॥
किं वा दानं प्रदास्यामि कुत्र यास्यामि वा पुनः ॥
इति शोकसमाविष्टे तस्मिन्राजनि धर्मजे ॥ ९६ ॥
कृष्णद्वैपायनो व्यासस्समायातस्तदन्तिकम् ॥
ततोऽभिवन्द्य तं व्यासं प्रत्युत्थाय कृताञ्जलिः ॥ ९७ ॥
सम्पूज्यार्घ्यादिना विप्रा भक्तियुक्तेन चेतसा ॥
अदेहवाचा यत्प्रोक्तं तत्सर्वमखिलेन सः ॥ ॥ ९८ ॥
व्यासाय श्रावयामास दुःखितो धर्मनन्दनः ॥
श्रुत्वा तदखिलं वाक्यं धर्मजस्य महामुनिः ॥
ध्यात्वा तु सुचिरं कालं ततो वक्तुं प्रच क्रमे ॥९९॥
॥ व्यास उवाच ॥ ॥
मा कार्षीस्त्वं भयं राजन्नुपायं प्रब्रवीमि ते॥
अस्य पापस्य शान्त्यर्थं श्रुत्वानुष्ठीयतां त्वया ॥ 3.1.18.१०० ॥ ॥
युधिष्ठिर उवाच ॥ ॥
किं तद्ब्रूहि महायोगिन्पाराशर्य कृपानिधे ॥
येन मे पापनाशः स्यादचिरात्तद्वदाधुना ॥ १०१ ॥
॥ व्यास उवाच ॥ ॥
दक्षिणाम्भोनिधौ सेतौ गन्धमादनपर्वते ॥ १०२ ॥
रामसेतौ महाराज रामतीर्थमिति श्रुतम् ॥
अस्ति पुण्यं सरः सिद्धं महापातकनाशनम् ॥ ३ ॥
यस्य दर्शनमात्रेण महापातककोटयः ॥
प्रयान्ति विलयं सद्यस्तमः सूर्योदये यथा ॥४॥
रामतीर्थं यदा पश्येत्स्वयं रामेण निर्मितम् ॥
तदैव ब्रह्महत्याया मुच्यते नात्र संशयः ॥ ५ ॥
तत्र गत्वा महाराज रामतीर्थे विमुक्तिदे ॥
स्नाहि ते पापशुद्धिः स्याद्राज्यरक्षार्हतापि च ॥ ६ ॥
दानं कुरुष्व तत्तीरे गोभूमितिलवाससाम् ॥
सुवर्णरजतानां च दानं कुरु युधिष्ठिर ॥
अवश्यमेतत्पापानां शुद्धिस्ते न चिराद्भवेत् ॥ ७ ॥
॥ श्रीसूत उवाच ॥
व्यासेन धर्मपुत्रोऽयमेवमुक्तो द्विजोत्तमाः ॥ ९ ॥
तत्क्षणेनैव धौम्येन सहितः सानुजस्तदा ॥
सहदेवं प्रतिष्ठाप्य राज्ये धर्मात्मजस्तदा ॥ ९ ॥
रामसेतुं समुद्दिश्य प्रतस्थे वाहनं विना ॥
दिनैः कतिपयैरेव रामसेतुं जगाम सः ॥ 3.1.18.११० ॥
रामतीर्थं समासाद्य धौम्येन सह पाण्डवः ॥
पुरोहितोक्तमार्गेण सङ्कल्प्य विधिपूर्वकम्॥ ११ ॥
सस्नौ रामसरस्तीर्थे पुण्ये पापविनाशने ॥
स्नात्वाचम्य विशुद्धात्मा क्षेत्रपिण्डं प्रदाय च ॥ १२ ॥
व्यासो क्ताखिलदानानि प्रददौ स युधिष्ठिरः ॥
मासमेकं निराहारः सस्नौ तत्र स धर्मजः ॥ १३ ॥
प्रत्यहं च ददौ दानं वित्तलोभं विना द्विजाः ॥
एक मासे गते त्वेवं कस्मिंश्चिद्दिवसे ततः ॥ १४ ॥
आह धर्मात्मजं वाणी पुनरप्यशरीरिणी ॥
राजंस्ते विलयं यातं सर्वं पापं युधिष्ठिर ॥ १५ ॥
छले नासत्यवचनादाचार्यस्य वधेन यः ॥
दोषस्ते समभूत्पूर्वं सोऽपि नष्टः परन्तप ॥ १६ ॥
याहि स्वनगरं राजन्गत्वा पालय मेदिनीम् ॥
अभिषेचय चात्मानं राज्यरक्षार्हतास्ति ते ॥ १७ ॥
इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥
ततो धर्मात्मजः प्रीतस्तामुद्दिश्य दिशं प्रति ॥ १८ ॥
नमस्कृत्वाशरीरिण्यै तस्यै वाचे सहानुजः ॥
प्रययौ हास्तिनपुरं सुप्रीतेनान्तरात्मना॥ १९ ॥
अभिषिक्तोऽथ राज्येऽसौ पालयामास मेदिनीम् ॥
इत्थं धर्मात्मजो विप्रा रामतीर्थनिमज्जनात् ॥ 3.1.18.१२० ॥
गतपापो विशुद्धात्मा योग्योऽभूद्राज्यरक्षणे ॥
एवं वः कथितं चित्रं रामतीर्थस्य वैभवम् ॥ २१ ॥
सर्वपापहरं पुण्यं भक्तिमुक्तिप्रदायकम् ॥
यत्र स्नानाद्विमुक्तोऽभून्मिथ्यादोषात्स धर्मजः ॥ २२ ॥
पठन्ति येऽ ध्यायमिदं द्विजोत्तमाः शृण्वन्ति वा ये मनुजा विपातकाः ॥
यास्यन्ति कैलासमनन्यलभ्यं गत्वा न संयान्ति पुनश्च जन्म ॥ ॥ १२३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां मंहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामतीर्थप्रशंसायां धर्मपुत्रमिथ्या कथनदोषशान्तिवर्णनन्नामाष्टादशोऽध्यायः ॥ १८ ॥