०१७ कक्षीवद्विवाहनिष्पत्तिवर्णनम्

॥ श्रीसूत उवाच ॥ ॥
पुनरित्याह कक्षीवान्पितरं तं मुनीश्वराः ॥
यथोदङ्केन गुरुणा प्रेषितोऽहमिहा धुना ॥ १ ॥
समागतोस्मि तीर्थेऽस्मिन्नागस्त्ये मुनिसत्तम ॥
स्वनयस्य सुतोद्वाहसिद्ध्यर्थं गुरुचोदितः ॥ २ ॥
उपायं तन्निगदितमत्र कुर्व न्न्यवर्तिषम् ॥
वर्षत्रयावसाने मामुद्वाहोपायसंयुतम् ॥ ३ ॥
स्वनयोत्रैव तिष्ठन्तमाससाद यदृच्छया ॥
स च मामेत्य कन्यां ते दास्यामीति वचोऽब्रवीत् ॥ ४ ॥
ततोस्मदनुरोधेन त्वामाह्वयदयं नृपः ॥
इतीरयित्वा पितरं कक्षीवान्विरराम सः ॥ ५ ॥
सुदर्शनोऽथ विप्रेन्द्रः पुरोधाः स्वन यस्य सः ॥
प्रययौ राजसविधं स्वनयाय निवेदितुम् ॥ ६ ॥
राजानं तं समासाद्य स्वनयं स सुदर्शनः ॥
प्राप्तं निवेदयामास तं दीर्घतमसं मुनिम्॥ ७ !।
ततः स राजा स्वनयो मुनिं प्राप्तं पुरोहितात् ॥
श्रुत्वा विनिर्ययौ द्रष्टुं महसा पटमण्डपात् ॥ ८ ॥
अगस्त्यतीर्थतीरे तं सपुत्रमृषि सत्तमम्॥
ददर्श राजा स्वनयो ब्रह्माणमिव देवराट् ॥ ९ ॥
ववन्दे दीर्घतमसश्चरणौ लोकमङ्गलौ ॥
उत्थाप्य नृपतिं विप्रास्तदा दीर्घतमा मुनिः ॥ ॥ 3.1.17.१० ॥
आशिषं प्रयुयोजाथ स्वनयाय नृपाय सः ॥
अत्रान्तरे समायात उदङ्कोऽपि महानृषिः ॥ ११ ॥
रामसेतौ धनुष्कोटौ स्नातुं शिष्यगणैर्वृतः ॥
लक्षसङ्ख्यो मुनिगणस्तेन साकं मुनीश्वरः ॥ १२ ॥
उदङ्कोऽगस्त्यतीर्थेस्मिन्स्नातुं सम्प्राप्तवान्मुनिः ॥
उदङ्कमागतं दृष्ट्वा कक्षीवान्प्रणनाम तम् ॥ १३ ॥
अकरोदाशिषं विप्रः शिष्यायाथ गुरुस्तदा ॥
अथ दीर्घतमा विप्रस्तमुदङ्कं महामुनिम् ॥ १४ ॥
कुशलं परिपप्रच्छ सोऽपि तं मुनि पुङ्गमम् ॥
उभौ तौ मुनिशार्दूलौ सर्वलोकेषु विश्रुतौ ॥ १५ ॥
कथयामासतुस्तत्र कथाः पापप्रणाशिनीः ॥
अथ राजाप्युदङ्कं तं प्रणनाम मुनीश्व रम् ॥ १६ ॥
उदङ्कोप्याशिषं तस्मै प्रायुङ्क्त स्वनयाय वै ॥
राजाथ स्वनयः प्रीतस्तत्र वाक्यमभाषत ॥ १७ ॥
मुनिं तं दीर्घतमसं विवाहः क्रिय तामिति ॥
तथास्त्वित्यवदत्सोऽपि तदा दीर्घतमा मुनिः ॥ १८ ॥
श्व एव क्रियतां राजन्सुमुहूर्ते महामते ॥
अत्रैव पाणिग्रहणं क्रियतां गन्धमा दने ॥ १९ ॥
तस्मादिहानय क्षिप्रं कन्यामन्तःपुरं तथा ॥
इत्युक्तः स्वनयो राजा गत्वा स्वपटमण्डपम् ॥ 3.1.17.२० ॥
आहूय शतसङ्ख्याकान्वृद्धान्वर्ष वरांस्तदा ॥
आनेतुं प्रेषयामास कन्यामन्तःपुरं तथा ॥ २१ ॥
ते वर्षवरमुख्यास्तु स्वनयेन प्रचोदिताः ॥
मनोजवान्समारुह्य वाजिनो मधुरां ययुः ॥ २२ ॥
गत्वा चान्तःपुरं तूर्णं वृत्तं सर्वं निवेद्यच ॥
कन्ययान्तःपुरेणापि सहिताः पुनराययुः ॥ २३ ॥
ततः परस्मिन्दिवसे शुभे दीर्घतमा ऋषिः ॥
गोदानादीनि पुत्रस्य विधिवन्निरवर्तयत् ॥ २४ ॥
निर्वृत्तेष्वथ कक्षीवान्गोदानादिषु कर्मसु ॥
उद्वोढुं राजतनयां पित्रा च गुरुणा सह ॥ ॥ २५ ॥
चतुर्दन्तं महाकायं गजं सर्वाङ्गपाण्डुरम् ॥
आरुह्य हर्षसंयुक्तो द्वितीय इव देवराट् ॥ २६ ॥
मनोरमायाः कन्यायाः पूरयंश्च मनोरथम् ॥
ब्राह्मणैर्बहुसाहस्रैः सहितः स्वस्तिवाचकैः ॥२७॥
तोरणालङ्कृतद्वारं राजर्षे पटमण्डपम् ॥
कृतमङ्गलकृत्योऽसौ कक्षीवान्मुदितो ययौ ॥२८॥
ततः स्वनयकन्या सा कृतमङ्गलभूषणा ॥
चतुर्दन्तमहाकायश्वेतदन्तावलस्थितम्॥ २९ ॥
कक्षीवन्तं समायान्तं दृष्ट्वा स्वोद्वाहनोत्सुकम् ॥
प्रतिज्ञा मत्कृते दानीं निर्वृत्तेति मुदं ययौ ॥ 3.1.17.३० ॥
कक्षीवान्दीर्घतमसा तथोदङ्केन संयुतः ॥
पटाकारबहिर्द्वारं क्रमाद्राज्ञः समाययौ ॥ ३१ ॥
स्वनयस्तु ततो दृष्ट्वा कक्षीवन्तं समागतम् ॥
प्रत्युज्जगाम सहितः सुदर्शनपुरोधसा ॥ ३२ ॥
कक्षीवतो वरस्याथ कन्यकापरिचारिकाः ॥
राजतैः स्वर्णपात्रैश्च चक्रु र्नीराजनाविधिम् ॥ ३३ ॥
स्वनयेन समाहूतो ब्राह्मणैः परिवारितः ॥
प्रविवेशाथ लक्ष्मीवान्कक्षीवान्राजमन्दिरम् ॥ ३४ ॥
ततो वरेण सहितं तं दीर्घतमसं मुनिम् ॥
सोदङ्कमनयद्राजा स्वगृहं विनयान्वितः ॥ ३५ ॥
उदङ्कदीर्घतमसोरर्घ्यं च प्रददौ नृपः ॥
अलङ्कृते प्रपामध्ये वस्त्रचामरतोरणैः ॥ ३६ ॥
वरो दीर्घतमाश्चान्ये सोदङ्का मुनयस्तदा ॥
न्यषीदन्स्वनयश्चापि सामात्यः सपुरोहितः ॥ ३७ ॥
ततो दुहितरं कन्यां सुकेशीं तां मनो रमाम् ॥
भूषणालङ्कृतां गात्रे दिव्यवस्त्रधरां शुभाम् ॥ ३८ ॥
बिम्बोष्ठीं चारुसर्वाङ्गीं पीनोन्नतपयोधराम् ॥
प्रपायामध्यमनयन्महाजनसमाकुलम् ॥ ॥ ३९ ॥
ततो वरस्य कण्ठे सा मालां चम्पकनिर्मिताम् ॥
निवेशयामास शुभा जनमध्ये मनोरमा ॥ 3.1.17.४० ॥
उदङ्कस्तत आगत्य प्रतिष्ठाप्यानलं स्थले ॥
कृत्वाग्निमुखपर्यन्तं लाजाहोमादिकं तथा ॥ ४१ ॥
पाणिमग्राहयत्तस्याः कन्यायाश्च वरेण तु ॥
उदङ्कः सर्वकर्माणि कारयामास तत्र वै ॥ ॥ ४२ ॥
वरवध्वोस्तदा विप्राः प्रायुञ्जत तदाशिषः ॥
ततः स राजा स्वनयो वरं दीर्घतमोमुनिम्॥४३॥
उदङ्कं वरपक्षीयान्स्वपक्षीयांस्तथाद्विजाः ॥
त्रिलक्षं ब्राह्मणानन्नैर्भोजयामास षड्रसैः ॥ ४४ ॥
ततः सम्भावयामास ताम्बूलाद्यैरनेकधा ॥
अथामन्त्र्य मुनिश्रेष्ठमुदङ्कः स्वाश्रमं ययौ ॥४५ ॥
अन्ये च ब्राह्मणाः सर्वे स्वदेशान्प्रययुस्तदा ॥
एवं विवाहे निर्वृत्ते कक्षीवद्राजकन्ययोः ॥४६॥
प्रविश्यागस्त्यतीर्थं स तिरोधत्त गजोत्तमः ॥
ततो दीर्घतमा विप्राः पुत्रेण स्नुषया सह ॥ ४७ ॥
अगस्त्यस्य महातीर्थे स्नानं कृत्वेष्टदायिनि ॥
श्लाघमानश्च तत्तीर्थं सर्वलोकेषु विश्रुतम् ॥ ४८ ॥
प्रयातुं स्वा श्रमं पुण्यं वेदारण्यं मनो दधे ॥
राजानं च तमागन्तुमापृच्छन्मुनिसत्तमः ॥ ४९ ॥
स्वनयोऽपि तदा राजा स्वदुहित्रे मुदान्वितः ॥
ददौ शतसहस्राणि स्वर्णानि स्त्रीधनं तदा ॥ 3.1.17.५० ॥
गवां सहस्रं प्रददौ दासीनां च सहस्रकम् ॥
ग्रामं पञ्चशतं चापि ददौ दुहितृवत्सलः ॥ ५१ ॥
दिव्यवस्त्रा युतं चापि शतं भूषणपेटिकाः ॥
हारमालासहस्रं च ददौ दुहितृसौहृदात् ॥ ५२ ॥
एतत्सर्वं समादाय स पुत्रः सस्नुषो मुनिः ॥
राज्ञा च समनुज्ञातः प्रययौ वेदकाननम् ॥५३ ॥
वेदारण्यं समासाद्य तदा दीर्घतमा मुनिः ॥
उवास ससुखं विप्राः पुत्रेण स्नुषया सह ॥ ५४ ॥
सेवन्वेदाटवीनाथं भुक्तिमुक्तिफलप्रदम् ॥
न्यवसत्तु चिरं कालं कक्षीवानपि भार्यया ॥ ५५ ॥
स्वनयोपि स राजर्षिः स्नात्वा कुम्भजनिर्मिते ॥
तत्र तीर्थे महापुण्ये सहितः सर्वसैनिकैः ॥ ५६ ॥
अतःपुरं समादाय मुदितः स्वपुरं ययौ ॥
अगस्त्यतीर्थमाहात्म्यादेवं कक्षीवतो मुनेः ॥
अनन्यसुलभो विप्रा विवाहः समजायत ॥ ५७ ॥
॥ श्रीसूत उवाच ॥ ॥
इतिहासस्त्वयं पुण्यो वेदसिद्धो मुनीश्वराः ॥ ५८ ॥
धन्यो यशस्य आयुष्यः कीर्तिसौभाग्य वर्द्धनः ॥
श्रोतव्यः पठितव्योऽयं सर्वथा मानवैर्द्विजाः ॥ ५९ ॥
पठतां शृण्वतां चेममितिहासं पुरातनम् ॥
नेहामुत्रापि वा क्लेशो दारिद्यं चापि नो भवेत् ॥ 3.1.17.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कक्षीवद्विवाहनिष्पत्तिवर्णनन्नाम सप्त दशोऽध्यायः ॥ १७ ॥