०१६ कक्षीवदुद्वाहोद्योगवर्णनम्

॥ सूत उवाच ॥ ॥
कुण्डे हनुमतः स्नात्वा स्वयं रुद्रेण सेविते ॥
अगस्तितीर्थं विप्रेन्द्रास्ततो गच्छेत्समाहितः ॥ १ ॥
एतद्विनिर्मितं तीर्थं साक्षाद्वै कुम्भयोनिना ॥
प्रवर्तमाने कलहे पुरा वै मेरुविन्ध्ययोः ॥ २ ॥
निरुद्धभुवनाभोगो ववृधे विन्ध्यपर्वतः ॥
तदा प्राणिषु सर्वेषु निरुच्छ्वासेषु देवताः ॥ ३ ॥
कैलासं पर्वतं गत्वा शम्भवे तद्व्यजिज्ञपन्॥
तदा स पार्वतीपाणिग्रहणोत्सुककौतुकी ॥ ४ ॥
प्रेषयित्वा वसिष्ठादीन्पार्वतीं याचितुं मुनीन्॥
कुम्भज त्वं निगृह्णीष्व विन्ध्याद्रिमिति सोऽन्वशात् ॥ ५ ॥
ततः स कुम्भजः प्राह भगवन्तं पिनाकिनम् ॥
उद्वाहवेषं ते देव न द्रक्ष्येहं कथं विभो ॥ ६ ॥
इति विज्ञापितः शम्भुः पुनः कुम्भजमब्रवीत्॥
कुम्भजोद्वाहवेषं ते पार्वत्या सहितो ह्यहम् ॥ ७ ॥
वेदारण्ये महापुण्ये दर्शयिष्याम्यसंशयः ॥
तद्गच्छ शीघ्रं विन्ध्याद्रिं निग्रहीतुं मुनीश्वर ॥ ८ ॥
एवमुक्तस्ततोगस्त्यो विन्ध्याद्रिं स निगृह्य च ॥
पादाक्रमणमात्रेण समीकुर्वन्महीतलम् ॥ ९ ॥
चरित्वा दक्षि णान्देशान्गन्धमादनमन्वगात् ॥
स विदित्वा महर्षिस्तु गन्धमादनवैभवम् ॥ 3.1.16.१० ॥
तत्र तीर्थं महापुण्यं स्वनाम्ना निर्ममे मुनिः ॥
लोपामुद्रासखस्तत्र वर्ततेऽद्यापि कुम्भजः ॥ ११ ॥
तत्र स्नात्वा च पीत्वा च न भूयो जन्मभाग्भवेत् ॥
इह लोके त्रिकालेपि तत्तीर्थसदृशं द्विजाः ॥ ॥ १२ ॥
तीर्थं न विद्यते पुण्यं भुक्तिमुक्तिफलप्रदम् ॥
सर्वाभीष्टप्रदं नृणां यत्तीर्थस्नानवैभवात्॥ १३ ॥
सुदीर्घतमसः पुत्रः कक्षीवान्नाम नामतः ॥
लेभे मनोरमां नाम स्वनयस्य सुतां प्रियाम् ॥ १४ ॥
कक्षीवतः कथा सेयं पुण्यापापविनाशिनी ॥
तां कथां वः प्रवक्ष्यामि तच्छृणुध्वं मुनीश्वराः ॥। १५ ॥
अस्ति दीर्घतमा नाम मुनिः परमधार्मिकः ॥
तस्य पुत्रः समभवत्कक्षीवानिति विश्रुतः ॥ १६ ॥
उपनीतः स कक्षीवान्ब्रह्मचारी जितें द्रियः ॥
वेदाभ्यासाय स गुरोः कुले वासमकल्पयत् ॥ १७॥
उदङ्कस्य गुरोर्गेहे वसन्दीर्घतमःसुतः ॥
सोऽध्येष्ट चतुरो वेदान्साङ्गाञ्छास्त्राणि षट् तथा ॥ १८ ॥
इतिहासपुराणानि तथोपनिषदोऽपिच ॥
उषित्वा षष्टिवर्षाणि कक्षीवान्गुरुसन्निधौ ॥ १९ ॥
प्रयास्यन्स्वगृहं विप्रा गुरवे दक्षि णामदात् ॥
उवाच वै गुरुर्विद्वान्कक्षीवान्ब्रह्मवित्तमः ॥ 3.1.16.२० ॥
॥ कक्षीवानुवाच ॥ ॥
अहं गृहं प्रयास्यामि कुर्वनुज्ञां महामुने ॥
अवलोक्य कृपादृष्ट्या मां रक्षोदङ्क साम्प्रतम् ॥
उदङ्कस्त्वेव मुदितः कक्षीवन्तमथाब्रवीत् ॥ २१ ॥
॥ उदङ्क उवाच ॥
अनुजानामि कक्षीवन्गच्छ त्वं स्वगृहं प्रति ॥ २२ ॥
उद्वाहार्थमुपायं ते वत्स वक्ष्यामि तच्छृणु ॥
रामसेतुं प्रयाहि त्वं गन्धमादनपर्वतम्॥ २३ ॥
तत्रागस्त्यकृतं तीर्थं सर्वाभीष्टप्रदा यकम् ॥
भुक्तिमुक्तिप्रदं पुंसां सर्वपापनिबर्हणम्॥ २४ ॥
विद्यते स्नाहि तत्र त्वं सर्वमङ्गलसाधने ॥
त्रिवर्षं वस तत्र त्वं नियमाचारसंयुतः ॥ २५ ॥
वर्षेषु त्रिषु यातेषु चतुर्थे वत्सरे ततः ॥
निर्गमिष्यति मातङ्गः कश्चित्तीर्थोत्तमात्ततः ॥ २६ ॥
चतुर्दन्तो महाकायः शरदभ्रसमच्छविः ॥
तं गजं गिरिसङ्काशं स्नात्वा तत्र समारुह ॥ २७ ॥
आरुह्य तं गजं वत्स स्वनयस्य पुरीं व्रज ॥
चतुर्दन्तगजस्थं त्वां दृष्ट्वा शक्रमिवापरम् ॥२८ ॥
राजर्षिः स्वनयो धीमान्हर्षव्याकुललोचनः ॥
स्वकन्यायाः कृते दुःखं त्यजेदेव हृदिस्थितम् ॥ २९ ॥
पुरा हि प्रतिजज्ञे सा तस्य पुत्री मनोरमा ॥
चतुर्दन्तं महाकायं गजं सर्वाङ्गपाण्डुरम् ॥ 3.1.16.३० ॥
आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥
स्वकन्यायाः प्रतिज्ञां तां समाकर्ण्य स भूपतिः ॥ ॥ ३१ ॥
दुःखाकुलमना भूत्वा सततं पर्यचिन्तयत् ॥
स्वनये चिन्तयत्येवं नारदः समुपागमत् ॥ ३२ ॥
तमागतं मुनिं दृष्ट्वा राजर्षिरतिधार्मिकः ॥
प्रत्युद्गम्य मुदा युक्तः पाद्यार्घ्याद्यैरपूजयत् ॥ ३३ ॥
प्रणम्य नारदं राजा वचनं चेदमब्रवीत् ॥
कन्येयं मम देवर्षे प्रतिज्ञामकरोत्पुरा ॥ ३४ ॥
चतु र्दन्तं महाकायं गजं सर्वाङ्गपाण्डुरम् ॥
आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥ ३५ ॥
चतुर्दन्तो महाकायो गजः सर्वाङ्गपाण्डुरः ॥
सम्भवेदिन्द्रभवने भूतले नैव विद्यते ॥ ३६ ॥
इयं च दुस्तरामेनां प्रतिज्ञां बालिशाऽकरोत् ॥
इयं प्रतिज्ञातितरां सततं बाधते हि माम् ॥ ३७ ॥
अनूढा हि पितुः कन्या सर्वदा शोकमावहेत् ॥
इति तस्य वचः श्रुत्वा स्वनये नारदोऽब्रवीत् ॥ ३८ ॥
मा विषीदस्व राजर्षे तस्या ईदृग्विधः पतिः ॥
भविष्यत्यचिरादेव पृथिव्यां ब्राह्मणोत्तमः ॥ ३९ ॥
कक्षीवानिति विख्यातो जामाता ते भविष्यति ॥
इत्युक्त्वा नारदमुनिर्ययावाकाशमार्गतः ॥ 3.1.16.४० ॥
स्व नयस्तद्वचः श्रुत्वा नारदेन प्रभाषितम् ॥
आकाङ्क्षते दिवारात्रं तादृग्विधसमागमम् ॥ ४१ ॥
अतः सौम्य महाभाग कक्षीवन्बालतापस ॥
अगस्त्यतीर्थमद्य त्वं स्नातुं गच्छ त्वरान्वितः ॥ ४२ ॥
सर्वमङ्गलसिद्धिस्ते भविष्यति न संशयः ॥
उदङ्केनैवमुक्तोऽथ कक्षीवान्द्विजपुङ्गवः ॥ ४३ ॥
अनु ज्ञातश्च गुरुणा प्रययौ गन्धमादनम् ॥
सम्प्राप्यागस्त्यतीर्थं च तत्र सस्नौ जितेन्द्रियः ॥ ४४ ॥
क्षेत्रोपवासमकरोद्दिनमेकं मुनीश्वरः ॥
अपरेद्युः पुनः स्नात्वा पारणामकरोद्द्विजः ॥ ४५ ॥
रात्रौ तत्रैव सुष्वाप कक्षीवान्धर्मतत्परः ॥
एवं नियमयुक्तस्य तस्य कक्षीवतो मुनेः ॥ ४६ ॥
एकेन दिवसे नोनं वर्षत्रयमथागमत् ॥
अथ वर्षत्रयस्यान्ते तस्मिन्नेव दिने मुनिः ॥ ४७ ॥
अन्वास्य पश्चिमां सन्ध्यां सुखं सुष्वाप तत्तटे ॥
याममात्रावशिष्टायां विभावर्यां महाध्वनिः ॥ ४८ ॥
उदभूत्प्रलयाम्भोधिवीचिकोलाहलोपमः ॥
तेन शब्देन महता कक्षीवान्प्रत्यबुध्यत ॥ ४९ ॥
ततस्तु स्वनयो नाम राजा सानुचरो बली ॥
मृगयाकौतुकी तत्र मधुरापतिराययौ ॥ 3.1.16.५० ॥
विनिघ्नन्स गजान्सिंहान्वराहान्महिषान्नुरून् ॥
अन्यान्मृगविशेषांश्च स राजा न्यवधीच्छरैः ॥ ८५१ ॥
सामात्यो मृगयासक्तो रथवाजिगजैर्युतः ॥
अगस्त्यतीर्थसविधमाससाद भटान्वितः ॥ ५२ ॥
स राजा मृगयाश्रान्तः श्रान्तसैनिकसंवृतः ॥
तत्तीर्थतीरप्रान्तेषु निषसाद महीपतिः ॥ ५३ ॥
ततः प्रभाते विमले कक्षी वान्मुनिसत्तमः ॥
अगस्त्यतीर्थे स्नात्वाऽसौ सन्ध्यां पूर्वामुपास्य च ॥ ५४ ॥
तस्य तीरे जपन्मत्रांस्तस्थौ नियमसंयुतः ॥
अत्रान्तरे तीर्थवराद्गज एको विनिर्ययौ ॥ ५५ ॥
चतुर्दन्तो महाकायः कैलास इव मूर्तिमान् ॥
स समुत्थाय तत्तीर्थादगात्कक्षीवदन्तिकम् ॥ ५६ ॥
तमागतमुदङ्कोक्त लक्षणैरुपलक्षितम् ॥
तदा निरीक्ष्य कक्षीवानारोढुं स्नानमातनोत् ॥ ५७ ॥
नमस्कृत्य च तत्तीर्थं श्लाघमानो मुहुर्मुहुः ॥
आरुरोह च कक्षीवांश्चतुर्दन्तं महागजम् ॥ ५८ ॥
आरुह्य तं चतुर्दन्तं रजताचलसन्निभम् ॥
स्वनयस्य पुरीमेव कक्षीवान्गन्तुमैच्छत ॥ ५९ ॥
तमारूढं चतुर्दन्तं श्वेतदन्तावलोत्तमम् ॥
स वीक्ष्य निश्चिकायैनं कक्षीवानिति भूपतिः ॥ 3.1.16.६० ॥
प्रसन्नहृदयो राजा तस्यान्तिकमुपागमत् ॥
तदाभ्याशमुपागम्य कक्षीवन्तं नृपोऽब्रवीत् ॥ ६१ ॥
॥ स्वनय उवाच ॥ ॥
त्वं ब्रह्मन्कस्य पुत्रोऽसि नाम किं तव मे वद ॥
गजमेनं समारुह्य कुत्र वा गन्तुमिच्छसि ॥
स्वनयेनैवमुक्तस्तु कक्षीवान्वाक्यमब्रवीत् ॥ ६२ ॥
॥ कक्षीवानुवाच ॥ ॥
पुत्रोऽहं दीर्घतमसः कक्षीवानिति विश्रुतः ॥ ६३ ॥
स्वनयस्य तु राजर्षेर्गच्छामि नगरं प्रति ॥
अहमुद्वोढुमिच्छामि तस्य कन्या मनोरमाम्॥ ६४ ॥
चतुर्दन्तगजारूढस्तत्प्रतिज्ञां च पूरयन् ॥
स्वनयस्य सुतापाणिं ग्रहीष्यामि नराधिप ॥ ६५ ॥
तद्भाषितं समाकर्ण्य श्रोत्रपीयूषवर्षणम् ॥
हर्षसम्फुल्लनयनः स्वनयो वाक्यम ब्रवीत् ॥ ६६ ॥
कक्षीवन्भोः कृतार्थोस्मि स एव स्वनयो ह्यहम् ॥
उद्वोढुमिच्छति भवान्यस्य कन्यां मनोरमाम् ॥ ६७ ॥
स्वागतं ते मुनिश्रेष्ठ कक्षीवन्बालतापस ॥
मम कन्यां गृहाण त्वं तपोधन मनोरमाम् ॥ ६८ ॥
तया सह चरन्धर्मान्गार्हस्थ्यं प्रतिपालय ॥
राज्ञोक्तः स तदोवाच कक्षीवान्धर्मतत्परः ॥
राजानं स्वनयं प्रीतं मधुरापुरवासिनम् ॥ ६९ ॥
॥ कक्षीवानुवाच ॥ ॥
पिता दीर्घतमानाम वेदारण्ये मम प्रभो ॥ ॥ 3.1.16.७० ॥
आस्ते तपश्चरन्सौम्यो नियमाचारतत्परः ॥
तस्यान्तिकं प्रेषय त्वं विप्रमेकं धरापते ॥ ७१ ॥
तथोक्तः स तदा राजा स्वनयो हृष्टमा नसः ॥
अनेकसेनया सार्धं प्राहिणोत्स्वपुरोधसम् ॥ ७२ ॥
विप्रं सुदर्शनं नाम वेदारण्यस्थलं प्रति ॥
सुदर्शनः समादिष्टः स्वनयेन नृपेण सः ॥ ७३ ॥
महत्या सेनया सार्धं प्रययौ वेदकाननम् ॥
तत्रोटजे समासीन तं दीर्घतमसं मुनिम् ॥ ७४ ॥
तपश्चरतमासीनं ध्यायन्वेदाटवी पतिम् ॥
पुरोहितो ददर्शाथ जपन्तं मन्त्रमुत्तमम् ॥ ७५ ॥
प्रणाममकरोत्तस्मै मुनये स सुदर्शनः ॥
उवाच दीर्घतमसं मुनिं प्रह्लादयन्निव ॥ ७६ ॥ ॥
॥ सुदर्शन उवाच ॥ ॥
कच्चित्ते कुशलं ब्रह्मन्कच्चित्ते वर्धते तपः ॥
आश्रमे कुशलं कच्चित्कच्चिद्धर्मे सुखं वद ॥ ७७ ॥
पृष्टः सुदर्शनेनैवं मुनिर्दीर्घतमास्तदा ॥
सुदर्शनमुवाचेदमर्घ्यादिविधिपूर्वकम् ॥ ७८ ॥
॥ दीर्घतमा उवाच ॥ ॥
सर्वत्र कुशलं ब्रह्मन्सुदर्शन महामते ॥
मम वेदाटवीनाथकृपया नाशुभं क्वचित्॥ ७९ ॥
तवापि कुशलं ब्रह्मन्किं सुखागमनं तथा ॥
किंवाऽऽगमनकार्यं ते सुदर्शन ममाश्रमे ॥ 3.1.16.८० ॥।
स्वनयस्य पुरोधास्त्वं खलु वेदविदांवरः ॥
तं विहाय महाराज मधुरापुरवासिनम् ॥ ८१ ॥
महत्या सेनया सार्धं किमर्थं त्वमिहागतः ॥
इत्युक्तो दीर्घतमसा तदानीं स सुदर्शनः ॥ ८२ ॥
उवाच तं महात्मानं मुनिं ज्वलिततेजसम् ॥
सर्वत्र मे सुखं ब्रह्मन्भवतः कृपया सदा ॥ ८३ ॥
भगवन्स्व नयो राजा साष्टाङ्गं प्रणिपत्य तु॥
त्वां प्राह प्रश्रितं वाक्यं मन्मुखेन शृणुष्व तत् ॥ ८४ ॥
॥ स्वनय उवाच ॥ ॥
कक्षीवांस्ते सुतो ब्रह्म न्गन्धमादनपर्वते ॥
स्नानं कुर्वन्नगस्त्यस्य तीर्थे सम्प्रति वर्तते ॥ ८५ ॥
तस्य रूपं तपो धर्ममाचारान्वैदिकांस्तथा ॥
वेदशास्त्रप्रवीणत्वमाभि जात्यं च तादृशम् ॥ ८६ ॥
लोकोत्तरमिदं सर्वं विज्ञाय तव नन्दने ॥
मनोरमां सुतां तस्मै दातुमिच्छाम्यहं मुने ॥ ८७ ॥
मृगयाकौतुकी चाहं गन्धमादनपर्वतम् ॥
आगतो मुनिशार्दूल वर्त्ते युष्मत्सुतान्तिके ॥८८॥
पित्रनुज्ञां विना नाहमुद्वहेयं सुतां तव ॥
इति ब्रूते तव सुतः कक्षीवान्मुनिस त्तम ॥८९॥
तद्भावां मत्सुतां तस्मै दातुं मेऽनुग्रहं कुरु ॥
प्रैषयं च समीपं ते सेनया च सुदर्शनम् ॥ 3.1.16.९० ॥
॥ सुदर्शन उवाच ॥॥
इति मां भगवन्राजा प्राहिणोत्तव सन्निधिम्॥
तद्भवाननुमन्यस्व राज्ञस्तस्य चिकीर्षितम् ॥ ९१ ॥
॥ श्रीसूत उवाच ॥ ॥
इत्युक्त्वा विररामाथ स्वनयस्य पुरोहितः ॥
ततो दीर्घतमाः प्राह स्वनयस्य पुरोहितम् ॥ ९२ ॥
॥ दीर्घतमा उवाच ॥ ॥
सुदर्शन भवत्वेवं कथितं स्वनयेन यत् ॥
ममाभीष्टतमं ह्येतत्पाणिग्रहणमङ्गलम् ॥ ९३ ॥
आगमिष्याम्यहं विप्र गन्धमादनपर्वतम् ॥
इत्युक्त्वा स मुनिर्विप्रा महादीर्घतमा मुनिः ॥ ९४ ॥
वेदाटवीपतिं नत्वा भक्तिप्रवणचेतसा ॥
सुदर्शनेन सहितः सेतुमुद्दिश्य निर्ययौ ॥ ९५ ॥
षट्भिर्दिनैर्मुनिः पुण्यं प्रययौ गन्धमादनम् ॥
अगस्तितीर्थतीरं च गत्वा दीर्घतमा मुनिः ॥ ९६ ॥
अथ पुत्रं ददर्शाग्रे कक्षीवन्तं महामुनिः ॥
कक्षीवान्पितरं दृष्ट्वा ववन्दे नाम कीर्तयन् ॥ ९७ ॥
ततो दीर्घतमा योगी स्वाङ्कमारोप्य तं सुतम् ॥
मूर्ध्न्युपाघ्राय सस्नेहं सस्वजे पुलकाकुलः ॥ ९८ ॥
कुशलं परिपप्रच्छ तदा दीर्घतमा ऋषिः ॥
सर्ववेदास्त्वयाधीताः कक्षीवन्किमु वत्सक ॥ ९९ ॥
शास्त्राण्यपाठीः किं त्वं वा वत्स सर्वं वदस्व मे ॥
इति पृष्टः स्वपित्रा स सर्वं वृत्तं तमव्रवीत् ॥ ॥ 3.1.16.१००॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्येऽगस्तितीर्थप्रशंसायां कक्षीवदुद्वाहोद्योगवर्णनन्नाम षोडशोऽध्यायः ॥ १६ ॥